भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 262, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 262
- २४८ -
स्वस्वयूथेषु मुख्याभिः सुवर्णमणिमालिकाः ।
कान्तस्य वरणार्थाय रोपिताः कण्ठदेशतः ॥ ६४८ ॥
स ताभिः स्वर्णमालाभिर्वृतः कान्तोव्यराजत ।
महामुकुटशोभाढ्यो नवपाणिग्रहोचितः ॥ ६४९ ॥
तस्मिन्नुद्वाहसंदोहकौतूहलमहोत्सवे ।
रामपार्श्वे उभे सख्याववर्तेतां मुदान्विते ॥ ६५० ॥
आसीत्पिकीकलालापो मङ्गलस्वरगानकृत् ।
झाङ्कारगानमिलितो भ्रमरीणां समंततः ॥ ६५१ ॥
कोकीरवश्च केकाभिर्भेरीभाङ्कारसुन्दरः ।
तरङ्गिण्याश्च कल्लोलाः सिन्धुगम्भीरनादिनः ॥ ६५२ ॥
मृदङ्गमङ्गलखो व्यजृम्भत नभःस्पृशः ।
तुर्य्यत्रिकं ननादाथ कालशक्त्याभिनादितम् ॥ ६५३ ॥
स्वर्णतालीवनध्वान आसीन्मारुत लीलया ।
इत्येवं सम्पदाविष्टमभूदुद्वाहकौतुकम् ॥ ६५४ ॥
सम्पन्नोद्वाहविधयः सर्वास्ता हरिणीदृशः ।
नवीनमन्मथाक्रीडाजितं बल्लभमब्रुवन् ॥ ६५५ ॥
स्त्रियऊचुः
अद्य नः सफलं जन्म भवतैव कृतं प्रभो ।
अद्राक्ष्म जीवलोकस्य सुखमद्य रमापते ॥ ६५६ ॥
रूपसारं च नो दत्तं त्वदाज्ञातो विरंचिना ।
[L2