आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
८६ आपस्तम्बधर्मसूत्र [(१.५.)क. १५.
प्रयतो मन्येत । यथा प्रयतमात्मानं मन्यते प्रयतोऽस्मीति तथैव मन्येत ।
नैवंविधे विषये तत्स्पृष्टिन्यायः प्रवर्तते इति ॥ १३ ॥
तथा तृणकाष्ठेषु निखातेषु ॥ १४ ॥
तृणकाष्ठेष्वपि भूमौ निखातेषु तत्स्पृष्टिन्यायो न भवति ॥१४॥
प्रोक्ष्य वास उपयोजयेत् ॥ १५ ॥
शुद्धमपि वास प्रोक्ष्यैवोपयोजयेत् वसीत । अपर आह-अशुद्धस्यापि
वाससः प्रोक्षणमेव शुद्धिहेतुरिति ॥ १५ ॥
शुनोपहतः सचेलोऽवगाहेत ॥ १६ ॥
शुना उपहतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्टं तथापि सचेलोऽवगाहेत
भूमिगतास्वप्सु स्नायात् नोद्धृतादिभिः । दष्टस्य तु स्मृत्यन्तरे प्राय-
श्चित्तम् । तत्र वसिष्ठः(१)
ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति॥'
अङ्गिराः-
(२)'ब्रह्मचारी शुना दष्टस्त्रिरात्रेणैव शुद्ध्यति ।
गृहस्थस्तु द्विरात्रेण ह्येकाहेनाऽग्निहोत्रवान् ॥
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ।
तदेव त्रिगुणं वक्त्रे मूर्ध्नि चेत्स्याच्चतुर्गुणम् ॥
क्षत्रविट्शूद्रयोनिस्तु स्नानेनैव शुचिर्भवेत् ।
द्विगुणं तु वनस्थस्य तथा प्रव्रजितस्य च ॥
ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् ।
यदा न दृश्यते सोमः प्रायश्चित्तं तदा कथम् ।
यां दिशं तु गतस्सोमस्तां दिशं त्ववलोकयेत् ॥
सोममार्गेण सा पूता पञ्चगव्येन शुद्ध्यति ॥' इति ॥ १६ ॥
प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य
पादौ चाऽऽचम्य प्रयतो भवति ॥ १८ ॥
१. वचनमिदं न वसिष्ठस्मृतावुपलभ्यते ।
२. वचनानीमानि स्मृतिमुक्ताफलकाररपि प्रायश्चित्तकाण्डे अङ्गिरोवचनत्वेनैवोपन्य-
स्तानि । परन्तु इदानीमुपलभ्यमानमुद्रिताङ्गिरःस्मृतिपुस्तके नोपलभ्यन्ते ॥ वासिष्ठत्वेन
तु लिखितं ख. च. पुस्तकयोष्टिप्पण्याम् ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८७
शुना स्पृष्टं प्रदेशं प्रक्षाल्याग्निना च संस्पृश्य पुनश्च प्रक्षाल्य पादौ च प्रक्षा-
ल्य पश्चादाचम्य प्रयतो भवति । व्यवस्थितविकल्पोऽयम् ॥
(१)ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमभ्युपहन्यते ।
तत्र स्नानविधिः प्रोक्तो ह्यधः प्रक्षालनं स्मृतम् ॥'
इति मानवे दर्शनात् ॥ १७ ॥
अग्निं नाप्रयत आसीदेत् ॥ १८ ॥
अप्रयतस्सन्नग्निं नासीदेत् अग्नेरासन्नो न भवेत्, यावति
देशे ऊष्मोपलम्भः । तत्राप्यशक्तौ न दोषः ॥ १८ ॥
इषुमात्रादित्येके ॥ १९ ॥
इषुमात्रादर्वाङ्नासीदेत् । ऊष्मोपलम्भो भवतु वा मा भूदित्येके
मन्यन्ते ॥ १९ ॥
न चैनमुपधमेत् ॥ २० ॥
अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेत् । प्रयतस्य न दोषः ।
'मुखेनोपधमेदग्निं मुखाद्धयग्निरजायत ।'
इति स्मृत्यन्तरे दर्शनात् ।
(२) नाग्निं मुखेनोपधमे' दिति मानवे दर्शनादुभयोर्विकल्पः । अपर
आह—वाजसनेये श्रौतप्रकरणे 'मुखाद्धयग्निरजायत । तस्मान्मुखेनो-
पसमिन्ध्या' दिति दर्शनात् श्रौतेषु मुखेनोपसमिन्धनम्, अन्यत्र स्मार्ते
प्रतिषेध इति ।
अन्ये तु वैणवेनायसेन वा सुषिरेणोपसमिन्धनमिच्छन्ति । एवं
हि मुखव्यापारस्यानपायाच्छ्रुतिरप्यनुगृहीता भवति, आस्यबिन्दूनां पत-
नशङ्काभयात् प्रतिषेधस्मृतिरपीति ॥ २० ॥
खट्वायां च नोपदध्यात् ॥ २१ ॥
खट्वायां खट्वाया अधोऽग्निं नोपदध्यात् । अत्राप्यशक्तौ न दोषः ॥२१॥
प्रभूतैधोदके ग्रामे यत्राऽऽत्माधीनं प्रथमणं
तत्र वासो धार्यो ब्राह्मणस्य ॥ २१ ॥
१ म. स्मृ मुद्रितमनुस्मृतिपुस्तकेषु नाय श्लोक उपलभ्यते ।
२. म. स्मृ ४ ५३.
८८ आपस्तम्बधर्मसूत्रे [ (प.५) क. १५.
प्रभूत एधः उदकं च यस्मिन् ग्रामे तत्र वासो धर्म्यं धर्म्म्यः । अत्रापि
न सर्वत्र । किं तर्हि ? यत्रात्माधीन प्रथमण प्रायत्यं मूत्रपुरीषप्रक्षालना-
दीनि यत्रात्माधीनानि तत्र । यत्र तु कूपेष्वेवोदकं तत्र बहुकूपेऽपि न
वस्तव्यम् । ब्राह्मणग्रहणाद्वर्णान्तरस्य न दोषः । ग्रामग्रहणादेवंभूतेषु
घोषादिष्वपि न वस्तव्यम् ॥ २२ ॥
मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपान्·
च्छिष्टलेपान् रेतसश्च ये लेपास्तान्प्रक्षाल्य
पादौ चाऽऽचम्य प्रयतो भवति ॥ २३ ॥
मूत्रं पुरीषं वा कृत्वा उत्सृज्य तयोर्मूत्रपुरीषयोर्ये लेपास्तस्मिन्प्रदेशे
स्थिताः प्रदेशान्तरे वा पतिताः तान् सर्वान् । (१)अन्नलेपांश्चानुच्छिष्टा
नपि उच्छिष्टलेपांश्चानन्नलेपानपि । तथा रेतसश्च ये लेपाः स्वप्नादौ
मैथुने वा तान् सर्वानद्भिर्मृदा च प्रक्षाल्य पादौ च लेपवर्जितावपि प्रक्षाल्य
पश्चादाचम्य प्रयतो भवति । अत्र मृत्प्रमाणस्य सङ्ख्यायाश्चानुक्तत्वात्
यावता गन्धलेपक्षयो भवति तावदेव विवक्षितम् । तथा च
याज्ञवल्क्यः—
(२)गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।' इति ।
देवलस्तु व्यक्तमाह—
(३)'यावत्स शुद्धिं मन्येत तावच्छौचं समाचरेत् ।
प्रमाणं शौचसङ्ख्याया न शिष्टैरुपदिश्यते ॥' इति ।
पैठीनसि —
'मूत्रोच्चारे कृते शौचं न स्यादन्तर्जलाशये ।
अन्यत्रोद्धृत्य कुर्यात्तु सर्वदैव समाहितः ।' इति ॥ २३ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ पञ्चदशी कण्डिका ॥
१. अन्नले पानुच्छिष्टानप्युच्छिष्टलेपानन्नलेपानपि. इति ख. पुस्तकेऽपपाठः ।
२. या. स्मृ. १. १७. ३ मुद्रितदेवलस्मृताविदं वचन नोपलभ्यते ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८९
तिष्ठन्नाऽऽचामेत् प्रह्वो वा ॥ १ ॥
तिष्ठन् प्रह्वो वा नाचामेत् । नायं प्रतिषेधः शक्यो वक्तुम् । कथम् ?
'आसीनस्त्रिराचामे' (१६ २.) दिति वक्ष्यति । ततश्च यथा शयानस्याच-
मनं न भवति तथा तिष्ठतः प्रह्वस्य च न भवति । एवं तर्हि शौचार्थस्या-
चमनस्य नायं प्रतिषेधः । किं तर्हि ? पानीयपानस्य प्रतिषेधः । तथा
गौतमः-(१)'नाञ्जलिना जलं पिबेत् । न तिष्ठ' न्निति । अपर आह-अस्मा
देव प्रतिषेधात्क्वचित्तिष्ठतः प्रह्वस्य चाऽऽचमनमभ्यनुज्ञातं भवति । तेन
'भूमिगतास्वाप्सुव' त्यत्र तीरस्याऽयोग्यत्वे ऊरुदघ्ने (२)जानुदघ्ने वा जले
स्थितस्याऽऽचमनं भवति । गौतमीयेऽपि(३) न तिष्ठन्नुद्घृतोदकेनाचा
मे' दिति सूत्रच्छेदादुद्धृतोदकेनैव तिष्ठतः प्रतिषेध इति ॥ १ ॥
अथाऽऽचमनविधिः-
आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः ॥ २ ॥
अद्भिः तृतीया द्वितीयार्थे । अत्राऽनुक्ते स्मृत्यन्तरवशा(४)दुपस्क्रियते ।
आसीनः शुचौ देशे, नासने, भोजनान्ते त्वासने । दक्षिणं बाहु(५) जान्व
न्तरे कृत्वा प्राङ्मुख उपविष्टः उदङ्मुखो वा हृदयङ्गमा(६) अपः करत-
लस्थासु यावतीषु माषो निमज्जति तावती फेनबुद्बुदरहिताः वीक्षिता-
स्त्रिराचामेत् पिबेत्, ब्राह्मणः हृदयङ्गमाः, क्षत्रियः कण्ठगताः, वैश्यस्ता-
लुगताः, शूद्रो जिह्वास्पृष्टास्सकृत् ॥ २ ॥
(७)त्रिरोष्ठौ परिमृजेत् ॥ ३ ॥
परिमृज्यात् ॥ ३ ॥
द्विरित्येके ॥ ४ ॥
तुल्यविकल्पः ॥ ४ ॥
सकृदुपस्पृशेत् ॥ ५ ॥
मध्यमाभिस्तिसृभिरङ्गुलीभिरोष्ठौ ॥ ५ ॥
१. गौ ध. ९ ९, १०. २. नाभिदघ्ने, इति च. पु
३ गौ. ९. १० गौतमोऽपि न तिष्ठन्नुद्धृतोदकेनाचा मेत् इति सूत्रभेदादुद्धृतो
दकेनैव तिष्ठतः प्रतिषेधमाह" इति क. पु.
४. 'उपस्तूयते' इति ग. पु. ५. ऊर्वन्तरे इति. ख ग. पु.
६. आपः इति. ख. ग. पु. ७. इदमग्रिमं च सूत्रमेकीकृतं. ग. पुस्तके.
आप० ध० १२
९० आपस्तम्बधर्मसूत्रे [ (प्र. १.) क. १६.
द्विरित्येके ॥ ६ ॥
तुल्यविकल्पः ॥ ६ ॥
दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रि-
याण्युपस्पृशेत् चक्षुषी नासिके श्रोत्रे च ॥७॥
दक्षिणेन पाणिना सव्यं पाणिं प्रोक्ष्य तथा पादौ शिरश्च, इन्द्रियाण्युपस्पृशेत् अ-
ङ्गुलीभिः । सर्वेषामिन्द्रियाणां प्रसङ्गे परिसञ्चष्टे—चक्षुषी नासिके श्रोत्रे चे-
ति । इन्द्रियाणीति वचनं स्वरूपकथनमात्रम् । तत्राऽङ्गुष्ठानामिकाभ्यां
चक्षुषी । केचित्युगपत्, केचित्पृथक् । अङ्गुष्ठप्रदेशिनीभ्यां नासिके । अ-
ङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे । (१)अत्र सहभावस्याऽशक्यत्वात् पृथग्भा
वस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् ॥ ७ ॥
अथाऽप उपस्पृशेत् ॥ ८ ॥
इन्द्रियस्पर्शनानन्तरं हस्तौ प्रक्षालयेत् ॥ ८ ॥
भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृ-
जेत्सकृदुपस्पृशेत् ॥ ९ ॥
भोजनं करिष्यन् प्रयतोऽपि द्विराचमनं कुर्यात् । अत्र विशेषः-द्विः
परिमृजेत् , न विकल्पेन त्रिः । सकृदुपस्पृशेत् , न विकल्पेन द्विः ।
‘प्रयतोऽपी’ति वचनादप्रायत्ये सर्वत्र द्विराचमनमाचार्यस्याऽभिप्रेतम् ।
तत्र स्मृत्यन्तरम्—
‘भुक्त्वा क्षुत्वा च सुप्त्वा च ष्ठीवित्वोक्त्वाऽनृतं वचः ।
आचान्तः पुनराचामेद्वासो विपरिधाय च’ ॥ ९ ॥
श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् ॥ १० ॥
दन्तमूलात्प्रभृत्योष्ठौ । तत्राऽलोमकः प्रदेशः श्यावः । तस्यान्तः
सलोमकः। तत्पर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् । ओष्ठयोरलोमकप्रदेशमङ्गुल्या(२)
काष्ठादिना वोपस्पृश्याऽऽचामेदिति ॥ १० ॥
१. अत्र सहभावस्याशक्यत्वात् पृथगपिक्रियते । अत्र पृथग्भावस्य निश्चितत्वात्
पूर्वत्रापि पृथगेवेति युक्तम् इति ख. घ. पु. । युक्तमित्यन्ये' इति. क पु.
२. अङ्गुल्याऽऽत्मकनिष्ठादिना वेति क. पुस्तकेऽपपाठः ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९१
न श्मश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्भि-
र्यावन्न हस्तेनोपस्पृशति ॥ ११ ॥
श्मश्रूणि यदा आस्यस्यान्तर्भवन्ति तदा तैरन्तरास्ये सद्भिरुच्छिष्टो
न भवति यावन्न हस्तेनोपस्पृशति । (१)उपस्पर्शने तूच्छिष्टो भवति ।
ततश्चाऽऽचामेदिति । अस्मादेव प्रतिषेधात् ज्ञायते—यत्किञ्चिदपि द्रव्य-
मन्तरास्ये (२)सदुच्छिष्टताया निमित्तमिति ॥ ११ ॥
य आस्याद्विन्दवः पतन्त उपलभ्यन्ते
तेष्वाचमनं विहितम् ॥ १२ ॥
भाषमाणस्याऽऽस्यात् पतन्तो ये लालाबिन्दव उपलभ्यन्ते चक्षुषा स्प-
र्शनाद्वा उपलब्धुं योग्यास्तेष्वाचमनं विहितम् । वेदोच्चारणे तु गौतमः—
(३)'मन्त्रब्राह्मणमुच्चारयतो ये बिन्दवः शरीरे उपलभ्यन्ते न तेष्वा-
चमन'मिति ॥ १२ ॥
ये भूमौ न तेष्वाचामेदित्येके ॥ १३ ॥
ये बिन्दवो भूमौ पतन्ति, न शरीरे, तेषु नाचामेदित्येके मन्यन्ते ।
स्वमतं तु तेष्वप्याचामेदिति ॥ १३ ॥
स्वप्ने क्षवथौ (४)शिङ्घाणिकाऽश्वालम्भे लोहितस्य
केशानामग्नेर्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापन्थं च
गत्वाऽमेध्यं चोपस्पृश्याऽप्रयतं च मनुष्यं नीवीं च परि-
धायाऽप उपस्पृशेत् ॥ १४ ॥
स्वप्नः (५)स्वापः । क्षवथुः क्षुतम्, तयोः कृतयोः। शिङ्घाणिका नासिकाम-
लम् । अश्रु नेत्रजलम्, तयोरालम्भे स्पर्शे । लोहितस्य रुधिरस्य । केशानां शि-
रोगतानां भूमिगतानां च । अग्न्यादीनां चतुर्णामालम्भे । महापन्थं च गत्वा ।
अमेध्यं च गोव्यतिरिक्तानां मूत्रपुरीषादि । ताम्बूलनिषेकादि चोपस्पृश्य ।
अप्रयतं च मनुष्यमुपस्पृश्य । नीवी प्रसिद्धा तयोगादधोवासो लक्ष्यते । तच्च
परिधायाप उपस्पृशेत् । केषुचित् स्नानं केषुचिदाचमनं केषुचित् स्पर्शनमात्र
यावता प्रयतो मन्यते ॥ १४ ॥
१. स्पर्शने इति क. पु. २. सत् तदुच्छिष्टताया निमित्तमिति क. पु.
३. नास्ति वचनमिदं मुद्रितगौतमधर्मकोशेषु मदीये लिखितपुस्तके च ।
४. शृङ्घाणिका शृङ्खणिका शृङ्गाणिका इत्यपि पाठाः । ५. स्वापन इति ख. पु.
९२ आपस्तम्बधर्मसूत्रे [(प.५.)क. १६
आर्द्रं वा शकृदोषधीर्भूमिं वा ॥ १५ ॥
(१)उपस्पृशेदित्येव । त्रिष्वाद्वैशब्दस्सम्बध्यते लिङ्गवचनादिविपरि-
णामेन । आर्द्रं वा शकृदुपस्पृशेत् ओषधीर्वा आर्द्रा, भूमिं वा आर्द्रां । पूर्वोक्ते-
ष््वेव (२)कल्पेषु वैकल्पिकमिदम् ॥ १५ ॥
एवमाचमनं (३)सह निमित्तैरुक्तम् । अथाऽभक्ष्याधिकारः—
हिंसार्थेनाऽसिना मांसं छिन्नमभोज्यम् ॥१६॥
असिग्रहणं क्षुरादेरुपलक्षणम् । यन्मासं पाककाले हिंसार्थेनाऽसिना छिन्न
तदभोज्यम् ॥ १६ ॥
दद्भिरपूपस्य नाऽपच्छिन्द्यात् ॥ १७ ॥
अपूपग्रहणं मूलफलादेरप्युपलक्षणम् । द्वितीयार्थे षष्ठी । दन्तैरपूप
नापच्छिन्द्यात् । किं तु हस्तादिभिरपच्छिद्य भक्षयेत् ॥ १७ ॥
यस्य कुले म्रियेत न तत्राऽनिर्देशे भोक्तव्यम् ॥ १८ ॥
यस्य कुले कश्चिन्म्रियते असपिण्डतायां सत्यां (४)तत्राऽनिर्गते दशाहे
न भोक्तव्यम् । ‘अनिर्दशे’ इत्याशौचकालस्योपलक्षणम् । तेन क्षत्रियादि-
ष्वधिकं पक्षिण्यादिषु न्यूनम् ॥ १८ ॥
तथाऽनुत्थितायां सूतकायाम् ॥ १९ ॥
सूतका सूतिका । तस्यामनुत्थितायाम् । उत्थानं नाम सूतिकागारे नि-
वेशितानामुदकुम्भादीनामपनयनम् । तच्च दशमेऽहनि भवति ।
(५)‘दशम्यामूत्थिताया’मिति गृहे उक्तत्वात् । अत्राप्याशौचकालोप-
लक्षणत्वाद्यावदाशौचमभोजनम् ।
अत्राऽङ्गिराः—
‘ब्रह्मक्षत्रविशां भुक्त्वा न दोषस्त्वग्निहोत्रिणाम् ।
सूतके शाव आशौचे त्वस्थिसञ्चयनात्परम् ॥ इति ॥ १९ ॥
अन्तःशवे च ॥ २० ॥
१. उपस्पृशेदिति विपरिणामेनेत्यन्तो भाग क. पुस्तके नास्ति ।
२. ‘सर्वेषु’ इति ख च. पु । स्वल्पेषु इति ग. पु. । ३. ‘सनिमित्त’मिति ख. पु.
४. ‘तत्रातीते दशाहे भोक्तव्यम्’ इति ग पु. ५. आप. गृ. १५ ८
अभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९३
याव(१)द्ग्रामात्र निर्ह्रीयेते शवः तावत्तत्र न भोक्तव्यम् । आचारस्तु
धनुश्शतादार्वाक् । तत्रापि प्रदीपमारोप्य उदकुम्भं चोपनिधाय भुञ्जते
यदि (२)समानवंशं गृहं न भवति ॥ २० ॥
अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ २१ ॥
अप्रयतेनाऽशुचिना उपहतं स्पृष्टमप्रयतं भवति । किंतु अशुद्धमप्यभोज्यं
न भवति । कः पुनरप्रयतस्याऽभोज्यस्य च विशेषः ? उच्यते—अप्रयत-
मन्नमग्नावधिश्रितमद्भिः प्रोक्षितं भस्मना मृदा वा संस्पृष्टं वाचा च
प्रशस्तं प्रयतं भवति भोज्यं च । अभोज्यं तु लशुनादि न कथञ्चि-
दपीति ॥ २१ ॥
अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ॥ २२ ॥
अप्रयतेन तु शूद्रेणोपहृतमानीयमानं न भोज्यम् , स्पृष्टमस्पृष्टं च । स्पृष्टमे-
वेत्यन्ये ॥ २२ ॥
यस्मिंश्चाऽऽन्ने केशास्स्यात् ॥ २३ ॥
तदप्यभोज्यम् । एतच्च पाकद्दशायामेव पतितेन केशेन सह यत्प-
कमन्नं तद्विषयम् । (३)पश्चात् केशसंसर्गे तु घृतप्रक्षेपादिना संस्कृतस्य
भोज्यत्वं स्मृत्यन्तरोक्तम् ॥ २३ ॥
अन्यद्वाऽमेध्यम् ॥ २४ ॥
अन्यद्वाऽमेध्यं नखादि यस्मिन्नन्ने स्यात् तदप्यभोज्यम् । इदमपि
पूर्ववत् ।
अत्र बौधायनः—
(४)'केशकीटनखरोमाखुपुरीषाणि दृष्ट्वा तावन्मात्रमन्नमुद्धृत्य शेषे
भोज्य'मिति । वसिष्ठस्तु (५)'कामं तु केश कीटानुत्सृज्याद्भिः प्रोक्ष्य
भस्मनाऽवकीर्य वाचा प्रशस्तमुपयुञ्जीते'ति ॥ २४ ॥
अमेध्यैरवमृष्टम् ॥ २५ ॥
१ ग्रामान्तं न इति क. पु.
२. समानवंशत्वं गृहाणा इति ख. पु. । समानं वंशगृहं न भवति इति क.
पुस्तकेऽपपाठः ।
३. भोजनकाले तु केशपाते घृतप्रक्षेपादिना तु संस्कृतं भोज्यम् । इति. घ. पु.
४ बौ. ध. २. १२. ६ ५ वा. ध १४ २३ उत्सृजीत इति ग. पु.
९४ आपस्तम्बधर्मसूत्रे [ (प्र.५.) क. १६.
अमेध्यैः कलञ्जपलण्ड्वादिभिरवमृष्ट स्पृष्टमभोज्यम् ॥ २५ ॥
कीटो वाऽमेध्यसेवी ॥ २६ ॥
'यस्मिंश्चान्ने केशः स्या'दिति व्यवहितमपि सम्बध्यते । अमेध्यसेवी
कीटः पूत्यण्डाख्यः ॥ २६ ॥
मूषिकलाङ्गं वा ॥ २७ ॥
पूर्ववत्सम्बन्धः । मूषिकला मूषिकपुरीषम् । अङ्गं वा । समस्तमपि
मूषिकग्रहणं सम्बध्यते । यस्मिन्नन्ने मूषिकस्याङ्गं पुच्छपादादि भवति
तदप्यभोज्यम् ॥ २७ ॥
पदा वोपहतम् ॥ २८ ॥
प्रयतेनाऽपि पदा यत्स्पृष्टं तदप्यभोज्यम् ॥ २८ ॥
सिचा वा ॥ २९ ॥
सिक् वस्त्रदशा । परिहितस्य वाससः सिचा यत् स्पृष्टं तदप्य-
भोज्यम् ॥ २९ ॥
शुना वाऽपपात्रेण वा दृष्टम् ॥ ३० ॥
दृष्टमिति प्रत्येकमभिसम्बध्यते । शुना वा दृष्टमपपात्रेण वा दृष्टं यत्तद-
प्यभोज्यम् । पतितसूतिकाचण्डालोदक्यादयोऽपपात्राः, अपगताः पा-
त्रेभ्यः । न हि ते पात्रे भोक्तुं लभन्ते ॥ ३० ॥
सिचा वोपहृतम् ॥ ३१ ॥
अपरिहितस्य शुद्धस्यापि वाससस्सिचा यदुपहृतमानीतं तदप्य-
भोज्यम् ॥ ३१ ॥
दास्या वा नक्तमाहृतम् ॥ ३२ ॥
दास्या रात्रावाहृतमभोज्यम् । स्त्रीलिङ्गनिर्देशात् दासेनाऽऽहृते न
दोषः । अन्ये लिङ्गमविवक्षितं मन्यन्ते । 'नक्त'मिति वचनाद्दिवा न
दोषः ॥ ३२ ॥
भुञ्जानं वा ॥ ३३ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ षोडशी कण्डिका ॥
अभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९५
यत्र शूद्र उपस्पृशेत् ॥ १ ॥
भोजनदशायां यदा शूद्र उपस्पृशेत् तदापि न भुञ्जीत । अत्र भुञ्जान-
ग्रहणादन्यदा शूद्रस्पर्शे नाऽप्रायत्यमिति केचित् । अन्ये तु—सदा भव-
त्येवाऽप्रायत्यम् , भोजनदशायां त्वाधिक्यप्रतिपादनाय निषेध इति॥१॥
अनर्हद्भिर्वा समानपङ्क्तौ ॥ २ ॥
सर्वत्र वाशब्दः समुच्चये । अभिजनविद्यावृत्तरहिता अनर्हन्तः ।
तैस्सह समानायां पङ्क्तौ न भुञ्जीत ॥ २ ॥
भुञ्जानेषु वा यत्राऽनूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ॥ ३ ॥
समानपङ्क्ताविति वर्तते । समानपङ्क्तौ बहुषु भुञ्जानेषु यद्येको
ऽनूत्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, तस्यां
पङ्क्तावितरेषां न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु(१) एको मध्ये
न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥ ३ ॥
कुत्सयित्वा वा यत्राऽन्नं दद्युः ॥४॥
मूर्ख, वैश्ववेय, विषं भुङ्क्ष्वेति, एवं कुत्सयित्वा यत्रान्नं दद्युस्तदप्य
भोज्यम् ॥ ४ ॥
मनुष्यैरवघ्रातमन्यैर्वाऽमेध्यैः ॥ ५ ॥
मनुष्यैरन्यैर्वा मार्जारादिभिरमेध्यैरवघ्रातमन्नमभोज्यम् । (२)अवेत्युपसर्ग-
योगात् दूरस्थैर्गन्धाघ्राणे न दोषः ॥ ५ ॥
न नावि भुञ्जीत ॥ ६ ॥
नाव्यासीनो न भुञ्जीत, शुद्धेऽपि पात्रे ॥ ६ ॥
तथा प्रासादे ॥ ७ ॥
प्रासादो दारुमयो मञ्चः । तत्रापि न भुञ्जीत ॥ ७ ॥
कृतभूमौ तु भुञ्जीत ॥ ८ ॥
भूमावपि भुञ्जानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । (३)अपर
आह—प्रासादोऽपि यदा मृदा कृतभूमिर्भवति, न केवलं दारुमयः, तदा
तत्र भुञ्जीतैवेति ॥ ८ ॥
१. कोऽपि. इति. ग. पु. २ अवोपसर्गयोगात् इति क. पु.
३. इदं व्याख्यान्तरं नास्ति. ग. पुस्तके ।
९६ आपस्तम्बधर्मसूत्रे [ (प.५) क. १७.
अनाप्रीते मृण्मये भोक्तव्यम् ॥ ९ ॥
यदि मृण्मये भुञ्जीत तदाऽनाप्रीते भोक्तव्यम् । आप्रीतं कचित्कार्ये पाका-
दावुपयुक्तम् ॥ ९ ।
आप्रीतं चेदभिदग्धे ॥ १० ॥
आप्रीतमेव चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ॥
परिमृष्टं लौहं प्रयतम् ॥ ११ ॥
लौहं लोहविकारभूतं कांस्यादि भोजनपात्रं भस्मादिभिः परिमृष्टं
सत् प्रयतं भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं
शकृता । सौवर्णमद्भिरेवेत्यादि स्मृत्यन्तरवशाद्रष्टव्यम् ॥ ११ ॥
निर्लिखितं दारुमयं ॥ १२ ॥
दारुमयं भाजनं निर्लिखितं तष्ट सत् प्रयतं भवति ॥ १२ ॥
यथागमं यज्ञे ॥ १३ ॥
यज्ञपात्रं तु यथागमं शोधितं प्रयतं भवति । तद्यथा अग्निहोत्र-
हवणी दर्भैरद्भिः प्रक्षालिता, सोमपात्राणि (१) मार्जालीये प्रक्षालितानि,
आज्यपात्राण्युष्णेन वारिणा ॥ १३ ॥
नाऽऽपणीयमन्नमश्नीयात् ॥ १४ ॥
आपणः पण्यवीथी । तत्र यत्क्रीतं लब्धं वा । तदापणीयम् । तच्च
कृतान्नं नाश्नीयात् । व्रीह्यादिषु न दोषः ॥ १४ ॥
तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥
रसाः रसद्रव्याणि । तानप्यापणीयान्नाश्नीयात् । (२) आममांसादि
वर्जयित्वा ॥ १५ ॥
तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ॥ १६ ॥
तैलसर्पिषी त्वापणीये अप्युपयोजयेत् । उदकेऽवधाय निषिच्य पाकेन तैल-
सर्पिषी(३)शांधयित्वा । कार्यविरोधो यथा न भवति तथा उदकेन सं-
सृज्येत्यन्ये(४) ॥ १६ ॥
१. मार्जालीयः सोमयागे सदोनामकमण्डपस्याग्नेयकोणे स्थितः स्थानविशेषः ।
२. आममांसादीनि परिहाप्य, इति ग पु. ३. शोषयित्वा इति ग. पु.
४ व्याचक्षते इत्यधिकं ख. ग. पु
अभोज्यान्नानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९७
कृतान्नं पर्युषितमखाद्यापेयानाद्यम् ॥ १७ ॥
कृतान्नं पक्वान्नं तत्पर्युषितं पूर्वेद्युः पक्वं सत् अखाद्यम् । अपेयमनाद्यं
च यथायोगं खरविशदं द्रवं मृदुविशदं सिद्धं च ॥ १७ ॥
शुक्तं च ॥ १८ ॥
शुक्तं यत्कालपाकानोऽम्लीभूतं तदपर्युषितमपि अखाद्यापेया-
नाद्यम् ॥ १८ ॥
फाणितपृथुकतण्डुलकरम्भ(१) भ्रूजसक्तुशाकमांसपि-
ष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ॥ १९ ॥
अनन्तरोक्तं विधिद्वयं फाणितादीन् वर्जयित्वा द्रष्टव्यम् । फाणितं पा-
नविशेषः । इक्षुरस इति केचित् । (२) भ्रष्टानां व्रीहीणां तण्डुलाः पृथूकृताः
पृथुकाः । करम्बो दधिसक्तुसमाहारः यः करम्भ इति प्रसिद्धः । वे-
देऽप्युभयं भवति(३) 'यत्करम्बेर्जुहोति' । (४) "धानाः करम्भः परि-
वापः" इति । भ्रूजाः भ्रष्टा यवाः । क्षीरविकारो दध्यादि । प्रसिद्धमन्यत् ॥
अथ 'शुक्तं चे'त्यस्य विधेः शेषः—
शुक्तं चाऽपरयोगम् ॥ २० ॥
परेण द्रव्यान्तरेण योगो यस्य तत् परयोगं, ततोऽन्यदपरयोगम् ।
तदेव शुक्तं वर्ज्यम् । यत्तु दध्यादि द्रव्यान्तरसंसृष्टं शुक्तं तद्भोज्यमेव ।
एवं च पूर्वत्रैवाऽपरयोगमिति विशेषणं वक्तव्यम् । इदमेव वा सूत्रमस्तु ।
सूत्रद्वयकरणं त्वाचार्यप्रवृत्तिकृतम् । यथा 'सलाद्वृक्येकसृकोलूकशब्दा'
(पृ. ५८) इति पूर्वं सामान्येनाभिधाय 'सलाद्वृक्यामेकसृक इति स्वप्न-
पर्यान्त' (पृ. ६५) मिति पश्चाद्विशेष उक्तः ॥ २० ॥
सर्वं मद्यमपेयम् ॥ २१ ॥
मद्यं मदकरं तत्सर्वमपेयम् । अत्र स्मृत्यन्तरवशाद्व्यवस्था ।
तत्र मनुः—
(५) 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका न पातव्या (६) तथा सर्वा द्विजोत्तमैः ॥' इति ।
सुराव्यतिरिक्तं तु मद्यं ब्राह्मणस्य नित्यमपेयम् ।
१. 'भ्रष्टे'ति ख. पु. भरिजेति क. पु. २ भर्जिताना इति. ख पु
३. तै. ब्रा ३ ८ १४. ४ तै. स. ६ ५ ११.
५. म. स्मृ. ११ ९४ ६ 'तथैवान्या' इति ग पु.
आप० ध० १३
तथा च गौतमः-
(१)'मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणो'रिति ॥२१॥
तथैलकं पयः ॥ २२ ॥
अवि एलका । तस्याः पयः क्षीरमपेयम् ॥ २२ ॥
उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ॥२३॥
उष्ट्रीमृग्यौ प्रसिद्धे । या गर्भिणी दुग्धे सा सन्धिनीति शाखान्तरे प्रसि-
द्धा । एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेकं गर्भं सूते, सा
यमसूः । उष्ट्रादीनां क्षीराण्येपेयानि । इतिकरणमेवं प्रकाराणामन्येषामे-
कशफादीनां क्षीरमपेयमिति ।
तथा च मनुः-
(२)'आरण्यानां च सर्वेषां मृगाणां महिषीं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥
अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ।
आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ इति ॥२३॥
धेनोश्चानिर्दशायाः ॥ २४ ॥
धेनुर्नवप्रसूता गौः । चकारादजामहिष्योश्च । (३)'अजा गावो महि-
ष्यश्चे'ति मानवे दर्शनात् ॥ २४ ॥
तथा कीलालोषधीनां च ॥ २५ ॥
कीलालोषधयः सुरार्था ओषधयः । तासां च विकारभूतमन्नमन्नाद्यम्॥२५॥
(४)करञ्जपलण्डुपरारीकाः ॥ २६ ॥
(५)करञ्जं रक्तलशुनम् । पलण्डु श्वेतम् । परारीका कृष्णम् । (६) मण्डु-
१ गौ. ध. २. २० मद्य नित्य ब्राह्मण', इत्येव सूत्रम् ॥ २ म. स्मृ. ५. ९, ८.
३ म. स्मृ. नाय श्लोको मानवे उपलभ्यते । प्रत्युत 'अनिर्दशाया गोः क्षीरं (५. ८)
इति श्लोकव्याख्यानावसरे कुल्लूकभट्टेन "गोरिति पेयक्षीरोपलक्षणार्थम् । तेनाजामहिष्यो-
रपि दशाहमध्ये प्रतिषेधः, इति लेखनात् 'अजा गावो महिष्यश्चे'त्यस्याऽमानवत्वमेवाऽनु-
मीयते । वस्तुतस्तु पाराशरीयं वचनामिदम् । ( परा. स्मृ. ३. ७.) तत्रैव दर्शनात् ॥
४. कलञ्जपलाण्डुपरारीकाः इति क पु. परारिका इति. घ पु.
५. अनेनैव प्रमाणेन 'न कलञ्ज भक्षयेत' इत्यादौ कलञ्जशब्दो रक्तलशुनपर इत्य-
स्माभिर्व्याख्यातं नञर्थनिरूपणावसरे मीमांसान्यायप्रकाशव्याख्यायां सारविवेचिन्याम् ।
तत्र प्रमाणान्तरमप्युपन्यस्त त त,त्रैव द्रष्टव्यम् ॥
६. डुण्डुभाष्यया इति ख. पु. सुहण्डुभाष्यया इति. क. पु.
अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९९
भाख्यया म्लेच्छानां प्रसिद्धम् । एते चाऽभक्ष्याः ॥ २६ ॥
अभक्ष्याणां प्रतिपदपाठो न शक्यते इति समासेनाह—
यच्चाऽन्यत् परिचक्षते ॥ २७ ॥
यच्चान्यदेवंयुक्तं शिष्टाः परिचक्षते वर्जयन्ति तदप्यभक्ष्यम् ।
तत्राह मनुः—
(१)लशुनं गृञ्जनं चैव पलाण्डु कवकानि च ॥
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥' इति ॥ २७ ॥
क्याक्वभोज्यमिति हि ब्राह्मणम् ॥२८॥
क्याकु छत्राकं तदभोज्यमभक्ष्यम् । ब्राह्मणग्रहणमुक्तार्थम् ॥ २८ ॥
एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ॥ २९ ॥
एकखुरा अश्वादयः । गवयो गोसदृशः पशुः । शरभोऽष्टपाद आरण्यो -
मृगः । अन्ये प्रसिद्धाः । एतेषां मांसमभक्ष्यम् ॥ २९ ॥
धेन्वनडुहोर्भक्ष्यम् ॥ ३० ॥
धेन्वनडुहोर्मांसं भक्ष्यम् । गोप्रतिषेधस्य प्रतिप्रसवः ॥ ३० ॥
मेध्यमानडुहमिति वाजसनेयकम् ॥ ३१ ॥
(२)अनडुहो मांसं न केवल भक्ष्यम्, किं तर्हि ? मेध्यमपीति वाजस-
नेयिनः समामनन्ति ॥ ३१ ॥
कुक्कुटो विकिराणाम् ॥ ३२ ॥
व्यवहितमप्यभोज्यमिति सम्बध्यते । पादाभ्यां विकीर्य कीटधा-
न्यादि ये भक्षयन्ति ते मयूरादयो विकिरास्तेषां मध्ये कुक्कुटो न भक्ष्यः ।
स्मृत्यन्तरवशात् ग्राम्यो, नाऽऽरण्यः ॥ ३२ ॥
प्लवः प्रतुदाम् ॥ ३३ ॥
तुण्डेन प्रतुद्य ये भक्षयन्ति ते दार्व्वाघाटादयः प्रतुदाः । तेषां मध्ये
प्लव एवाऽभक्ष्यः । प्लवः (३)शकटबलाख्यो बकविशेषः ॥ ३३ ॥
(४)क्रव्यादः ॥ ३४ ॥
१. म. स्मृ. ५ ५. २. आनडुहं मास० इति ख. ग. पु.
३ शकटविलाह्य इति ख पु. शकावलाख्यः इति. ग, पु शकबलाह्य इति.
घ, ङ. पुस्तकयो. । ४ एतदादि सूत्रत्रयमेकीकृतं क पु.
२. प्रथम प्रश्न (पटल ६-११): शुद्धि-अशुद्धि व प्रायश्चित्त
१०० आपस्तम्बधर्मसूत्रे [(प्र.५.)क.१७
क्रव्यं मांसं तदेव केवलं येऽदन्ति ते क्रव्यादः गृध्रादयः। ते ऽप्यभक्ष्याः
हंसभासचक्रवाकसुपर्णाश्च ॥ ३५ ॥
हंसः प्रसिद्धः । भासः श्येनाकृतिः पीनतुण्डः । चक्रवाकः मिथुनचरः ।
सुपर्णः श्येनः । एते चाऽभक्ष्याः ॥ ३५ ॥
क्रुञ्चक्रौञ्च वार्ध्रीणसलक्ष्मणवर्जम् ॥ ३६ ॥
क्रुञ्चा वृन्दचाराः । क्रौञ्चा मिथुनचराः । ते चाऽभक्ष्याः । सूत्रे क्रौ-
ञ्चेति विभक्तिलोपश्चान्दसः । किमविशेषेण क्रुञ्चक्रौञ्चा अभक्ष्याः । ने-
त्याह—वार्ध्रीणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः
त एव विशेष्यन्ते—वार्ध्रीणसा इति । वार्ध्री चर्म तदाकारा नासिका
येषां ते वार्ध्रीणसाः । एवंभूतान् लक्ष्मणाम् वर्जयित्वा क्रुञ्चक्रौञ्चा न
भक्ष्या इति ।
अन्ये त्वाहुः—'क्रव्याद्' इति प्राप्तस्य प्रतिषेधस्य क्रुञ्चादिषु चतुर्ष्व-
प्रतिषेध इति । तत्र लक्ष्मणा सारसी लक्ष्मणवर्जमिति(१) 'ङ्यापोस्सं-
ज्ञाच्छन्दसो'रिति ह्रस्वः। एवं क्रुञ्चादिशब्दस्याऽप्यजादित्वात्तन्तस्य ॥३६॥
पञ्चनखानां(२) गोधाकच्छपश्वाविच्छर्यकखङ्ग-
शशपूतिखषवर्जम् ॥ ३७ ॥
पञ्चनखानरवानरमार्जारादयः । तेषां मध्ये गोधादीन् सप्त वर्जयित्वा अ-
न्ये अभक्ष्याः । गोधा कृकलासाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाविद् व
राहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यकः शल्यकः, यस्य च-
र्मणा तनुत्राणं क्रियते । श्वाविच्छर्यक इति युक्तः पाठः । एके तु छकारं
पठन्ति । छकारात्पूर्वमिकारम् । खङ्गो मृगविशेषः, यस्य शृङ्गं तैलभा-
जनम् । शशः प्रसिद्धः । पूतिखष । शशाकृतिः हिमवति प्रसिद्धः ॥३७॥
अभक्ष्यश्चेटो मत्स्यानाम् ॥ ३८ ॥
मत्स्यानां मध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥
सर्पशीर्षी मृदुरः क्रव्यादो ये चाऽन्ये विकृता यथा
मनुष्यशिरसः ॥३९॥
सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये
च क्रव्यमेवाऽदन्ति शिशुमारादयः तेऽप्यभक्ष्याः । ये च उक्तेभ्योऽन्ये
१. पा. सू. ६ ३.६३ २. पञ्चपञ्चनखा भक्ष्या., इत्यत्र द्वितीयसप्तमवर्जिताना ग्रहणम् ।
अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०१
मत्स्या विकृताकाराः । तत्रोदाहरणम्-यथा मनुष्याशिरमः जलमनु
ष्याख्या जलहस्त्यादयश्च । तेऽपि सर्वे न भक्ष्याः । अत्र मनुः-
(१)'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥
(२)मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥' इति ।
(३)अप्रतिषिद्धेष्वपि भक्षणान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३९ ॥
इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां प्रथमप्रश्ने पञ्चमः पटलः ॥ ५ ॥
१. म. स्मृ. ५.५१. । २. श्लोकोऽयं नास्ति क. पु.
३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थः" इति
ग पु. ।
अथ षष्ठः पटलः ॥
एवं तावन्निमित्तदुष्टं जातिदुष्टं कालदुष्टं चाऽभोज्यमुक्तम् । तत्र नि-
मित्तदुष्टं 'यस्य कुले म्रियेते(पृ. ९२.)'त्यादि । जातिदुष्टं कलञ्जादि ।
कालदुष्टं पर्युषितादि । इदानीं प्रतिग्रहाशुचीनि कानिचिदनुज्ञाय
कानिचित् प्रतिषेधति—
मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यू-
तिर्निवेशनं युग्यघासश्चोग्रतः प्रतिगृह्याणि ॥ १ ॥
मधु पक्कमपक्वं वा । आम तण्डुलादि । मृगस्य विकारो मार्गं मांसम् ।
भूमिः शालेयादिक्षेत्रम् । विश्रमस्थानमित्यन्ये । मूलफलानि(१) मूलकाम्रा-
दीनि । रक्षा अभयदानम् । गव्यूतिर्गोमार्गः । निवेशनं गृहम् । युगं वहती-
ति युग्यो बलीवर्दः । तस्य घासो भक्ष्यं पलालादि । एतान्युग्रतोऽपि प्रति-
गृह्याणि प्रतिग्राह्याणि अदुर्भीक्षेऽपि । उग्रः पापकर्मा द्विजातिः, वैश्याद्वा
शूद्रायां जातः । उग्रग्रहणं तादृशानामुपलक्षणम् ॥ १ ॥
एतान्यपि नाऽनन्तेवास्याहतानीति हारीतः ॥ २ ॥
एतानि मध्वादीन्यपि अन्तेवास्याहतान्येव प्रतिग्राह्याणि, न स्वयमुग्रत
इति हारीत आचार्यो मन्यते ॥ २ ॥
आमं वा गृह्णीरन् ॥ ३ ॥
पूर्वोक्तेष्वामं स्वयमेव वा गृह्णीरन् द्विजा इति(२) हारीतस्यैव पक्षः ॥ ३ ।
कृतान्नस्य वा विरसस्य ॥ ४ ॥
आमस्याऽलाभे कृतान्नस्याऽपि विरसस्य लवणादिरसासंयुक्तस्य । षष्ठी
निर्देशात् स्तोकम् । स्वयमन्तेवास्याहृतं वा गृह्णीरन् ॥ ४ ॥
न सुभिक्षाः स्युः ॥ ५ ॥
अनन्तरोक्तविधानद्वये यद्गृहीतमन्नं तेन सुभिक्षाः सुहिता न भवेयु-
रेव । यावता प्राणयात्रा भवति तावदेव गृह्णीरन् , न यावता सौहित्यं
तावदिति ॥ ५ ॥
स्वयमप्यवृत्तौ सुवर्णं दत्वा पशुं वा भुञ्जीत ॥ ६ ॥
यदि तु दुर्भिक्षतया आत्मनोऽपि वृत्तिर्न लभ्यते प्रागेव पोष्यवर्गस्य,
१. मूलकन्दादीनि इति क. पु. २ हारीताचार्यस्य, इति छ. पु.
अनापद्वृत्तिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०३
तदा स्वयमप्यवृत्तौ यत्रैव लभ्यते तत्रैव कृतान्नमपि भुञ्जीत । तत्र गुण-
विधिः— सुवर्णं दत्वा सकृदेवोपक्लृप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन
पशुं वा दत्वेत्यपि व्याख्यातम् । 'पशुराग्नेः, (१)अग्निः पशुरासी'दिति
मन्त्रलिङ्गात्(२) गोसूक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥ ६ ॥
नाऽत्यन्तमन्ववस्येत् ॥ ७ ॥
न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥
वृत्तिं प्राप्य विरमेत् ॥ ८ ॥
यदा विहिता वृत्तिर्लभ्यते तदा निषिद्धाया विरमेत् । न पुन'स्स-
कृत्प्रवृत्तायाः किमवकुण्ठनेने”ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो
पनिषत्—‘(३)मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रा-
यण इभ्यग्रामे प्रद्राणक उवास । स हेभ्यं कुलमाषान् खादन्तं बिभिक्षे'
इत्यादि । मन्त्रवर्णश्च भवति(४) ‘अवर्त्या शुन अन्त्राणि पेचे' इति ।
अवर्त्या वृत्त्यभावेन । अपर आह-दुर्भिक्षे स्वयमप्यवृत्तौ आ तन्निवृ-
त्तेर्यत्र कुत्रचिन्म्लेच्छेऽपि दातरि भुञ्जानो वसेत् यां च यावतीं च स्वर्ण-
मात्रां य कश्चन पशु वा तस्मै दत्वा । न पुनरत्यन्तमन्ववस्येत् वृत्तिं
प्राप्य विरमेदिति ॥ ८ ॥
एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि वृत्तिमाह—
त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा-
वृत्तेन न भोक्तव्यम् ॥ ९ ॥
समावृत्तो द्विजातिः क्षत्रियादीनां त्रयाणां वर्णाना गृहे न भुञ्जीत ॥ ९ ॥
प्रकृत्या ब्राह्मणस्य भोक्तव्यमकारणादभोज्यम् ॥ १० ॥
१ तै. स. ५. ७. २६. २. ऋ. स. ६. २८. १
३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु
सस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया जायया
उषस्तिर्ह नामतः चक्रस्यापत्यं चाक्रायणः इभः हस्ती तमर्हतीतीभ्यः ईश्वरः हस्त्यारोहो
वा । तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणकः अन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सिता
गतिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य । सो-
ऽन्नार्थमटन्निभ्यं कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य बिभिक्षे”
इति शाङ्करभाष्यम्। ४. ऋ. सं ४. १८. १३.
१०४ आपस्तम्बधर्मसूत्रे [ (प.६)क. १८.
ब्राह्मणस्यान्न प्रकृत्या स्वभावैनैव भोक्तव्यम्। कारणादेव स्वभोज्यम्॥१०॥
कारणमाह-
यत्राऽप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ॥ ११ ॥
(१) यत्र यदा वैश्वदेवाग्निहोत्रादीनि नित्यमाभ्युदयिक वाऽप्राय-
श्चित्तं कर्माऽऽसेवते तात्पर्येण करोति प्रायश्चित्तवत्यात्मनि चोदितं प्रा-
यश्चित्तं (२)प्राणायामोपवासविधिकृच्छ्रादि न करोति तदा पत-
स्मात् कारणात् ब्राह्मणस्याऽन्नमभोज्यमिति ॥ ११ ॥
चरितनिर्वेशस्य भोक्तव्यम् ॥ १२ ॥
चरितो निर्वेशः प्रायश्चित्तं येन तस्याऽन्नं भोक्तव्यम्। तद्भोजने न दोषः।
निष्ठया भूतकालस्याऽभिधानाच्चर्यमाणेऽपि निर्वेशे न भोक्तव्यम्। किं
तर्हि ? चरिते ॥ १२ ॥
सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं
शूद्रवर्जमित्येके ॥ १३ ॥
शूद्रवर्जितानां स्वधर्मे वर्तमानानां त्रयाणां वर्णानामन्नं भोज्यम्। न
ब्राह्मणस्यैवेत्येके मन्यन्ते ॥ १३ ॥
तस्याऽपि धर्मोपनतस्य ॥ १४ ॥
तस्याऽपि शूद्रस्याऽन्नं भोज्यम् , यद्यसौ धर्मार्थमुपनतः आश्रितो भ-
वति । धर्मग्रहणदर्थार्थमुपनतस्याऽभोज्यम् । आपत्कल्पश्चाऽयम् ॥१४॥
सुवर्णं दत्वा पशुं वा भुञ्जीत नाऽत्यन्तमन्वव-
स्येद्द्वृत्तिं प्राप्य विरमेत् ॥ १५ ॥
गतम् ॥ १५ ॥
सङ्घान्न मभोज्यम् ॥ १६ ॥
सङ्घो गणः तस्य यत् स्वमन्न न त्वेकस्य । तदभोज्यं यद्यपि ते
सर्वे दद्युः ॥ १६ ॥
१. यत्र यदा अग्निहोत्रवैश्वदेवाकरणे प्रायश्चित्तं मुक्त्वा तदनुरूप, नित्यमाभ्यु-
दयिक वा कर्मासेवते तात्पर्येण करोति न प्रायश्चित्तवत्यात्मनि चोदिते प्रायश्चित्तं, तदैत-
स्मात्कारणादभोज्यमिति इति - क पु. । २ प्राणायामपथिकृदादि इति. ख. पु
अभोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०५
परिकुष्टं च ॥ १७ ॥
'भोक्तुकामा आगच्छत' इत्येवं परिकुश्य सर्वत आहूय यद्दीयते
तत्परिकुष्टं तदभोज्यम् ॥ १७ ॥
सर्वेषां च शिल्पाजीवानाम् ॥ १८ ॥
चित्रनिर्माणादिकं शिल्प ये आजीवन्ति(१) तेषां सर्वेषामपि ब्राह्म-
णादीनामन्नमभोज्यम् ॥ १८ ॥
ये च शस्त्रमाजीवन्ति ॥ १९ ॥
ये च शस्त्रेण जीवन्ति तेषामप्यन्नमभोज्यम् । क्षत्रियवर्जम्,(२)त-
स्य विहितत्वात् ॥ १९ ॥
ये चाऽऽधिम् ॥ २० ॥
आजीवन्तीत्यपेक्षते । स्वगृहे परान् वासयित्वा तेभ्यो भृतिग्रहणमा-
धि, यः स्तोम इति प्रसिद्धः ।
परभूमौ कुटि कृत्वा स्तोमं दत्त्वा वसेन्नु यः '। इति ।
तं चाऽऽधिं ये आजीवन्ति तेषामप्यन्नमभोज्यम् । ये तु प्रसिद्धमा-
धिमाजीवन्ति तेषां वार्धुषिकत्वादेव(३) सिद्धो निषेधः ॥ २० ॥
भिषक् ॥ २१ ॥
अभोज्यान्न इति प्रकरणाल्लभ्यते । भिषक् भैषज्यवृत्तिः । धर्मार्थं तु
ये सर्पदष्टादींश्चिकित्सन्ति ते भोज्यान्ना एव ॥ २१ ॥
वार्धुषिकः ॥ २२ ॥
वृद्ध्याजीवी । सोऽप्यभोज्यान्नः ॥ २२ ॥
दीक्षितोऽक्रीतराजकः ॥ २३ ॥
दीक्षितो(४) दीक्षणीयेष्ट्या संस्कृतः सोऽपि यावत् क्रीतराजको न
१ आजीवन्ति इत्यनन्तरं 'आजीवन्ति तेन ये जीवन्ति' इत्यधिकं क. पु.
२. तस्य विहितत्वात्, इति नास्ति क. पु.
३. अभोज्यान्नत्वं सिद्धम्, इति ख ग. पु.
४. ज्योतिष्टोमे- 'आग्नावैष्णवमेकादशकपालं निर्वपेत् दीक्षिष्यमाण', इत्यनेन
दक्षिणीयेष्टिनम काचिदिष्टिर्विहिता । सा च यजमानसंस्कारार्था, इति निर्णीत पूर्वमीमा-
सायां पञ्चमाध्याये । तया संस्कृतो यजमानो यावत् यागार्थद्रव्य सोमलता न क्रीणाति
आप० ध० १४