भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- २२८ -
अयं ऋक्षेश्वरो वीरो जाम्बवान् बुद्धिमान् बली ।
निजसेनास्थितो भाति वृद्धो युद्धविशारदः ॥ ३४७ ॥
एकैकोऽप्रतिमो ह्येषां वीर्येण च बलेन च ।
शक्त उर्वीं समुद्धर्तुं का लङ्का तृणपुञ्जवत् ॥ ३४८ ॥
तव चित्ते मतिर्मा भूदेते वानरमर्कटाः ।
आदेशाद्राघवपतेः कोट्यन्तः परितः स्थिताः ॥ ३४९ ॥
एते कपिवरा नाम सर्वदेवपराक्रमाः ।
निरीक्षतां मया चापि रामो वीरः स्वयं स्थितः ॥ ३५० ॥
अक्षहावानरपतेरुत्संगे कृतमस्तकः ।
त्वत्सोदरोक्तं शृण्वानस्तस्याङ्कस्थपदाम्बुजः ॥ ३५१ ॥
आस्ते सुवर्णहरिणचर्मध्यास्य समास्थितः ।
पश्यंस्त्वद्वंशनाशाय विशिखं लक्ष्मणाहृतम् ॥ ३५२ ॥
तस्माद्भवान् गर्ह्यं कर्म कृतवान् नात्र संशयः ।
निधनायात्मनः पीतं विषं हालाहलं त्वया ॥ ३५३ ॥
जानकी देहि लङ्कां च यदि वाञ्छसि जीवितुम् ।
उदितोऽद्य धूमकेतुः क्षयाय ननु रक्षसाम् ॥ ३५४ ॥
तस्माच्छीघ्रं सुतैः सार्द्धं प्रयाहि स्वयमन्यतः ।
विज्ञायास्य बलं धीमान् भ्राता ते शरणं गतः ॥ ३५५ ॥
तस्मै लङ्का प्रसादेन दत्ता नैवात्र संशयः ।
किशोरेण हतायेन ताडका नाम राक्षसी ॥ ३५६ ॥
मुक्ता तेऽवरजा येन ह्रिया तव पितुर्मुनेः ।
निष्कृन्त्य नासिकाकर्णं वीरेन्द्रेण महात्मना ॥ ३५७ ॥
कस्तस्याप्यनयं कृत्वा जीवेत् खलु राक्षसः ।
शिरःश्रेणी क्षितिं गन्ता तव दाशरथेः शरैः ॥ ३५८ ॥
तयोरित्थं वचः श्रुत्वा प्रहस्य खलु रावणः ।
आहूय सकलान् रक्षश्चमूनाथान् सुनिश्चितम् ॥ ३५९ ॥
त्रयोदशीं समारभ्य यावत्पर्वकुहूदिनम् ।
तावत्संख्यां विधायैषां यथास्थानमरोपयत् ॥ ३६० ॥
माघस्याद्यदिने प्राप्ते रामस्यादेशतोऽङ्गदः ।
दूतो भूत्वा महाबुद्धिः सभां रक्षःपतेर्ययौ ॥ ३६१ ॥
उवाच तत्र साक्षेपं रावणस्यपुरो वचः ।
धर्मद्वारेणमार्गेण सबान्धवपशु व्रज ॥ ३६२ ॥
– २२९ –
शृणु रावणलङ्कायां स्थापितोऽत्र विभीषणः।
श्रीरामेण महावीरः शिरोमुकुटभूषिणा ॥ ३६३ ॥
इति कर्णकटून्यद्धा वचांस्याकर्ण्य रावणः।
क्रुद्धोऽङ्गदस्य बन्धाय राक्षसानादिदेश ह ॥ ३६४ ॥
हत्वा बालिसुतः सर्वान् बलेन बलिनो रिपून् ।
भित्त्वा राजशिरोवेश्म गर्जन् यातो नमोऽध्वना ॥ ३६५ ॥
माघे शुक्लद्वितीयातः सप्तम्यवधि चा भवत् ।
अतीव संकुलं युद्धं रक्षोवानरसैन्ययोः ॥ ३६६ ॥
युद्धावहारः समभूत् ततस्तत्र दिनद्वयम् ।
द्वादश्यां हनुमान् जघ्ने धूम्राक्षंनाम राक्षसम् ॥ ३६७ ॥
तेनैव निहतश्चाकम्पक्षयोदश्यां निशाचरः।
चतुर्दशीं समारभ्य नीलेन दिवसैस्त्रिभिः ॥ ३६८ ॥
बलवान् निहतो युद्धे प्रहस्तो नाम राक्षसः।
तत
- २३० -
पञ्चाहं कृतवान् रामो युद्धावहरणं पुनः ।
अष्टमीदिवसात्षड्भिर्दिवसैर्विचरन् रणे ॥ ३७९ ॥
लक्ष्मणेन युद्धं कुर्वन्निन्द्रजिद्विक्रमी हतः ।
ततो १भूतादिने शोकाद् रुरोद खलु रावणः ॥ ३८० ॥
युद्धावहारः समभूद्दिनमेकं सुदुःखतः ।
पञ्चदश्यां ततः प्राप्तो रावणो राक्षसैः सह ॥ ३८१ ॥
युद्धाय वानरान् निघ्नन् कुर्वन् विक्रममुल्बणम् ।
चैत्राद्यदिवसात्पञ्चदिवसे राक्षसाधिपाः ॥ ३८२ ॥
क्षयं नीताः शरै रामलक्ष्मणाभ्यां सुदारुणाः ।
षष्ठीदिवसतोऽष्टम्यां महापार्श्वादयो हताः ॥ ३८३ ॥
लक्ष्मणो हृदि निर्भिन्नः शक्त्या रावणमुक्तया ।
मूर्च्छितोन्य पतद्भूमौ नितरां शक्तिपीडितः ॥ ३८४ ॥
व्यद्रावयद्रणाद्रामो दशास्यं नवमी दिने ।
विशल्यकरणी दिव्यामोषधि हनुमांस्ततः ॥ ३८५ ॥
द्रोणाद्रेरानयत्तस्याः स्पर्शादासीद्विशल्यकः ।
युद्धावहारः समभूततश्च दशमीदिने ॥ ३८६ ॥
रात्रौ युद्धमभूद्भूयः प्रविश्य कपिभिस्ततः ।
लङ्का प्रज्वालिता स्वर्गाद्रथं मातलिरानयत् ॥ ३८७ ॥
तमास्थाय ततो रामो हन्तुं दशमुखं ययौ ।
द्वादश्या दिवसाद् यावद्भूतामष्टादशैर्द्दिनैः ॥ ३८८ ॥
रामरावणयोर्युद्धे रामेण रावणो हतः ।
इत्थं त्रिजगतां शल्यः कण्टकोऽमरराड्जयी ॥ ३८९ ॥
अन्तं नीतो दशमुखः श्रीरामेण महौजसा ।
ततो देवगणाः सर्वे हर्षसम्भृतमानसाः ॥ ३९० ॥
कुसुमैः कल्पतरुजैः श्रीरामं समवाकिरन् ।
माघशुक्लद्वितीयातो यावद्भूतादिनं मधोः ॥ ३९१ ॥
सप्ताशीति दिनान्यासीद् युद्धं पञ्चदशैर्विना ।
वानस्पत्यदिनेष्वासीत्तेषां दाह क्रिया ततः ॥ ३९२ ॥
वैशाखाद्यदिने रामः सुवेलं नाम पर्वतम् ।
जगाम वानरैः साकं जित्वा लङ्काधिपं सुधीः ॥ ३९३ ॥
१. चतुर्दशी टि०--बड़ौ० ।
- २३१ -
वादित्रगीतमाङ्गल्यैर्लङ्कापुर्यां विभीषणः ।
राज्याभिषेकविधिना स्थापितो रामसेवकः ॥ ३९४॥
आनीता च पुरात् सीता श्रीमत्सौमित्रिणा सती ।
अशोकवनिकामध्याद् रामविश्लेषकर्शिता ॥
तृतीयादिवसे रामः सीतां शुद्धयर्थमूचिवान् ॥ ३९५ ॥
श्रीराम उवाच
जानामि नित्यसंशुद्धां त्वामहं जनकात्मजे ।
न ते लीलां विजानन्ति ब्रह्माद्या अपि देवताः ॥ ३९६ ॥
इमां लीलां त्वमकरोर्भूर्भारक्षयहेतवे ।
राक्षसा वानराश्चैव संख्यातीता महीतले ॥ ३९७ ॥
त्वया कृतः क्षयस्तेषां रावणाहरणच्छलात् ।
धर्मस्य स्थापनार्थाय भक्तिपुष्ट्यर्थहेतवः ॥ ३९८ ॥
तथापि जगदज्ञानान्मा नो निन्द्यात् कदाचन ।
अतस्त्वां शोधयिष्यामि दीप्तेऽग्नौ गार्हपत्यके ॥ ३९९ ॥
इति पत्युर्वचः श्रुत्वा पाणौ पाणिं प्रगृह्य च ।
निनाय सा सुवेलादेर्महागह्वरकाननम् ॥ ४०० ॥
विमानं तत्र वै दिव्यमाजगाम महोज्ज्वलम् ।
तमारुरुहतुस्तौ च दम्पती ललनाज्ञया ॥ ४०१ ॥
रामो विमानमारुह्य ललनां न व्यलोकत् ।
विमानवर्यं तद्दिव्यं जगाम व्योमवर्त्मना ॥ ४०२ ॥
सीताकुञ्जं सरय्वां वै रमणीयं प्रतिष्ठितम् ।
यत्र सा काञ्चनीभूमिर्मणिरत्नमहोज्ज्वला ॥ ४०३ ॥
प्रमोदविपिनं नाम वनं यत्र मनोरमम् ।
अनेककुञ्जपुञ्जाढ्यं गुञ्जद्भ्रमरसंकुलम् ॥ ४०४ ॥
कूजत्कोकिलमानन्दि कौककेलिगणावृतम् ।
अनेककल्पवृक्षाढ्यमनर्घ्यरमणीयकम् ॥ ४०५ ॥
यत्र श्रीसहजानन्दरूपेणैषा व्यवस्थिता ।
कल्याणगुणसन्दोहा प्रेमानन्दस्वरूपिणी ॥ ४०६ ॥
ब्रह्मानन्दं तृणीकुर्वद्भक्तसंदोहभूषिता ।
दिव्यप्रासादवरगा कल्पवृक्षतलस्थिता ॥ ४०७ ॥
- २३२ -
मणिवेदीलसत्स्वर्णरत्नसिंहासनस्थिता ।
महारत्नासनवरस्थितानेक सखीवृता ॥ ४०८ ॥
तत्प्रमोदवनं तस्याः कोणाष्टकसमन्वितम् ।
पूर्वं कृष्णवनं नाम ततो राधावनाभिधम् ॥ ४०९ ॥
तृतीयं वापि वैकुण्ठं रमावैकुण्ठकं ततः ।
ततः श्रीरामवैकुण्ठं षष्ठं सीतानिकेतनम् ॥ ४१० ॥
सप्तमं सुखितागारमष्टमं सहजास्पदम् ।
तन्मध्ये तन्महारम्यं प्रमोदवनमुत्तमम् ॥ ४११ ॥
यत्र श्रीसहजारामौ युग्मत्वेन व्यवस्थितौ ।
महासाम्राज्यगुणभृन्नित्यलीलारसास्पदौ ॥ ४१२ ॥
पर्यन्ततः सखीवृन्दं स्वस्वकुञ्जप्रतिष्ठितम् ।
रामा श्यामा च सापत्न्यौ श्रीरामरतिनन्दिते ॥ ४१३ ॥
प्रमोदविपिने ताभ्यां रमते रामचन्द्रमाः ।
पूर्णः सर्वगुणाधीशः शरत्पूर्ण इवोडुपः ॥ ४१४ ॥
तं कुञ्जं स समासाद्य विमानादवतीर्य च ।
दिव्यं श्रीसहजानन्दसदनं वीक्ष्य विस्मितः ॥ ४१५ ॥
तस्याः सखोजनैर्हृष्टैः श्रीरामोऽन्तः प्रवेशितः ।
प्रविश्य सीताकुञ्जेऽसौ महासौभाग्यमण्डिते ॥ ९१६ ॥
अपश्यत्तत्र तस्याश्च महासाम्राज्यसम्पदम् ।
कालशक्तिं समादिश्य माया शक्तिं च वश्यगाम् ॥ ४१७ ॥
सृजति स्थापयत्यत्ति सहजानन्दिनी स्वयम् ।
मूलं सर्वावताराणां स्वयमेव प्रतिष्ठिता ॥ ४१८ ॥
अशेषगुणसंदोहवशीकारविधायिनी ।
ब्रह्मणश्चापि विष्णोश्च रुद्रस्य च विधायिनी ॥ ४१९ ॥
कटाक्षक्षेपमात्रेण कोटिब्रह्माण्डकारिणी ।
सप्तस्वर्गमहास्थानं सप्तपातालसंस्थितिः ॥ ४२० ॥
चिदानन्दकलापूर्णा गुणातीता गुणेश्वरी ।
कारणं कारणानां च साधिपाधिपरूपिणी ॥ ४२१ ॥
उपादानं निमित्तं च सर्वाधिष्ठानरूपिणी ।
आधेय विश्वरूपा च रामणीयकविग्रहा ॥ ४२२ ॥
शृङ्गाररसमाधुर्यमयी प्रेमसुखाकृतिः ।
एकापि सा द्विधाभूत्वा सहजा रामरूपिणी ॥ ४२३ ॥
- २३३ -
रमणं रमयत्यन्तर्महाभावरसोदधिः ।
तादृशीं तां स्वयं वीक्ष्य सहजानन्दिनीश्वरीम् ॥ ४२४ ॥
विस्मितोऽभूद् रामचन्द्रः क्षणं निर्निमिषेक्षणः ।
समुत्थाय ततः सा तं स्वासनात्सहजेश्वरी ॥ ४२५ ॥
अस्थापयदङ्कभागे स्मितशोभिमुखाम्बुजा ।
उवाच रमणं रामं रमणी नित्यसंगता ॥ ४२६ ॥
कान्त त्वयाहं सततं संगता नित्यकेलिनी ।
प्रमोदवनमध्यस्था रमामि वनकेलिभिः ॥ ४२७ ॥
न मां रक्षोऽधिपोजह्रे नाहं लङ्कां गताविभो ।
न च मे विरहो जातो न च मां नीतवान् भवान् ॥ ४२८ ॥
भवान् किं नैव जानाति प्राणनाथ स्वकां गतिम् ।
मानुषी गतिमाश्रित्य मूढवत्किंनु दृश्यसे ॥ ४२९ ॥
भूमेर्भारविनाशाय प्रमोदवनमध्यतः ।
अंशोनास्म्यवतीर्णाऽहं चतुर्धा जनकालये ॥ ४३० ॥
त्वमयीश रामचन्द्रः स्वयं दशरथालये ।
अवतीर्णोऽसि भगवान् पुराणपुरुषोत्तमः ॥ ४३१ ॥
आश्चयोर्विविधां लीलां जनागास्यन्ति भूतले ।
मुक्तये सर्वभूतानां साधूनां चानुरक्तये ॥ ४३२ ॥
अत्रस्थावपि चावां वै कुर्वहे कोसलापुरे ।
लीलां सर्वस्य सुखदां तथान्यत्र निजालये ॥ ४३३ ॥
न चैवानुप्रपन्नं नो किमपीहात्मकेलिनोः ।
नित्यात्मनोर्व्यापकयोः परब्रह्मस्वरूपिणोः ॥ ४३४ ॥
अथापि भवतोक्तं यत्प्रिय मामकशुद्धये ।
तत्रावजाने भगवंल्लोकलीलानुरोधतः ॥ ४३५ ॥
भवान् पुराणधर्मज्ञो मर्यादापुरुषोत्तमः ।
उपासीनो लोकमेव मा मे कुत्सां करोत्विति ॥ ४३६ ॥
श्रीशिव उवाच
इति तस्या वचः श्रुत्वा रामस्तत्वविदां पतिः ।
उवाच परमं सीतां सहजानन्दकुञ्जगाम् ॥ ४३७ ॥
न ते स्वरूपमाहात्म्यं वेदानामपि गोचरः !
यत्र देवा विमुह्यन्ति शब्दः किं तत्र शक्नुयात् ॥ ४३८ ॥
- २३४ -
स्वात्मैकमात्रवेद्यासि सहजानन्दिनी स्वयम् ।
यल्लीलागुणकर्माणि जगद्विस्मापयन्ति हि ॥ ४३९ ॥
लोके विहरसि स्वैरं स्वमायागुणसंवृता ।
भक्तानामनुकम्पार्थं मुक्तयेस्वानुभूतये ॥ ४४० ॥
क्षमस्व सहजानन्दे स्वरूपं ते न गोचरः ।
मयापि किमुतान्येषां पादोपास्तिरतात्मना ॥ ४४१ ॥
कि चिकीर्षसि वै नित्यं किं करोषि किमोप्स्यसि ।
इति ते स्वमतं लोके ज्ञातुं कोऽपि न हि क्षमः ॥ ४४२ ॥
परावाग्रूपिणी भूत्वा सम्प्रवर्तयसे बुधान् ।
फलाकाङ्क्षायुतास्तत्र पतन्त्यभ्युद्धताः परे ॥ ४४३ ॥
बुद्धिस্বরূপिणी भूत्वा प्रभा चाप्यप्रमा ह्यसि ।
पूर्वा तारयसे विश्वमधो नयसि चापरा ॥ ४४४ ॥
सर्वस्वरूपिणी साक्षात् परब्रह्मस्वरूपिणी ।
त्वं लक्ष्मीस्त्वं रतिर्गीस्त्वं प्रीतिस्त्वं कीर्तिरेव च ॥ ४४५ ॥
शान्तिस्त्वं तुष्टिरेवापि पुष्टिस्त्वं नात्र संशयः ।
मेधा प्रज्ञा प्रभा च त्वं विद्या त्वं धीर्धृतिः स्मृतिः ॥ ४४६ ॥
बुद्धिर्विद्याप्यविद्या च सर्वविद्येश्वरी च सा ।
सर्वशक्तिमयी देवी सर्वमन्त्रेश्वरी च सा ॥ ४४७ ॥
त्वं नित्या चित्कला शान्ता शान्त्यतीता पराकुला ।
निष्कला च कलाभासा सकला चापि निष्कला ॥ ४४८ ॥
एकानेका व्यापिका च परब्रह्मेति गीयसे ।
न हि त्वं रावणग्राह्या व्यापकब्रह्मरूपिणी ॥ ४४९ ॥
क्षयाय राक्षसौघस्य तथा लीलां चकार हि ।
सदसद्व्यक्तये चैव साधूनां पालनाय च ॥ ४५० ॥
त्वमेव सर्वं कुरुषे मम मूर्द्धिघ्न निधाय च ।
नाहं कर्त्ता ह्युदासीनः कर्त्तृत्वं सर्वदा प्रिये ॥ ४५१ ॥
भक्तिमार्गमधिष्ठाय भक्तेषु त्वं कृपावती ।
ममापि करुणारूपा तथैव च नियोजिका ।
किं बहुक्तेन सहजे सर्वं त्व मत्स्वरूपिणी ॥ ४५२ ॥
इत्युक्ता रामचन्द्रेण सहजानन्दिनी स्वयम् ।
प्रोवाच स्मितरम्यास्या प्रसादसुमुखी प्रिया ॥ ४५३ ॥
- २३५ -
श्रीसीतोवाच
गच्छाधुना महाभाग कुरु कार्यं महीतले ।
कृत्वा भूभारहरणं व्यवस्थाप्य तथा वृषम् ॥ ४५४ ॥
साधूनां चामराणां च पूरयित्वा मनोरथम् ।
इदं पुनः स्वकं धाम समुपेष्यसि राघवः ॥ ४५५ ॥
श्रीराम उवाच
न त्वां विनाहं यास्यामि क्षणमप्यवनीतले ।
अशक्तो निष्प्रभावोऽहं त्वया विरहितः प्रिये ॥ ४५६ ॥
श्रीसीतोवाच
यत्रैवान्तर्हिता कान्त विमानारोहण क्षणे ।
तत्रैवाहमुपेष्यामि याहि निःशङ्कमित्यतः ॥ ४५७ ॥
देवानां च मुनीनां च ब्राह्मणानां तथा पुरः ।
अहमग्नौ प्रवेक्ष्यामि स्वरूपस्य विशुद्धये ॥ ४५८ ॥
गार्हपत्याग्निमाविष्टा रावणाहरणक्षणे ।
मम छाया हृता तेन मायारूपैव रक्षसा ॥ ४५९ ॥
प्रवेक्ष्यति पुनः साग्नौ करिष्याम्यहमुद्भवम् ।
प्रदर्शनाय लोकानां मम लीला भविष्यति ॥ ४६० ॥
इत्युक्तः प्रियया रामो विमानं भास्करोपमम् ।
आरुह्य शीघ्रं प्रमुद्मना १दा जगाम लङ्कापुरम् ॥ ४६१ ॥
यस्मिन् वने महाघोरे सीतान्तर्धानमागता ।
तत्रैव स समागत्य यानादववरोह च ॥ ४६२ ॥
अपश्यत्तद्वने तां च पुष्पावचयकारिणीम् ।
सहजानन्दिनी सीता श्रीरामानन्यवल्लभाम् ॥ ४६३ ॥
ततस्तौ सहितौ भूत्वा तस्मात् स्थानादुपेयतुः ।
पश्यतां सर्वदेवानां मुनीनां च द्विजन्मनाम् ॥ ४६४ ॥
अन्येषां चापि भूतानां लक्ष्मणस्य च पश्यतः ।
समिद्धे गार्हपत्येऽग्नौ रामः सीतामशोधयत् ॥ ४६५ ॥
एषा परस्य सदनं प्रविष्टा स्त्रीस्वभावतः ।
यद्यदुष्टा भवेत्सीता त्वमग्ने साक्षितां व्रज ॥ ४६६ ॥
अथ सीता स्वयं देवी पातिव्रत्यपरायणा ।
मुक्ताहारयुता भूत्वा सवस्त्रा मृदुविग्रहा ॥ ४६७ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षम् ।
- २३६ -
निपपात समिद्धेऽग्नौ तदाग्निः शीतलोऽभवत् ।
अङ्गाराः पद्मतां जग्मुर्ज्वालाधारा सुधाभवत् ॥ ४६८ ॥
भगवान् गार्हपत्याग्निः श्रीयज्ञः पुरुषः स्वयम् ।
स्वाहास्वधाभ्यां संयुक्तो वामदक्षिणपार्श्वयोः ॥ ४६९ ॥
रत्नसिंहासनासीनां चामरद्वयवीजिताम् ।
अव्याहताङ्गवसनामव्याहतसुमौक्तिकाम् ॥ ४७० ॥
अव्याहतालकां देवीं करे संस्थाप्य जानकीम् ।
स्वात्मानं दर्शयामास ववन्दे तं च राघवः ॥ ४७१ ॥
अथ व्योम्नि स्थिता देवास्तथा ब्रह्मर्षयोऽखिलाः ।
देवर्षयो नारदाद्या ये चान्ये ऋषिसत्तमाः ॥ ४७२ ॥
राजा दशरथश्चैव देवयानमुपाश्रितः ।
जनकश्चैव योगीन्द्रोऽन्ये च राजर्षयोऽखिलाः ॥ ४७३ ॥
ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याश्चैव निर्जराः ।
ब्राह्मणा भूमिसंस्थाश्च कपीन्द्राश्चातिधार्मिकाः ॥ ४७४ ॥
वासुकिप्रमुखा नागा ये चान्ये तत्र संगताः ।
ऊचुर्वचनमभ्येत्य श्रीरामं धर्मवित्तमम् ॥ ४७५ ॥
कर्मणा मनसा वाचा सीतानन्यपतिव्रता ।
शुद्धा शुद्धा पुनः शुद्धा माशङ्किष्ठा रघूद्वह ॥ ४७६ ॥
अस्याः स्वरूपं माहात्म्यं गुणांश्चैव रघूद्वह ।
सर्वं जानासि मनसि स्वयमेव विशेषतः ॥ ४७७ ॥
अथ दुन्दुभयो नेदुर्दिवि देवनिनादिताः ।
सीताविशुद्धिवृत्तान्तं जगुर्गन्धर्वकिन्नराः ॥ ४७८ ॥
प्रणम्य गार्हपत्यं च सीतामादाय राघवः ।
मुमुदे विश्वदयितो राक्षसौघविनाशकृत् ॥ ४७९ ॥
गार्हपत्यस्तमेकान्ते यथावृत्तं निवेद्य च ।
सीताप्रवेशनं स्वस्मिंश्छायाया हरणं तथा ॥ ४८० ॥
स्तुतोऽभिवन्दितस्तेन यथास्थानं जगाम सः ।
ततो रामः पुष्पकाग्रमध्यासीनः स्वकां पुरीम् ॥ ४८१ ॥
गन्तुं प्रस्थितवान् व्योम्नि सीतालक्ष्मणसंयुतः ।
चतुर्थीदिवसे भूयः कृतमङ्गलकौतुकः ॥ ४८२ ॥
भक्तैः कपिवरैः साकं महत्या मुदया युतः ।
इत्थं विधाय वै वासं वने वर्षांश्चतुर्दश ॥ ४८३ ॥
- २३७ -
ततोऽसौ दण्डकात्प्राप्तो भारद्वाजाश्रमं प्रभुः ।
पञ्चम्यां तेन मुनिना रामो वै सत्कृतश्च सः ॥ ४८४ ॥
भरतेन समं षष्ठ्यां नन्दिग्रामनिवासिना ।
आसीत्समागमस्तस्य परमानन्दवर्द्धनः ॥ ४८५ ॥
वन्दितो भरतेनासौ मुदितस्तं च सस्वजे ।
सप्तम्यां संगतः पौरैः परमोत्सवपूर्वकम् ॥ ४८६ ॥
श्रीरामः सीतया साकमयोध्यायां प्रवेशितः ।
महासाम्राज्यपदवीं प्राप्तोऽसौ सम्यगर्चितः ॥ ४८७ ॥
अथ भाद्रपदे मासि नवम्यां श्रीविदेहजा ।
अधत्त गर्भं मार्तण्डवंशविस्तारकारणम् ॥ ४८८ ॥
इति रामायणं शास्त्रं त्वदग्रे कथितं मया ।
चरितं सहजादेव्या रामस्य च महात्मनः ॥ ४८९ ॥
यावन्ति चरितान्यत्र रामस्य परमात्मनः ।
तानि सर्वाणि बोध्यानि सहजायाश्चिदाकृतेः ॥ ४९० ॥
सहजायाश्चरित्राणि गीतानि सुमनीषिभिः ।
पावनानि त्रिजगतां ध्यातव्यानि विशेषतः ॥ ४९१ ॥
स्वयं श्रीसहजादेवी श्रीराजिनि तवाङ्गजा ।
जनकस्यालये जाता चकार चरितावलीः ॥ ४९२ ॥
केकयीवाक्स्वरूपेण स्वयमेवाविरास च ।
विहर्तुं स्वैरमीशेन जगाम विपिनं घनम् ॥ ४९३ ॥
तत्र द्वादशवर्षान्ते रक्षसां क्षयहेतवे ।
रक्षोनाथस्य कुमतेर्बुद्धिरूपा व्यवर्त्तत ॥ ४९४ ॥
अन्यथा रामो भगवान् ब्रह्मण्यो धर्मपालकः ।
कथं हन्यात्पुलस्त्यस्य तनयं सकुलं युधि ॥ ४९५ ॥
कथं च रावणोऽप्यद्धा सर्ववेदप्रवर्तकः ।
हरेत् परस्त्रियं मोहास्त्रैलोक्यविजयी हठात् ॥ ४९६ ॥
सर्वं श्रीसहजादेव्याश्चरित्रमिदमद्भुतम् ।
ततश्च सहजं धाम प्रमोदवनसंज्ञितम् ॥ ४९७ ॥
प्राप्तुं निजस्वरूपेण विहर्तुं त्वरितोऽभवत् ।
तस्मादस्याश्चरित्राणि तव पुत्र्याश्चिदाकृतेः ॥ ४९८ ॥
न तत्त्वतो विजानामि किमुतान्ये सुरादयः ।
इति विज्ञाय सततं राजिनि त्वं महामते ॥ ४९९ ॥
आनुकूल्येन वर्तस्व प्रातिकूल्याद्विनङ्क्ष्यसि ।
ना
- २३८ -
यथेयं कुरुते लीलां तथा गायन्ति तत्त्वतः।
ध्यायन्त्येनां विशेषेण भक्तिमन्तो मुमुक्षवः ॥ ५०१ ॥
तरन्ति भवपाथोधिमस्याः सकरुणेक्षणात् ।
सीतागाद्रावणगृहं तत्रान्यत्कारणान्तरम् ॥ ५०२ ॥
त्रैलोक्यविजयी वीरः पुलस्त्यमुनिनन्दनः ।
रक्षोधिनाथः परभित् प्रविजित्य जगत्त्रयम् ॥ ५०३ ॥
सर्वसम्पद्भरान् गेहे स्थापयामास सर्वतः ।
स्वर्गेऽपि यानि रत्नानि यानि रत्नानि भूतले ॥ ५०४ ॥
पाताले यानि रत्नानि तानि स्थापितवान् गृहे ।
आब्रह्मभुवनं याश्च सम्पदः श्रीविभूतयः ॥ ५०५ ॥
ताः सर्वाः स्थापितास्तेन महावीरेण रक्षसा।
आरामं जलदास्तस्य सिञ्चन्ति प्रतिवासरम् ॥ ५०६ ॥
सुवेलाद्रिगुहा रत्नैः पूरिता धनदेन च ।
मन्दं तपति सूर्योऽस्य हेमन्तशिशिरर्तुगः ॥ ५०७ ॥
वसन्ते वाति सेवायै त्रिविधो मारुतः स्वयम् ।
चन्द्रो मुञ्चति गेहेऽस्य किरणान्नित्यपूर्णिमः ॥ ५०८ ॥
हेमन्ते शिशिरे चास्य हसंतीस्थोऽनलः स्वयम् ।
ग्रीष्मे चामुष्य सेवायै हिमवर्षी मरुत्स्वयम् ॥ ५०९ ॥
आरामे रोपितास्तेन नन्दनस्था महाद्रुमाः ।
गेहे षडृतवतस्तस्य रूपवन्तः स्वयं स्थिताः ॥ ५१० ॥
यथाज्ञापालनं नित्यं सेवन्ते राक्षसेश्वरम् ।
नेन्द्रस्य तादृशी भूतिर्नाग्नेश्च वरुणस्य च ॥ ५११ ॥
कुबेरस्य निधींशस्य न च कस्यापि भूपतेः ।
तादृशी सम्पदैतस्य सम्राजो भुवनेशितुः ॥ ५१२ ॥
इति व्यवस्य मनसा जानकी रामवल्लभा ।
विहर्तुं स्वैरकामा सा लीलांकृतवती स्फुटम् ॥ ५१३ ॥
रावणाहरणव्याजाल्लङ्कां गतवती स्वयम् ।
गार्हपत्ये तिरोभूय तत्रागात् सहजेश्वरी ॥ ५१४ ॥
यत्र लक्ष्मीभराः सर्वे प्रादुर्भूतास्तथैव ते।
जानकी रासलीलाथं यत्रलक्ष्मीः स्वयं स्थिता ॥ ५१५ ॥
श्रीराजन्यउवाच
रामं विना कथं राज्ञो भवेदस्यास्तथाविधः ।
एतद्वेदितुमिच्छामि कथं रामोऽत्र संगतः ॥ ५१६ ॥
- २३९ -
श्रीशिव उवाच
रावणस्य वने तत्र प्रादुर्भूता महेश्वरी।
दिव्यरूपधरा साक्षात् कोटिलक्ष्मीकलानिधिः॥ ५१७॥
दिने त्वशोकवृक्षस्य अधस्ताद्विरहातुरा।
रात्रौ निजसखीवृन्दैः सा रेमे सहजेश्वरी॥ ५१८॥
लोभया च त्रिजटया सेव्यमाना प्रतिक्षणम्।
इन्द्राण्या च तथा देव्या पीयूषफलहस्तया॥ ५१९॥
उमया च महेशान्या तथा नद्यष्टकेन च।
जनकस्य गृहे जाताः सख्यः कमललोचनाः॥ ५२०॥
कमलेशीप्रभृतयः सेवार्थं तत्र संगताः।
दिव्यदेहाः स्वरूपेण तथा देव्यो रमामुखाः॥ ५२१॥
उपचारसमूहैस्तां सेवितुं सुसमाययुः।
विभीषणस्य पत्न्या सा सेव्यमाना प्रतिक्षणम्॥ ५२२॥
रतिप्रीत्यादिभिश्चैव दिव्यशक्तिकदम्बकैः।
उपास्यमाना सा देवी चित्ते चिन्तामकल्पयत्।
स्वयं लक्ष्मीं पुरस्कृत्य प्रोवाच वचनं सती॥ ५२३॥
श्रीसीतोवाच
अहो अत्यद्भुततमं वनमेतन्मनोरमम्।
न रोचते मे सततं विरहातुरचेतसः॥ ५२४॥
गुञ्जन्ति मत्तभ्रमरा गायन्त इव मत्प्रभुम्।
विध्यन्ति कामविशिखैर्विरहे मम मानसम्॥ ५२५॥
सुस्वरं पञ्चमालापैः कूजन्ति पिकवल्लभाः।
अरुन्तुदा गिरस्तासां दारयन्ति मनो मम॥ ५२६॥
एता रसालमञ्जर्यो मञ्जुला रजसाञ्चिताः।
अग्निं विरहनामानं दीपयन्ति मदन्तरे॥ ५२७॥
अशोकमञ्जरी रम्याः पश्यन्ती ज्वलिता इव।
दहामि हृदयेऽत्यर्थं तीक्ष्णेनविरहाग्निना॥ ५२८॥
किं नु कुर्यामह तावत्स्वयं लक्ष्मीः पराङ्मुखी।
सुवर्णकेतकीधूलिभरैर्व्योम्नान्धकारिते ॥ ५२९॥
पद्माकरसमुद्भूतपरागपटलो मरुत्।
एषोऽन्धयति चक्षूंषि दृष्टिपातनिरोधकः॥ ५३०॥
– २४० –
वासन्तीपुष्पमधुभिर्वासिताः सकला दिशः।
मन्ये मदनभूपस्य भूयसा यशसाञ्चिता ॥ ५३१ ॥
एषा वसन्तसम्पत्तिर्व्याप्नोति सकलं जगत् ।
नहि मे रोचतेऽत्यर्थं स्वयं लक्ष्मीः सुखप्रदा ॥ ५३२ ॥
स्वयं लक्ष्मीरूवाच
तव लीलाविनोदार्थमहमत्र स्वयं स्थिता ।
रावणस्य वने रम्ये प्रादुर्भूय स्वरूपतः ॥ ५३३ ॥
यावती भुवने भूतिः सा मदंशस्वरूपिणी ।
साह्मत्र स्वरूपेण प्रादुर्भूतास्मि जानकि ॥ ५३४ ॥
दिशां च पतयः सर्वे परितः सेवका इव ।
तव लीलासुखार्थाय भूतिरत्रेदृशी सखी ॥ ५३५ ॥
अतिमात्रमिय रम्या शोभात्र सततं स्थिता ।
न खल्विन्द्रस्य लोकेऽपि दृश्येयं दैवतैरपि ॥ ५३६ ॥
रोचितस्तेऽत्र विरहः स्वयमैश्वर्यभावितः ।
या नित्यं रमते भूयः प्रमोदवनवासिनी ॥ ५३७ ॥
आज्ञापय विनोदार्थमिच्छासिद्धि वशेस्थिताम् ।
यथा रासरसोल्लासो भवेदत्र तथाविधः ॥ ५३८ ॥
यथा प्रमोदविपिने ससामग्रीक उत्तमः ।
सफलोऽयं भवेत्तेन मम लीलार्थमुद्यमः ॥ ५३९ ॥
श्रीसीतोवाच
राघवेन्द्रो विजानाति सर्वं सखिविनोदवान् ।
सर्वैश्वर्यनिधिर्देवस्त्रयीगेयायति यत्परम् ॥ ५४० ॥
न हि मे विरहस्तेन क्वचित्कालत्रयेऽपि च ।
सर्वं जानामि कान्तस्य परमैश्वर्यमीदृशम् ॥ ५४१ ॥
स्वयं लक्ष्मीरूवाच
रामोहि ब्रह्म परमं सच्चिदानन्दविग्रहम् ।
अलौकिकं महत्तेजस्तस्य सूर्यादिषु स्थितम् ॥ ५४२ ॥
किं जानन्ति स्वरूपं ते ब्रह्मशेषशिवादयः ।
भक्तानामनुकम्पार्थं लीलारूप समाश्रिता ॥ ५४३ ॥
नित्यं रमयसे रामं परब्रह्म यथोदितम् ।
एतद् रामस्य रामत्वं रमणं यत्त्वया सह ॥ ५४४ ॥
- २४१ -
त्वयानुकम्पिता भक्ताः श्रीरामेणानुकम्पिताः ।
इति ज्ञात्वा भजन्ते त्वां ब्रह्मशेषशिवादयः ॥ ५४५ ॥
अनेकधा च रमसे त्वं रामेण सहेश्वरि ।
श्रीभूलीलास्वरूपेण नित्यपर्यङ्कगामिनी ॥ ५४६ ॥
त्वं भूः सत्तास्वरूपेण निश्चलस्य परिक्रिया ।
युगे युगे त्वमाचार्यरूपेण प्रकटा स्वयम् ॥ ५४७ ॥
स्वस्वरूपं ज्ञापयितुं कुरुषे यत्नमुत्तमम् ।
नान्यथा त्वां प्रपद्येरन् भक्तास्ते सनकादयः ॥ ५४८ ॥
आचार्यः प्रथमो ब्रह्मा द्वितीयाः सनकादयः ।
तृतीयः शेष एवासौ चतुर्थश्च शिवः स्वयम् ॥ ५४९ ॥
समस्ताचार्यवार्याणां त्वमाचार्योपदेशिका ।
या स्वयं श्रीस्वरूपेण सा प्रमोदवनेश्वरी ॥ ५५० ॥
इति ते रूपमुदितं यथाविज्ञानवैभवम् ।
इच्छासिद्धिमथाज्ञाप्य कुरुलीलारसोदधिम् ॥ ५५१ ॥
यस्मिन् परमहंसानां संचारः स्यात् सुखावहः ।
उत्तरङ्गो हावभावैः सरस्वान् प्रेमपाय सः ॥ ५५२ ॥
सम्भोगविप्रलम्भाभ्यां कूलद्वयसुविस्तृतः ।
तीव्राभिलाषचिन्ताद्यैरूह्रट्टैमणिमौक्तिकः ॥ ५५३ ॥
गुरुल्जावाडवाग्निर्मनोभूमकराञ्चितः । ।
क्षुद्रानन्दनदीपूरः सुगम्भीररसामृतः ॥ ५७४ ॥
अन्यभावविषोदर्को महाभावमहोर्जितः ।
त्वत्कीर्त्तिचन्द्रिकापूर्णो भक्तौघराजहंसकः ॥ १५५ ॥
उद्वेलो नित्यमेवासौ लोकवेदाद्यगोचरः ।
प्रोद्भाति सहजानन्दे तव लीलारसोदधिः ॥ ५५६ ॥
यत्र शेते तु भवती श्रीरामरमणान्विता ।
पुष्पशय्यागता नित्यं ब्रह्मानन्दान्तरस्थिता ॥ ५५७ ॥
सर्वलोकेशसाम्राज्यमहासौभाग्यभाजनम् ।
इत्थं तयोः समालापं कुर्वन्त्योः सुवयस्ययोः ॥ ५५८ ॥
माल्यवत्यचले रामो लक्ष्मणं प्रत्युवाच ह ।
गच्छ लक्ष्मण किष्किन्धां सुग्रीवं राज्यसंगतम् ॥ ५५९ ॥
भुञ्जानं च महाभोगान् मद्वाञ्छाविस्मृतान्तरम् ।
तं च मद्वचसा ब्रूयाः स यथात्रागतो भवेत् ॥ ५६० ॥
- २४२ -
सुग्रीव रामवीर्येण प्राप्तराज्यमकण्टकम् ।
त्वं नित्य तत्प्रभुञ्जानो नास्मान् विस्मर्तुमर्हसि ॥ ५६१ ॥
त्वं राज्यभोगं कुरुषे वने सीदामहे वयम् ।
शीघ्रमगम्यतां वीर मम कार्यं प्रवर्त्यताम् ॥ ५६२ ॥
इति स्नेहान्वितैर्वाक्यैस्तमिहानय लक्ष्मण ।
इति सम्प्रेष्य किष्किन्धां राजधानीं कपिशितुः ॥
लक्ष्मणं रघुशार्दूले योगचर्यामुपाश्रितः ॥ ५६३ ॥
जटाधरो वल्कलचीरवासा मृगाजिनस्थः कुशविष्टरस्थः ।
एकान्ततो माल्यवतो गुहायां समाधिमासाद्य सुनिर्वृतोऽभूत् ॥ ५६४ ॥
ततः स सर्वभूतात्मा सर्वयोगेश्वरेश्वरः ।
चिदानन्दघनाकारः सीतायादर्शनं ययौ ॥ ५६५ ॥
एकेन वपुषा तत्र गिरौ माल्यवति स्थितः ।
परेणैव स्वरूपेण लीलाविग्रहरूपिणा ॥ ५६६ ॥
मलकच्छ" or "मल्ल"?
Look at:
न - टो - चि - ता - च्छ (toccḥa)
Then: 'म'
Then: 'ल'
Then: 'क'
Then: 'च्छ'
Wait, is it "मलकच्छ" or "मल्ल"? It is 'म' 'ल' 'क' 'च्छ'!
Wait, could it be "नटोचिताच्छमलकच्छचित्रवर्णचारुता-"?
Let's look at the letters:
न (na)
टो (ṭo)
चि (ci)
ता (tā)
च्छ (ccha)
म (ma)
ल (la)
क (ka)
च्छ (ccha)
चि (ci)
त्र (tra)
व (va)
र्ण (rṇa)
चा (cā)
रु (ru)
ता (tā)
- (hyphen)
Yes! "नटोचिताच्छमलकच्छचित्रवर्णचारुता-"
Line L31:
चमत्कृताभकच्छिकासुदर्शनीयवेषभाक् ॥ ५९० ॥
Wait! Let's examine:
च - म - त्कृ - ता - भ - क - च्छि - का - सु - द - र्श - नी - य - वे - ष - भा - क्
॥ ५९० ॥
Wait, is it "चमत्कृताभकच्छिका..."?
Let'
- २४४ -
उदारहारभासुरप्रसर्पिवक्षसाञ्चितः-
सुरूपगौञ्जहारभृत्कपोलदर्पणद्युतिः ।
विराजमाननासिकाविभूषणप्रभाधरः-
कलाकलापपेशलः सुराङ्गनाविमोहनः ॥ ५९१ ॥
स्फुरन्मयूरपिच्छकावतंसमध्यविस्फुर-
त्सहस्रचन्द्रिकावलीसुसत्करत्नमण्डलः ।
विशालभालविस्फुरत्कुरङ्गनाभि पत्रिका-
विचित्रवक्तृचन्द्रमाः सुमन्दहाससुन्दरः ॥ ५९२ ॥
पदस्फुरन्नखप्रभाजितार्कचन्द्रकोटिकः-
कुतूहलात्कामकेलिचातुरीकलाञ्चितः ।
विकासिरासमण्डलीविलासलासभासितः-
प्रमोदकुञ्जकौतुकी महाद्भुतो नटो यथा ॥ ५९३ ॥
प्रमोदवनसामग्री सर्वा तत्र व्यदृश्यत ।
रामस्योपवने रम्ये परार्द्धललानान्विते ॥ ५९४ ॥
ता एव सख्यश्चतुरास्ता एव च शरन्निशाः ।
ता एव वल्लीप्रवरास्ता एवाखिलसम्पदः ॥ ५९५ ॥
ता एव संगीतकलासुशिक्षिता मृदङ्गवीणा मुरजादिपाणयः ।
सझञ्झरास्तालधरा वरस्त्रियः प्रादुर्भवन्त्यो गणशश्चकासिरे ॥ ५९६ ॥
कलाविदुष्यः शशिमण्डलाननाः संगतीभङ्गीप्रथनापटीयसीः ।
नियोजयामास सखीः समततः स्वे स्वे विधाने सहजेश्वरी स्वयम् ॥ ५९७ ॥
आसी मण्डलमध्यस्थं सहजारामयोर्युगम् ।
परितो मण्डलान्यामुस्तयोस्तत्र यथोचितम् ॥ ५९८ ॥
यथोचितं यथामानं यथास्थानं यथागुणम् ।
यथाधिकारं विन्यस्ता मण्डलेषु सखीगणाः ॥ ५९९ ॥
शरच्चान्द्रीमयः कालस्तदानीं समजायत ।
रत्नाङ्गणमयो देशः प्रभामय्योऽखिला दिशः ॥ ६०० ॥
स्वरा मूर्तिधरास्तत्र प्रादुरासुः सजातयः ।
रागास्तथैव रागिण्यो रामरासरसोत्सुकाः ॥ ६०१ ॥
शुशुभे तच्च विपिनं रत्नाङ्गणसमुज्ज्वलम् ।
त्रिविधानितलीलाभिः सेवितं सुषुमान्वितम् ॥ ६०२ ॥
अथोज्जगौ मुरलिकां रामो रमणपण्डितः ।
मोहयन् सकला रामाः स्वयं कुन्दवने यथा ॥ ६०३ ॥
- २४५ -
मुरलीनादमाकर्ण्य प्रमोदवनगोपिकाः ।
सर्वास्तत्र समाजग्मुर्लीलाविस्तारणोचिताः ॥ ६०४ ॥
एवं समाजः सुमहानासीत्तत्र मृगीदृशाम् ।
रामरासरसक्रीडासमुत्कण्ठितचेतसाम् ॥ ६०५ ॥
नित्या नैमित्तिकाश्चैव ललनास्तत्र सङ्गताः ।
अन्योन्यप्रेमसम्पन्ना रामप्रेमवशीकृताः ॥ ६०६ ॥
अथ श्रीसहजानन्दा मन्दमन्दोपसर्प च ।
ईषन्मानमनोजाक्षी सावगुण्ठपटानना ।
यावत् किचिच्च न ब्रूते तावदाह स्वयं प्रभुः ॥ ६०७ ॥
श्रीराम उवाच
प्राणप्रिये किं वक्तव्यं सर्वं वेत्सि हृदि स्थिता ।
तथापि खलु मे प्रेम्णा वक्तुमत्युत्सुकं मनः ॥ ६०८ ॥
आश्चर्या तव लीलासौ यत्प्रमोदवनान्तरे ।
जनकस्य गृहे भूत्वा प्राप्ता मां त्वं निजेच्छया ॥ ६०९ ॥
[
- २४६ -
श्रीसीतोवाच
दैवं नामामहेवास्मि कालश्चाहं दुरत्ययः।
लीला चाहं भक्तगेया तत्साधनमहं पुनः ॥ ६१८ ॥
भूत्वोभयस्वरूपाऽहं रमामि भवता सह।
रक्षश्चातिबलं तद्वै न हन्तुं शक्यमन्यथा ॥ ६१९ ॥
यस्य श्रौतं बलं दिव्यं तथा कर्मबलं बहु।
शिवस्योपासको वीरस्त्रैलोक्यविजयी बलात् ॥ ६२० ॥
यस्य बाहुबलं भूयो भवतः पार्षदो वरः।
लीलावेशस्तथैवायं किं न स्मरसि वल्लभ ॥ ६२१ ॥
पौलस्त्यतनयो विप्रो ब्रह्मण्यस्यतवावधः।
गृहे गृहेऽग्निहोत्राणि शिवपूजा गृहे गृहे ॥ ६२२ ॥
प्रतापितं जगद्येन तपोवीर्येण भूयसा।
मायायां मथुरायां च काश्यां चोज्जयिनीपुरे ॥ ६२३ ॥
अस्थिचर्मावशिष्टोऽसौ चकार विपुलं तपः।
अगस्त्योऽस्य विदां वर्यो मुनिरस्ति गृहोपरि ॥ ६२४ ॥
दक्षिणे ध्रुव इत्युक्तो ज्योतिर्विद्भिः पुरातनैः।
स कथं शक्यते हन्तुं विनेदृशमति क्रमम् ॥ ६२५ ॥
कथं पुनरिमाः कन्यास्त्वदेकहृदयाः स्त्रियः।
उद्धृताः स्युश्च धर्मज्ञ दुस्तराद्भवसागरात् ॥ ६२६ ॥
इति विज्ञाय वीरेन्द्र न विकल्पितुमर्हसि।
रमस्व रसयुक्ताभिः कन्याभिरिह कामिवत् ॥ ६२७ ॥
ईदृशीं सम्पदं कान्त सफलीकर्तुमर्हसि।
एकत्रैव जगल्लक्ष्मीर्दृश्यतामिह वल्लभ ॥ ६२८ ॥
इदं विपिनमालूनं कपीन्द्रेण महौजसा।
पुनः पल्लवितं पश्य वसन्तसमयश्रिया ॥ ६२९ ॥
भवित्री राजधानीयं विभीषणमहामतेः।
वैष्णवप्रवरस्यास्य सततं हितवर्तिनः ॥ ६३० ॥
सुवेलाद्रिगुहा रम्या निकुञ्जवरशोभिता।
इमाश्च किंकरीस्तत्र नित्यं रमय सुव्रत ॥ ६३१ ॥
यथा भवांश्च रत्नाद्रौ प्रमोदविपिनेऽन्तरा।
तथेह रन्तुमर्होऽसि लीलानटवरः प्रभो ॥ ६३२ ॥
इत्युक्तः प्रियया रामो प्रोवाच विशदस्मितः ॥ ६३३ ॥
- २४७ -
श्रीराम उवाच
अहं त्वदेकपत्नीकः कथमेताः समुद्वहे ।
मोचनं चान्यथैवासां करिष्याम्येव जानकि ॥ ६३४ ॥
श्रीजानक्युवाच
यस्य जीवस्य यो भावस्तेन गम्योऽसि राघव ।
भावसंछेदनं न स्याद्व्रतस्य छेदनं भवेत् ॥ ६३५ ॥
अपि चेमा देवकन्या मयाऽऽविर्भाविताः स्वतः ।
सिन्धोर्विनिःसृताः काश्चिन्मया सह वरस्त्रियः ॥ ६३६ ॥
अन्याश्च विपुलश्रोण्यश्चिरं त्वयि धृताशयाः ।
एतासां रमणं कार्यं महत्कौतूहलं कुरु ॥ ६३७ ॥
हर त्रिभुवनस्त्रीणां मानं सौन्दर्यजं मदम् ।
ब्रह्मणो मोहनं कार्यं महतीं रजनी सृज ॥ ६३८ ॥
उमाद्याश्च महालीलां वीक्ष्य चित्ते विलक्षिताः ।
भविष्यन्ति गलद्दर्पास्त्वदेकचरणाश्रिताः ॥ ६३९ ॥
श्रीशिव उवाच
इत्युत्साहितचित्तोऽसौ प्रियया प्राणतुल्यया ।
रामो लीलारसं कर्तुमारेभे रसिकाग्रणीः ॥ ६४० ॥
सद्यो विगतमर्यादो रसराजो व्यवर्तत ।
स लीलाकौतुकाविष्टो वामदक्षिणपार्श्वयोः ॥ ६४१ ॥
कृत्वा वृन्दं वरस्त्रीणां निनाय गहनं वनम् ।
तत्र प्रमोदविपिनं सर्वासां समदर्शयत् ॥ ६४२ ॥
सरय्वाः पुलिनं रम्यं निकुञ्जवरसेवितम् ।
विविक्तं कोकिलालापगुञ्जद्भ्रमरनादितम् ॥ ६४३ ॥
एकान्तलीलोपयिकं रसकेलीनिकेतनम् ।
अनेकदिव्यसदनं रसराजप्रबोधनम् ॥ ६४४ ॥
महासमरसानन्दं स्त्रीणामतिमनोरमम् ।
उत्फुल्लपद्मकह्लारसरसीशतसेवितम् ॥ ६४५ ॥
हेमवल्लीवनागारं रत्नपुष्पवरद्रुमम् ।
मृदुस्वर्णमणिस्वच्छवालुकामयमङ्गणम् ॥ ६४६ ॥
तत्र ताः स्वोत्तरीयाणि विस्तार्य विहितासनाः ।
परिवव्रुः समंतात्तं रसिकेन्द्रशिरोमणिम् ॥ ६४७ ॥