अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
[ ५० ]
अथ त्रयोदशोऽध्यायः ।
पिण्डः ।
कटुका च जयन्ती च भ्रामरी सुरसा¹ घनाः ।
पञ्चामृतमयः पिण्डो वाजिनामयमिष्टकृत् ॥ १ ॥
एला शतघ्नी² सुरसा काकजङ्घा³ शतावरी ।
माक्षिकं ससितं पिण्डः पित्तयुक्ते⁴ हि वाजिनि ॥ २ ॥
माक्षिकं⁵ सैन्धवं मुस्ता गोमूत्रं च हरीतकी ।
समभागेन पिण्डोऽयमुक्तो वह्निप्रदीपकः ॥ ३ ॥
कंकोलं⁶ केतकी द्राक्षा शर्करा मधुयष्टिका ।
दत्तो घृतयुतः पिण्डः पुष्टिं नयति वाजिनः⁷ ॥ ४ ॥
मत्स्यमांसेन संयुक्तं ग्रावचूर्णं⁸ घृतप्लुतम् ।
बलहीनस्य वाहस्य पिण्डोऽयं बलवर्धनः ॥ ५ ॥
वला मद्यं⁹ दधि क्षौद्रं भक्षयंस्तुरगो भवेत्¹⁰ ।
अतिवृद्धोऽपि सूक्ष्मोऽपि यथा¹¹ षट्सप्तवार्षिकः ॥ ६ ॥
१ । सरसा । खः ।
२ । स्तनघ्नी । कः ।
३ । काकजंघा । कः ।
४ । पित्तयुक्तस्य वाजिनः । कः ।
५ । संशयाखिलरोगेषु गोमूत्रेषु । कः ।
६ । कंकोली । कः ।
७ । वाजिनाम् । खः ।
८ । माषचूर्णं । कः ।
९ । चूर्णमिष्टं । कः ।
१० । भटम् । कः ।
११ । भवेद्यत्सप्तवार्षिकः । कः ।
१३ अध्यायः ।] पिण्डविवरणम् । ५१
मेथिका¹ धातकी काली सारणी² वीजपूरकः ।
पिण्डो दत्तो वराश्वानां तेजोवृद्धिकरः स्मृतः ॥ ७ ॥
कटुका मद्यसंमिश्रा धात्री लोभ्रगुड़ान्विता ।
दत्ता³ पिण्डविधानेन वाजिनां सुखवृद्धिदा ॥ ८ ॥
त्रिफला कटुका मुस्ता विड़ङ्गानि च चित्रकम् ।
सदालस्यसमेतानां वाजिनां पिण्ड आर्त्तिहृत् ॥ ९ ॥
वचा विदलिताः⁴ स्निग्धाः सघृताः क्षारभाविताः ।
पिण्डैर्दत्ताः प्रकुर्व्वन्ति वाजिनां व्याधिनाशनम् ॥ १० ॥
सैन्धवं नागरं श्यामा गुडूची सितसर्षपाः ।
अम्लवेतसमन्नानां⁵ पिण्डोऽयं शूलनाशनः॥ ११ ॥
पिप्पली पिप्पलीमूलं⁶ कटुका सहदेविका ।
दूर्व्वा⁷पल्लवसंमिश्रः पिण्डोऽयं प्लीहनाशकः ॥ १२ ॥
केशरं श्रीफलं तालं माक्षिकं गिरिकर्णिका ।
पिण्डोऽयं श्लथने शस्तो वाजिनां सुगतिप्रदः⁸ ॥ १३ ॥
वचालोभ्रं सकर्पूरं गुहा श्यामा गुड़ं मधु ।
१ । मिथिका । कः ।
२ । सरणी वीजपूरिका । खः ।
३ । दत्तः पिण्डविधानेन वाजिनां सुखवृद्धिदः । कः ।
४ । विध्वस्ता स्निग्धा सघृता क्षारभागिका । कः ।
५ । संयुक्ताः । कः ।
६ । सुप्ता । कः ।
७ । एच्छीपन्नस । कः ।
८ । पिण्डः क्षोभगथे शस्तो वाजिनां हि सुखप्रदः । कः ।
५२ परिशिष्टे [१३ अध्यायः ।
समांशकेन पिण्डोऽयं करोति¹ लघिमा हये ॥ १४ ॥
मद्यं मरिचसंयुक्तं लशुनं नागकेशरम् ।
द्विगुणं मेषमांसं च पिण्डो² दत्तो जयेत्क्लमम् ॥ १५ ॥
जंभीरं फलिनीपद्मं त्वचा किञ्जल्कमेव च ।
जातशोणित³वाहानां पिण्डोऽयं रक्तनाशनः ॥ १६ ॥
तमालं पुष्करं लोध्रमपामार्गं सतिन्दुकम् ।
पयसा पिण्डमेतद्धि वातकोपप्रणाशनम्⁴ ॥ १७ ॥
आरनालं प्रविष्टा च पथ्या नेपालिका⁵फलम् ।
पिण्डे दत्ते⁶ हये दध्ना निहन्त्याशु विजृम्भितम् ॥ १८ ॥
मुङ्गपूपं⁷ वचामिश्रं तथा सर्ज्जरसान्वितम् ।
पिण्डे दत्ते निहन्त्याशु कृमिसंघं⁸ व्रणोद्भवम् ॥ १९ ॥
स्नुहीक्षीरं सकर्पूरं कूपोदकविभावितम् ।
पिण्डोऽयं हन्ति मध्यस्थान् रोगान्⁹ सर्व्वान् कृमि-
व्रजान् ॥ २० ॥
१। लघुत्वं कुरुते । कः ।
२। पिण्डे दत्ते । खः ।
३ । जातशोणा वराश्वानां पिण्डोऽयं व्याधिनाशनः । खः ।
४ । वातकोपः प्रशाम्यति । कः ।
५ । नैपालिका । कः ।
६ । पिण्डं दत्तं । कः ।
७ । यूषं । खः ।
८ । कृमिं सद्यो व्रणोद्भवम् । कः ।
९ । उदरस्थान् कृमिब्रजान् । कः ।
१३ अध्यायः।] पिण्डविवरणम् । ५३
सिता दुग्धं सकर्पूरमेलया¹ पञ्चसंयुक्तम् ।
अग्नि²दाहार्तियुक्तानां पिण्डोऽयं वाजिनां स्मृतः ॥ २१॥
ग्रीष्मासङ्ग³प्रतप्तानामारनालं परिश्रुतम् ।
सकृदिच्छन्ति पिण्डेन⁴ वाजिनां सुखकारकम् ॥ २२ ॥
वृष्टिवातार्हितानाञ्च वाजिनां पुष्टिसंमतः ।
पिण्डः कृतः सतैलेन लशुनेन पलेन च ॥ २३ ॥
महाघृतं सकर्पूरं शर्करा दुग्धमेव च ।
कफ⁵नाशकरः प्रोक्तः पिण्डोऽयं सुखदः स्मृतः ॥ २४ ॥
रोचना च वरी⁶ धात्री तथा स्याद्बीजपूरकः ।
गुल्मं प्रशमयन्त्याशु वाजिनां हृदयोद्भवम् ॥ २५ ॥
सहदेवी वचा कुष्ठं वरुणा चेन्द्रवारुणी ।
अतिश्वासं हरन्त्येते वाजिनां मधुना सह ॥ २६ ॥
उदुम्बरफलं⁷ मांसं सौकरं माहिषं दधि ।
हयस्य चातिवृद्धस्य⁸ करोति परमं सुखम् ॥ २७ ॥
विभीतकं प्रियङ्गुञ्च सर्जिका लवणं तथा ।
१ । एलापत्रकसंयुक्तम् । कः । ७ । चौदुम्बर । कः ।
२ । स्निग्धा । कः । ८ । शीतबद्धस्य । कः ।
३ । ग्रीष्मदाह । कः ।
४ । शर्करामिश्रितः पिण्डः । कः ।
५ । कम्प । कः ।
६ । वर्बरी । खः ।
५४ परिशिष्टे [१३ अध्यायः ।
कासदोषोपशमनः^१ पिण्डः समेः सुखप्रदः ॥ २८ ॥
तक्रं कर्पूरचूर्णंञ्च शिवं सौवर्चलान्वितम् ।
पिण्डोऽयं बस्तिसंरोधे^२ वाजिनः संप्रकीर्त्तितः ॥ २९ ॥
सौवर्चलं हरिद्राच पिप्पली चेन्द्रवारुणी ।
मूत्रकृच्छ्रे^३ परीप्सन्ति पिण्डोऽयं तुरगस्य हि ॥ ३० ॥
पिण्डीर^४सक्तवः क्षौद्रं भल्लातकफलं वृषम्^५ ।
रक्तमूत्रे तु पिण्डोऽयं वाजिनां रक्तनाशनः ॥ ३१ ॥
अभया यष्टिका श्यामा देवदारु सगन्धकम् ।
पुरीषे रक्तसंमिश्रे सदा शंसति वाजिनः ॥ ३२ ॥
पटोलं धातकी मुस्ता यष्टिका गिरिकर्णिका ।
रक्ताधिके शृतः पिण्डः करोति रुधिरक्षयम् ॥ ३३ ॥
हरिद्राद्यसंयुक्तं गन्धकं कटुतैलकम् ।
पिण्डकं^६ श्रुतियुक्तानां सदाश्वानां प्रशस्यते ॥ ३४ ॥
अतसीपञ्चकं निम्बं न्यग्रोधकलिकान्वितम् ।
अतीसारे सुशंसन्ति^८ पिण्डोऽयं वाजिनः शुभः ॥ ३५ ॥
व्रणैः कृमिभिरत्यर्थं सदा वाजी प्रपीड्यते ।
१ । कासे दोषप्रशमनो पिण्डोऽश्वस्य प्रशस्यते । कः ।
२ । धृतिसारोघ्नः । कः ।
३ । मूत्रकृच्छ्रे प्रशंसन्ति । कः । ६ । पिण्डोऽयं । कः ।
४ । डिण्डीरं शर्करा । कः । ७ । नीकं । खः ।
५ । भल्लातकमुदुम्बरम् । कः । ८ । प्रशंसन्ति । कः ।
१४ अध्यायः ।] क्षतविवरणम् । ५५
तदा पिण्डः प्रदातव्यः स्थूलैरण्ड¹दलैरलम् ॥ ३६ ॥
कर्पूरशर्करालोध्रं माक्षिकं त्रिफलान्वितम् ।
तुरङ्गिण्याः प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥ ३७ ॥
पत्त्रकं सिन्धुवारञ्च भामरं² चक्रकिंशुकम् ।
मांसवृद्धौ प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥ ३८ ॥
सैन्धवं चूलिका³क्षारं विड़ङ्गानि मधूनि च ।
शस्त्रपीड़ाभिभूतस्य पिण्डोऽश्वस्य प्रशस्यते ॥ ३९ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते पिण्डाध्याय-
स्त्रयोदशः ॥
अथ चतुर्दशोऽध्यायः ॥
क्षतविधानम् ।
शिलाजतु विशाला च पद्मकं नागकेशरम् ।
लाक्षा पद्मकमूलञ्च निम्बद्वयसमन्वितम् ॥ १ ॥
घृतं माक्षिकसंयुक्तं⁴ सप्तविंशतिकं विदुः ।
अष्टांशं तु समादाय सुरामांसघृतस्य च ॥ २ ॥
पलमात्राणि सर्व्वाणि पूर्व्वद्रव्याणि निःक्षिपेत् ।
तेषां⁵ दानेन तत्सर्पिर्जायते सर्व्ववाजिनाम् ॥ ३ ॥
१ । तिलैरण्ड । कः । ४ । समांसकं देयम् । कः ।
२ । प्लवकं चम्पकं तु च । कः । ५ । तेषामाद्येन । कः ।
३ । चोलिका । कः ।
५६ परिशिष्टे [१४ अध्यायः ।
बलपुष्टिकरं नित्यं सर्व्ववातविनाशनम् ।
सर्व्वरोगप्रशमनं कायाग्नेश्च प्रदीपनम् ॥ ४ ॥
ओजस्करं व्यथानाशं प्लीहशोषप्रणाशनम् ।
धातकी केशरं कुष्ठं कुसुम्भं कुंकुमं नलम् ॥ ५ ॥
दाड़िमं१ सितरोध्रञ्च पलमात्राणि निःक्षिपेत् ।
घतञ्च पाचयेत्२ पानादभिघातान्विते हयः ॥ ६ ॥
जायते सर्व्वशुद्धाङ्गो३ महाप्राणैर्न संशयः ।
आरनालं वचा कुष्ठं पिङ्गला सिक्यकं४ घृतम् ॥ ७ ॥
एतैः पक्वं घृतं सम्यक् पित्तव्याधिविनाशनम् ।
हरिद्राद्वयसंयुक्तं गन्धकं तु मनःशिला ॥ ८ ॥
क्वाथयेन्नवनीतेन द्विगुणेन घृतेन च ।
अभ्यङ्गेनाथ पानेन सप्तरात्रेण५ वाजिनः ॥ ९ ॥
कण्डूतिर्निःक्षयं६ याति तथोदरभवा रुजः७ ।
माक्षिकं निम्बपत्राणि नखं८ गुग्गुल एव च ॥ १० ॥
१ । दाड़िमी । कः ।
२ । पाचयत्याममभिघातान्विते हये । कः ।
३ । सिद्धाङ्गो महाप्राणः । कः ।
४ । सत्कृतं हयम् । कः ।
५ । सदा गात्राणि । कः ।
६ । कच्छूर्निःसंज्ञतां । कः ।
७ । च रुक् । कः ।
८ । नवं । कः ।
१५ अध्यायः।] क्वाथविवरणम्। ५७
भृङ्गराजो विशाला^१ च पाठा चैव पुनर्नवा।
विल्वमारुष्करं^२ रोध्रं सैन्धवं तगरं^३ तथा ॥ ११ ॥
एतैः पक्त्वा घृतं वाजी संप्राप्यार्तेर्विमुच्यते^४ ॥ १२ ॥
इति श्रीमन्नकुलकृतेऽश्वचिकित्सिते घृताध्यायश्चतुर्दशः ॥
——————
अथ पञ्चदशोऽध्यायः।
क्वाथः।
पूर्व्वाणि^५ समभागानि क्वाथयेत् कूपवारिणा।
ततोऽष्टांशं समादाय तोयस्य कथितस्य च ॥ १ ॥
एतत् सिद्धार्थकं नाम ह्युत्कृष्टं^६ सर्व्ववाजिनाम्।
कायाग्निं वर्द्धयत्याशु नीरोगत्वं प्रयच्छति ॥ २ ॥
मुस्ता मधुकपत्राणि केशरं लवणं रुहा^७।
शताङ्गा शाल्मली धात्री वपुसं फलिनी तथा ॥ ३ ॥
क्वाथयित्वा जलं^८ कौपं दत्तैस्तुल्यैर्विचक्षणः।
त्रिभागमेवमादाय ततो दद्याद्वयस्य च ॥ ४ ॥
━━━━━━━━━━━━━━━━━━━━
१। विशालाक्षी। कः। ५। एतानि। कः।
२। आरुष्रकं। कः। ६। उत्कृष्टत्। कः।
३। नागरं। कः। ७। गुहा। कः।
४। आर्त्तिं विमुञ्चति। कः। ८। जलात् कौप्यादेतैः। कः।
8
५८ परिशिष्टे [१५ अध्यायः।
प्रकरोति सदा¹ नाशं पित्तस्यागन्तुकस्य च।
एकविंश²दिनं यावच्छालिहोत्रमतं यथा³ ॥ ५ ॥
शुण्ठी हरीतकी पाठा ब्राह्मी मुस्ता शिफालिका।
हरिद्राद्वयसंयुक्ता हरितालं मनःशिला ॥ ६ ॥
सिद्धस्त्रिभागशेषोऽयं क्वाथो हन्याच्चिराचिकम्।
सन्निपातमशेषेण पलिकः पलमात्रकः ॥ ७ ॥
मधुकं⁴ केशरं पद्मं भल्लातकविभीतकम्।
शङ्खपुष्पं रुहा सारं समभागेन मिश्रितम् ॥ ८ ॥
कासार्त्तस्य समुद्दिष्टः क्वाथोऽयं चिफलात्मकः।
उत्साहवर्द्धकः सद्यस्तथा कायाग्निदीपकः ॥ ९ ॥
कुमारी शाल्मली पाठा मञ्जिष्ठा चेन्द्रवारुणी।
काकोली समभागेन क्वाथयेत् समभागतः ॥ १० ॥
पलद्वयप्रमाणेन ततः पीतेन वाजिना।
मोहये⁵च्छूलजं दोषं मूत्रदोषं च तत्क्षणात् ॥ ११ ॥
यवानी माक्षिकं कासं सौवर्चलयुताभया।
क्वाथयेदष्टमांशन तत्पानाज्जायते हयः ॥ १२ ॥
प्रदीप्ताग्निस्तु तेजस्वी⁶ सर्व्वरोगाद्विमुच्यते।
स शीघ्रमार्गगामी च स्निग्धो रोगविवर्जितः ॥ १३ ॥
१ । सर्व्वनाशं । कः ।
४ । मधुरं । कः ।
२ । एकत्रिंशत् । कः ।
५ । नाशयेत् । कः ।
३ । सदा । कः ।
६ । सुतेजाख्याः । कः ।
१५ अध्यायः ।] विषविवरणम् । ५६
सेफालिका रुहानीले वेणुका सिन्धुवारिका ।
एतैः क्वाथः कृतः सम्यक् कृमिनाशनकरः परः ॥ १४ ॥
मातुलुङ्गस्य बीजानि चन्दनं सितसर्षपाः ।
उशीरं पुष्करं ब्राह्मी लक्ष्मणा च पुनर्नवा ॥ १५ ॥
क्वाथोऽयं शुण्ठिचूर्णेन धावितक्लेशनाशनः ।
प्रकरोति तुरङ्गानां सर्व्वदैव सुखं¹ तथा ॥ १६ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते क्वाथाध्यायः
पञ्चदशः ॥
अथ षोडशोऽध्यायः ।
विषम् ।
वारुणी माक्षिकी गौरी श्रोतालीबीजपूरकम्' ।
कृमिकेदविनाशाय क्वाथो नित्यं रुजाहरः² ॥ १ ॥
अश्वगन्धा घृतं क्षौद्रं विषदग्धस्य वाजिनः ।
विषनाशं³ करोत्येव सर्व्वगात्रेषु तत्क्षणात् ॥ २ ॥
१ । सुखावहम् । खः ।
२ । रुजापहा । कः ।
३ । विनाशनं । खः ।
६० परिशिष्टे [१५ अध्यायः।
सामान्येन प्रदिष्टोऽयमगदो विषनाशनः।
पृथक् पृथग्विभागेन कर्त्तव्यं साम्यतः परम्¹ ॥ ३॥
त्रिविधं कीर्त्तितं चैव कृत्रिमञ्च ततःपरम्।
त्रिविधं कीर्त्तितं प्राज्ञैर्विषज्ञानविचक्षणैः ॥ ४॥
स्थावरं कन्दजं² प्रोक्तं जङ्गमं सत्वसंस्थितम्³।
कृत्रिमं योगजं प्रोक्तं त्रिविधं विषमुच्यते ॥ ५॥
यदा स्थिरं समश्नन्ति कदाचित्तुरगोत्तमाः।
तदा कार्यं विधानज्ञैरगदस्य प्रयोजनम्॥ ६॥
केशरं पद्मनालञ्च सौपर्णी⁴ बदरीफलम्।
तक्रमिश्रं हये दत्तं सर्व्वथा विषनाशनम्⁵ ॥ ७॥
सौपर्णी सिन्धुवारश्च नागवल्ली जटा तथा।
विषार्त्तं प्राप्य संमिश्रं दुग्धे स्यादायूधी हयः⁶ ॥ ८॥
अश्वगन्धा रुहा एला⁷ घृतमिश्रा प्रयोजिता।
विषनाशं नयत्याशु जङ्गमं हयगात्रतः॥ ६॥
१। कर्त्तव्यः संमतः परः। कः।
२। सङ्गजं। कः।
३। सत्त्वमाश्रितं। कः।
४। सौवर्णी। कः।
५। क्रममिश्रं हये दत्तं विषनाशनकरं परम्। कः।
६। क्षामा युधा हयः। कः।
७। पिष्टा। कः।
१६ अध्यायः।] विषविवरणम् । ६१
मूलं चन्दनवृक्षस्य माषचूर्णपरिस्रुतम्।
जङ्गमस्य विषस्याशु प्रकरोति च संक्षयम्¹॥ १० ॥
तक्रं केशरसंयुक्तं विषं सद्यो नवाभ्रकम्।
हयस्य जङ्गमं नाशं विषन्नयति² तत्क्षणात् ॥ ११ ॥
सौपर्णी³ विषकङ्कोली पिष्ट्वा मद्येन भाविता।
जङ्गमं गाचतः कृत्स्नं विषन्नयति तत्क्षणात्⁴ ॥ १२ ॥
एला कङ्कोलिकामूलं सौपर्णीघृतमिश्रितम्।
विषनाशं करोत्याशु नस्यदानेन वाजिनाम् ॥ १३॥
कौसुम्भं केशरं लाक्षा माक्षिका नाकुली तथा⁵।
कृत्रिमस्य विषस्या⁶शु प्रकरोति च संक्षयम् ॥ १४ ॥
चम्पकं⁷ मालतीमूलमुन्मत्तकरसं तथा।
अश्वानां नाशयेत्याशु विषं जङ्गममाश्रितम्⁸ ॥ १५ ॥
इति श्रोनकुलकृतेऽश्वचिकित्सिते विषयोगाध्यायः
षोडशः ॥
१। करोति ह्यसंक्षयम् । कः।
२। जङ्गमविषं ध्रुवं नश्यति । कः।
३। सौवर्णी । कः।
४। जङ्गमं गात्रसंमिश्रं विषं नाशयति क्षणात् । कः।
५। साकुला तुला । कः।
६। कान्तामस्य विषस्य । कः।
७। माक्षिकं । कः।
८। आहतम् । कः।
[ ५२ ]
अथाष्टादशोऽध्यायः।*
अश्वशालाविधिः।
नृपवेश्मवामभागे शुभदिने तु कारयेद्धयागारम्।
पूज्यश्रियं प्रयत्नादुच्चैःश्रवसं प्रतिष्ठाप्य ॥ १ ॥
सुशुभे भूमिविभागे पूर्व्वोत्तरप्लवविधानात्।
तस्मिन् शालां शिष्टां दशहस्तसमुच्छ्रितां दृढां कुर्य्यात् ॥२॥
खादनकोष्ठकमस्मिन् हस्तद्वितयं समुच्छ्रितं कुर्य्यात्।
संस्थाप्य वृषभगावौ सप्ताहं वाजिशालायाम् ॥ ३ ॥
अत ऊर्द्धन्तु हुताग्निः प्रवेशयेद्वाजिनो यथायोग्यम्।
कुशलैस्तरुगैर्दक्षैरनुकूलैः स्थानपालैश्च ॥ ४ ॥
कृतमङ्गलसंस्कारा बन्धव्यास्तेऽथ चोत्तराभिमुखाः।
नात्यायता न शिथिलाः स्थाने वा दक्षिणाभिमुखम् ॥५॥
वैद्यानां तुरगाय समीपं गृहं कारयेत् पूर्व्वम्।
कार्पासिकेन सूत्रेण माक्षिकाणां निवारणम् ॥ ६॥
गन्धैर्माल्यैर्धूपैः स्थानानि विभूषयेदलङ्कारैः।
सविशेषं त्वद्यपोती हुताग्निं पूरयेद्विद्वान् ॥ ७ ॥
- सप्तदशाध्यायो नाधिगम्यते।
१८ अध्यायः।] परिशिष्टे ६९
खच्छिद्रं नातियवसं यथा पश्यन्ति वाजिनः।
स्थानं चैव पृथक् प्राप्तं प्रयत्नं रोगिणां न वै ॥ ८ ॥
कोष्ठी कुष्ठी ज्वरी यक्ष्मी परस्परं दूषयति क्षारैः।
तिथिवारे केशांश्च खुरांश्च प्रघ्नन्ति दीर्घान् ॥ ९ ॥
अश्वस्याङ्गे प्रलिपेद्धरिद्रया वरिष्ठया मङ्गल्या च।
सुपवित्त्रान् दोषघ्नैर्विभूषयेदलङ्कारैः ॥ १० ॥
इति श्रीनकुलकृतेऽश्वचिकित्सितेऽश्वशालाविधि-
रष्टादशोऽध्यायः॥
समाप्तश्चायं ग्रन्थः।
शुभम्।
Digitized by Google
Narada Pancharatna, Fasc. IV .. .. Rs. 0 6
Parisishṭa parvan (Sans.) Fasc. I—IV @ /6/ each .. 1 8
Pingala Chhandaḥ Sūtra, (Sans.) Fasc. II—III @ /6/ each .. 0 12
Prithiráj Rásau, (Sans.) Fasc. I—VI @ /6/ each .. 2 4
Ditto (English) Fasc. I .. .. 0 12
Pálí Grammar, (English) Fasc. I and II @ /6/ each .. 0 12
Prákṛita Lakshanam, (Sans.) Fasc. I .. .. 1 8
Parásara Smriti (Sans.) Fasc. I—V @ /6/ each .. .. 1 14
Srauta Sútra of Ápastamba, (Sans.) Fasc. I—XII @ /6/ each .. 4 8
Ditto Kátyáyana, (Sans.) Fasc. I—XI @ /6/ each .. 4 2
Ditto Lát́yáyana (Sans.) Fasc. I—IX @ /6/ each .. 3 6
Ditto Sánkháyana (Sans) Fasc. I—III @ /6/ each .. 1 2
Sáma Veda Samhitá, (Sans.) Vols 1. Fasc. 1—10; II, 1—6; III, 1—7;
IV, 1—6; V, 1—8; @ /6/ each Fasc. .. .. 18 14
Sáhitya Darpana, (English) Fasc. I—IV @ /6/ each .. .. 1 8
Sánkhya Aphorisms of Kapila, (English) Fasc. I and II @ /6/ each .. 0 12
Sarva Darśana Sangraha, (Sans.) Fasc. II .. .. 0 6
Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each .. .. 0 12
Sánkhya Pravachana Bháshya, Fasc. III (English preface only) .. 0 6
Sánkhya Sára, (Sans.) Fasc. I .. .. .. 0 6
Suśruta Samhitá, (Eng.) Fasc. I and II @ /12/ each .. .. 1 8
Taittiríya Áranya Fasc. I--XI @ /6/ each .. .. 4 2
Ditto Bráhmana (Sans.) Fasc I—XXIV @ /6/ each .. 9 0
Ditto Samhitá, (Sans.) Fasc I—XXXIII @ /6/ each .. 12 6
Ditto Prátisákhya, (Sans.) Fasc. I—III @ /6/ each .. 1 2
Ditto and Aitareya Upanishads, (Sans.) Fasc. II and III @ /6/ each 0 12
Tándyá Bráhmana, (Sans.) Fasc. I—XIX @ /6/ each .. 7 2
Tattva Chintámani, Fasc. I—V (Sans.) @ /6/ each .. .. 1 14
Uttara Naishadha, (Sans.) Fasc. III—XII @ /6/ each .. 3 12
Uvásagadasáo, Fasc. I and II @ /12/ .. .. .. 1 8
Váyu Purána, (Sans.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6, @ /6/
each Fasc .. .. .. .. 4 8
Vishnu Smriti, (Sans.) Fasc. I—II @ /6/ each .. .. 0 12
Vivádáratnákar, Fasc. I—IV @ /6/ each .. .. 1 8
Vrihannáradíya Purána, Fasc. I and II @ /6/ .. .. 0 12
Yoga Sútra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each .. 4 6
The same, bound in cloth .. .. .. .. 5 2
Arabic and Persian Series.
'Alamgírnámah, with Index, (Text) Fasc. I—XIII @ /6/ each .. 4 14
Aín-i-Akbarí, (Text) Fasc. I—XXII @ 1/ each .. 22 0
Ditto (English) Vol. I (Fasc. I—VII) .. .. .. 12 4
Akbarnamah, with Index, (Text) Fasc. I—XXXVI @ 1/ each .. 36 0
Bádsháhnámah with Index, (Text) Fasc. I—XIX @ /6/ each .. 7 2
Beale's Oriental Biographical Dictionary, pp. 291, 4to., thick paper,
@ 4/12; thin paper .. .. .. .. 4 8
Dictionary of Arabic Technical Terms and Appendix, Fasc. I—XXI @
1/ each .. .. .. .. 21 0
Farhang-i-Rashídí (Text), Fasc. I—XIV @ 1/ each .. .. 14 0
Fihrist-i-Túsí; or, Túsy's list of Shy'ah Books, (Text) Fasc. I—IV @
/12/ each .. .. .. .. .. 3 0
Futúh-ul-Shám Wáqidí, (Text) Fasc. I—IX @ /6/ each .. 3 6
Ditto Azádí, (Text) Fasc. I—IV @ /6/ each .. .. 1 8
Haft Asmán, History of the Persian Masnawi (Text) Fasc. I .. 0 12
History of the Caliphs, (English) Fasc. I—VI @ /12/ each .. 4 8
Iqbálnámah-i-Jahangírí, (Text) Fasc. I—III @ /6/ each .. 1 2
Iṣábáh, with Supplement, (Text) 42 Fasc. @ /12/ each .. .. 31 8
Maghází of Wáqidí, (Text) Fasc. 1--V @ /6/ each .. .. 1 14
Muntakhab-ul-Tawáríkh, (Text) Fasc. I—XV @ /6/ each .. 5 10
Muntakhab-al-Tawáríkh (English) Vol. II, Fasc. I—IV @ /12/ each .. 3 0
Muntakhab-ul-Lubáb, (Text) Fasc. I—XXIX @ /6/ each .. 7 2
(Turn over.)
Ma'ásir-i-'Álamgírí (Text), Fasc. I—VI @ /6/ each .. Rs. 2 4
Nokhbat-ul-Fikr, (Text) Fasc. I .. .. 0 6
Nizámí's Khiradnámah-i-Iskandarí, (Text) Fasc. I and II @ /12/ each .. 1 8
Suyútí's Itqán, on the Exegetic Sciences of the Koran, with Supplement,
(Text) Fasc. II—IV, VII—X @ 1/ each .. .. 7 0
Tabaqát-i-Náṣirí, (Text) Fasc. I—V @ /6/ each .. .. 1 14
Ditto (English) Fasc. I—XIV @ /12/ each .. .. 10 8
Táríkh-i-Fírúz Sháhí, (Text) Fasc. I—VII @ /6/ each .. .. 2 10
Táríkh-i-Baihíqí, (Text) Fasc. I—IX @ /6/ each .. .. 3 6
Wís o Rámín, (Text) Fasc. I—V @ /6/ each .. .. 1 14
Zafarnámah, Fasc. I—VI @ /6/ each .. .. 2 4
ASIATIC SOCIETY'S PUBLICATIONS.
- ASIATIC RESEARCHES. Vols. VII, IX to XI; Vols. XIII and XVII, and
Vols. XIX and XX @ /10/ each .. Rs. 80 0
Ditto Index to Vols. I—XVIII .. 5 - PROCEEDINGS of the Asiatic Society from 1865 to 1869 (incl.) @ /4/ per
No.; and from 1870 to date @ /6/ per No. - JOURNAL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846
(5), 1847 (12), 1848 (12), 1850 (7), @ 1/ per No. to Subscri-
bers and @ 1/8 per No. to Non-Subscribers; and for 1851 (7),
1857 (6), 1858 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6),
1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875
(7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6),
1883 (5), 1884 (6), 1885 (6) @ 1/ per No. to Subscribers and @ 1/8
per No. to Non-Subscribers.
N. B. The figures enclosed in brackets give the number of Nos. in each Volume.
Centenary Review of the Researches of the Society from 1784—1883 .. 8 0
General Cunningham's Archæological Survey Report for 1863-64 (Extra
No., J. A. S. B., 1864) .. .. .. 1 8
Theobald's Catalogue of Reptiles in the Museum of the Asiatic Society
(Extra No., J. A. S. B., 1868) .. .. .. 1 8
Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No.,
J. A. S. B., 1875) .. .. .. 3 0
Sketch of the Turki Language as spoken in Eastern Turkestan, Part II,
Vocabulary, by R. B. Shaw (Extra No., J. A. S. B., 1878) .. 3 0
Introduction to the Maithilí Language of North Bihár, by G. A. Grierson,
Part I, Grammar (Extra No., J. A. S. B., 1880) .. .. 1 8
Part II, Chrestomathy and Vocabulary (Extra No., J. A. S. B., 1882) .. 3 0 - Anis-ul-Musharrahin .. .. .. 3 0
6 Catalogue of Fossil Vertebrata .. .. .. 2 0 - Catalogue of the Library of the Asiatic Society, Bengal .. .. 3 8
- Examination and Analysis of the Mackenzie Manuscripts by the Rev.
W. Taylor .. .. .. 2 0 - Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis .. 1 8
- Iṣṭiláhát-uṣ-Ṣúfíyah, edited by Dr. A. Sprenger, 8vo. .. .. 1 0
- Ináyah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each .. 32 0
- Jawámi-ul-'ilm ir-riyází, 168 pages with 17 plates, 4to. Part I .. 2 0
- Khizánat-ul-'ilm .. .. .. 4 0
- Mahábhárata, Vols. III and IV, @ 20/ each .. .. 40 0
- Moore and Hewitson's Descriptions of New Indian Lepidoptera,
Parts I—II, with 5 coloured Plates, 4to. @ 6/ each .. 12 0 - Purana Sangraha, I (Markandeya Purana), Sanskrit .. .. 1 0
- Sharaya-ool-Islám .. .. .. 4 0
- Tibetan Dictionary by Csoma de Kőrös .. .. 10 0
- Ditto Grammar .. .. .. 8 0
21, Vuttodaya, edited by Lt.-Col. G. E. Fryer .. .. 2 0
Notices of Sanskrit Manuscripts, Fasc. I—XXI @ 1/ each .. .. 21 0
Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra .. .. 5 0
N.B. All Cheques, Money Orders &c. must be made payable to the "Treasurer
Asiatic Society" only.
7426
23
This book is a preservation photocopy.
It was produced on Hammermill Laser Print natural white,
a 60 # book weight acid-free archival paper
which meets the requirements of
ANSI/NISO Z39.48-1992 (permanence of paper)
Preservation photocopying and binding
by
Acme Bookbinding
Charlestown, Massachusetts
1996
Digitized by Google
Digitized by Google