सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 253, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 253
  • २३९ -
    श्रीशिव उवाच
    रावणस्य वने तत्र प्रादुर्भूता महेश्वरी।
    दिव्यरूपधरा साक्षात् कोटिलक्ष्मीकलानिधिः॥ ५१७॥
    दिने त्वशोकवृक्षस्य अधस्ताद्विरहातुरा।
    रात्रौ निजसखीवृन्दैः सा रेमे सहजेश्वरी॥ ५१८॥
    लोभया च त्रिजटया सेव्यमाना प्रतिक्षणम्।
    इन्द्राण्या च तथा देव्या पीयूषफलहस्तया॥ ५१९॥
    उमया च महेशान्या तथा नद्यष्टकेन च।
    जनकस्य गृहे जाताः सख्यः कमललोचनाः॥ ५२०॥
    कमलेशीप्रभृतयः सेवार्थं तत्र संगताः।
    दिव्यदेहाः स्वरूपेण तथा देव्यो रमामुखाः॥ ५२१॥
    उपचारसमूहैस्तां सेवितुं सुसमाययुः।
    विभीषणस्य पत्न्या सा सेव्यमाना प्रतिक्षणम्॥ ५२२॥
    रतिप्रीत्यादिभिश्चैव दिव्यशक्तिकदम्बकैः।
    उपास्यमाना सा देवी चित्ते चिन्तामकल्पयत्।
    स्वयं लक्ष्मीं पुरस्कृत्य प्रोवाच वचनं सती॥ ५२३॥
    श्रीसीतोवाच
    अहो अत्यद्भुततमं वनमेतन्मनोरमम्।
    न रोचते मे सततं विरहातुरचेतसः॥ ५२४॥
    गुञ्जन्ति मत्तभ्रमरा गायन्त इव मत्प्रभुम्।
    विध्यन्ति कामविशिखैर्विरहे मम मानसम्॥ ५२५॥
    सुस्वरं पञ्चमालापैः कूजन्ति पिकवल्लभाः।
    अरुन्तुदा गिरस्तासां दारयन्ति मनो मम॥ ५२६॥
    एता रसालमञ्जर्यो मञ्जुला रजसाञ्चिताः।
    अग्निं विरहनामानं दीपयन्ति मदन्तरे॥ ५२७॥
    अशोकमञ्जरी रम्याः पश्यन्ती ज्वलिता इव।
    दहामि हृदयेऽत्यर्थं तीक्ष्णेनविरहाग्निना॥ ५२८॥
    किं नु कुर्यामह तावत्स्वयं लक्ष्मीः पराङ्मुखी।
    सुवर्णकेतकीधूलिभरैर्व्योम्नान्धकारिते ॥ ५२९॥
    पद्माकरसमुद्भूतपरागपटलो मरुत्।
    एषोऽन्धयति चक्षूंषि दृष्टिपातनिरोधकः॥ ५३०॥