सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 179, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 179

१६० आयुर्वेदौयग्रन्थमाला । [अध्यायः
व्यायामातपमारुतचेतःसंतापगुरुविदाह्यादि ।
उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम् ॥ ११८ ॥
कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् ।
पिवेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ॥ ११९ ॥
न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत्प्रसह्य ।
तत्कालयोगैर्विधिवत्प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति १२०
सर्वानुपानैः सर्वेषु रोगेषु विनियोजितम् ।
जयत्यभ्यासतो नूनं तांस्तान् रोगान्न संशयः ॥ १२१ ॥
रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
विशन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १२२ ॥
अस्य भस्मप्रकारो रसपद्धत्याम्—
शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ।
पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ १२३ ॥
सत्त्वप्रकारस्तु—
पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् ।
रुद्ध्वा मूषोदरे ध्मातं कोकिलैः सत्त्वमृच्छति ॥ १२४ ॥
अथ द्वितीयं शिलाजतु रसपद्धत्याम्—
द्वितीयं सोरकाख्यं स्याच्छ्वेतवर्णं शिलाजतु ।
अंग्रिवाणोपयुक्तं तद्धितं मूत्रामयेषु च ॥ १२५ ॥
उक्तं च—
पाण्डुरं सिकताकारं कर्पूराभं शिलाजतु ।
मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ १२६ ॥
१ रसपद्धत्यामेवं पठ्यते,—“वह्न्युत्तेजनमुज्ज्वलं यदपरं मूत्रामयिभ्यो हि-
तम्”—इति; “वह्न्युत्तेजनमिति यदपरं श्वेतं शिलाजतु तद्वह्न्युत्तेजकं वह्निप्रदी-
पकं; अत्र जठराग्निर्न ग्राह्यः, किंतु अग्निशस्त्राणि, तन्नाग्नेः प्रदीपकः, 'सोरा'
इति लोके प्रसिद्धः, अग्निवाणेषु (अग्न्यस्त्रेषु ‘दारु-वारुद Gunpowder’ इति
प्रसिद्धपदार्थनिर्माणार्थे ) प्रयुज्यते” इति रसपद्धतिटीकायां महादेवः ।