सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 184, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 184

१३.] आयुर्वेदप्रकाशः । १६५
स्पष्टम् । अत्र युगभेदेन व्यवस्था; अस्तु वा त्रिभ्य उत्पत्तिः,
तथा सति किं बाधकम् । अथैवमुत्पत्तिमुक्त्वा हीरकस्याष्ट-
प्रकारकं विज्ञानमाह—
उत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं
मूल्यं मण्डलिकेति रत्नदृपदां ज्ञानं वरं चाष्टधा ।
अत्रैकप्रसरेण नोक्तमपि तत्तत्परीक्षास्थल-
श्लोकश्लोकितमेकशः खलु विदांकुर्वन्तु वैज्ञानिकाः॥२७
मण्डली रत्नपरीक्षकाणां सभा । उत्पत्त्यादिकं भिन्नभिन्न-
श्लोकोक्तमपि परीक्षावसरे एकशः एकत्र विदांकुर्वन्तु जानन्त्वि-
ति । एतेन समस्तश्लोकैर्व्यस्तश्लोकैरपि एकीभूतैरिव हीरकप-
रीक्षा कर्तव्येति भावः । भूमिं प्रतिपाद्य पवेर्भेदानाह—
ब्रह्मक्षत्रियवैश्यशूद्रविभिदा ज्ञेयाश्चतुर्धा पवेः
पुंस्त्रीक्लीवविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा ।
तत्र श्वेतरुचिर्द्विजः स्फटिकवद्रक्तस्तु किंचिन्नृपो
वैश्यः पीतरुगङ्घ्रिजस्त्वसितभास्तत्राप्ययं पूरुषः ॥२८॥
रेखाविन्दुविवर्जितोऽष्टफलकः स्वच्छच्छवियों भवे-
त्सा स्त्री या तु षडस्रबिन्दुसहितो रेखान्वितोदाहृतः ।
निष्कोणाश्विपिटास्त्रिकोणवपुषो दीर्घा विपुंस्त्वा पुन-
र्धेयाः स्त्रीनृनपुंसकैर्युवतिपुंषण्डाभिधानाः क्रमात् २९
व्याख्या—यः स्फटिकवच्छ्वेतरुचिः स द्विजः, यः किंचि-
द्रक्तः स नृपः क्षत्रियः, शेषं स्पष्टम् । अथोत्तमपवेः संधार-
णादिभिर्धर्मार्थौ भवत इत्याह—
यद्वेदाध्ययनात्क्रतोरपि कृतेर्दानस्य वा यत्फलं
तत्प्राप्नोति पुमानतो वरतनोर्वज्रस्य संधारणात् ।
१ 'वदन्त्यष्टधा' ग. । २ 'अथैकप्रसरेण' ग. । ३ 'तज्ज्ञानं' ग. ।