आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 186, कुल 232 में से
संदर्भ में पढ़ें१३.] आयुर्वेदप्रकाशः । १६७
अथ तासां निन्दामाह—
सव्या तत्र शुभा पराः पुनरमूर्दौर्भाग्यदा वर्तुले-
ऽप्यन्तर्भेदिनि लग्नकोणिनि पवौ दोषास्त्वकिंचित्कराः ।
अत्रोक्तानां दोषाणामपवादमाह—वर्तुलेत्यादि । एवंभूते
वज्रे अकिंचित्करा निष्फला इत्यर्थः । अथ पवेर्गुणानु-
दिशति—
अच्छत्वं लघुता तथाऽष्टफलता षट्कोणता तीक्ष्णताऽ-
प्येतान् पञ्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ॥३५
उत्तमे पवौ अच्छत्वमादर्शादिवत्, लघुता तुपवत्, अष्ट-
फलकता अष्टफलकता, तीक्ष्णता अन्यमणिभेदकता, एते पञ्च
गुणाः । अथोपसंहारव्याजेन खनिं निरूपयति—
जातिः प्राक्तु निरूपिता जनिरपि प्रोक्ता खनिस्त्वष्टधा
द्वे द्वे तत्र युगे युगे प्रभवतस्तत्रादिमे कोशलः ।
कालिङ्गस्तदनन्तरे निगदितो वङ्गस्तथा मालवः
सौराष्ट्रो मणिपुण्ड्रकस्त्वथ कलौ सोपारवज्राकरौ ३६
आदिमे कृतयुगे, कोशलः कोशलदेशः कालिङ्गदेशश्च;
त्रेतायुगे वङ्गदेशः मालवश्च; द्वापरे सौराष्ट्रदेशः मणिपुण्ड्रक-
पर्वतश्च; कलौ तु सोपारदेशः वज्राकरो वैरागरश्च 'वैरागड'
इति भाषा । अथ मौल्यज्ञानार्थं मानपरिभाषामाह—
चत्वारः सितसर्षपाः पनसिका, ते द्वे पुनस्तन्दुल-
स्ताभ्यामेव यवो, यवः¹ पुनरयं पिण्डोऽस्ति किंचित्पृथुः ।
पिण्डो गात्रमिति द्विधा पविवपुः संज्ञाऽस्य संज्ञाभिमां
ज्ञात्वा मानमिदं² च तोलनिकया संतोल्य मौल्यं वदेत् ॥३७
१ 'यवः पुनरिति पिण्डशब्दः स्थौल्यवाचकः, अयं वंशयववत्स्थूलः, अ-
धिको वा किंचित्' इति रसपद्धतिटीकायां महादेवः । २ 'मानकदण्डतो
वत महन्मध्याल्पमौल्यं वदेत्' इति रसपद्धत्यां पाठः ।