सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 255, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 255
  • २४१ -
    त्वयानुकम्पिता भक्ताः श्रीरामेणानुकम्पिताः ।
    इति ज्ञात्वा भजन्ते त्वां ब्रह्मशेषशिवादयः ॥ ५४५ ॥
    अनेकधा च रमसे त्वं रामेण सहेश्वरि ।
    श्रीभूलीलास्वरूपेण नित्यपर्यङ्कगामिनी ॥ ५४६ ॥
    त्वं भूः सत्तास्वरूपेण निश्चलस्य परिक्रिया ।
    युगे युगे त्वमाचार्यरूपेण प्रकटा स्वयम् ॥ ५४७ ॥
    स्वस्वरूपं ज्ञापयितुं कुरुषे यत्नमुत्तमम् ।
    नान्यथा त्वां प्रपद्येरन् भक्तास्ते सनकादयः ॥ ५४८ ॥
    आचार्यः प्रथमो ब्रह्मा द्वितीयाः सनकादयः ।
    तृतीयः शेष एवासौ चतुर्थश्च शिवः स्वयम् ॥ ५४९ ॥
    समस्ताचार्यवार्याणां त्वमाचार्योपदेशिका ।
    या स्वयं श्रीस्वरूपेण सा प्रमोदवनेश्वरी ॥ ५५० ॥
    इति ते रूपमुदितं यथाविज्ञानवैभवम् ।
    इच्छासिद्धिमथाज्ञाप्य कुरुलीलारसोदधिम् ॥ ५५१ ॥
    यस्मिन् परमहंसानां संचारः स्यात् सुखावहः ।
    उत्तरङ्गो हावभावैः सरस्वान् प्रेमपाय सः ॥ ५५२ ॥
    सम्भोगविप्रलम्भाभ्यां कूलद्वयसुविस्तृतः ।
    तीव्राभिलाषचिन्ताद्यैरूह्रट्टैमणिमौक्तिकः ॥ ५५३ ॥
    गुरुल्जावाडवाग्निर्मनोभूमकराञ्चितः । ।
    क्षुद्रानन्दनदीपूरः सुगम्भीररसामृतः ॥ ५७४ ॥
    अन्यभावविषोदर्को महाभावमहोर्जितः ।
    त्वत्कीर्त्तिचन्द्रिकापूर्णो भक्तौघराजहंसकः ॥ १५५ ॥
    उद्वेलो नित्यमेवासौ लोकवेदाद्यगोचरः ।
    प्रोद्भाति सहजानन्दे तव लीलारसोदधिः ॥ ५५६ ॥
    यत्र शेते तु भवती श्रीरामरमणान्विता ।
    पुष्पशय्यागता नित्यं ब्रह्मानन्दान्तरस्थिता ॥ ५५७ ॥
    सर्वलोकेशसाम्राज्यमहासौभाग्यभाजनम् ।
    इत्थं तयोः समालापं कुर्वन्त्योः सुवयस्ययोः ॥ ५५८ ॥
    माल्यवत्यचले रामो लक्ष्मणं प्रत्युवाच ह ।
    गच्छ लक्ष्मण किष्किन्धां सुग्रीवं राज्यसंगतम् ॥ ५५९ ॥
    भुञ्जानं च महाभोगान् मद्वाञ्छाविस्मृतान्तरम् ।
    तं च मद्वचसा ब्रूयाः स यथात्रागतो भवेत् ॥ ५६० ॥