सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 488, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 488

४३२ याज्ञवल्क्यस्मृतिः
वृत्त्यार्जितं धनं पथि न्यसेदुत्सृजेदिति । तथा च मनुः ( १०।१११ )—'जपहो-
मैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव तु ॥'
इति ॥ ३५ ॥
भाषा—आपत्काल में ( अपने वर्ण की वृत्ति द्वारा जीविका चलाने में
असमर्थ होने पर ) ब्राह्मण क्षत्रिय के कर्म द्वारा अथवा वैश्य के कर्म द्वारा
जीवननिर्वाह करे आपत्काल पार कर लेने पर ( प्रायश्चित्त द्वारा ) अपने को
पवित्र करके पुनः अपने वर्ण की वृत्ति अपनावे ॥ ३५ ॥
वैश्यवृत्त्यापि जीवतो ब्राह्मणस्य यदपणीयं तदाह—
फलोपलक्षौमसोममनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥ ३६ ॥
शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुँतपकेश तक्रविषक्षितिः ॥ ३७ ॥
कौशेयनीललवणमांसैकशफसीसकान् ।
शाकार्द्रौषधिपिण्याकपशुगन्धांस्तथैव च ॥ ३८ ॥
वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
'नो विक्रीणीत' इति प्रत्येकमभिसंबद्ध्यते । फलानि कदलीफ़लादीनि
बदरेङ्गुदव्यतिरिक्तानि; यथाह नारदः—'स्वयंशीर्णानि पर्णानि फलानि बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥' इति । उपलं मणिमाणिक्याद्यश्म-
मात्रम् । क्षौममतसीसूत्रमयं वस्त्रम्, 'क्षौम'ग्रहणं तान्तवादेरुपलक्षणम् । यथाह
मनुः ( १०।८७ )—'सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्यु-
ररक्तानि फलमूले तथौषधीः ॥' इति, सोमो लताविशेषः, 'मनुष्य'पदेना-
विशेषात्स्त्रीपुंनपुंसकानां ग्रहणम् , अपूपं मण्डकादि भक्ष्यमात्रम् , वीरुधो
वेत्रामृतादिलताः, तिलाः प्रसिद्धाः, 'ओदन'ग्रहणं भोज्यमात्रोपलक्षणम् ;
रसा गुडेक्षुरसशर्करादयः; तथा च मनुः ( १०।८८ )—'क्षीरं क्षौद्रं दधि घृतं
तैलं मधु गुडं कुशान्' इति । क्षारा यवक्षारादयः । 'दधिक्षीरयो'र्ग्रहणं
मस्तुपिण्ड किलाटकूर्चिकादीनां तद्विकाराणामुपलक्षणम् । 'क्षीरं सविकारम्' ( ७।-
११ ) इति गौतमस्मरणात् । 'घृत'ग्रहणं तैलादिस्नेहमात्रोपलक्षणम् , जलं
प्रसिद्धम् , शस्त्रं खड्गादि, 'आसव'ग्रहणं मद्यमात्रोपलक्षणम् , मधूच्छिष्टं
सिक्थकम् , मधु क्षौद्रम् , लाक्षा जतु, बर्हिषः कुशाः, मृत् प्रसिद्धा, चर्मा-
जिनम् , पुष्पं प्रसिद्धम् , अजलोमकृतः कम्बलः कुतपः, केशाश्चमर्यादि-
१. रसक्षारदधि क्षीरघृतं जलम् । २. मधूच्छिष्टमधुलाक्षाः सबर्हिषः ।
३. कुतुपकेश । ४. नीली । ५. उपलं माणिक्यादि । ६. अजीर्णलोमकृतः ।