भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 248, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 248
- २३४ -
स्वात्मैकमात्रवेद्यासि सहजानन्दिनी स्वयम् ।
यल्लीलागुणकर्माणि जगद्विस्मापयन्ति हि ॥ ४३९ ॥
लोके विहरसि स्वैरं स्वमायागुणसंवृता ।
भक्तानामनुकम्पार्थं मुक्तयेस्वानुभूतये ॥ ४४० ॥
क्षमस्व सहजानन्दे स्वरूपं ते न गोचरः ।
मयापि किमुतान्येषां पादोपास्तिरतात्मना ॥ ४४१ ॥
कि चिकीर्षसि वै नित्यं किं करोषि किमोप्स्यसि ।
इति ते स्वमतं लोके ज्ञातुं कोऽपि न हि क्षमः ॥ ४४२ ॥
परावाग्रूपिणी भूत्वा सम्प्रवर्तयसे बुधान् ।
फलाकाङ्क्षायुतास्तत्र पतन्त्यभ्युद्धताः परे ॥ ४४३ ॥
बुद्धिस্বরূপिणी भूत्वा प्रभा चाप्यप्रमा ह्यसि ।
पूर्वा तारयसे विश्वमधो नयसि चापरा ॥ ४४४ ॥
सर्वस्वरूपिणी साक्षात् परब्रह्मस्वरूपिणी ।
त्वं लक्ष्मीस्त्वं रतिर्गीस्त्वं प्रीतिस्त्वं कीर्तिरेव च ॥ ४४५ ॥
शान्तिस्त्वं तुष्टिरेवापि पुष्टिस्त्वं नात्र संशयः ।
मेधा प्रज्ञा प्रभा च त्वं विद्या त्वं धीर्धृतिः स्मृतिः ॥ ४४६ ॥
बुद्धिर्विद्याप्यविद्या च सर्वविद्येश्वरी च सा ।
सर्वशक्तिमयी देवी सर्वमन्त्रेश्वरी च सा ॥ ४४७ ॥
त्वं नित्या चित्कला शान्ता शान्त्यतीता पराकुला ।
निष्कला च कलाभासा सकला चापि निष्कला ॥ ४४८ ॥
एकानेका व्यापिका च परब्रह्मेति गीयसे ।
न हि त्वं रावणग्राह्या व्यापकब्रह्मरूपिणी ॥ ४४९ ॥
क्षयाय राक्षसौघस्य तथा लीलां चकार हि ।
सदसद्व्यक्तये चैव साधूनां पालनाय च ॥ ४५० ॥
त्वमेव सर्वं कुरुषे मम मूर्द्धिघ्न निधाय च ।
नाहं कर्त्ता ह्युदासीनः कर्त्तृत्वं सर्वदा प्रिये ॥ ४५१ ॥
भक्तिमार्गमधिष्ठाय भक्तेषु त्वं कृपावती ।
ममापि करुणारूपा तथैव च नियोजिका ।
किं बहुक्तेन सहजे सर्वं त्व मत्स्वरूपिणी ॥ ४५२ ॥
इत्युक्ता रामचन्द्रेण सहजानन्दिनी स्वयम् ।
प्रोवाच स्मितरम्यास्या प्रसादसुमुखी प्रिया ॥ ४५३ ॥