याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
इत्याशौचप्रकरणम् ।
प्रायश्चित्ताध्यायः ४३१
की शुद्धि जप से होती है और मन की शुद्धि का कारण सत्य बताया
गया है। भूतात्मा की शुद्धि का कारण तप और विद्या है तथा बुद्धि को
शुद्ध करने वाला ज्ञान है। क्षेत्रज्ञ (अर्थात् तप और विद्या द्वारा विशुद्ध)
की शुद्धि ईश्वर के ज्ञान से बताई गई है ॥ ३२-३४ ॥
इत्याशौचप्रकरणम् ।
अथआपद्धर्मप्रकरणम् २
‘आपद्यपि च कष्टायां सद्यःशौचं विधीयते’ (प्रा० १९) इत्यापदि मुख्या-
शौचकल्पानुष्ठानासम्भवेन सद्यःशौचाद्यनुकल्पमुक्त्वेदानीं तत्प्रसङ्गादापदि
‘प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा’ ( आ० ११८) इत्याद्युक्तयाजना-
दिमुख्यवृत्त्यसम्भवेन वृत्त्यन्तरमाह-
क्षात्रेण कर्मणा जीवेद्वैशां वाप्यापदि द्विजः
निस्तीर्य तामथात्मानं पावयित्वा न्यसेत्पथि ॥ ३५ ॥
द्विजो विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुमसमर्थः क्षत्रसंबन्धिना
कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुमशक्नुवन् वैश्य-
संबन्धिना कर्मणा वाणिज्यादिना जीवेत्, न तु शूद्रवृत्त्या । तथा च मनुः
(१०।८२)-'उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय
जीवेद्वैश्यस्य जीविकाम् ॥' इति । तथा आपद्यपि न हीनवर्णेन ब्राह्मी वृत्तिराश्रय-
णीया किंतु ब्राह्मणेन क्षात्री, क्षत्रियेण वैश्यसंबन्धिनी, वैश्येन च शौद्री, इत्येवं
स्वानन्तरहीनवर्णवृत्तिरेव । 'अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्ठे-
रन्नतु कदाचिज्ज्यायसीम्' इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथा
च स्मृत्यन्तरम्-'उत्कृष्टं वाऽपकृष्टं वा तयोः कर्म न विद्यते । मध्यमे कर्मणी
हित्वा सर्वसाधारणे हि ते ॥' इति । शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । यथा
ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनरापद्गतसर्ववर्णसाधारणे¹
इति । शूद्रश्चापद्गतो वैश्यवृत्त्या शिल्पैर्वा जीवेत् । 'शूद्रस्य द्विजशुश्रूषा तया
जीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितमाचरन्॥'(आ०१२९) इति
प्रागुक्तत्वात् ॥ मनुना चात्र विशेषो दर्शितः ( १०।१००)- 'यैः कर्मभिः
प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥'
इति । अनेनैव न्यायेनानुलोमोत्पन्नानामपि स्वानन्तरा वृत्तिरूहनीया । एवं
स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पाव-
यित्वा पथि न्यसेत् । स्ववृत्तावात्मानं स्थापयेदित्यर्थः । यद्वाऽयमर्थः-गर्हित-
१. साधारणे हि ते इति ।
४३२ याज्ञवल्क्यस्मृतिः
वृत्त्यार्जितं धनं पथि न्यसेदुत्सृजेदिति । तथा च मनुः ( १०।१११ )—'जपहो-
मैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव तु ॥'
इति ॥ ३५ ॥
भाषा—आपत्काल में ( अपने वर्ण की वृत्ति द्वारा जीविका चलाने में
असमर्थ होने पर ) ब्राह्मण क्षत्रिय के कर्म द्वारा अथवा वैश्य के कर्म द्वारा
जीवननिर्वाह करे आपत्काल पार कर लेने पर ( प्रायश्चित्त द्वारा ) अपने को
पवित्र करके पुनः अपने वर्ण की वृत्ति अपनावे ॥ ३५ ॥
वैश्यवृत्त्यापि जीवतो ब्राह्मणस्य यदपणीयं तदाह—
फलोपलक्षौमसोममनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥ ३६ ॥
शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुँतपकेश तक्रविषक्षितिः ॥ ३७ ॥
कौशेयनीललवणमांसैकशफसीसकान् ।
शाकार्द्रौषधिपिण्याकपशुगन्धांस्तथैव च ॥ ३८ ॥
वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
'नो विक्रीणीत' इति प्रत्येकमभिसंबद्ध्यते । फलानि कदलीफ़लादीनि
बदरेङ्गुदव्यतिरिक्तानि; यथाह नारदः—'स्वयंशीर्णानि पर्णानि फलानि बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥' इति । उपलं मणिमाणिक्याद्यश्म-
मात्रम् । क्षौममतसीसूत्रमयं वस्त्रम्, 'क्षौम'ग्रहणं तान्तवादेरुपलक्षणम् । यथाह
मनुः ( १०।८७ )—'सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्यु-
ररक्तानि फलमूले तथौषधीः ॥' इति, सोमो लताविशेषः, 'मनुष्य'पदेना-
विशेषात्स्त्रीपुंनपुंसकानां ग्रहणम् , अपूपं मण्डकादि भक्ष्यमात्रम् , वीरुधो
वेत्रामृतादिलताः, तिलाः प्रसिद्धाः, 'ओदन'ग्रहणं भोज्यमात्रोपलक्षणम् ;
रसा गुडेक्षुरसशर्करादयः; तथा च मनुः ( १०।८८ )—'क्षीरं क्षौद्रं दधि घृतं
तैलं मधु गुडं कुशान्' इति । क्षारा यवक्षारादयः । 'दधिक्षीरयो'र्ग्रहणं
मस्तुपिण्ड किलाटकूर्चिकादीनां तद्विकाराणामुपलक्षणम् । 'क्षीरं सविकारम्' ( ७।-
११ ) इति गौतमस्मरणात् । 'घृत'ग्रहणं तैलादिस्नेहमात्रोपलक्षणम् , जलं
प्रसिद्धम् , शस्त्रं खड्गादि, 'आसव'ग्रहणं मद्यमात्रोपलक्षणम् , मधूच्छिष्टं
सिक्थकम् , मधु क्षौद्रम् , लाक्षा जतु, बर्हिषः कुशाः, मृत् प्रसिद्धा, चर्मा-
जिनम् , पुष्पं प्रसिद्धम् , अजलोमकृतः कम्बलः कुतपः, केशाश्चमर्यादि-
१. रसक्षारदधि क्षीरघृतं जलम् । २. मधूच्छिष्टमधुलाक्षाः सबर्हिषः ।
३. कुतुपकेश । ४. नीली । ५. उपलं माणिक्यादि । ६. अजीर्णलोमकृतः ।
संबद्धाः, तक्रमुदश्वित् , विषं शृङ्गादि, क्षितिर्भूमिः, 'नित्यं भूमिव्रीहियवाः
जात्यश्वर्षभधेन्व्रनडुहश्चैके' इति सुमन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् ,
नीलं नीलारसम्, 'लवण'ग्रहणेनैव बिडसौवर्चलसैन्धवसामुद्रसोमककृत्रिमाण्य-
विशेषेण गृह्यन्ते । मांसं प्रसिद्धम् , एकशफा हयादयः, 'सीस'ग्रहणं
लोहमात्रोपलक्षणम्, शाकं सर्वम्; अविशेषात्, ओषधयः फलपाकान्ताः,
'आर्द्राषधय' इति विशेषोपादानाच्छुष्केषु न दोषः, पिण्याकः प्रसिद्धः, पशव
आरण्याः, 'आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च' ( १०।८९)—इति मनु-
स्मरणात् । गन्धाश्चन्दनागुरुप्रभृतयः, सर्वानैतान्वैश्यवृत्त्या जीवन्ब्राह्मणः ।
कदाचिदपि न विक्रीणीत; क्षत्रियादेस्तु न दोषः। अत एव नारदेन
'वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि' इति ब्राह्मणग्रहणं कृतम् ॥ ३६-३८ ॥
भाषा—फल, उपल (मणि, माणिक्य आदि), अतसी के सूत से निर्मित
वस्त्र, सोमलता, मनुष्य, पुआ, बेंत आदि लता, तिल, ओदन ( भोज्य पदार्थ,
रस ( घृत, तेल आदि ), क्षार, दही, दूध, घी, जल, शस्त्र, आसव, जूठा मद्य,
मधु, लाख, कुश, मिट्टी, चमड़ा, पुष्प, कुतप ( बकरे के रोएँ से निर्मित
कम्बल ), केश ( चँवर आदि ) तक्र ( मट्ठा ) विष, भूमि, कौशेयवस्त्र, नील,
नमक, मांस, एक खुर वाले पशु ( जैसे घोड़ा ), सीसा ( और लोहा ), शाक,
आर्द्र औषधि, पिण्याक, जंगली पशु और गन्ध—इन सब वस्तुओं को वैश्य
की वृत्ति द्वारा जीवन निर्वाह करते रहने पर भी कभी न बेंचे ॥ ३६-३८ ॥
प्रतिप्रसवमाह—
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ ३९ ॥
यद्यावश्यकाः पाकयज्ञादिधर्माः स्वसाधनव्रीह्यादिधान्याभावेन न निष्पद्य
न्ते तर्हि धान्येन तिला विक्रयं नयाः। तत्समाः द्रोणपरिमितो द्रोणपरिमितो-
नेत्येवं तेन धान्येन समाः। तथा च मनुः ( १०।०० )—'काममुत्पाद्य कृष्यान्तु
स्वयमेव कृषीवलः। विक्रीणीत तिलान्शुद्धान्धर्मार्थमचिरात्स्थितान् ॥' इति ।
'धर्म'ग्रहणमावश्यकभेषजाद्युपलक्षणम् । अत एव नारदः—'अशक्तौ भेषजस्यार्थे
यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्समाः ॥' इति यद्य-
न्यथा विक्रीणीते तर्हि दोषः । ( १०।९१ )—'भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते
तिलैः । कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥' इति मनुस्मरणात् ।
सजातीयैः पुनर्विनिमयो भवत्येव । 'रसा रसैर्निमातव्या नत्वेव लवणं रसैः ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥' ( मनुः १०।९४ )—इति ।
कृतान्नं सिद्धान्नम्, तच्च कृतान्नेन परिवर्तनीयम् । 'कृतान्नं चाकृतान्नेन'
१. गौतमस्मरणात् । २. कृष्यां तु । ३. नत्वेवं लवणं । ४. नीयमिति
यावत् ।
इति पाठे तु सिद्धमन्नमकृतान्नेन तण्डुलादिना परिवर्तनीयमिति ॥ ३९ ॥
भाषा—किन्तु धर्मार्थ ( औषधादिकार्यार्थ ) तिल के बराबर धान्य लेकर
तिल बेचना उचित है ॥ ३९ ॥
पूर्वोक्तनिषिद्धातिक्रमे दोषमाह—
लाक्षालवणमांसानि पतनीयानि विक्रये ।
पयो दधि च मद्यं च हीनवर्णकराणि तु ॥ ४० ॥
लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्म-
हानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि ।
एतद्व्यतिरिक्तपण्यविक्रये वैश्यतुल्यता । यथाह मनुः (१०।९२-९३)—
‘सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीर-
विक्रयात् ॥ इतरेषामपण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं
चं गच्छति ॥’ इति ॥ ४० ॥
भाषा—लाक्षा ( लाख ), नमक और मांस बेचने पर पतित हो जाता
है और दूध, दही तथा सुरा बेचने पर वह निम्नवर्ण का हो जाता है (अर्थात्
शूद्र के समान बन जाता है) ॥ ४० ॥
आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ४१ ॥
किंच, यस्त्वधनोऽवसन्नकुटुम्बतया आपद्गतोऽपि क्षत्रवृत्तिं वैश्यवृत्तिं वा
न प्रविशति स यतस्ततो ३हीनहीनतरहीनतमेभ्यः प्रतिगृह्णंस्तदन्नं
भुञ्जानोऽपि वाँ एनसा पापेन न लिप्यते । यतस्तस्यामापद्वस्थायामसं-
प्रतिग्रहादावधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनोऽर्कश्च हीनसंकरेऽपि
न दुष्यति 'तथाऽयमापद्गतोऽपि न दुष्यतीत्येतावता तत्साम्यम् । एवं च वदता
आपद्गतस्य परधर्माश्रयणाद् द्विगुणमपि स्वधर्मानुष्ठानमेव मुख्यमिति दर्शितं
भवति । तथा च मनुः (१०।९७)--'वरं स्वधर्मो विगुणो न पारक्यः स्व-
नुष्ठितः । परधर्माश्रयाद्विप्रः सद्यः पतति जातितः ॥' इति ॥ ४१ ॥
भाषा—आपत्काल में जिस किसी का दान एवं अन्न ग्रहण करने वाले
ब्राह्मण को पाप नहीं लगता, क्यों कि वह अग्नि और सूर्य के समान
होता है ॥ ४१ ॥
कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवाँनूपं नृपो भैक्षमपत्तौ जीवनानि तु ॥ ४२ ॥
१. निगच्छति । २. भुञ्जानोऽपि यत । ३. हीनतरस्ततो । ४. वा
नैवैनसा । ५. सेवाऽनूपो । ६. भैक्ष्यमापत्तौ ।
प्रायश्चित्ताध्यायः ४३५
किंच, 'आपत्तौ जीवनानि' इति विशेषणात्कृष्यादीनां मध्ये अनापद्व-
स्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिरनेनाभ्यनुज्ञायते । तथाऽऽपदि
वैश्यवृत्तिः स्वयं कृता कृषिर्विप्रक्षत्रिययोरभ्यनुज्ञायते एवं शिल्पाद्यो १न्यप्यस्या-
म्भ्यनुज्ञायन्ते । शिल्पं सूपकरणादि, भृतिः प्रैष्यत्वम् , विद्या भृतकाध्याप-
कत्वाद्या, कुसीदं वृद्धयर्थं द्रव्यप्रयोगः, तत् स्वयं कृतमभ्यनुज्ञायते, शकटं भाट-
केन धान्यादिवहनद्वारेण जीवनहेतुः, गिरिस्तद्गततृणेन्धनद्वारेण जीवनम् , सेवा
परचित्तानुवर्तनम् , अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः, तथा नृपो नृपयाचनम्,
भैक्षं स्नातकस्यापि, एतान्यापत्तौ जीवनानि । तथा च मनुः (१०।११६) -
'विद्या शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः । गिरिर्भैक्षं कुसीदं च दश
जीवनहेतवः ॥' इति ॥ ४२ ॥
भाषा-कृषि, शिल्प (कारीगरी), भृति (मजदूरी), वेतन लेकर
विद्याध्यापन, ब्याज के लिये धनप्रयोग, भाड़े पर गाड़ी चलाना, पर्वत (उस
पर प्राप्त होने वाले तृण एवं ईंधन), सेवा, अनूप (प्रचुर तृण, वृक्ष और
जल से व्याप्त प्रदेश), राजा (राजा से याचना) तथा भिक्षावृत्ति-ये
आपत्तिकाल में जीवन के साधन होते हैं ॥ ४२ ॥
यदा कृष्यादीनामपि जीवनहेतूनामसंभवस्तदा कथं जीवनमित्यत आह-
बुभुक्षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत् ।
प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥ ४३ ॥
धान्याभावेन त्रिरात्रं बुभुक्षितोऽनश्नन् स्थित्वा अब्राह्मणाच्छूद्रात्तद-
भावे वैश्यात् तदभावे क्षत्रियाद्वा हीनकर्मण एकाहपर्याप्तं धान्यं हरेत् । यथाह
मनुः (६।११७) -'तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तन-
विधानेन हर्तव्यं हीनकर्मणः ॥' इति । तथा च प्रतिग्रहोत्तरकालं यदपहृतं
तद्धर्मतो यथावृत्तमाख्येयम् । यदि नास्तिकेन स्वामिना त्वयेदं किं नाँमापह-
तमित्यभियुज्यते । यथाह मनुः (११।१७) -'खलात्क्षेत्रादगाराद्वा यतो वाप्युप-
लभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥' इति ॥ ४३ ॥
भाषा-तीन दिन भूखा रहकर अब्राह्मण (शूद्र या शूद्र के अभाव में
वैश्य और उसके अभाव में क्षत्रिय) के घर से अन्न चुरावे। पकड़े जाने पर
जो कुछ चुराया हो उसे धर्मपूर्वक बता देना चाहिए ॥ ४३ ॥
इदमपरमापत्प्रसङ्गाद्राज्ञो विधीयते-
तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ४४ ॥
१. न्यप्यनुज्ञायन्ते । २. रूपकरणादि । ३. तथाऽऽख्ये । ४. धान्य-
माहरेत् । ५. नाष्ठिकेन । ६. ममापहृतमिति ।
२८ या०
४३६ याज्ञवल्क्यस्मृतिः
यो¹ऽशनायापरीतोऽवसीदति तस्य वृत्तमाचारं, कुलमाभिजात्यं, शीलमा-
र्शवगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य
राजा धर्मादनपेतां वृत्तिं प्रकल्पयेत्, अन्यथा तस्य² दोषः, तथा च मनुः
(७।१३४)-'यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्य सीदति
तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥' इति ॥ ४४ ॥
भाषा-उसके आचार, कुल, शील, शास्त्रज्ञान, वेदाध्ययन, तप और
कुटुम्ब का ज्ञान प्राप्त करके राजा उसके लिए धर्मसम्मत वृत्ति निर्धारित
करे ॥ ४४ ॥
इत्यापद्धर्मप्रकरणम् ।
अथ वानप्रस्थधर्मप्रकरणम् ३
चतुर्णामश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर्धर्माः प्रतिपादिताः। सांप्रतमवस-
रप्राप्तान्वानप्रस्थधर्मान्प्रतिपादयितुमाह-
सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ४५ ॥
वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः, वनप्रस्थ एव वान-
प्रस्थः । संज्ञायां दीर्घत्वम् । आश्विनीं वृत्तिमाश्रित्य वनं प्रतिष्ठासुरिति यावत् ।
असौ सुतविन्यस्तपत्नीकः 'त्वयेयं वरणीया' इत्येवं सुते विन्यस्ता निक्षिप्ता
पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयमपि वनं जिगमि-
षति तदा तयाऽनुगतो वा सहितः । तथा ब्रह्मचारी ऊर्ध्वरेताः साग्निर्वैतानाग्नि-
सहितः तथा सोपासनो गृह्याग्निसहितश्च वनं व्रजेत् । 'सुतविन्यस्तपत्नीकं'
इति वदता कृतगार्हस्थ्यो वनवासे³ऽधिक्रियत इति दर्शितम् । एतच्चाश्रम-
समुच्चयपक्षमङ्गीकृत्योक्तम् । इतरथा 'अविप्लुतब्रह्मचर्यो यमिच्छेत्तु तमावसेत्'
इत्यकृतगार्हस्थ्योऽपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरक-
लेवरस्य जातपौत्रस्य वा । यथाऽह मनुः (६।२)-'गृहस्थस्तु यदा पश्ये-
द्वलीपलितमात्मनः । अपत्यस्यैव वाऽपत्यं तदारण्यं समाश्रयेत् ॥' इति ।
अयं च पुत्रेषु पत्नीनिक्षेपो विद्यमानभार्यस्य । मृतभार्यस्याप्यापस्तम्बादिभिः
वनवासस्मरणात् । अतो यत् ( आ० ८९) 'दाहयित्वाग्निहोत्रेण' इति पुन-
राधानविधानं,-तदपरिपक्वकषायविषयम् । 'साग्निः सोपासन' इत्यत्रापि
यदार्धाधानं कृतं तदा श्रौताग्निभिर्गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु
१. भोजनया। २. राज्ञो दोषः । ३. वानप्रस्थो वनवासे ।
प्रायश्चित्ताध्यायः ४३७
श्रौतैरेव केवलम् । यदि कथंचिज्ज्येष्ठभ्रातुरनाहिताग्नित्वादिना श्रौताग्नयोऽ-
नाहितास्तर्हि केवलं सोपासनो व्रजेदित्येवं विवेचनीयम् । अग्निनयनं च
तन्निर्वर्त्याग्निहोत्रादिकर्मसिद्ध्यर्थम् । अत एव मनुः ( ६।९ ) – 'वैतानिकं च
जुहुयादग्निहोत्रं यथाविधि । दर्शमस्कन्दयन्पर्व पौर्णमासं च शक्तितः ॥' इति ॥
ननु च पुत्रनिक्षिप्तपत्नीकस्य तद्विरहिणः कथमग्निहोत्रादिकर्मानुष्ठानं घटते ?
पत्न्या सह यष्टव्यम्'इति सहाधिकारनियमात्, सत्यमेवं; किंत्वत्र पत्नीनिक्षेपविधि-
बलादेव तन्नैरपेक्षेणाधिकारः कल्प्यते । यथा हि रजस्वलायां 'यस्य त्रत्येऽहनि
पत्न्यनालंम्भुका स्यात्तामपरुध्य॑ यजेते'त्यपरोधविधिबलात्तन्निरपेक्षता । यद्वा
वनं प्रतिष्ठमानमेव पतिं पत्न्यनुमन्यत इति न विरोधः । नच यथा ब्रह्मचारिणो
विधुरस्य वा वनं प्रस्थितस्याग्निहोत्रादिपरिलोपोस्तथा निक्षिप्तपत्नीकस्याप्य-
ग्निहोत्राद्यभाव इति शङ्कनीयम्; अपाक्तिकत्वेन श्रवणात् । नच ब्रह्मचारिविधुर-
योरप्यग्निसाध्यकर्मस्वनधिकारः । पञ्चममासाद्धूर्ध्वमाहितश्रावणिकाग्नेस्तद-
धिकारदर्शनात्, 'वानप्रस्थो जटिलश्धीराजिनवासा न फालकृष्टमधितिष्ठेत्,
अकृष्टं मूलफलं संचिन्वीत ऊर्ध्वरेताः दमाशयो दद्यादेव न प्रतिगृह्णीयादूर्ध्वं
पञ्चभ्यो मासेभ्यः श्रावणिकेनाग्नीनाधायाहिताग्निवृत्तमूलको दद्याद् देवपितृ-
मनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यम्' इति वसिष्ठस्मरणात् । चीरं वस्त्रखण्डो,
वल्कलं वा । न फालकृष्टमधितिष्ठेत्कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन
वैदिकेन मार्गेण न लौकिकेनेत्यर्थः ॥ ४५ ॥
भाषा - अपनी पत्नी को पुत्रों के संरक्षण में छोड़कर अथवा उसे साथ
लेकर, ( वैतानिक ) अग्नि और उपासना ( गृह्याग्नि ) सहित वन में जाकर
ब्रह्मचर्य धारण करते हुए वानप्रस्थ होवे ॥ ४५ ॥
'साग्निः सोपासनो व्रजेत्' ( प्रा० ४५ ) इत्येतदग्निसाध्यश्रौतस्मार्तकर्म-
नुष्ठानार्थमित्युक्तं, तत्र गुणविधिमाह -
अफालकृष्टेनाग्नींश्च पितॄन्देवातिथीनपि ।
भृत्यांश्च तर्पयेत् श्मश्रुजटालोमभृदात्मवान् ॥ ४६ ॥
'फाल'ग्रहणं कर्षणसाधनोपलक्षणम् । अकृष्टक्षेत्रोद्गवेन नीवारवेणुश्यामा-
कादिना अग्नींस्तर्पयेदग्निसाध्यानि कर्माण्यनुतिष्ठेत् । 'च'शब्दाद्भिक्षादानमपि
तेनैव कुर्यात् । तथा पितॄन्देवानतिथीन् 'अपि'शब्दाद् भूतान्यपि तेनैव तर्पयेत् ।
तथा भृत्यान् 'च'शब्दादाश्रमप्राप्तानपि । तथा च मनुः ( ६।७ ) – 'यद्भक्ष्यं
स्यात्ततो दद्याद्वलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥'
१. दर्शमास्कन्दयत् । २. तन्निरपेक्षेणाधिकारः । ३. वात्येऽहनि ।
४. लम्भिका । ५. अवरुध्य यजेतेत्यवरोध । ६. नाग्निमाधाय ।
४३८ याज्ञवल्क्यस्मृतिः
इति । एवं पञ्चमहायज्ञान्कृत्वा स्वयमपि तच्छेषमेव भुञ्जीत । (६।१२) -
'देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्जीत लवणं च
स्वयं कृतम् ॥' इति मनुस्मरणात् । स्वयं कृतमूपरलवणम् । एवं भोजनार्थे यागा-
र्थं च मुन्यन्ननियमाद् ग्राम्याहारपरित्यागोऽर्थसिद्धः । अत एव मनुः (६।३) -
'संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्' इति । ननु च दर्शपूर्णमासादेर्ब्रीह्या-
दिग्राम्यद्रव्यसाध्यत्वात्कथं तत्परित्यागः ? नच वचनीयम् 'अफालकृष्टेनाग्नींश्च'
(वसि० ९।३) इति विशेषवचनसामर्थ्याद् ब्रीह्यादिबाध इति । विशेषविषयी-
ण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यत्वात्, अफालकृष्टविधेश्च स्मार्ताग्निसाम्यकर्म-
विषयत्वेनाप्युपपत्तेः । सत्यमेवम् , किन्त्वत्र ब्रीह्यादेरप्यफालकृष्टत्वसंभवान्न
विरोधः । अत एवोक्तं मनुना ( ६।११ ) - 'वासन्तशारदैर्मेध्यैर्मुन्न्यन्नैः स्वयमा-
हृतैः । पुरोडाशांश्चरुंश्चैव विधिवन्निर्वपेत्पृथक् ॥' इति ॥ नीवारादीनां मुन्यन्नानां
स्वयमुत्पन्नानां स्वतो मेध्यत्वे सिद्धेऽपि पुनः 'मेध्य'ग्रहणं यज्ञार्हव्रीह्यादिप्राप्त्यर्थं
कृतम् । मेधो यज्ञस्तदर्हं मेध्यमिति । तथा श्मश्रूणि मुखजानि रोमाणि जटारू-
पांश्च शिरोरुहान्कक्षादीनि च रोमाणि बिभृयात् । 'रोम'ग्रहणं नखाना मप्युपलक्ष-
णम् । तथा च मनुः (६।६) - 'जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखांस्तथा' इति ।
तथारमवानात्मोपासनाभिरतः स्यात् ॥ ४६ ॥
भाषा-बिना जुती हुई भूमि पर स्वयं उत्पन्न (नीवार, वेणु, श्यामाक
आदि ) अन्न से अग्नियों, पितरों, देवों, अतिथियों एवं सेवकों को तृप्त करे
(पञ्च महायज्ञ करे ), दाढ़ी-मूँछ, जटा और शरीर के रोम बढ़ाये रखे तथा
आत्मवान् (उपासना में रत ) रहे ॥ ४६ ॥
पूर्वोक्तद्रव्यसंचयनियममाह-
अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥ ४७ ॥
एकस्याह्नः संबन्धि भोजनयजनादिष्टदृष्टकर्मणः पर्याप्तस्यार्थस्य संचयं
कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं
संचयं कुर्यात् ; नाधिकम् । यद्येवं क्रियमाणमपि कथंचिदतिरिच्यते तर्हि
तदतिरिक्तमाश्वयुजे मासि त्यजेत् ॥ ४७ ॥
भाषा-एक दिन, एक मास, छः मास या वर्षभर के लिये धन का
संचय करे और जो कुछ शेष बच जाय उसका आश्विन महीने में त्याग
कर डाले ॥ ४७ ॥
१. अकालकृष्टेन । २. अर्थाय ।
प्रायश्चित्ताध्यायः ४३६ .
दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।
स्वाध्यायवान्दानशीलः सर्वसत्त्वहिते रतः ॥ ४८ ॥
किंच, दान्तो दर्परहितः, त्रिषु सवनेषु प्रातर्मध्यंदिनापराह्णेषु स्नानशीलः ।
तथा प्रतिग्रहे पराङ्मुखः । 'च'शब्दाद्याजनादिनिवृत्तश्च । स्वाध्यायवान्
वेदाभ्यासरतः । तथा फलमूलभिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश्च
भवेत् ॥ ४८ ॥
भाषा — दान्त (दर्परहित) हो, तीनों सवनों में (प्रातः, मध्याह्न,
अपराह्न) स्नान करे; दान न लेवे, स्वाध्याय (वेदाभ्यास) में लगा रहे;
दान करे और सभी प्राणियों के हित में रत रहे ॥ ४८ ॥
दन्तोलूखलिकः कालपकाशी वाश्मकुट्टकः ।
१श्रौतं स्मार्तं फलस्नेहैः कर्म २कुर्यात्तथा क्रियाः ॥ ४९ ॥
किंच, दन्ता एवोलूखलं निस्तुषीकरणसाधनं दन्तोलूखलं, तद्यस्यास्ति स
दन्तोलूखलिकः । कालेनैव पक्वं कालपक्वं नीवारवेणुश्यामाकादि बदरेङ्गुदादि
फलं च तदशनशीलः कालपकाशी । 'वा'शब्दः 'अग्निपक्काशनो वा स्यात्काल-
पक्वभुगेव वा' (मनुः ६।१७) इति मन्तूक्ताग्निपक्वाशित्वाभिप्रायः । अश्मकु-
ट्टको वा भवेत् । अश्मना कुट्टनमवहननं यस्य स तथोक्तः । तथा श्रौतं स्मार्तं
च कर्म दृष्टार्थाश्च भोजनाभ्यञ्जनादिक्रियाः लकुचमधूकादिमेध्यतरुफलोद्भवैः
स्नेहद्रव्यैः कुर्यात्, न तु घृतादिकैः । तथा च मनुः (६।१३)—'मेध्यवृक्षो-
द्भवानद्यात्स्नेहांश्च फलसंभवान्' इति ॥ ४९ ॥
भाषा—दाँतों से ही छीलकर खावे, समय से अपने आप पके हुए फल
आदि का भोजन करे; अथवा पत्थर पर कूट कर खावे । श्रौत एवं स्मार्तं कर्म
तथा भोजन, अभ्यञ्जन आदि क्रिया फलों से निकले हुए चिकने तेल से करे
(घृत से नहीं) ॥ ४९ ॥
पुरुषार्थतया विहितद्विर्भोजननिवृत्त्यर्थमाह—
चान्द्रायणैर्नयेत्कालं ३कृच्छ्रैर्वा वर्तयेत्सदा ।
पक्षे गते वाप्यश्नीयान्मासे वाऽहनि वा गते ॥ ५० ॥
चान्द्रायणैर्वक्ष्यमाणलक्षणैः कालं नयेत् । कृच्छ्रैर्वा प्राजापत्यादिभिः
कालं वर्तयेत् । यद्वा,–पक्षे पञ्चदशदिनात्मकेऽतीतेऽश्नीयात् । मासे वाऽहनि गते
वा नक्तमश्नीयात् । 'अपि'शब्दाच्चतुर्थकालिकत्वादिनापि । यथाह मनुः (६।१९)
१. श्रौतस्मार्तं । २. कुर्यात्क्रियास्तथा । ३. सदा कृच्छ्रैश्च वर्तयेत् ।
४. यातेऽन्नमश्नी ।
४४० याज्ञवल्क्यस्मृतिः
‘नक्तं वाऽन्नं समश्नीयाद्दिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाप्यष्ट-
मकालिकः ॥’ इति । एतेषां च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥५०॥
भाषा—चान्द्रायण व्रत से समय बितावे अथवा सदैव कृच्छ्र व्रत करे ।
एक पक्ष या एक मास बीतने पर भोजन करे अथवा दिन बीतने पर ( रात
को ) भोजन करे ॥ ५० ॥
स्वंप्याद्भूमौ शुचौ रात्रौ दिवा संप्रपदैर्नयेत् ।
स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥ ५१ ॥
किंच, आहारविहारावसरवर्ज्यं रात्रौ शुचिः प्रयत्नः स्वप्यात् नोपविशे-
न्नापि तिष्ठेत् । दिवास्वप्नस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वाच्च तन्निवृत्तिपरम् ।
तथाभूमावेव स्वप्यात् । तच्च भूमावेव, न शय्यान्तरितायां मञ्चकादौ वा ।
दिनं तु संप्रपदैरटनैर्नयेत् । स्थानासनरूपैर्वा विहारैः संचारैः कंचित्कालं
स्थानं कंचित्त्वोपवेशनमित्येवं वा दिनं नयेत् । योगाभ्यासेन वा । तथा च
मनुः (६।२९) ‘विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः’ इति । आत्मनः संसि-
द्धये ब्रह्मस्वप्राप्तये । ‘तथा’शब्दाच्चित्तिपरिलोडनाद्वा नयेत् । ‘भूमौ विपरिवर्तेत
तिष्ठेद्व्रा प्रपदैर्दिनम्’ (६।२२)—इति मनुस्मरणात् । प्रपदैः पादाग्रैः ॥ ५१ ॥
भाषा—रात्रि को पवित्र होकर ( नंगी ) भूमि पर सोवे और दिन
घूमकर बितावे, अथवा स्थान ( खड़े होने ) और आसन ( बैठने ) के विहार
से या योगाभ्यास करते हुए दिन बितावे ॥ ५१ ॥
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥ ५२ ॥
किंच, ‘त्र्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः’ इति दर्शनात् ग्रीष्मे चैत्रादि-
मासचतुष्टये चतसृषु दिक्षु चत्वारोऽग्नयः उपरिष्टादादित्य इत्येवं पञ्चानामग्नीनां
मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधारा-
विनिवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशीर्षादिमासचतुष्टये क्लिन्नं
वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश्चरेत् ।
यथा शरीरशोषस्तथा यतेत —‘तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः’ ( ६।२४ )
इति मनुस्मरणात् ॥ ५२ ॥
भाषा—ग्रीष्म ऋतु में पंचाग्नि के बीच बैठे; वर्षा ऋतु में भींगी हुई
भूमि पर सोवे; हेमन्त ऋतु में गीले वस्त्र पहन कर रहे अथवा अपनी शक्ति
के अनुसार तपस्या करे ॥ ५२ ॥
यः कण्टकैर्विंतुदति चन्दनैश्च विलिम्पति ।
अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥ ५३ ॥
१. शुचिर्भूमौ स्वपेद्रात्रौ दिवसं प्र । २. चन्दनैर्यो विलि।
प्रायश्चित्ताध्यायः ४४१
किंच, यः कश्चित्कण्टकादिभिर्विविधमङ्गानि तुदति व्यथयति तस्मै न
क्रुध्येत् । यश्चन्दनादिभिरुपलिम्पति सुखयति तस्य न परितुष्येत् । किंतु
तयोरुभयोरपि समः स्यादुदासीनो भवेत् ॥ ५३ ॥
भाषा - जो काटा चुभाता हो और जो चन्दन का लेप करता हो उन
पर क्रमशः न क्रुद्ध होवे और न प्रसन्न होवे । इन दोनों पर ही समान दृष्टि-
कोण रखे ( अर्थात् उदासीन होकर रहे ) ॥ ५३ ॥
अग्निपरिचर्याक्षमं प्रत्याह—
अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षमाचरेत् ॥ ५४ ॥
अग्नीनात्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स
तथोक्तः । मिताशनः स्वल्पाहारः । 'अपि' शब्दात्फलमूलाशनश्च भवेत् ।
यथाह मनुः (६।२५)—अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निर-
निकेतः स्यान्मुनिर्मूलफलाशनः ॥' इति । मुनिर्मौनव्रतयुक्तः । फलमूलासंभवे च
यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्वाचरेत् ॥ ५४ ॥
भाषा-अग्नियों का अपनी आत्मा में ही समारोप करके, वृक्ष को ही
आवास बनाकर ( अर्थात् वृक्ष के नीचे ही निवास करते हुए ) अल्पा-
हारी होकर और जीवन यात्रा भर के लिये ही अन्न वानप्रस्थों के घर से
मांगे ॥ ५४ ॥
यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यमित्यत आह—
ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः ।
ग्रामाद्वा भैक्षमाहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान्भुञ्जीत । ग्राम्य-
भैक्षविधानान्मुन्यन्ननियमोऽर्थलुप्तः । यदा पुनरष्टभिर्प्रासैः प्राणधारणं न संभवति
तदा 'अष्टौ ग्रासा मुनेर्भैक्षं वानप्रस्थस्य षोडशे'ति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥—
भाषा-अथवा गांव से अन्न लाकर मौन होकर केवल आठ ग्रास
( कौर ) खावे ।
सकलानुष्ठानासमर्थं प्रत्याह—
वायुभक्षः प्रागुदीचीं गच्छेद्व्राऽऽध्वर्मसंक्षयात् ॥ ५५ ॥
अथवा, -वायुरेव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीमैशानीं दिशं
गच्छेत् । आ वर्मसंक्षयात् वर्म वपुस्तस्य निपातपर्यन्तमकुटिलगतिर्ग-
च्छेत् । यथाह मनुः ( ६।३१ )—'अपराजितां वास्थाय गच्छेद्दिशमजिह्मगः'
इति । महाप्रस्थानेऽप्यशक्तौ भृगुपतनादिकं वा कुर्यात् ; 'वानप्रस्थो वीरोऽध्वानं
१. वीराधानं ।
४४२ याज्ञवल्क्यस्मृतिः
ज्वलनाम्बुप्रवेशनं भृगुपतनं वानुतिष्ठेत्' इति स्मरणात् । स्नानाचमनादिधर्मा
ब्रह्मचारिप्रकरणविहिताश्चाविरोधिनोऽस्यापि भवन्ति; 'उत्तरेषां चैतदविरोधि'
इति गौतमस्मरणात् । एवं प्रागुदितैन्दवादिदीक्षामहाप्रस्थानपर्यन्तं तनुत्यागा-
न्तमनुतिष्ठन्ब्रह्मलोके पूज्यतां प्राप्नोति । यथाह मनुः ( ६।३२ )—'आसां मह-
र्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥'
इति । ब्रह्मलोकः स्थानविशेषो नतु नित्यं ब्रह्म । तत्र 'लोक'शब्दस्याप्रयोगात् ।
तुरीयाश्रममन्तरेण मुख्यनङ्गीकाराच्च । नच 'योगाभ्यासेन वा पुनः' (प्रा० ५३)
इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया । सालोक्यादिप्राप्त्यर्थ-
त्वेनापि तदुपपत्तेः । अत एव श्रुतौ 'त्रयो धर्मस्कन्धा' इत्युपक्रम्य 'यज्ञोऽध्ययनं
दानमिति प्रथमः, तप एवेति द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः । अत्यन्त-
माचार्यकुल एवमात्मानमवसादयन्निति गार्हस्थ्यवानप्रस्थनैष्ठिकत्वस्वरूपमभि-
धाय सर्व एते पुण्यलोका भवन्तीति त्रयाणामाश्रमिणां पुण्यलोकप्राप्तिमभिधाय
ब्रह्मसंस्थोऽमृतत्वमेति' इति पारिशेष्यात्परिव्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणा-
मृतत्वप्राप्तिरभिहिता । यदपि 'श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते' इति
गृहस्थस्यापि मोक्षप्रतिपादनं तद्भावान्तरानुभूतपारिव्राज्यस्येत्यवगन्तव्यम् ॥५५॥
भाषा—अथवा वायु का भक्षण करते हुए ( उपवास करते हुए )
ईशान दिशा की ओर तब तक चलता जाये जब तक शरीर पात नहीं
हो जाता ॥ ५५ ॥
इति वानप्रस्थधर्मप्रकरणम् ।
अथ यतिधर्मप्रकरणम् ४
वैखानसकर्माननुक्रम्य क्रमप्राप्तानपरिव्राजकधर्मान्सांप्रतं प्रस्तौति—
वनाद् गृहाद्वा कृत्वेष्टिं सौर्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥ ५६ ॥
अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् ।
शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥ ५७ ॥
यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति
पुनश्च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे
मनः कुर्यात् । 'वन-गृह-शब्दाभ्यां तत्संबन्ध्याश्रमो लक्ष्यते । 'मोक्ष'शब्देन च
मोक्षैकफलकश्चतुर्थाश्रमः ॥ अथवा, गृहाद् गार्हस्थ्यादनन्तरं मोक्षे मनः कुर्यात् ।
अनेन च पूर्वोक्तश्चतुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतयति । तथा
१. वानप्रस्थधर्मान् । २. सर्व ।
च विकल्पो जाबालश्रुतौ श्रूयते - 'ब्रह्मचर्यं परिसमाप्य गृही भवेत् ,
गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव
प्रव्रजेत् गृहाद्वा वनाद्वा' इति । तथा 'गार्हस्थ्योत्तराश्रमबाधश्च गौतमेन दर्शितः
( ३।३६ ) - 'ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य' इति । एतेषां
च समुच्चयविकल्पबाधपक्षाणां सर्वेषां श्रुतिमूलत्वादच्छया विकल्पः । अतो
यत्कैश्चित्पण्डितंमन्यैरुक्तम् - 'स्मार्तत्वान्नष्ठिकादीनां गार्हस्थ्येन श्रौतेन बाधः
गार्हस्यानधिकृतान्धक्लीबादिविषयता वा' इति तत्स्वाध्यायाध्ययनवैधुर्यनि-
बन्धनमित्युपेक्षणीयम् । किंच, - यथा विष्णुकमणाज्यावेक्षणाद्यक्षमतया पंग्वादीनां
श्रौतेष्वनधिकारस्तथा स्मार्तेष्वप्युदकुम्भाहरणभिक्षाचर्यादिष्वक्षमत्वात्कथं पंग्वादि-
विषयतया नैष्ठिकराद्याश्रमनिर्वाहः अस्मिंश्चाश्रमे ब्राह्मणस्यैवाधिकारः । मनुः
( ६।२५ ) - 'आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ।' तथा (६।९७) -
'एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः' इत्युपक्रमोपसंहाराभ्यां मनुना
ब्राह्मणस्याधिकारप्रतिपादनात् । 'ब्राह्मणाः प्रव्रजन्ति'इति श्रुतेश्चाग्रजन्मन एव।-
धिकारः, न द्विजातिमात्रस्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात् 'त्रयाणां वर्णानां
वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनाच्च द्विजातिमात्रस्याधि-
कारमाहुः ॥ यदा च वनाद् गृहाद्वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी
सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकामिष्टिं कृत्वा
तदन्ते तान्वैतानानग्नीनात्मनि श्रुत्युक्तविधानेन समारोप्य 'च' शब्दात्
'उदगयने पौर्णमास्यां पुरश्चरणमादौ कृत्वा शुद्धेन कायेनाष्टौ श्राद्धानि निर्वपेत्
द्वादश वा' इति बौधायनाद्युक्तं पुरश्चरणादिकं च कृत्वा तथाऽधीतवेदो जपप-
रायणो जातपुत्रो दीनान्धकृपणार्पितार्थो यथाशक्त्यान्नदश्च भूत्वाऽनाहिता-
ग्रिञ्ज्र्ध्वरेत्त्वादिन। प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान्यज्ञान्कृत्वा मोक्षे
मनः कुर्यात् - चतुर्थाश्रमं प्रविशेन्नान्यथा । अनेनानपाकृतऋणत्रयस्य गृहस्थस्य
प्रव्रज्यायामधिकारं दर्शयति ॥ यथाह मनुः ( ६।३५ ) - 'ऋणानि त्रीण्य-
पाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥'
इति ॥ यदा तु ब्रह्मचर्यात्प्रव्रजति तदा न प्रजोत्पादनादिनियमः; अकृतदारप-
रिग्रहस्य तत्रानधिकारात् रागप्रयुक्तत्वाच्च विवाहस्य । नच ऋणत्रयापाकरण-
विधिरेव दारान्याक्षिपतीति शङ्कनीयम् ; विद्याधनाद्यर्जननियमवदन्यप्रयुक्तदार-
संभवे तस्यानाक्षेपकत्वात् । ननु 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवाञ्जायते
ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति जातमात्रस्यैव प्रजोत्पाद-
नादीन्यावश्यकानीति दर्शयति । मैवम् ; नहि जातमात्रः अकृतदाराग्निरिग्रहो
१. गृहस्थोत्तराश्रम ।