आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 170, कुल 232 में से
संदर्भ में पढ़ें१२.] । आयुर्वेदप्रकाशः । १५१
ताम्रभूमिभवास्ताम्राः कृष्णा लोहमयीभवाः ।
रसेन्द्रप्राणरूपास्ते भूनागाः सिद्धसंमताः ॥ ४९ ॥
स्वर्णादिभूमिसंभूता दुर्लभास्ते प्रकीर्तिताः ।
ताम्रभूमिभवा प्रायः सुलभा गुणवत्तराः ॥ ५० ॥
उक्तं च—
ताम्रभूभवभूनागान्नि शापिष्टान् समेन तान् ।
गुडगुग्गुलुलाक्षोर्णामत्स्यपिण्याकटङ्कणैः ॥ ५१ ॥
दृढमेतैश्च संयोज्य मर्दयित्वा धमेत्सुखम् ।
मुञ्चन्ति ताम्रवत्सत्त्वं ते, पक्षा अपि बर्हिणाम् ॥ ५२ ॥
ते भूनागाः ॥
भूनागसत्त्वं शिशिरं सर्वकुष्ठव्रणप्रणुत् ।
तद्युक्तजलपानेन स्थावरं चापि जङ्गमम् ॥ ५३ ॥
विषं नश्यति, तत्पात्रगतः सूतोऽग्नितो दृढम् ।
एवं मयूरपक्षोत्थसत्त्वस्यापि गुणा मताः ॥ ५४ ॥
दृढं बध्यते इत्यर्थः । इति भूनागसत्त्वमयूरपक्षसत्त्वगुणाः ॥
प्रकारान्तरेण तुत्थसत्त्वम्—
तुत्थस्य टङ्कणं पादं चूर्णयेन्मधुसर्पिषा ।
तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।
ध्मापितं द्रवते सत्त्वं कीरतुण्डसमप्रभम् ॥ ५५ ॥
इति तुत्थसत्त्वम् । रसपद्धत्यां तुत्थसत्त्वभूनागसत्त्वयोर्मि-
लितयोर्मुद्रिकायाः फलमुक्तम्—
घस्रं पूतिकरञ्जतैलनिहितं पादांशसौभाग्यकं
ध्मातं तुत्थरजोऽथ पात्रपिहितं दीप्तैरलातचयैः ।
यद्वा मानुषनीलकेशनिहितं मुञ्चेत्क्षणात्तुत्थकं
ताम्रं शोणितविन्दुवन्धुरमदो भूनागसत्त्वं तथा ॥५६॥
१ 'सामिकरञ्ज' ख. ।