सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

[ १५० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
शोधनम्—
विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः
दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे तथा ॥
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ ४० ॥
इति तुत्थशुद्धिः । प्रकारान्तरम्—
ओतोर्विशा समं तुत्थं सक्षौद्रं टङ्कणाङ्घ्रियुक् ।
त्रिधैव पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम् ॥ ४१ ॥
प्रकारान्तरम्—
अम्लवर्गेण लुलितं स्नेहसिक्तं हि तुत्थकम् ।
दोलायां वाजिगोमूत्रे दिनं पक्वं विशुध्यति ॥ ४२ ॥
इति तुत्थशुद्धिः । क्वचिन्मारणमप्युक्तं तुत्थकस्य—
गन्धाश्मटङ्कणयुतं लकुचद्रावमर्दितम् ।
अन्धमूषागतं द्वित्रिकुकुटैर्मृतिमाप्नुयात् ॥ ४३ ॥
अथ तुत्थसत्त्वाकृष्टिः—
तुत्थकं टङ्कणयुतं निम्बूद्रवविमर्दितम् ।
अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति ताम्रकम् ॥ ४४ ॥
अथात्र मुद्रिकोपयुक्तत्वेन भूनागस्वरूपं सत्त्वाकृष्टिश्च प्रोच्यते
भूनागः क्षितिनागश्च भुजङ्गो रक्तजन्तुकः ।
क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ४५ ॥
गुणाः—
भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः ।
रसस्य जारणे प्रोक्तं तत्सत्त्वं तु रसायनम् ॥ ४६ ॥
वर्षासु वृष्टिसंक्लिन्नभूगर्भे संभवन्ति हि ।
जन्तवः कृमिरूपा ये ते भूनागा इति स्मृताः ॥ ४७ ॥
चतुर्विधास्तु भूनागाः स्वर्णादिखनिसंभवाः ।
स्वर्णभूमिभवाः पीता रूप्यभूमिभवाः सिताः ॥ ४८ ॥

१२.] । आयुर्वेदप्रकाशः । १५१
ताम्रभूमिभवास्ताम्राः कृष्णा लोहमयीभवाः ।
रसेन्द्रप्राणरूपास्ते भूनागाः सिद्धसंमताः ॥ ४९ ॥
स्वर्णादिभूमिसंभूता दुर्लभास्ते प्रकीर्तिताः ।
ताम्रभूमिभवा प्रायः सुलभा गुणवत्तराः ॥ ५० ॥
उक्तं च—
ताम्रभूभवभूनागान्नि शापिष्टान् समेन तान् ।
गुडगुग्गुलुलाक्षोर्णामत्स्यपिण्याकटङ्कणैः ॥ ५१ ॥
दृढमेतैश्च संयोज्य मर्दयित्वा धमेत्सुखम् ।
मुञ्चन्ति ताम्रवत्सत्त्वं ते, पक्षा अपि बर्हिणाम् ॥ ५२ ॥
ते भूनागाः ॥
भूनागसत्त्वं शिशिरं सर्वकुष्ठव्रणप्रणुत् ।
तद्युक्तजलपानेन स्थावरं चापि जङ्गमम् ॥ ५३ ॥
विषं नश्यति, तत्पात्रगतः सूतोऽग्नितो दृढम् ।
एवं मयूरपक्षोत्थसत्त्वस्यापि गुणा मताः ॥ ५४ ॥
दृढं बध्यते इत्यर्थः । इति भूनागसत्त्वमयूरपक्षसत्त्वगुणाः ॥
प्रकारान्तरेण तुत्थसत्त्वम्—
तुत्थस्य टङ्कणं पादं चूर्णयेन्मधुसर्पिषा ।
तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।
ध्मापितं द्रवते सत्त्वं कीरतुण्डसमप्रभम् ॥ ५५ ॥
इति तुत्थसत्त्वम् । रसपद्धत्यां तुत्थसत्त्वभूनागसत्त्वयोर्मि-
लितयोर्मुद्रिकायाः फलमुक्तम्—
घस्रं पूतिकरञ्जतैलनिहितं पादांशसौभाग्यकं
ध्मातं तुत्थरजोऽथ पात्रपिहितं दीप्तैरलातचयैः ।
यद्वा मानुषनीलकेशनिहितं मुञ्चेत्क्षणात्तुत्थकं
ताम्रं शोणितविन्दुवन्धुरमदो भूनागसत्त्वं तथा ॥५६॥
१ 'सामिकरञ्ज' ख. ।

एताभ्यां रविवासरे रचितया संप्लावितं मुद्रया
पीतं वारि विषद्वयग्रहहरं सद्यः प्रसूतिप्रदम् ।
तद्वत्तत्परिमृष्टसप्ततिलजस्नेहोऽमुना मन्त्रितो
मन्त्रेणाशु निहन्ति शूलमतुलं दृग्दोषभूतग्रहम् ॥ ५७ ॥
सद्यः स्त्रीप्रसवप्रदो निगदितः सद्यो व्रणारोपणो
लिप्तो लोचनयोर्हितो विनिहितः प्राग्भालुकिप्रोदितः ॥
व्याख्या—घस्रमित्यादि । दुर्गन्धिकरञ्जतैले दिनं निहितं
पश्चात्पादांशटङ्कणयुतं पश्चात्तुत्थरजो मर्दितमन्धमूषायां नि-
हितं दीप्तकाष्ठत्रयैर्ध्मातं सत्त्वं मुञ्चति । प्रकारान्तरमाह—यद्वा
मानुषकेशैरेकीकृत्य ध्मातं क्षणात्ताम्रं शोणितबिन्दुबन्धुरं सत्त्वं
मुञ्चेत् । अथैवमेव भूनागसत्त्वं ग्राह्यमित्याह—अदो भूनागेति
एवमेव भूनाग

१२.] आयुर्वेदप्रकाशः । १५३
श्लिष्टमृत्तिकां वा रजनीतोयेन प्रक्षाल्य, क्षुधितं कुक्कुटं
मयूरं वा क्रमेण चारयित्वा, तद्विष्ठां कुडवमात्रां गृहीत्वा,
क्षाराम्लैः सह पेषयित्वा, विशोष्य, खर्परे दत्त्वा, भर्जनं
कुर्यात् । तां मषीं द्रावणवर्गेणैकीकृत्य, मूषामध्ये निवेश्य,
घटिकाद्वयं धमेत् । तस्मिन् शीतीभूते खोटकमाहृत्य प्रक्षाल-
यित्वा रवकान् संगृह्य टङ्कणं दत्त्वा सुवर्णवद्धमेत् । तस्यैकीभू-
तस्य भूनागताम्रस्य मयूरतुत्थताम्रस्य च मिश्रणेन मुद्रिका कार्या,
सा प्रोक्तगुणा भवति । सुवर्णेन युक्ताऽपि वा मुद्रिका कार्या,
साऽप्यचिन्त्यसामर्थ्या भवति । अथ तदुत्पत्तिमृत्तिकादिकं तु
भृङ्गनिर्गुण्डीद्रवैर्द्रावणवर्गेण चैकीकृत्य मर्दयेत्, पश्चाद्दृढ-
मूषायां वटकीकृतं प्रक्षिप्य घटीद्वयं धमेत् । तत्पक्वं विचूर्ण्य
रवकान् भारवत्तरानणून् द्वादशांशताम्रयुक्तान् कृत्वा धामयित्वा
रवकान् कुर्यात् । तेन वज्रादिद्रावणं कुर्यात् । इदं वारद्वयं त्रयं
वज्रे दत्तं द्रुतं भवति । इदं तु वज्रस्य पारदस्य (?) द्रावणार्थे
परमतेजो भवति । गुणास्तु प्रागुक्ताः । इति भूनागसत्त्वनि-
रूपणम् ॥
विशुद्धं तुत्थकं योज्यमञ्जनादौ भिषग्वरैः ।
अथ कांस्यपित्तलयोरुत्पत्तिनामलक्षणगुण-
शोधनमारणानि ।
अष्टभागेन ताम्रेण द्विभागं कुटिलं युतम् ।
एकत्र द्रावितं तत्स्यात्कांस्यं सौराष्ट्रजं शुभम् ॥ ५९ ॥
ताम्रं त्रपुजमाख्यातं कांस्यं घोषं च कंसकम् ।
उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः ॥ ६० ॥
कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा बुधैः ।
संयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः ॥ ६१ ॥

१५४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
यथा—
कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम् ।
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् ॥ ६२ ॥
कांस्यं च द्विविधं प्रोक्तं पुष्पतैलिकभेदतः ।
पुष्पं श्वेततमं तत्र तैलिकं कपिशप्रभम् ।
एतयोः प्रथमं श्रेष्ठं संसेव्यं रोगशान्तये ॥ ६३ ॥
अथ पित्तलम्—
पित्तलं त्वारकूटं स्यादारो रीतिश्च कथ्यते ।
राजरीतिर्ब्रह्मरीतिः कपिला पिङ्गलाऽपि च ॥ ६४ ॥
रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च ।
पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा बुधैः ॥ ६५ ॥
संयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः ।
रीतिका द्विविधा प्रोक्ता तत्राद्या राजरीतिका ॥ ६६ ॥
काकतुण्डी द्वितीया स्यात्तयोराद्या गुणाधिका ।
संतप्ता काञ्जिके क्षिप्ता ताम्रा स्याद्राजरीतिका ॥ ६७ ॥
काकतुण्डी तु कृष्णा स्यान्नासौ सेव्या विजानता ।
श्वेतं दीप्तं मृदुज्योतिः शब्दाढ्यं स्निग्धनिर्मलम् ॥ ६८ ॥
घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् ।
शुद्धा स्निग्धा मृदुः शीता सुरङ्गा मूत्ररूपिणी ।
हिमोपमा शुभा स्वच्छा राजरीतिः प्रकीर्तिता ॥ ६९ ॥
गुणाः—
रीतिकायुगलं रूक्षं तिक्तं च लवणं रसे ।
शोधनं पाण्डुरोगघ्नं क्रिमिघ्नं नातिलेखनम् ॥ ७० ॥
एतस्य भस्म तु निम्बाष्टकचूर्णेन सह भल्लाततिलब्रह्मबीजा-
जमोदाग्निभिः सेवितं जन्तुघ्नं भवति श्वेतकुष्ठहरं च भवति ।

१२.] आयुर्वेदप्रकाशः । १५५
सुवर्णरीतिचूर्णमन्नादिना छागेन भक्षितं तद्विष्ठां खर्परे लिप्त्वा
पश्चात्तत्खर्परं दग्धं रीतिं मुञ्चति । तां रीतिमेकीकृत्य, आवर्त्य,
मुद्रिकां कृत्वा धारयेत् । सा सुवर्णचतुर्दशवर्णतुल्या भवति ।
अथोभयोः शोधनमारणम्—
पत्तलीकृतपत्राणि कांस्यरीत्योः प्रतापयेत् ।
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ ७१ ॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा ।
एवं कांस्यस्य रीतेश्च विशुद्धिः संप्रजायते ॥ ७२ ॥
विशेषशोधनं यथा—
गोमूत्रेण पचेद्यामं कांस्यपत्राणि बुद्धिमान् ।
दृढाग्निना विशुध्यन्ति पक्वान्यम्लद्रवेऽपि वा ॥ ७३ ॥
रीतिस्तप्ता तु निर्गुण्डीरसे श्यामारजोन्विते ।
निषिक्ता शुद्धिमायाति पक्वा वाऽम्लद्रवेऽपि च ॥ ७४ ॥
अथ मारणम्—
अर्कक्षीरेण संपिष्टो गन्धकस्तेन लेपयेत् ।
समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ॥ ७५ ॥
ततो मूषापुटे धृत्वा पुटेद्गजपुटेन च ।
एवं पुटद्वयात्कांस्यं रीतिश्च म्रियते ध्रुवम् ॥ ७६ ॥
अन्यच्च—
कांस्यकं राजरीतिं च ताम्रवच्छोधयेद्भिषक् ।
ताम्रवन्मारणं चापि तयोरुक्तं भिषग्वरैः ॥ ७७ ॥
अथ भर्तसंज्ञं पञ्चलोहं पञ्चरत्ननामकमधि-
कोपधातुर्भवति ।
यथा—
कांस्यं रीतिस्तथा ताम्रं नागो वङ्गश्च पञ्चमः ।
एकत्र द्रावितैरेतैः पञ्चलोहं प्रजायते ॥ ७८ ॥

१५६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
नामानि—
पञ्चलोहं पञ्चरसं वर्तुलं भर्तमित्यपि ।
व्यञ्जनं सूपमन्यच्च तद्भाण्डे साधितं शुभम् ॥ ७९ ॥
आदौ तैलादिके शोध्यं पश्चात्तप्त्वाऽजमूत्रके ।
निषिक्तं शुद्धिमायाति पञ्चलोहं न संशयः ॥ ८० ॥
अर्कक्षीरेण संपिष्टगन्धतालकलेपनात् ।
पञ्चकुम्भिपुटैर्भर्तं म्रियते योगवाहकम् ॥ ८१ ॥
इति भर्तमारणम् ॥
घृतवर्जं बुधैः सर्वं पाच्यं कांस्यस्य पात्रके ।
भोजनं तु प्रशस्तं स्याद्रीतिका मध्यमा स्मृता ॥ ८२ ॥
अथ सिन्दूरम् ।
सिन्दूरं रक्तरेणुश्च नागगर्भं च सीसकम् ।
सीसोपधातुः सिन्दूरं गुणैस्तत्सीसवन्मतम् ॥ ८३ ॥
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः ।
सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम् ।
भग्नसन्धानजननं व्रणशोधनरोपणम् ॥ ८४ ॥
अथ शोधनं; तत्र शोधनयोग्यसिन्दूरलक्षणम्—
सुरङ्गोऽग्निसहः स्निग्धः सूक्ष्मः स्वच्छो गुरुर्मृदुः ।
सुवर्णकिरजः शुद्धः सिन्दूरो मङ्गलप्रदः ।
दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ॥ ८५ ॥
मतान्तरम्—
सिन्दूरं निम्बुकद्रवैः पिष्ट्वा घर्मे विशोषयेत् ।
ततस्तण्डुलतोयेन तथाभूतं विशुद्ध्यति ॥ ८६ ॥
सिन्दूरस्य प्रयोगो हि न दृष्टः कुत्रचित् पृथक् ।
तस्मादुक्तस्थले योज्यमुपदेशो गुरोरिति ॥ ८७ ॥

१२.] आयुर्वेदप्रकाशः । १५७
अथ शिलाजतोरुत्पत्तिनामलक्षणगुणशोधनानि ।
शिलाजतु द्विधा प्रोक्तं तत्राद्यं गिरिसंभवम् ।
द्वितीयं स्यात्क्षारभूम्यां मृत्तिकाजलयोगतः ॥ ८८ ॥
आद्यं यथा—
निदाघे घर्मसंतप्ता धातुसारं धराधराः ।
निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥ ८९ ॥
सौवर्णं राजतं ताम्रमायसं च चतुर्विधम् ।
शिलाजतु हि विज्ञेयं तत्तल्लक्षणलक्षितम् ॥ ९० ॥
सौवर्णं तु जपापुष्पवर्णं भवति शैलजम् ।
मधुरं कटु तिक्तं च शीतलं कटुपाकि च ॥ ९१ ॥
राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च ।
ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते ॥ ९२ ॥
लौहं जटायुपक्षाभं तत्तिक्तं लवणं भवेत् ।
विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥ ९३ ॥
अन्यच्च—
गोमूत्रगन्धि यत्कृष्णं स्निग्धं मृदु तथा गुरु ।
तिक्तं कषायं शीतं च सर्वश्रेष्ठं तदायसम् ॥ ९४ ॥
लक्षणान्तरम्—
यत्तु गुग्गुलुसंकाशं तिक्तं च लवणान्वितम् ।
विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ॥ ९५ ॥
वातपित्ते तु सौवर्णं श्लेष्मपित्ते तु राजतम् ।
ताम्रजं कफरोगेषु लोहजं तन्त्रिदोषनुत् ॥ ९६ ॥
विन्ध्याद्रौ बहुलं तेषु तत्र लौहं यतोऽधिकम् ।
तच्छोधनमृते व्यर्थमनेकमलमेलनात् ॥ ९७ ॥
विशेषगुणाः—
शिलाह्वं कटु तिक्तोष्णं कटुपाकं रसायनम् ।
१४

१५८ आयुर्वेदौयग्रन्थमाला । [अध्यायः
छेदि योगावहं हन्ति कफमेहाश्मशर्कराः ॥ ९८ ॥
मूत्रकृच्छ्रं क्षयं श्वासं वातास्राशांसि पाण्डुताम् ।
अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन् ॥ ९९ ॥
अथाशुद्धशिलाजतुगुणाः-
अशुद्धं दाहमूर्च्छार्यभ्रमपित्तास्रशोफकृत् ।
शिलाजतु प्रकुरुते मान्द्यमग्नेश्च विड्रहम् ॥ १०० ॥
अथ शोधनम्-
शिलाजतु समानीय लोहजं लक्षणान्वितम् ।
वहिर्मलमपाकर्तुं क्षालयेत्केवलाम्बुना ॥ १०१ ॥
अथ तस्यान्तर्मलविनाशोपायमाह हारीतः-
लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत् ।
संतानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय ॥ १०२ ॥
सन्तानिका अन्तःसंमिश्रिता दुष्टमृत्तिका । अत्र भावनार्थं
क्वाथकल्पनामाह वाग्भटः-
तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम् ।
तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ॥ १०३ ॥
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः ।
स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त ॥ १०४ ॥
अथैवं भावनां दत्त्वा, संशोष्य, केवलेन जलेन शोधनं कर्तव्यम्।
तत्प्रकारमाहाग्निवेशः-
उष्णेऽथ काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे ।
चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः १०५
शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद्द्विगुणं च तोयम् ।
उष्णं तदर्धं कथितं च दत्त्वा विशोधयेत्तन्मृदितं यथावत् १०६
सुवस्त्रपूतं प्रविधाय तन्तु संस्थापनीयं पुनरेव तत्र ।
ततस्तु यत्कृष्णमुपैति चोर्ध्वं संतानिकावद्रविरश्मितप्तम् १०७

१२.] आयुर्वेदप्रकाशः । १५९
पात्रे तदन्यत्र ततो विदध्यात्तस्यान्तरे कोष्णजलं निधाय ।
ततश्च तस्साद्परत्र पात्रे तस्साच्च पात्रादपरत्र भूयः ॥ १०८ ॥
पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहतं तत्पुनराहरेच्च ।
यदा विशुद्धं जलमच्छमूर्ध्वं प्रसन्नभावान्मलमेत्यधस्तात् १०९
तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याज्जलशुद्धमेवम् ।
चतुर्थपात्राद्गलितं हि सर्वं परीक्षणं तस्य वदामि भूयः॥११०॥
यथा—
वह्नौ क्षिप्तं तु निर्धूमं पक्त्वा लिङ्गोपमं भवेत् ।
तृणाग्रेणाम्भसि क्षिप्तमधो गलति तन्तुवत् ।
गोमूत्रगन्धि मलिनं शुद्धं ज्ञेयं शिलाजतु ॥ १११ ॥
एवं शुद्धस्य गुणाः प्रागुक्ताः । अथ नामानि—
शिलाजत्विन्द्रजतु च शैलनिर्यास इत्यपि ।
गैरेयमश्मजं चापि गिरिजं शैलधातुजम् ॥ ११२ ॥
अथ शीघ्रकार्यवशात्संक्षिप्तशोधनं यथा—
गोदुग्धत्रिफलाभृङ्गद्रवैः पिष्टं शिलाजतु ।
दिनैकं लोहजे पात्रे शुद्धिमायात्यसंशयम् ॥ ११३ ॥
इति संक्षिप्तशुद्धिः । अथैवं शुद्धस्य गुणोत्कर्षाय भावना
प्रोक्ता—
त्रिफलावारिगोदुग्धमूत्रैर्भाव्यं शिलाजतु ।
स्वल्पं स्वल्पं विधानेन स्थापयेत्काचपात्रके ॥ ११४ ॥
अगुर्वादिशुभैर्धूपैर्धूपयेत्तत्प्रयत्नतः ।
मात्रया शीलयेत्पश्चात्स्निग्धशुद्धो यथाविधि ॥ ११५ ॥
एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम् ।
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥ ११६ ॥
क्षीरेणालोडितं कुर्याच्छीघ्रं रसायनं फलम् ।
हन्याद्रोगानशेषांश्च जीर्णे हितमिताशनः ॥ ११७ ॥

१६० आयुर्वेदौयग्रन्थमाला । [अध्यायः
व्यायामातपमारुतचेतःसंतापगुरुविदाह्यादि ।
उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम् ॥ ११८ ॥
कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् ।
पिवेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ॥ ११९ ॥
न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत्प्रसह्य ।
तत्कालयोगैर्विधिवत्प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति १२०
सर्वानुपानैः सर्वेषु रोगेषु विनियोजितम् ।
जयत्यभ्यासतो नूनं तांस्तान् रोगान्न संशयः ॥ १२१ ॥
रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
विशन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १२२ ॥
अस्य भस्मप्रकारो रसपद्धत्याम्—
शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ।
पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ १२३ ॥
सत्त्वप्रकारस्तु—
पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् ।
रुद्ध्वा मूषोदरे ध्मातं कोकिलैः सत्त्वमृच्छति ॥ १२४ ॥
अथ द्वितीयं शिलाजतु रसपद्धत्याम्—
द्वितीयं सोरकाख्यं स्याच्छ्वेतवर्णं शिलाजतु ।
अंग्रिवाणोपयुक्तं तद्धितं मूत्रामयेषु च ॥ १२५ ॥
उक्तं च—
पाण्डुरं सिकताकारं कर्पूराभं शिलाजतु ।
मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ १२६ ॥
१ रसपद्धत्यामेवं पठ्यते,—“वह्न्युत्तेजनमुज्ज्वलं यदपरं मूत्रामयिभ्यो हि-
तम्”—इति; “वह्न्युत्तेजनमिति यदपरं श्वेतं शिलाजतु तद्वह्न्युत्तेजकं वह्निप्रदी-
पकं; अत्र जठराग्निर्न ग्राह्यः, किंतु अग्निशस्त्राणि, तन्नाग्नेः प्रदीपकः, 'सोरा'
इति लोके प्रसिद्धः, अग्निवाणेषु (अग्न्यस्त्रेषु ‘दारु-वारुद Gunpowder’ इति
प्रसिद्धपदार्थनिर्माणार्थे ) प्रयुज्यते” इति रसपद्धतिटीकायां महादेवः ।

१२.] आयुर्वेदप्रकाशः । १६१
एलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् ।
नैतस्य मारणं सत्त्वपातनं विहितं बुधैः ॥ १२७ ॥
उत्पत्तिस्तु मृत्तिकाविशेषाज्जलविशेषाज्जायते ॥
इत्युपधातुनिरूपणम् ॥
अथ चपलाख्य उपधातुरधिकोऽस्ति । तद्यथा रसपद्धत्याम्—
चत्वारश्चपला सितासितहरिच्छोणप्रभेदैः पुन-
र्मोधौ शोणितशोणकज्जलनिभौ लाक्षावदाशुद्रवात् ।
शेषौ तु द्रवताश्चिरेण सुभगौ तौ शुध्यतः सप्तधा
कर्कोट्यार्द्रकजम्भलस्य सलिले संस्वेदितौ वा प्लुतौ १२८
प्राथम्याद्रसबन्धिनौ तदुपरि स्यातां तु योगानुगौ
वृष्यौ दोषहरौ बुधैर्निगदितौ माक्षीकभूम्युद्भवौ ।
मोघौ निष्फलौ । शेषौ हरितसितौ । सुभगौ गुरुतरौ । प्राथ-
म्यात्प्रथमतस्तु रसबन्धकौ भवतः । शेषं स्पष्टम् । अन्यत्रापि—
चतुर्धा चपलः प्रोक्तः श्वेतः कृष्णोऽरुणो हरित् ।
वङ्गवत्प्लुवते वह्नौ चपलस्तेन कीर्तितः ॥ १२९ ॥
गुणाः—
चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः ।
त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥ १३० ॥
अयं तूपरसे कैश्चित्पठितोऽन्यै रसेषु च ।
विषोपविषधान्याम्लैर्मर्दितश्चपलस्ततः ।
अन्धमूषागतो ध्मातः सत्त्वं मुञ्चति कार्यकृत् ॥ १३१ ॥
इति चपलः ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे द्वादशोऽध्यायः ॥ १२ ॥

१६२ आयुर्वेदauthor ग्रंथमाला । [ अध्यायः
अथ त्रयोदशोऽध्यायः ।
अथ रत्नोपरत्नानामुत्पत्तिनामलक्षणगुणशोधनमारणानि ।
उक्तं च—
मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः ।
देहस्य धारका नृणां जराव्याधिविनाशनः ॥ १ ॥
रत्ननिरुक्तिः—
धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् ।
[हस्तलिखित: मृच्छकटिक से] अतो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ २ ॥
अथ रत्ननामानि स्वरूपनिरूपणं च—
रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते ।
तत्तु पाषाणभेदोऽस्ति वज्रादि च तदुच्यते ॥ ३ ॥
रसपद्धत्याम्—
वज्रं विद्रुममौक्तिके मरकतं वैडूर्यगोमेदके
माणिक्यं हरिनीलपुष्पदृषदौ रत्नानि नाम्ना नव ।
यान्यन्यान्यपि सन्ति कानिचिदिह त्रैलोक्यसीम्नि स्फुटं
नाम्ना तान्युपरत्नतान्युपगतान्याहुः परीक्षाकृतः ॥ ४ ॥
वज्रं हीरकः, विद्रुमं प्रवालं, मौक्तिकं मुक्ता, मरकतं
गरुडोद्गारः 'पन्ना' इति भाषा, वैडूर्यं विदुरमणिः, गोमेदः
अनेनैव नाम्ना प्रसिद्धः, माणिक्यं पद्मरागः, हरिनीलः इन्द्र-
नीलः, पुष्पदृषत् पुष्परागः । शेषं स्पष्टम् ॥
विष्णुधर्मोत्तरेऽपि—
मुक्ताफलं हीरकं च वैडूर्यं पद्मरागकम् ।
पुष्परागं च गोमेदं नीलं गारुत्मतं तथा ।
प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥ ५ ॥ इति ॥
उपरत्नान्यन्यत्र—
वैक्रान्तः सूर्यकान्तश्च चन्द्रकान्तस्तथैव च ।
राजावर्तो लालसंज्ञः पेरोजाख्यस्तथाऽपरः ॥ ६ ॥

१३.] आयुर्वेदप्रकाशः । १६३
मुक्ताशुक्तिस्तथा शङ्खकर्पूराश्माऽथ काचजाः ।
नीलपीतादिमणयोऽप्यन्ये विषहरा हि ये ॥ ७ ॥
वह्न्यादिस्तम्भका ये च ते सर्वे हि परीक्षकैः ।
उपरत्नेषु गणिता मणयो लोकविश्रुताः ॥ ८ ॥
अथ रत्नानां नामानि—
हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः ।
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ॥ ९ ॥
माणिक्यं पद्मरागः स्याच्छोणरक्तं च लोहितम् ।
पुष्परागो मञ्जुमणिः स्याद्वाचस्पतिवल्लभः ॥ १० ॥
इन्द्रनीलं च नीलं च, गोमेदः पीतरक्तकम् ।
वैडूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम् ॥ ११ ॥
मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलं च तत् ।
पुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः ॥ १२ ॥
शुक्तिः शङ्खो गजक्रोडः फणिर्मत्स्यश्च दर्दुरः ।
वेणुश्चाष्टौ समाख्याता सुज्ञैर्मौक्तिकयोनयः ॥ १३ ॥
अथ हीरकोत्पत्तिलक्षणानि ।
दधीच्यस्थ्नः समुत्पन्नः पविस्तस्य कणाः क्षितौ ।
विकीर्णास्ते तु वज्राख्यां भजन्ते तच्चतुर्विधम् ॥ १४ ॥
श्वेतं द्विजाभिधं रक्तं क्षत्रियाख्यं तदीरितम् ।
पीतं वैश्याख्यमुदितं कृष्णं स्याच्छूद्रसंज्ञकम् ॥ १५ ॥
विप्रो रसायने प्रोक्तः सर्वसिद्धिप्रदायकः ।
क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः परः ॥ १६ ॥
वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् ।
शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च ॥ १७ ॥
स्त्रीपुंनपुंसकाश्चैते लक्षणीयाश्च लक्षणैः ।
सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः ॥ १८ ॥

१६४ आयुर्वेदग्रन्थमाला । [ अध्यायः
पुरुषा हीरकास्ते वै रेखाविन्दुविवर्जिताः ।
रेखाविन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः ॥ १९ ॥
त्रिकोणाश्च सुदीर्घाश्च विज्ञेयास्ते नपुंसकाः ।
सर्वेषु पुरुषा श्रेष्ठा वेधका रसबन्धकाः ॥ २० ॥
स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः ।
नपुंसकास्त्ववीर्याः स्युरकामाः सत्त्ववर्जिताः ॥ २१ ॥
स्त्रियः स्त्रीभ्यः प्रदातव्या क्लीवान् क्लीवे प्रयोजयेत् ।
सर्वेभ्यः पुरुषा योज्या बलाढ्या वीर्यवर्धनाः ॥ २२ ॥
अथ रसपद्धत्यां हीरकोत्पत्तिरन्यथोक्ता । यथा—
जातः प्राग्बलनामको दितिसुतोऽवध्यस्त्रिलोक्यां पुन-
दैवैर्देहमयं मखे मणितनुः सर्वात्मना याचितः ।
दत्त्वाऽथ स्वशरीरमव्यथमयं धीरः सुराणां पुर-
स्तस्थौ तैः स तु सप्ततन्तुभुजिभिः स्वर्गेश्वरायार्पितः २३
चिच्छेदाथ शिरोऽस्य वज्रशिरसो वज्रेण वज्री पुन-
र्भूतो रत्नसमुच्चयो बल इति स्माहुः पुराणर्षयः ।
मूर्ध्न वा वदनादमुष्य पवयो ये जज्ञिरे ते द्विजा
बाहुभ्यामुरसोऽस्य ये समभवंस्ते संस्मृताः क्षत्रियाः २४
नाभीतः कटितश्च ये निपतितास्ते नाम भूमिस्पृशो
जानुद्वन्द्वपदद्वयप्रपतितास्ते नाम शूद्रा मताः ॥ २५ ॥
प्राक् कृतयुगे । मखे तत्कृतयज्ञे । अजेयत्वाच्छत्रोरयं
देहयाचनावसर इति भावः । सप्ततन्तुभुजिभिर्यज्ञभुग्भिः ।
शेषं स्पष्टम् । पुनः प्रकारान्तरेण हीरकोत्पत्तिः—
पूर्वं मन्दरमथ्यमानजलधिप्रत्युत्थिता या सुधा
तां प्रायः पिबतः सुरासुरगणस्यास्यादिमे बिन्दवः ।
ये भूमौ पतिता विकर्तनकरव्रातैः पुनः शोषिता-
स्ते वज्राण्यभवञ्जनुर्ननु पवेरित्यूचिरे केचन ॥ २६ ॥
१ विकर्तनः सूर्यः, तत्करव्राताः किरणसमूहाः, तैः ।

१३.] आयुर्वेदप्रकाशः । १६५
स्पष्टम् । अत्र युगभेदेन व्यवस्था; अस्तु वा त्रिभ्य उत्पत्तिः,
तथा सति किं बाधकम् । अथैवमुत्पत्तिमुक्त्वा हीरकस्याष्ट-
प्रकारकं विज्ञानमाह—
उत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं
मूल्यं मण्डलिकेति रत्नदृपदां ज्ञानं वरं चाष्टधा ।
अत्रैकप्रसरेण नोक्तमपि तत्तत्परीक्षास्थल-
श्लोकश्लोकितमेकशः खलु विदांकुर्वन्तु वैज्ञानिकाः॥२७
मण्डली रत्नपरीक्षकाणां सभा । उत्पत्त्यादिकं भिन्नभिन्न-
श्लोकोक्तमपि परीक्षावसरे एकशः एकत्र विदांकुर्वन्तु जानन्त्वि-
ति । एतेन समस्तश्लोकैर्व्यस्तश्लोकैरपि एकीभूतैरिव हीरकप-
रीक्षा कर्तव्येति भावः । भूमिं प्रतिपाद्य पवेर्भेदानाह—
ब्रह्मक्षत्रियवैश्यशूद्रविभिदा ज्ञेयाश्चतुर्धा पवेः
पुंस्त्रीक्लीवविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा ।
तत्र श्वेतरुचिर्द्विजः स्फटिकवद्रक्तस्तु किंचिन्नृपो
वैश्यः पीतरुगङ्घ्रिजस्त्वसितभास्तत्राप्ययं पूरुषः ॥२८॥
रेखाविन्दुविवर्जितोऽष्टफलकः स्वच्छच्छवियों भवे-
त्सा स्त्री या तु षडस्रबिन्दुसहितो रेखान्वितोदाहृतः ।
निष्कोणाश्विपिटास्त्रिकोणवपुषो दीर्घा विपुंस्त्वा पुन-
र्धेयाः स्त्रीनृनपुंसकैर्युवतिपुंषण्डाभिधानाः क्रमात् २९
व्याख्या—यः स्फटिकवच्छ्वेतरुचिः स द्विजः, यः किंचि-
द्रक्तः स नृपः क्षत्रियः, शेषं स्पष्टम् । अथोत्तमपवेः संधार-
णादिभिर्धर्मार्थौ भवत इत्याह—
यद्वेदाध्ययनात्क्रतोरपि कृतेर्दानस्य वा यत्फलं
तत्प्राप्नोति पुमानतो वरतनोर्वज्रस्य संधारणात् ।
१ 'वदन्त्यष्टधा' ग. । २ 'अथैकप्रसरेण' ग. । ३ 'तज्ज्ञानं' ग. ।

१६६ आयुर्वेदियग्रन्थमाला। [अध्यायः
चातुर्वर्ण्यपरिग्रहादपि चतुर्वर्णाश्रयश्रेयसा
संयुक्तामुररीकरोतु न कथंकारं स भूतिं पराम् ॥३०॥
अथ शूद्रवर्णोऽपि पविर्द्विजवर्णात्पवेरधिक इत्याह—
शूद्रादप्यधमो द्विजो यदि गुणैर्हीनः पविर्ब्राह्मणा-
दप्युच्चैरयमर्घमर्हति पुनः शूद्रो गुणैर्गौरवात् ।
आधिव्याधिसरीसृपानलरिपुव्याघ्रापमृत्युग्रहा-
स्तं नैवाभिभवन्ति यस्य सदने तिष्ठेत्पवित्रः पविः ३१
अथ पवेर्दोषांनुपदिशति—
बिन्दुः काकपदं यवः किल मलो रेखेति नाम्नोदिता
दोषाः पञ्च पवेरथात्र कथिता बिन्दुः समो बिन्दुना ।
कृष्णो रक्त इति क्रमेण स पुनर्द्वेधा मतो वर्तुला-
वर्ताकारभिदा ग्रहीतुरफलः शस्तो न सर्व

४. चतुर्थ-पञ्चम अध्याय: रत्न-उपरत्न भस्म, यन्त्र-मूषा निर्माण एवं ग्रन्थ उपसंहार

१३.] आयुर्वेदप्रकाशः । १६७
अथ तासां निन्दामाह—
सव्या तत्र शुभा पराः पुनरमूर्दौर्भाग्यदा वर्तुले-
ऽप्यन्तर्भेदिनि लग्नकोणिनि पवौ दोषास्त्वकिंचित्कराः ।
अत्रोक्तानां दोषाणामपवादमाह—वर्तुलेत्यादि । एवंभूते
वज्रे अकिंचित्करा निष्फला इत्यर्थः । अथ पवेर्गुणानु-
दिशति—
अच्छत्वं लघुता तथाऽष्टफलता षट्कोणता तीक्ष्णताऽ-
प्येतान् पञ्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ॥३५
उत्तमे पवौ अच्छत्वमादर्शादिवत्, लघुता तुपवत्, अष्ट-
फलकता अष्टफलकता, तीक्ष्णता अन्यमणिभेदकता, एते पञ्च
गुणाः । अथोपसंहारव्याजेन खनिं निरूपयति—
जातिः प्राक्तु निरूपिता जनिरपि प्रोक्ता खनिस्त्वष्टधा
द्वे द्वे तत्र युगे युगे प्रभवतस्तत्रादिमे कोशलः ।
कालिङ्गस्तदनन्तरे निगदितो वङ्गस्तथा मालवः
सौराष्ट्रो मणिपुण्ड्रकस्त्वथ कलौ सोपारवज्राकरौ ३६
आदिमे कृतयुगे, कोशलः कोशलदेशः कालिङ्गदेशश्च;
त्रेतायुगे वङ्गदेशः मालवश्च; द्वापरे सौराष्ट्रदेशः मणिपुण्ड्रक-
पर्वतश्च; कलौ तु सोपारदेशः वज्राकरो वैरागरश्च 'वैरागड'
इति भाषा । अथ मौल्यज्ञानार्थं मानपरिभाषामाह—
चत्वारः सितसर्षपाः पनसिका, ते द्वे पुनस्तन्दुल-
स्ताभ्यामेव यवो, यवः¹ पुनरयं पिण्डोऽस्ति किंचित्पृथुः ।
पिण्डो गात्रमिति द्विधा पविवपुः संज्ञाऽस्य संज्ञाभिमां
ज्ञात्वा मानमिदं² च तोलनिकया संतोल्य मौल्यं वदेत् ॥३७
१ 'यवः पुनरिति पिण्डशब्दः स्थौल्यवाचकः, अयं वंशयववत्स्थूलः, अ-
धिको वा किंचित्' इति रसपद्धतिटीकायां महादेवः । २ 'मानकदण्डतो
वत महन्मध्याल्पमौल्यं वदेत्' इति रसपद्धत्यां पाठः ।

र्द्धितमस्य- that'sद्विद्वि. Here, look at द्दैorर्दर्घ: The first letter has a top horizontal, down, loop/curl... it's a द! Underneath or next to it: another द? Wait, look at दinप्रतिदेशमस्ति(line 2): standardद. Here, it's द्+दै->द्दै! Wait, but does it have two slants? Look at the top of the letter: there is one slant? No, look: There is a repha र्above? Wait, let's look at the transliteration of this standard verse in Rasashastra literature! Search memory for the verse:स्याच्चेत्साङ्घ्रियवोपमः पविरथो माने गुरुस्तण्डुलः क्षीयेतास्य मणेरथ द्विगुणितं मौल्यं क्षयेऽयं क्रमः । इत्थं युक्तिबलाद्विचार्य चतुरो मौल्यं मणेरादिशे- ......... वज्रवर्ष्मणि यथा दोषे क्षयं कल्पयेत् ॥४३॥`

What is that missing quarter?
Meter is Śārdūlavikrīḍita:
--~ ~~- - ~~- --~ --~ -
Let's scan line 23-24:
इत्

१३.] आयुर्वेदप्रकाशः । १६९
यावत्स्याद्गुणिनस्ततस्त्वगुणिनो वृद्धेश्चतस्रः कला-
श्छेत्तव्याः कुशलेन देशसमयद्रव्यात्मविज्ञानिना ॥४४॥
अथ मौल्यप्रयोक्तुर्गुणानाह—
कर्मज्ञो लघुपाणिरर्थविमुखः शास्त्रप्रवीणो गुणी
निःसंदिग्धमतिर्विदेशविधिविन्मौल्यप्रयोक्ता भवेत् ।
अज्ञानादविचार्य मौल्यमधमः कुर्यान्मणेः कुत्सितं
कुष्ठी सोऽत्र भवेदमुत्र स पुनर्गच्छेन्महारौरवम् ॥४५॥
कर्मज्ञ इत्यादि । लघुपाणिर्येन गृहीत्वा दत्तं गुणाय भवति
सः, अर्थविमुखः मध्येऽकापट्यं कृत्वा स्थितो यस्तादृशः, गुणी
ऊहापोहविचारचतुरः, निःसंदिग्धमतिः अनेकरत्नग्रहणेन
जातमतिः, विदेशविधिवित् देशान्तरस्थभाषामौल्यादिज्ञः ।
एवं प्रयोक्ता रत्नमौल्यस्य भवेत् । अथैतादृक्चातुर्याभावे प्रयो-
क्तुर्दोषमाह—अज्ञानादिति । अमुत्र परलोके, महारौरवं नर-
कम् । अथ मुद्रादौ पविविन्यासप्रकारमाह—
यत्स्यादङ्गममुष्य निम्नमुदितं सद्भिः शिरस्तत्पवे-
र्विस्तीर्णं तु तलं ततः स शिरसा योज्योऽङ्गुलीयादिषु ।
व्याख्या—यदमुष्य हीरकस्य निम्नमङ्गं गभीरं सद्भिस्त-
च्छिद्र उदितं, विस्तीर्णं तु तलमुदितम् । अङ्गुलीयादिषु
मुद्रिकादिषु शिरसैव योज्यो न तलेन ।
परीक्षाप्रकारमाह—
वामं वामविलोचनः करतलं विस्तार्य तस्मिन् पविं
तर्जन्या परिचालयेदवहितः प्रायस्तलेन स्थितः ॥ ४६ ॥
अवहितः पण्डितः, वामं करतलं विस्तार्य, तस्मिन् पविं त-
र्जन्या परिचालयेत् । कीदृशः ? वामविलोचनः वक्रदृष्टिः सन्नेव ।
प्रायस्तलेन नीचत्वेनावस्थितः । किं विचारणीयं तदाह—
१५