सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 174, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 174

१२.] आयुर्वेदप्रकाशः । १५५
सुवर्णरीतिचूर्णमन्नादिना छागेन भक्षितं तद्विष्ठां खर्परे लिप्त्वा
पश्चात्तत्खर्परं दग्धं रीतिं मुञ्चति । तां रीतिमेकीकृत्य, आवर्त्य,
मुद्रिकां कृत्वा धारयेत् । सा सुवर्णचतुर्दशवर्णतुल्या भवति ।
अथोभयोः शोधनमारणम्—
पत्तलीकृतपत्राणि कांस्यरीत्योः प्रतापयेत् ।
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ ७१ ॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा ।
एवं कांस्यस्य रीतेश्च विशुद्धिः संप्रजायते ॥ ७२ ॥
विशेषशोधनं यथा—
गोमूत्रेण पचेद्यामं कांस्यपत्राणि बुद्धिमान् ।
दृढाग्निना विशुध्यन्ति पक्वान्यम्लद्रवेऽपि वा ॥ ७३ ॥
रीतिस्तप्ता तु निर्गुण्डीरसे श्यामारजोन्विते ।
निषिक्ता शुद्धिमायाति पक्वा वाऽम्लद्रवेऽपि च ॥ ७४ ॥
अथ मारणम्—
अर्कक्षीरेण संपिष्टो गन्धकस्तेन लेपयेत् ।
समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ॥ ७५ ॥
ततो मूषापुटे धृत्वा पुटेद्गजपुटेन च ।
एवं पुटद्वयात्कांस्यं रीतिश्च म्रियते ध्रुवम् ॥ ७६ ॥
अन्यच्च—
कांस्यकं राजरीतिं च ताम्रवच्छोधयेद्भिषक् ।
ताम्रवन्मारणं चापि तयोरुक्तं भिषग्वरैः ॥ ७७ ॥
अथ भर्तसंज्ञं पञ्चलोहं पञ्चरत्ननामकमधि-
कोपधातुर्भवति ।
यथा—
कांस्यं रीतिस्तथा ताम्रं नागो वङ्गश्च पञ्चमः ।
एकत्र द्रावितैरेतैः पञ्चलोहं प्रजायते ॥ ७८ ॥