सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 492, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 492

४३६ याज्ञवल्क्यस्मृतिः
यो¹ऽशनायापरीतोऽवसीदति तस्य वृत्तमाचारं, कुलमाभिजात्यं, शीलमा-
र्शवगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य
राजा धर्मादनपेतां वृत्तिं प्रकल्पयेत्, अन्यथा तस्य² दोषः, तथा च मनुः
(७।१३४)-'यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्य सीदति
तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥' इति ॥ ४४ ॥
भाषा-उसके आचार, कुल, शील, शास्त्रज्ञान, वेदाध्ययन, तप और
कुटुम्ब का ज्ञान प्राप्त करके राजा उसके लिए धर्मसम्मत वृत्ति निर्धारित
करे ॥ ४४ ॥
इत्यापद्धर्मप्रकरणम् ।
अथ वानप्रस्थधर्मप्रकरणम् ३
चतुर्णामश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर्धर्माः प्रतिपादिताः। सांप्रतमवस-
रप्राप्तान्वानप्रस्थधर्मान्प्रतिपादयितुमाह-
सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ४५ ॥
वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः, वनप्रस्थ एव वान-
प्रस्थः । संज्ञायां दीर्घत्वम् । आश्विनीं वृत्तिमाश्रित्य वनं प्रतिष्ठासुरिति यावत् ।
असौ सुतविन्यस्तपत्नीकः 'त्वयेयं वरणीया' इत्येवं सुते विन्यस्ता निक्षिप्ता
पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयमपि वनं जिगमि-
षति तदा तयाऽनुगतो वा सहितः । तथा ब्रह्मचारी ऊर्ध्वरेताः साग्निर्वैतानाग्नि-
सहितः तथा सोपासनो गृह्याग्निसहितश्च वनं व्रजेत् । 'सुतविन्यस्तपत्नीकं'
इति वदता कृतगार्हस्थ्यो वनवासे³ऽधिक्रियत इति दर्शितम् । एतच्चाश्रम-
समुच्चयपक्षमङ्गीकृत्योक्तम् । इतरथा 'अविप्लुतब्रह्मचर्यो यमिच्छेत्तु तमावसेत्'
इत्यकृतगार्हस्थ्योऽपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरक-
लेवरस्य जातपौत्रस्य वा । यथाऽह मनुः (६।२)-'गृहस्थस्तु यदा पश्ये-
द्वलीपलितमात्मनः । अपत्यस्यैव वाऽपत्यं तदारण्यं समाश्रयेत् ॥' इति ।
अयं च पुत्रेषु पत्नीनिक्षेपो विद्यमानभार्यस्य । मृतभार्यस्याप्यापस्तम्बादिभिः
वनवासस्मरणात् । अतो यत् ( आ० ८९) 'दाहयित्वाग्निहोत्रेण' इति पुन-
राधानविधानं,-तदपरिपक्वकषायविषयम् । 'साग्निः सोपासन' इत्यत्रापि
यदार्धाधानं कृतं तदा श्रौताग्निभिर्गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु
१. भोजनया। २. राज्ञो दोषः । ३. वानप्रस्थो वनवासे ।