भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- २१२ -
सभास्तारान् पृथङ्नत्वा विश्रान्तो जनकालये ।
जनको राममालोक्यनवेन्दीवरकोमलम् ॥ १०३ ॥
रुद्रचापसमारोपे संदिहान इवाभवत् ।
रामः प्रदर्शयामास माधुर्यं स्वस्वरूपगम् ॥ १०४ ॥
जनकाय नरेन्द्राय लोकोत्तरगुणाकरः ।
स तस्य रूपमाधुर्यं सौन्दर्यगुणशीलताम् ॥ १०५ ॥
वीक्ष्य मेने स्वकन्याया योग्यं वरमनुत्तमम् ।
तावद्रामो गुरोराज्ञां गाधेयस्य महामुनेः ॥ १०६ ॥
अनुप्राप्य धनुःशम्भोरारोपयितुमुद्यतः ।
यावदारोपयेद् धन्वा तावद्बाहुबलोर्जितः ॥ १०७ ॥
बभञ्ज रघुशार्दूलश्चण्डीपतिशरासनम् ।
तस्य सम्भज्यमानस्य धनुषो विकटारवः ॥ १०८ ॥
दिक्कुंजराणां कर्णेषु विश्रान्तोऽतिभयानकः ।
शब्दव्याकुलिते लोके उत्पात इव चाभवत् ॥ १०९ ॥
सीतारामवरप्राप्त्या मङ्गलं चाभवत्पुनः ।
ततः सीता सखी वृन्दमध्यगा हर्षनिर्भरा ॥ ११० ॥
अवृणोद् रामभर्तारं कण्ठे जाम्बूनदस्रजा ।
यावन्तो वसुधापाला महाराजन्यपुङ्गवाः ॥ १११ ॥
समंताज्जनकागारं बाणरावणपूर्वगाः ।
तावन्तोविफलायासा बभूवुः शिवधन्विनि ॥ ११२ ॥
अलम्भि चैव रामेण कन्याकीर्तिर्जयस्तथा ।
उवाह विधिवद् रामः सीतां सहपरिच्छदाम् ॥ ११३ ॥
दत्तां जनकराजेन पाणिग्रहणकर्मणा ।
तत्राभ्युपेतो राजेन्द्रो राजा दशरथः स्वयम् ॥ ११४ ॥
तनयौ सुसमादाय भरतारिनिषूदनौ ।
ततः प्रसन्नो जनकः कन्यास्तिस्रः सुलोचनाः ॥ ११५ ॥
प्रददौ लक्ष्मणादिभ्यो मनोवाञ्छानिराकुलः ।
एवं सम्प्राप्तसर्वार्थो बभूव जनको नृपः ॥ ११६ ॥
विवाहोत्सवयोग्यानि वसूनि बहु दत्तवान् ।
यथा कीर्ति जगुर्देवा औदार्यान्निभिभूपते ॥ ११७ ॥
भूतानि चैव भावीनि यावन्ति भुवनत्रये ।
विवाहोत्सवयोग्यानि वर्तमानानि चैव हि ॥ ११८ ॥
- २१३ -
सीताविवाहसौख्यस्य कलां नार्हन्ति षोडशीम् ।
देवा गन्धर्वपतयो नागाश्चैव नगास्तथा ॥ ११९ ॥
नरा नार्यश्च सौख्येन बभूवुः पूर्णमानसाः ।
राजा दशरथः पुत्रान् दौरैः संयोज्य सभ्रमी ॥ १२० ॥
बहुलक्ष्मीसमायुक्तः साकेतपुरमागमत् ।
धनुर्भङ्गरुषाक्रान्तं भार्गवं रामचन्द्रमाः ॥ १२१ ॥
हृत्वा स्वांशं शुद्धसत्त्वं नाभयामास जीववत् ।
तदद्भुततमं नास्ति पूर्णे श्रीपुरुषोत्तमे ॥ १२२ ॥
ज्योतींषि न प्रकाशन्ते यथाह्नि महसा पतौ ।
तथैवांशाः कलाश्चैव पूर्णे सर्वकलाश्रये ॥ १२३ ॥
सहजानन्दिनीनाथे स्वानुभावं न बिभ्रति ।
भूमितलं भूषयति रामे सर्वकलाश्रये ॥ १२४ ॥
श्रीमान् वैकुण्ठनाथोऽपि निष्प्रयोजनतां गतः ।
सर्वं प्रयोजनं चक्रे राम एव स्वयं प्रभुः ॥ १२५ ॥
स एवेन्द्रो यमश्चापि वरुणश्च कुबेरकः ।
ईशो ब्रह्मा रविश्चापि सर्वदेवमयोऽभवत् ॥ १२६ ॥
सर्वेषां कार्यमातेने स्वयमेव रघूद्वहः ।
सर्वसत्तामयी सत्ता राम एव प्रतिष्ठिता ॥ १२७ ॥
एवं नित्यश्रिया साक्षात् सीतयासहितः प्रभुः ।
आजगाम स्वबन्धूनामानन्दं जनयन् पुरीम् ॥ १२८ ॥
राजा महामनाश्चक्रे महान्तं भृशमुत्सवम् ।
गृहप्रवेशसमये वरबध्वोः मुभावहम् ॥ १२९ ॥
सिद्धगन्धर्ववर्यैभ्यश्चारणेभ्यः समंततः ।
नर्तकेभ्यो गायकेभ्यो धनं बहुतरं ददौ ॥ १३० ॥
महाशया महाराज्ञी कौसल्या विहितोत्सवा ।
केकयो च सुमित्रा च पुत्रोद्वाहमहोत्सवे ॥ १३१ ॥
पुरन्ध्रीभ्योऽथ बन्धुभ्यः संगताभ्यः समंततः ।
परमानन्दमातेने वासोभूषणभोजनैः ॥ १३२ ॥
आशिषस्ताः स्त्रियः साध्व्यः प्रायुञ्जन् गुणवत्तरा ।
प्रसन्नचित्ताः प्रययुः स्वानि स्वानि गृहाणि च ॥ १३३ ॥
चतुर्लक्ष्मीस्वरूपा सा रेजे जनकनन्दिनी ।
नवोद्वाहमहोत्साहमहामाङ्गल्यभूषिता ॥ १३४ ॥
- २१४ -
चत्वारो भ्रातरस्ताभिः श्रीभिः शोभान्विता बभुः ।
यथा कल्पद्रुमवराः कल्पवल्लीभिरन्विताः ॥ १३५ ॥
जगदानन्दनिधयः कल्याणगुणभूषिताः ।
अलंचक्रुः पितुर्गेहान् श्रीरामाद्याः स्वरूपतः ॥ १३६ ॥
तास्वागतासु लक्ष्मीषु साकेतनगरी भृशम् ।
रराजारण्यराजीव१ वसन्तसमयश्रिया ॥ १३७ ॥
द्यौरिवेन्दुरुचा रेजे राज्यलक्ष्मीर्महीपतेः ।
सर्वसम्पन्मयं सद्म राज्यलक्ष्म्या न तादृशम् ॥ १३८ ॥
यादृशं शुशुभे ताभिः साक्षालक्ष्मीभिरन्वितम् ।
ततो दिनेषु गच्छत्सु सर्वसाम्राज्यसम्पदि ॥ १३९ ॥
यौवराज्यपदे रामं स्थापयामास भूपतिः ।
समेतो भ्रातृभिः सर्वैर्युवराजपदे स्थितः ॥ १४० ॥
पितुः सर्वं राज्यधुरमवहज्जानकीपतिः ।
सर्वाः प्रजामुमुदिरे सर्वर्द्धिफलसंयुताः ॥ १४१ ॥
यौवराज्यस्थितेरामे नवीना श्रीरवर्तत ।
त्रैलोक्यमवहद्दोर्मि विभूतिं परमां श्रियम् ॥ १४२ ॥
सीतादृष्टिप्रसादेन बभौ सर्वत्र मङ्गलम् ।
यावती श्रीस्त्रिजगति सर्ववस्तुसमाश्रया ॥ १४३ ॥
एकत्र संस्थिता दृष्टा साकेतनगरे तु सा ।
वर्षपूगे ततो जाते रामे रञ्जयति प्रजाः ॥ १४४ ॥
वाञ्छा दशरथस्याभून्निजराज्याभिषेचने ।
ईदृशी महिषी भाग्यैर्लब्धा सीतास्तियादृशी ॥ १४५ ॥
त्रैलोक्यस्यैव भाग्येन रामो राजा भवेदिति ।
अथैकान्ते समासाद्य रामं राजीवलोचनम् ॥
उवाच वचनं प्रीतो राजा दशरथः स्वयम् ॥ १४६ ॥
राजोवाच
राम राम महाबाहो पितृपैतामहीं धुरम् ।
राज्यं श्रियं च परमां त्वं पालयितुमर्हसि ॥ १४७ ॥
प्रजानामेव भाग्येन दत्तस्त्वं वेधसा मम ।
न हीदृशोरघोर्वंशे भूतो वाथ भविष्यति ॥ १४८ ॥
१. ᵒरण्यानीव-बड़ौ० ।
- २१५ -
सर्वे गुणास्त्वयि प्राप्ताः स्वत एव समुन्नतिम् ।
श्रियं च परमां प्राप्तुमसाधारण्यमेव च ॥ १४९ ॥
नेत्रानन्दसमूहाय प्रजानां भुवनत्रये ।
महामाङ्गल्यसंधाय त्वं हि राजा भविष्यति ॥ १५० ॥
अतस्त्वामभिषेक्ष्यामि राज्येपैतामहेऽतुले ।
यौवराज्य एव भवान् सर्वां भूमिरञ्जयत् ॥ १५१ ॥
भाग्येन चैव सौभाग्यैः प्रजेशस्त्वं भविष्यसि ।
युक्ताङ्गैर्भ्रातृभिः सार्द्धं कृत्स्नं पाहि महीतलम् ॥ १५२ ॥
अहं स्वात्मरतिं राम त्वदार्थं परिसाधये ।
भवादृशे वंशधुर्येसुमग्नो रूपसागरे ॥ १५३ ॥
अहो भाग्यं सदास्माकं रघोर्वशमुपेयुषां ।
यद्ब्राह्मेऽर्केऽपि सुखैर्वे गृहे स्वात्मजदर्शनम् ॥ १५४ ॥
इत्युक्तः प्रीतियुक्तेन राज्ञा दशरथेन सः ।
उवाच वदतां वर्यो रामः सुमधुरं वचः ॥ १५५ ॥
श्रीराम उवाच
वयं सनाथा भवता राजराजेन भूभृता ।
जननीमेव पश्येम महीमेतां महीपते ॥ १५६ ॥
तव प्रसादान्नृपते यौवराज्ये स्थितोऽस्म्यहम् ।
रञ्जयाम्येष जगतीं किं मे राज्यं ततोऽधिकम् ॥ १५७ ॥
वयं राजकुमाराः स्म भवान् पालयतु क्षितिम् ।
इतोऽधिकं सुखं नास्ति राज्यं भारः परं मम ॥ १५८ ॥
इन्द्रं यमं तथैवापि वरुणं च धनाधिपम् ।
ईशानं चैव ब्रह्माणं तथान्यांल्लोकपालकान् ॥ १५९ ॥
यः स्यात् त्वदाज्ञारहितस्तमहं नामये क्षणात् ।
विक्रान्त्या त्वत्प्रसादाच्च शक्तोऽहं सर्वसाधने ॥ १६० ॥
भूयोऽश्वमेधं वितनु यज्ञान् कुरु सनातनान् ।
वर्षे वर्षे महाराजन् सुनु सोममुदारधीः ॥ १६१ ॥
पाहि प्रजा महीपाल विपद्भ्यः पुरुषाधिप ।
एवं नो वर्द्धय सुखं किं राज्येन ततोऽधिकम् ॥ १६२ ॥
इत्युक्तः स महीपालो रामेणाक्षुण्णबुद्धिना ।
शशास कानिचिद्वर्षाण्यवनी धर्मवित्तमः ॥ १६३ ॥
- २१६ -
ततो मुनीनामाज्ञातो देवेन्द्रस्य च धीमतः।
रामराज्याभिषेकाय मति चक्रे महिपतिः ॥ १६४॥
शुभे मुहूर्ते त्रिदशैः सकलै सुमोदितः।
श्वोभाविनोऽभिषेकस्य पूर्वं चक्रेऽधिवासनम् ॥
यदा सा केकयसुता सख्या मन्त्रं चकार ह ॥ १६५॥
केकय्युवाच
सखि जानामि रामोऽयं सर्वलोकैकरञ्जनः।
प्रियो ममात्यन्तमेव मत्पुत्राद्भरतादपि ॥ १६६ ॥
प्रजाश्चानुरताः सर्वाअस्मिन्नेव गुणालये।
माधुर्यं चापि सौन्दर्यं गाम्भीर्यं वीर्यमेव च ॥ १६७॥
औदार्यं सौकुमार्यं च सौशील्यं कान्तिरेव च।
रामे लोकोत्तरं सर्व पश्यामि जनरञ्जनम् ॥ १६८॥
मत्सुतो भरतोऽप्यस्य नित्याज्ञापरिपालकः।
अस्य भक्तिरसेनासौ किङ्करीकृतविग्रहः ॥ १६९॥
तृणवन्मन्यते सर्वं राज्यं स्वात्मानमेव वा।
तथापि चानुतप्येऽहं रामराज्याभिषेचने ॥ १७०॥
विना मत्तनयं कुर्यात् कौसल्यातनयः कथम्।
राज्यं सर्वस्य लोकस्य सपत्नीवृद्धिदुःखतः ॥ १७१॥
तत्प्रतीकारमसकृच्चिन्त्य चित्ते विचारये।
रामस्वभावमाधुर्यात्कि नु नोपलभे सखि ॥ १७२॥
इत्युक्ता केकयाधीशकन्यया सा प्रिया सखी।
स्मारयामास वै चित्ते वरं कालान्तरे वृतम् ॥ १७३॥
सख्युवाच
किं न स्मरसि वै राज्ञि यद्राज्ञाऽङ्गुलिपर्वणि।
वेदना महती जाता सद्यस्त्वं तामुपाचरः ॥ १७४॥
तदा राज्ञा वरो दत्तस्तुभ्यं केकयि दुर्लभः।
इदानीं सखि याचस्व समयोऽयमुपस्थितः ॥ १७५॥
राज्याभिषेकं भरते वने निर्वासनं तथा।
रामस्येति वचोबद्धं याचस्व नृपतिं हठात् ॥ १७६॥
इति संस्मारिता सख्या केकयी भरतप्रसूः।
तथैवायाचत नृपं वरं कालान्तरे वृतम् ॥ १७७॥
तृतीय खण्ड: विश्वामित्र आगमन, ताड़का-वध एवं धनुष-यज्ञ लीला
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
- २१७ -
नृपः सत्यवचोबद्धः श्रुत्वा तत्केकयीवचः ।
भृशमुद्वेजितोऽप्यासीत्तूष्णीं शून्य इवान्तरे ॥ १७८ ॥
दृष्ट्वा चिन्तातुरं भूपं रामः संतुष्टमानसः ।
तदभिप्रायमाज्ञाय राजानं सुसमादधौ ॥ १७९ ॥
श्रीराम उवाच
राजन् सत्यवचा भूपाः किं मे राज्येन भूयसा ।
गृहे वापि वने वापि तुल्यं प्रीतिसुखं मम ॥ १८० ॥
इत्येवं भूरिवाक्यौघैः संतोष्य नृपतिं हठात् ।
रामः प्रस्थातुमारेभे वनं भ्रात्रा स्त्रिया सह ॥ १८१ ॥
राज्ञो मातुश्चाप्रियं तत्सत्यवाक्स्थितिहेतवे ।
चकार भगवान् रामः सर्वत्र समदर्शनः ॥ १८२ ॥
राज्यं त्यक्त्वा पुराद्यातो वनं रामः सलक्ष्मणः ।
सीतया धर्मचारिण्या सहितो धर्मपालकः ॥ १८३ ॥
यावत्त्रिरात्रं ते चक्रुर्जलमात्राशनं वृतम् ।
चतुर्थे दिवसे प्राप्ते त्रयश्चक्रुः फलाशनम् ॥ १८४ ॥
पञ्चमे दिवसे गङ्गा समुत्तीर्य रघूद्वहः ।
चित्रकूटाचले वासं चक्रे परमधार्मिकः ॥ १८५ ॥
भ्रातुः समागमभयात् कुर्वन् सत्यां गिरं पितुः ।
ततः प्रतस्थौ भगवान् सीतालक्ष्मणसंयुतः ॥ १८६ ॥
पृष्ठबद्धमहातूणो धनुष्पाणिः कृपाणभृत् ।
महासौन्दर्यकलितो वनचारिभिरीक्षितः ॥ १८७ ॥
प्रविश्य घोरं विपिनं विराधाद्यान् प्रमर्दयन् ।
महापराक्रमो रामः प्राप्तः पंचवटीवनम् ॥ १८८ ॥
ततो गोदावरीतीरे रक्षन्नाश्रममण्डलान् ।
रक्षन् मुनींश्च दैत्येभ्यो रक्षोभ्यस्तत्र चावसत् ॥ १८९ ॥
सार्द्धद्वादशवर्षेषु व्यतीतेषु वनस्थितौ ।
रक्षोनाथस्य भगिनीं चक्रे विग्नां च विश्रुतिम् ॥ १९० ॥
तत्पृष्ठगान् राक्षसांश्च खरादीन् हतवान् सुधीः ।
क्षेमं च दण्डकारण्यं कृतवान् भुजवीर्यतः ॥ १९१ ॥
चिक्रीडे दण्डकारण्ये सीतया सहितः प्रभुः ।
लक्ष्मणं वनरक्षायां नियुज्य परमोत्सवी ॥ १९२ ॥
२८
- २१८ -
चक्रे रासविलासादीन् रामोगुप्ततया निशि ।
प्रमोदवनसामग्रीमाविर्भाव्य विशेषतः ॥ १९३ ॥
ततो दसमुखः क्रुद्धः श्रुत्वा शूर्पणखादशाम् ।
मानुषेणैव रामेण किमिदं समनुष्ठितम् ॥ १९४ ॥
इति संचिन्त्य सातङ्को बभूव रक्षसां प्रभुः ।
ततस्तस्य प्रतिकृतिं कर्तुं हर्तुं च तत्प्रियाम् ॥ १९५ ॥
मारीचेन समं यातो मायादीर्घरथस्थितः ।
माघशुक्लचतुर्दश्यां वीक्ष्य शून्यं तमाश्रमम् ॥ १९६ ॥
रावणस्तापसवपुर्भूत्वा भिक्षार्थमागतः ।
तं मायाविनमाज्ञाय सीता देवी मनस्विनी ॥ १९७ ॥
विवेश गार्हपत्याग्नौ रावणस्तमधर्षयत् ।
अग्निः सीतानुभावेन् भूत्वा संवर्तकाग्निवत् ॥ १९८ ॥
अतिमात्रं महागोरस्वरूपो भक्षितुं स्थितः ।
दग्धुमुद्यन्तममलं वीक्ष्य दुद्राव रावणः ॥ १९९ ॥
सीताच्छायां समादाय जगाम गगनाध्वना ।
सा राक्षसकुलं दग्धुं कृत्यारूपव्यवस्थिता ॥ २०० ॥
छायारूपा समुद्भूय गता लङ्कां निजेच्छया ।
अथ रामस्तु मारीचं हत्वा भायिनमासुरम् ॥ २०१ ॥
समुपेत्य ततो वीरौ वीक्ष्य शून्यं तमाश्रमम् ।
वायसैश्चैव कङ्कैश्च तीक्ष्णतुण्डैः समावृतम् ॥ २०२ ॥
विहीनं सीतया साध्वा शोकाविष्टौ बभूवतुः ।
मूर्च्छितः प्रापतद्रामो धरण्यां गतचेतनः ॥ २०३ ॥
पथ आनीय च ततो लक्ष्मणेन प्रबोधितः ।
भगवान् हेतुमनुजो रामः श्रीपुरुषोत्तमः ॥ २०४ ॥
अज्ञातचेष्टोमनुजैः प्राज्ञैरपि सुदुर्गमः ।
क्वचिज्ज्ञानी क्वचिन्मूढः क्वचिच्छोकसमावृतः ॥ २०५ ॥
तूणी सम्बध्य वाणौ च सज्जीकृत्य दृढं धनुः ।
सीतालोकाय बहुशो बभ्राम भ्रातृणा सह ॥ २०७ ॥
तरुंलताश्च गुल्मांश्च घनराजीन् वनस्पतीन् ।
पृच्छन् मूर्छन् मुहुर्वीरो बभ्रामबहुशोऽटवीम् ॥ २०७ ॥
दृष्टो जटायुरग्रे च कृतयुद्धोऽति रक्षसा ।
सीतार्थं रहितप्राणः कण्ठजीवः पितुः सुहृत् ॥ २०८ ॥
- २१९ -
ततो वृत्तं समाकर्ण्य प्रियाचौरस्य रक्षसः।
भ्रातृभ्यां विहितो दाहो मृतस्य वयसोऽस्य च ॥ २०९ ॥
चक्रे तस्यान्तिकं कर्म तातेति च रुरोद सः।
हा तात हा पितृसखमदर्थं मृतवानसि ॥ २१० ॥
अथातितायिनौ वीरौ भ्रातरौ सुहृदौ च तौ।
रावणेन रणोद्युक्तौ बभूवतुरुदायुधौः ॥ २११ ॥
कुपितो लक्ष्मणं राम उवाच विरहातुरः।
जाया मे जीवति यदा तदा जीवतु वै जगत् ॥ २१२ ॥
ने चेत्सेश्वरं लङ्केशं भस्मीकर्तुमहं क्षमः।
समुद्रं शोषयिष्यामि धक्ष्यामि धरणीमिमाम् ॥ २१३ ॥
त्रैलोक्यं नाशयिष्यामि सदेवासुरमानुषम्।
इत्थं भयानकवचा ब्रूते रामः सदां वने ॥ २१४ ॥
लक्ष्मणस्तमुवाचाथ प्रणयाद्विहिताञ्जलिः।
आर्यैवं भवतो वाक्यं श्रुत्वाहं सभयोऽस्मि च ॥ २१५ ॥
भूमिः प्रचलिता सद्यो जलधिश्च समुत्थितः।
मेरुश्च कम्पितोऽत्यर्थं देवताश्च चकम्पिरे ॥ २१६ ॥
मान्धाता सगरश्चैव तथा राजा भगीरथः।
रघुस्तथाम्बरीषाद्या यावन्तो जनकः स्वयम् ॥ २१७ ॥
तावत्सम्पालिता भूमिर्र्यथा पित्रा स्वपुत्रकाः।
तेषां कुले भवान् जातः कीर्तिवर्द्धनकारकः ॥ २१८ ॥
सूर्यवंशोद्भवः श्रीमान् धर्मात्मा सर्वपालकः।
एकस्याविनयाद् राम हन्तुं नार्हसि वै जगत् ॥ २१९ ॥
श्रीशिव उवाच
भक्तस्य लक्ष्मणस्येत्थं वचनैः प्रससाद सः।
स्नेहेन परिरभ्यामुं भ्रातरं प्राणसम्मितम् ॥ २२० ॥
स्मित्वाऽऽघ्राय शिरस्तस्य जगाम किल सत्वरम्।
तेनैव सहितो भ्राता लक्ष्मणेन मनीषिणा ॥ २२१ ॥
उच्चावचेषु शैलेषु शिखरेषु च भूरिषु।
गह्वरेषु गुहास्वेवं गुल्मेषु च वनेषु च ॥ २२२ ॥
निकुञ्जेषु च कुञ्जेषु पर्यन्तेषु धनेषु च।
आरोहेष्ववरोहेषु भ्रातरौ खिन्नविग्रहौ ॥ २२३ ॥
- २२० -
परिश्रान्तौ संचरन्तौ समेषु विषमेषु च।
पश्यन्तौ जानकौस्तेयं कबन्धालयमागतौ ॥ २२४ ॥
तद्बाहुवीर्यवशिनौ रण्डस्य तुण्डसंनिधिम्।
दृष्ट्वा वनचरान् नीत्वा ग्रसन्तं वदनेन तम् ॥ २२५ ॥
अत्यर्थदीर्घदोर्दण्डं खड्गाभ्यां विनिकृत्य तौ।
पातयामासतुर्भूमौ स त्यक्त्वा वपुरात्मनः ॥ २२६ ॥
बभूव दिव्यो गन्धर्वः प्रणम्य भ्रातरावुभौ।
सीतां दिशन् गतः स्वर्गं वपुसौन्दर्यभासुरः ॥ २२७ ॥
तेनोद्दिष्टेन मार्गेण क्रामन्तौ दुर्गपर्वतान्।
सज्जीकृत्य धनुर्बाणौ मन्दं मन्दमुपेयतुः ॥ २२८ ॥
ततः पम्पासरः प्राप्तौ स्नात्वा विश्रम्य तत्तटे।
प्रणम्य मुनिसंदोहं दण्डकारण्यवासिनम् ॥ २२९ ॥
ततः प्रचलितौ पश्चात् कुर्वन्तौ विविधाः कथाः।
मार्गे घोरतरे भूरि घोषयन्तौ धनुर्गुणम् ॥ २३० ॥
दूरस्थौ व ततो दृष्ट्वावृष्यमूकनिवासिभिः।
शाखामृगैः पञ्चभिस्तौ वीरेन्द्रौ चललोचनौ ॥ २३१ ॥
सुग्रीवस्यनिदेशाच्च प्राप्तः पवनजोऽन्तिकम्।
तत्तौ मधुरया वाण्या संवादः समभूत्तयोः ॥ २३२ ॥
तदुक्तं तत्स्वरूपं च सम्यग्विज्ञाय राघवः।
चक्रे सखित्वं तेनासौ कपीन्द्रेण समं दृढम् ॥ २३३ ॥
ऋष्यमूकस्य शिखरे जानक्या भूषणानि तैः।
आनीय कपिभिर्दत्तान्यादेशात् कपिभूपतेः ॥ २३४ ॥
रामहस्तेऽर्पितान्यद्धा सख्या सौहार्ददर्शिना।
भूषादर्शनमात्रेण मुमोह रघुपुङ्गवः ॥ २३५ ॥
सुग्रीवः कपिभिः साकं दुःखाभिभवमासवान्।
कृतोपकरणैः पश्चाद्विनोदः कपिभिः कृतः ॥ २३६ ॥
सर्वे बालिवधोत्साहप्रतीतिजनिकां ततः।
तालावलीं समाजग्मुः सप्तदर्वीकराकृतिम् ॥ २३७ ॥
रामो दृष्ट्वा स्थितिं तेषां सप्तानां मर्मवित्स्वयम्।
सज्जीकृत्य धनुर्वीरः संधाय विशिखं बली ॥ २३८ ॥
वेगेन ताडयामास सरलां तालराजिकाम्।
बाणस्तन्मूलसंसुप्तं शापदग्धं भुजङ्गमम् ॥ २३९ ॥
- २२१ -
हत्वा हंसवपुः कृत्वा तूर्णं रघुपतेर्ययौ ।
चक्रुः स्वर्गस्थिता देवाः पुष्पवृष्टिं मुदान्विताः ॥ २४० ॥
श्रीराममूर्द्धनि प्रायः पुष्पवृष्टिः सुशोभना ।
कपिभिर्दर्शित रामः कबन्धं दुन्दुभेर्भृशम् ॥ २४१ ॥
वामेनैव करेणासौधनुष्कोट्या व्युदासितम् ।
उड्डीयाम्बरतो भूमौ दीर्घान्तरतयापतत् ॥ २४२ ॥
सोऽतिहृष्टैः कविभटैरर्चितः सादरं रघुः ।
अथ सुग्रीव आश्रित्य बलं रघुपतेर्महत् ॥ २४३ ॥
बालिनो राजधानीं तां किष्किन्धापुरमागतः ।
गत्वा परिसरे गाढमास्फोट्य सुदृढं करौ ॥ २४४ ॥
कृत्वा सिंहनिनादं च मुखेनापूरयन्नभः ।
आततायिनमाहूय स्वाग्रजं तावयुध्यताम् ॥ २४५ ॥
तयोः स्वरूपसादृश्यात्तर्को रघुपतेरभूत् ।
उभयोरनयोर्मध्ये को मित्रो मम चिह्नितः ॥ २४६ ॥
इत्येवमुग्धहृदये रामे सूर्याङ्कजो रणे ।
इन्द्राङ्कजेन बलिनाऽऽताड्य विद्रावितोद्रुतम् ॥ २४७ ॥
स भ्रष्टविक्रमः प्राप्तो रामस्यान्तिकमानतः ।
तर्जन्योपालभदरामं श्वासोच्छ्वासाकुलो भृशम् ॥ २४८ ॥
पश्यन् विचकितो भूयः शत्रोरागमशङ्कया ।
विवृत्याननमुद्वीतो भ्रात्रा युद्धे पराजितः ॥ २४९ ॥
आश्वासितः स रामेण हस्तस्पर्शनलालनैः ।
अभीतिदैश्च वचनैः स्वामिना भयहारिणा ॥ २५० ॥
उक्तं च भवतः साम्यान्न मया मारितो रिपुः ।
सत्यं मे व्याहृतं याहि पुनरेव निजं रिपुम् ॥ २५१ ॥
हनिष्याम्यधुना शीघ्रमित्युक्तः स्वामिना ततः ।
जगाम कलहायासौ किष्किन्धां बालिनः पुरीम् ॥ २५२ ॥
सुग्रीवमागतं ज्ञात्वा गर्जन्तं पुरसन्निधौ ।
रोषाद्वधं विनिश्चित्य सुग्रीवस्य स विक्रमी ॥ २५३ ॥
शुद्धान्तात्सम्प्रचलितो निषिद्धोऽपि च भार्यया ।
विनिर्धूयापशकुनान् बाली हठसमावृतः ॥ २५४ ॥
ततो ज्येष्ठानुजौ युद्धे दृष्ट्वान्योन्यमुपागतौ ।
रामोहृष्टतनुर्भूत्वा करे कृत्वा धनुर्वरम् ॥ २५५ ॥
- २२२ -
स्थित्वा गुल्मान्तरे वीरः कृत्याकृत्यमचिन्तयत् ।
साक्षात्स भगवान् देवो रामः कारणकारणः ॥ २५६ ॥
बाणं प्राणहरं क्षिप्त्वा बालितं हृदयेऽवधीत् ।
यत्रासौ पतितो बाणविद्धो वानरभूपतिः ॥ २५७ ॥
रामस्तत्रागतो वीक्ष्य सदयं कर्म चात्मनः ।
संतप्तोऽनुचितं कृत्वा सान्त्वितः सामभिस्ततः ॥ २५८ ॥
सुग्रीवेणानुजेनापि बलिना च प्लवंगमैः ।
श्रीरामदृष्टिनिर्धूतसमस्तशमलः कपिः ॥ २५९ ॥
बाली रामे विलीनात्मा जगाम परमं पदम् ।
ततो राज्याभिषेकेन सुग्रीवश्चाभिषेचितः ॥ २६० ॥
ततो वार्षिकमासेषु शृङ्गे माल्यवतो गिरेः ।
उवास भ्रातृसहितः सीताविरहकर्षितः ॥ २६१ ॥
भूयः शोकं चकारासौ तत्र संतप्तमानसः ।
अहो राज्याभिषेके मे तादृग्विघ्नो बभूव ह ॥ २६२ ॥
आजन्म सुखिनो जातं ततो मे वनसेवनम् ।
[
- २२३ -
आजग्मतुस्त्वरायुक्तौ यत्रास्ते रघुपुङ्गवः ।
कुशसंस्तरमध्यासबद्धपद्मासनः प्रभु ॥ २७० ॥
नीलोत्पलदलश्यामः स्वस्थो वल्कलचीरभृत् ।
सुलोचनः सुवदम आजानुदीर्घबाहुकः ॥ २७१ ॥
अलङ्कृतो वपुर्लक्ष्म्या बिभ्रद्भ्रुरुचोजटाः ।
तुङ्गोत्तमाङ्गशिखरः कैलासाधिपतिर्यथा ॥ २७२ ॥
तं दृष्ट्वा रघुशार्दूलं सुग्रीवादयाः प्लवंगमाः ।
लक्ष्मणेन समं सर्वे प्रणेमुर्दण्डवद्भुवि ॥ २७३ ॥
कृताञ्जलिपुटा ऊर्ध्वमुत्थिता देशकारिणः ।
परिरेभेऽथ सुग्रीवं रामो राजीवलोचनः ॥ २७४ ॥
समुपवेशिताः सर्वे रामेण कपिपुङ्गवाः ।
अन्योन्यविक्रमं दृष्ट्वा तावेकासनसंस्थितौ ॥ २७५ ॥
अङ्गदश्चात्मनिकटे रामेण स्थापितो
– २२४ –
धीमन्तो बलिनश्चैव बुद्धिविक्रमशालिनः ।
श्रेष्ठाः स्वामिहिताश्चैव सुग्रीवस्य निदेशतः ॥ २८६ ॥
कृत्वा प्रणामं रामस्य सर्वे तत्र समाययुः ।
अथ केचित्कपिश्रेष्ठाः सीतालोकसमुत्सुकाः ॥ २८७ ॥
मासैकमवधिं कृत्वा ययुस्ते सर्वतो दिशम् ।
मासाधिकं व्यतिक्रान्ता दण्ड्याः स्युर्नात्र संशयः ॥ २८८ ॥
नलिनीलमरुत्पुत्रप्रमुखा ऋक्षपुङ्गवाः ।
वृत्वेशमङ्गदं ते वै कपयो दशकौटयः ॥ २८९ ॥
याम्यां दिशिगताः सर्वे सीतालोकनतत्पराः ।
मासावधिर्लङ्घितस्तैः प्राप्तास्ते कपयस्ततः ॥ २९० ॥
महेन्द्रमचलं नाम तीरे नीरनिधेर्भृशम् ।
प्रायोपवेशमास्थाय संस्थिताः कुशसंस्तरे ॥ २९१ ॥
सम्पतिर्नाम विहगस्तत्र तैः सङ्गतोऽभवत् ।
कपिभ्यस्तेन कथितं सीतावृत्तं यथातथम् ॥ २९२ ॥
लङ्केशोपवने सीता शोकाविष्टा वियोगिनी ।
अशोकस्य तरोर्मूले वसतीति निबोधत ॥ २९३ ॥
तन्निवेदितमाकर्ण्य दशमे मासि मार्गके ।
दशम्यां विहितोत्साहो हनूमान् हरिवासरे ॥ २९४ ॥
संध्यायामन्तरायाणि हत्वा पथि पयोनिधेः ।
शतयोजनविस्तीर्णं पय उल्लङ्घ्य विक्रमी ॥ २९५ ॥
लङ्कां ययौ सूक्ष्मवपुरदृश्यतात्मा महासुरैः ।
रात्रेः पाश्चात्यप्रहरे ददर्श नगरीं ततः ॥ २९६ ॥
तस्मिन्नुपवने सीता १मशोकतरुसमाश्रिताम् ।
प्रलपन्तीं रामनाम महाविरहदुःखिताम् ॥ २९७ ॥
२ददर्शावतीर्य विटपात्तदन्तिकमुपागतः ।
मूर्ध्ना कृतप्रणामोऽस्यै निबद्धाञ्जलिरब्रवीत् ॥ २९८ ॥
हनुमानुवाच
अम्बाम्ब मातर्जननि भक्तो रघुपतेरहम् ।
अङ्गुलीयकमेतद्धि प्रभोस्तुभ्यं समर्पये ॥ २९९ ॥
१-२ पादेऽस्मिन्नक्षराधिक्यमार्षम् ।
- २२५ -
इति प्रत्यर्प्य हनुमान् श्रीरामस्याङ्गुलीयकम् ।
तस्याः शिरोभूषणं तच्चूडारत्नं प्रगृह्य सः ॥ ३०० ॥
पुनराश्वास्य तां देवीं ततो वीरः सुनिर्गतः ।
भग्नं तेन त्रयोदश्यां रावणस्योत्तमं वनम् ॥ ३०१ ॥
क्रव्यादाः शतशस्तेन घातिता भुजविक्रमाः ।
स आबद्धश्चेन्द्रजिता ब्रह्मास्त्रेण भृशं रणे ॥ ३०२ ॥
चतुर्दश्यां ततः पुच्छे नियुक्तातुच्छपावकैः ।
प्रज्वालिता तेन लङ्का परिभूतः पुलस्त्यजः ॥ ३०३ ॥
महेन्द्रमचलं प्राप्तो राकायां पवनात्मजः ।
कपीनां पुरतस्तेन सर्वं चरितमीरितम् ॥ ३०४ ॥
सिद्धार्था हरयः सर्वे महेन्द्रगिरितः पुनः ।
व्यावर्त्तिताः पञ्चदिनैरागताः पथि सत्वराः ॥ ३०५ ॥
षष्ठेऽह्नि तैर्मधुवनं सर्वमालोडितं मुहुः ।
सप्तम्यां च मरुत्सूनुः सीतामस्तकभूषणम् ॥ ३०६ ॥
ददौ रघुपतेस्तच्च हृदये निदधे प्रभुः ।
मुमोह विरहेणर्तस्ततोऽष्टम्यां शिरःस्थिते ॥ ३०७ ॥
सूर्ये प्रयाणमातेने उत्तराफाल्गुनीयुते ।
जयाय जयिनां श्रेष्ठो रामः कपिबलैर्वृतः ॥ ३०८ ॥
अधाज्जलनधेस्तीरे स्कन्धावारनिवेशनम् ।
सिन्धोस्तीरे स्थितिरभूत्पौषस्याद्यं दिनत्रयम् ॥ ३०९ ॥
चतुर्थीदिवसे प्राप्तः शरणं च विभीषणः ।
तदैव रघुनाथेन कृतोलङ्काधिपश्च सः ॥ ३१० ॥
अभिषिच्य स्वयं तावत् पयसा तस्य मूर्द्धनि ।
सिन्धोरुल्लङ्घने मन्त्रः सप्तम्यां तैः कृतस्तः ॥ ३११ ॥
रामश्चलक्ष्मणश्चैव सुग्रीवश्च विभीषणः ।
हनुमान् कपयश्चान्ये निबद्धाञ्जलयोऽखिलाः ॥ ३१२ ॥
सिन्धुं ययाचिरेमार्गं यावद्दिनचतुष्टयम् ।
भूत्वा निरशताः सर्वे याचन्तः सरितां पतिम् ॥ ३१३ ॥
अथ क्रुद्धोऽब्रवीद् रामः सौमित्रे धनुरानय ।
अहमेकेन बाणेन जलधिं खलु शोषये ॥ ३१४ ॥
रामं कुपितमालोक्य वेपमानः सरित्पतिः ।
सद्यएवाविरभवत् प्रियोपायनसंयुतः ॥ ३१५ ॥
२९
Here is the line-by-line transcription of the page in Unicode Devanagari:
- २२६ -
शान्ति निनाय शनकैः सामभी रघुपूङ्गवम् ।
सप्रश्रयैश्च वचनैः सेतूपायमदर्शयत् ॥ ३१६ ॥
साश्चर्यैः कपिशार्दूलैर्वीक्ष्यमाणो जगाम सः ।
सहर्षो निलयं प्राप्तो मुदिताः कपयोऽभवन् ॥ ३१७ ॥
ते सर्वे कपयः स्वीयशिरसा सर्वपर्वतान् ।
उच्चैः शृङ्गान् गण्डशैलसहितान् गगनोन्नतान् ॥ ३१८ ॥
नीत्वाक्षिपंस्तोयनिधौ रामनामाङ्कमण्डितान् ।
ते युक्तिपूर्वं निहिता नलहस्तेन वारिधौ ॥ ३१९ ॥
दशम्यां सेतुरारब्धस्त्रयोदश्यां प्रपूरितः ।
दशयोजनविस्तीर्णः शतयोजन लम्बितः ॥ ३२० ॥
तेनोत्तीर्णाः कपिभटाः सर्वे भूतादिने क्रमात् ।
न्यवेशयद् रघुपतिः सुवेलपर्वते बलम्
- २२७ -
तरन्तित्तेऽपि पाथोधौ प्रस्तराः शैलरूपिणः ।
करचालनमात्रेण ये यस्यन्ति मुहुर्मुहुः ॥ ३३१ ॥
तैरियं नगरी नाथ वेष्टिता सर्वतोदिशम् ।
भक्ष्यं यद्रक्षसां तौ च प्राप्तौ क्षयकरौ रिपू ॥ ३३२ ॥
यत्सीमा नामरैर्लङ्घ्या लङ्घिता सापि वानरैः ।
यः सोदरः सोऽपि यातः संगं त्यक्त्वा द्विषोऽन्तिकम् ॥ ३३३ ॥
मन्ये तदधुना जातः कोऽपि कालविपर्ययः ।
येनैकेन हताश्चान्ये राक्षसा ये खरादयः ॥ ३३४ ॥
वाली च निहतो येन ते त्वद्वीर्यबलाधिकाः ।
तस्यापश्यत एवास्य प्रिया हृत्वा त्वमागतः ॥ ३३५ ॥
सोऽयं सेतुं विधायाब्धौ त्रिकूटाचलमागतः ।
कथमन्धायसे नाथ पश्यन् विंशतिलोचनैः ॥ ३३६ ॥
मुक्त्वा शिरांसि भवतश्चिच्छेद छत्रसंहतिम् ।
मन्ये पुलस्त्यवंशेऽस्मिन् रामेण वै कृता कृपा ॥ ३३७ ॥
एकस्तेऽवसरोऽद्यापि संधिं कर्तुं महात्मना ।
समर्पय प्रियतमां रामस्यास्य पतिव्रताम् ॥ ३३८ ॥
जीवन्तु राक्षसाः सर्वे लङ्कापुर्याः शमस्तु च ।
जानासि नाथ सकल बाह्वोर्यद्बालिनोबलम् ॥ ३३९ ॥
एकेन मार्गणेनैष रामेण निहतः क्षणात् ।
तस्य प्रियां च रामस्य हृत्वा त्वं कुधियागतः ॥ ३४० ॥
उत्पादितेयं भवता कृत्या रक्षःकुलक्षये ।
इति मन्दोदरी प्रोच्य विरता कुधियोऽन्तिके ॥ ३४१ ॥
अथ तौ वानरैर्बद्धौ शुकसारणसञ्ज्ञकौ ।
रामस्यादेशतोमुक्तौ प्राप्तौ तौ रावणान्तिकम् ॥ ३४२ ॥
तावूचतुः कपिपते रूपं विस्फूर्जितं महत् ।
जृम्भन्ते वानरवरास्त्वत्पुरीग्रासहेतवे ॥ ३४३ ॥
मैन्दं पश्य प्रभो क्रुद्धस्त्वां पश्यति स उन्मुखः ।
द्विविदोऽयं पुरीमेतां ग्रसन्निव मुखे स्थितः ॥ ३४४ ॥
नीलोऽयं वानरपतिः प्रहस्तमवृणोच्च यः ।
हन्तु कपीनां पुरतः संग्रामविजयी बली ॥ ३४५ ॥
नलोऽयं वानरवरः सेतुर्येन विनिर्मितः ।
एष चाङ्गद ऊर्ध्वाक्षस्तातेन सदृशो बली ॥ ३४६ ॥
- २२८ -
अयं ऋक्षेश्वरो वीरो जाम्बवान् बुद्धिमान् बली ।
निजसेनास्थितो भाति वृद्धो युद्धविशारदः ॥ ३४७ ॥
एकैकोऽप्रतिमो ह्येषां वीर्येण च बलेन च ।
शक्त उर्वीं समुद्धर्तुं का लङ्का तृणपुञ्जवत् ॥ ३४८ ॥
तव चित्ते मतिर्मा भूदेते वानरमर्कटाः ।
आदेशाद्राघवपतेः कोट्यन्तः परितः स्थिताः ॥ ३४९ ॥
एते कपिवरा नाम सर्वदेवपराक्रमाः ।
निरीक्षतां मया चापि रामो वीरः स्वयं स्थितः ॥ ३५० ॥
अक्षहावानरपतेरुत्संगे कृतमस्तकः ।
त्वत्सोदरोक्तं शृण्वानस्तस्याङ्कस्थपदाम्बुजः ॥ ३५१ ॥
आस्ते सुवर्णहरिणचर्मध्यास्य समास्थितः ।
पश्यंस्त्वद्वंशनाशाय विशिखं लक्ष्मणाहृतम् ॥ ३५२ ॥
तस्माद्भवान् गर्ह्यं कर्म कृतवान् नात्र संशयः ।
निधनायात्मनः पीतं विषं हालाहलं त्वया ॥ ३५३ ॥
जानकी देहि लङ्कां च यदि वाञ्छसि जीवितुम् ।
उदितोऽद्य धूमकेतुः क्षयाय ननु रक्षसाम् ॥ ३५४ ॥
तस्माच्छीघ्रं सुतैः सार्द्धं प्रयाहि स्वयमन्यतः ।
विज्ञायास्य बलं धीमान् भ्राता ते शरणं गतः ॥ ३५५ ॥
तस्मै लङ्का प्रसादेन दत्ता नैवात्र संशयः ।
किशोरेण हतायेन ताडका नाम राक्षसी ॥ ३५६ ॥
मुक्ता तेऽवरजा येन ह्रिया तव पितुर्मुनेः ।
निष्कृन्त्य नासिकाकर्णं वीरेन्द्रेण महात्मना ॥ ३५७ ॥
कस्तस्याप्यनयं कृत्वा जीवेत् खलु राक्षसः ।
शिरःश्रेणी क्षितिं गन्ता तव दाशरथेः शरैः ॥ ३५८ ॥
तयोरित्थं वचः श्रुत्वा प्रहस्य खलु रावणः ।
आहूय सकलान् रक्षश्चमूनाथान् सुनिश्चितम् ॥ ३५९ ॥
त्रयोदशीं समारभ्य यावत्पर्वकुहूदिनम् ।
तावत्संख्यां विधायैषां यथास्थानमरोपयत् ॥ ३६० ॥
माघस्याद्यदिने प्राप्ते रामस्यादेशतोऽङ्गदः ।
दूतो भूत्वा महाबुद्धिः सभां रक्षःपतेर्ययौ ॥ ३६१ ॥
उवाच तत्र साक्षेपं रावणस्यपुरो वचः ।
धर्मद्वारेणमार्गेण सबान्धवपशु व्रज ॥ ३६२ ॥
– २२९ –
शृणु रावणलङ्कायां स्थापितोऽत्र विभीषणः।
श्रीरामेण महावीरः शिरोमुकुटभूषिणा ॥ ३६३ ॥
इति कर्णकटून्यद्धा वचांस्याकर्ण्य रावणः।
क्रुद्धोऽङ्गदस्य बन्धाय राक्षसानादिदेश ह ॥ ३६४ ॥
हत्वा बालिसुतः सर्वान् बलेन बलिनो रिपून् ।
भित्त्वा राजशिरोवेश्म गर्जन् यातो नमोऽध्वना ॥ ३६५ ॥
माघे शुक्लद्वितीयातः सप्तम्यवधि चा भवत् ।
अतीव संकुलं युद्धं रक्षोवानरसैन्ययोः ॥ ३६६ ॥
युद्धावहारः समभूत् ततस्तत्र दिनद्वयम् ।
द्वादश्यां हनुमान् जघ्ने धूम्राक्षंनाम राक्षसम् ॥ ३६७ ॥
तेनैव निहतश्चाकम्पक्षयोदश्यां निशाचरः।
चतुर्दशीं समारभ्य नीलेन दिवसैस्त्रिभिः ॥ ३६८ ॥
बलवान् निहतो युद्धे प्रहस्तो नाम राक्षसः।
तत
- २३० -
पञ्चाहं कृतवान् रामो युद्धावहरणं पुनः ।
अष्टमीदिवसात्षड्भिर्दिवसैर्विचरन् रणे ॥ ३७९ ॥
लक्ष्मणेन युद्धं कुर्वन्निन्द्रजिद्विक्रमी हतः ।
ततो १भूतादिने शोकाद् रुरोद खलु रावणः ॥ ३८० ॥
युद्धावहारः समभूद्दिनमेकं सुदुःखतः ।
पञ्चदश्यां ततः प्राप्तो रावणो राक्षसैः सह ॥ ३८१ ॥
युद्धाय वानरान् निघ्नन् कुर्वन् विक्रममुल्बणम् ।
चैत्राद्यदिवसात्पञ्चदिवसे राक्षसाधिपाः ॥ ३८२ ॥
क्षयं नीताः शरै रामलक्ष्मणाभ्यां सुदारुणाः ।
षष्ठीदिवसतोऽष्टम्यां महापार्श्वादयो हताः ॥ ३८३ ॥
लक्ष्मणो हृदि निर्भिन्नः शक्त्या रावणमुक्तया ।
मूर्च्छितोन्य पतद्भूमौ नितरां शक्तिपीडितः ॥ ३८४ ॥
व्यद्रावयद्रणाद्रामो दशास्यं नवमी दिने ।
विशल्यकरणी दिव्यामोषधि हनुमांस्ततः ॥ ३८५ ॥
द्रोणाद्रेरानयत्तस्याः स्पर्शादासीद्विशल्यकः ।
युद्धावहारः समभूततश्च दशमीदिने ॥ ३८६ ॥
रात्रौ युद्धमभूद्भूयः प्रविश्य कपिभिस्ततः ।
लङ्का प्रज्वालिता स्वर्गाद्रथं मातलिरानयत् ॥ ३८७ ॥
तमास्थाय ततो रामो हन्तुं दशमुखं ययौ ।
द्वादश्या दिवसाद् यावद्भूतामष्टादशैर्द्दिनैः ॥ ३८८ ॥
रामरावणयोर्युद्धे रामेण रावणो हतः ।
इत्थं त्रिजगतां शल्यः कण्टकोऽमरराड्जयी ॥ ३८९ ॥
अन्तं नीतो दशमुखः श्रीरामेण महौजसा ।
ततो देवगणाः सर्वे हर्षसम्भृतमानसाः ॥ ३९० ॥
कुसुमैः कल्पतरुजैः श्रीरामं समवाकिरन् ।
माघशुक्लद्वितीयातो यावद्भूतादिनं मधोः ॥ ३९१ ॥
सप्ताशीति दिनान्यासीद् युद्धं पञ्चदशैर्विना ।
वानस्पत्यदिनेष्वासीत्तेषां दाह क्रिया ततः ॥ ३९२ ॥
वैशाखाद्यदिने रामः सुवेलं नाम पर्वतम् ।
जगाम वानरैः साकं जित्वा लङ्काधिपं सुधीः ॥ ३९३ ॥
१. चतुर्दशी टि०--बड़ौ० ।
- २३१ -
वादित्रगीतमाङ्गल्यैर्लङ्कापुर्यां विभीषणः ।
राज्याभिषेकविधिना स्थापितो रामसेवकः ॥ ३९४॥
आनीता च पुरात् सीता श्रीमत्सौमित्रिणा सती ।
अशोकवनिकामध्याद् रामविश्लेषकर्शिता ॥
तृतीयादिवसे रामः सीतां शुद्धयर्थमूचिवान् ॥ ३९५ ॥
श्रीराम उवाच
जानामि नित्यसंशुद्धां त्वामहं जनकात्मजे ।
न ते लीलां विजानन्ति ब्रह्माद्या अपि देवताः ॥ ३९६ ॥
इमां लीलां त्वमकरोर्भूर्भारक्षयहेतवे ।
राक्षसा वानराश्चैव संख्यातीता महीतले ॥ ३९७ ॥
त्वया कृतः क्षयस्तेषां रावणाहरणच्छलात् ।
धर्मस्य स्थापनार्थाय भक्तिपुष्ट्यर्थहेतवः ॥ ३९८ ॥
तथापि जगदज्ञानान्मा नो निन्द्यात् कदाचन ।
अतस्त्वां शोधयिष्यामि दीप्तेऽग्नौ गार्हपत्यके ॥ ३९९ ॥
इति पत्युर्वचः श्रुत्वा पाणौ पाणिं प्रगृह्य च ।
निनाय सा सुवेलादेर्महागह्वरकाननम् ॥ ४०० ॥
विमानं तत्र वै दिव्यमाजगाम महोज्ज्वलम् ।
तमारुरुहतुस्तौ च दम्पती ललनाज्ञया ॥ ४०१ ॥
रामो विमानमारुह्य ललनां न व्यलोकत् ।
विमानवर्यं तद्दिव्यं जगाम व्योमवर्त्मना ॥ ४०२ ॥
सीताकुञ्जं सरय्वां वै रमणीयं प्रतिष्ठितम् ।
यत्र सा काञ्चनीभूमिर्मणिरत्नमहोज्ज्वला ॥ ४०३ ॥
प्रमोदविपिनं नाम वनं यत्र मनोरमम् ।
अनेककुञ्जपुञ्जाढ्यं गुञ्जद्भ्रमरसंकुलम् ॥ ४०४ ॥
कूजत्कोकिलमानन्दि कौककेलिगणावृतम् ।
अनेककल्पवृक्षाढ्यमनर्घ्यरमणीयकम् ॥ ४०५ ॥
यत्र श्रीसहजानन्दरूपेणैषा व्यवस्थिता ।
कल्याणगुणसन्दोहा प्रेमानन्दस्वरूपिणी ॥ ४०६ ॥
ब्रह्मानन्दं तृणीकुर्वद्भक्तसंदोहभूषिता ।
दिव्यप्रासादवरगा कल्पवृक्षतलस्थिता ॥ ४०७ ॥