सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

प्रतिषिद्धयोः स्त्रीपुंसयोः पुनः सँल्लापादिकरणे दण्डमाह—

३७८ याज्ञवल्क्यस्मृतिः
प्रतिषिद्धयोः स्त्रीपुंसयोः पुनः सँल्लापादिकरणे दण्डमाह—
स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर्दण्डो यथा संग्रहरणे तथा ॥ २८५ ॥
प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर्येन सह संभापणादिकं निषिद्धं
तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे प्रवर्तमानो
द्विशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहरणे संभोगे
वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच्च चारणादिभार्याव्यति-
रेकेण । 'नैष चारणदारेषु विधिर्नात्मोपजीविषु । सञ्जयन्ति हि ते नारीं
निगूढाश्चारयन्ति च ॥ ( ८।३६२ )—इति मनुस्मरणात् ॥ २८५ ॥
भाषा—पति, पिता भाई आदि ने जिस पुरुष के साथ बोलने के लिये
मना किया हो उससे बोलने पर स्त्री सौ पण और इसी प्रकार का निषेध
किये जाने पर भी किसी स्त्री से बोलने या संबन्ध रखने वाले पुरुष से दो सौ
दण्ड दे । दोनों को वर्जित किया गया हो तो उन्हें वही दण्ड होता है जो
उपर्युक्त संग्रहण आदि में होता है ॥ २८५ ॥
तमिदानीं संग्रहरणे दण्डमाह—
सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २८६ ॥
चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपण-
सहस्रं दण्डनीयः । यदा त्वानुलोम्येन हीनवर्णां स्त्रियमगुप्तामभिगच्छति, तदा
मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णामगुप्तामानुलोम्येन गुप्तां वा व्रजति
तदा मानवे विशेष उक्तः ( ८।३७८-३८३ )—'सहस्रं ब्राह्मणो दण्ड्यो गुप्तां
विप्रां बलाद् व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥' तथा—
'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रियविशोः सहस्रं तु
भवेद्दमः ॥' इति ॥ एतच्च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम् ।—'माता
मातृष्वसा श्वश्रूमातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी
स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री
साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्यो-
त्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' ( १२।७३—७५ ) इति नारदस्मर-
णात् । प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्ता-
विषयम् ; अन्यत्र तु धनदण्डः । 'उभावपि हि तावेव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ब्राह्मणीं यद्यगुप्तां तु सेवेतां
वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥' ( ८।३७६।३७७ )

व्यवहाराध्यायः ३७९
इति मनुस्मरणात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णां स्त्रियं व्रजतो लिङ्गच्छेदनसर्व-
स्वापहारौ; गुप्तां तु व्रजतस्तस्य वधसर्वस्वापहाराविति तेनैवोक्तम् । (मनुः
८।३७४ ) - 'शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अंगुसमङ्गसर्वस्वैर्गुप्तं
सर्वेण हीयते ॥' इति । नार्याः पुनर्हीनवर्णं व्रजन्त्याः कर्णयोः, 'आदि'ग्रहणात्रा-
सादेश्च कर्तनम् । आनुलोम्येन वा सवर्णं वा व्रजन्त्या दण्डः कल्प्यः । अयं च
वधाद्युपदेशो राज्ञ एव, तस्यैव पालनाधिकारात्न द्विजातिमात्रस्य । तस्य
'ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत' इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो
निवेदनेन कालविलम्बनेन कार्यातिपाताशङ्का तदा स्वयमेव जारादीन्हन्यात् ।
(मनुः ८।३४८ )- 'शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते' । तथा (मनुः
८।३५१ ) - 'नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा
मन्युस्तं मन्युमृच्छति ॥' इति शस्त्रग्रहणमभ्यनुज्ञानाच्च । तथा क्षत्रियवैश्ययो-
रन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्र-पञ्चशतपणत्मकौ दण्डौ वेदितव्यौ । तदाह
मनुः ( ८।३८२ ) - 'वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो
ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥' इति ॥ २८६ ॥
भाषा-सजातीय परायी स्त्री से व्यभिचार करने पर उत्तम साहस का,
वर्ण की अनुलोमता होने पर अर्थात् अपने से छोटी जाति का स्त्री से व्यभिचार
करने पर मध्यम साहस का दण्ड होता है। वर्ण की प्रतिलोमता पर (अपने
से उच्च जाति की स्त्री के साथ व्यभिचार करने पर) दोषी पुरुष का वध
कर देना चाहिए और (अपने से नीच वर्ण के पुरुष के साथ व्यभिचार-
रत) स्त्रियों का कान आदि काट लेना चाहिए ॥ २८६ ॥
पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाह-
अलंकृतां हरेत्कन्यामुत्तमं ³ह्यन्यथाऽधमम् ।
दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २८७ ॥
विवाहाभिमुखीभूतामलंकृतां सवर्णां कन्यामपहरन्नुत्तमसाहसं दण्डनीयः ।
तदनभिमुखीं सवर्णां हरन्प्रथमसाहसम् । उत्कृष्टवर्णजां कन्यामपहरतः पुनः
क्षत्रियादेर्वध एव । दण्डविधानाच्चापहर्तृसकाशादाच्छिद्यान्यस्मै देयेति
गम्यते ॥ २८७ ॥
भाषा-जिस का विवाह होने वाला हो उस आभूषणों से युक्त सवर्णा
कन्या का अपहरण करने वाले को उत्तम साहस का दण्ड होता है; अन्यथा
(ब्याही जाने वाली कन्या न होने पर) अधम साहस का दण्ड होता है;
१. अगुरुमैकाङ्गसर्वस्वैः । २. हरेत्कन्य्याम् । ३. त्वन्यथाऽधमम ।
४. सवर्णां तु प्राति ।

३८० याज्ञवल्क्यस्मृतिः
उच्च जाति का कन्या का अपहरण करने वाले पुरुष का वध कर देना
चाहिए ॥ २८७ ॥
आनुलोम्यापहरणे दण्डमाह—
सकामास्वनुलोमासु न दोषस्त्वन्यथो दमः ।
यदि सानुरागां हीनवर्णां कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्यथा .
स्वनिच्छन्तीमपहरतः प्रथमसाहसो दण्डः ॥
कन्यादूषणे दण्डमाह—
दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २८८ ॥
'अनुलोमासु' इत्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण नखक्षतादिना
दूषयति तदा तस्य करश्छेत्तव्यः । यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं
कुर्वन्दूषयति तदा मनूक्तषट्शतसहितोऽङ्गुलिच्छेदः । 'अभिसह्य तु यः कन्यां
कुर्याद्दर्पेण मानवः । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥' ( मनुः
८।३६७ ) —इति । यदा पुनः सानुरागां पूर्ववद्दूषयति तदाऽपि तेनैव विशेष
उक्तः ( मनुः ८।३६८ )—'सकामा दूषयंन्कन्यां नाङ्गुलिच्छेदामर्हति । द्विशतं
तु दमं दाप्यः प्रसङ्गविनिवृत्तये ।' इति । यदा तु कन्यैव कन्यां दूषयति,
विदग्धा वा, तत्रापि विशेषस्तेनैवोक्तः । 'कन्यैव कन्यां या कुर्यात्तस्यास्तु
द्विशतो दमः । या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव
वा च्छेदं खरेणोद्वहनं तथा ॥' ( मनुः ८।३६९)—इति । 'कन्यां कुर्यात्'
इति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः ॥ तदा पुनरुत्कृष्टजातीयां कन्यामवि-
शेषा³त्सकामासकामाम् वाऽभिगच्छति तदा हीनस्य क्षत्रियादेर्वध एव; 'उत्तमां
सेवमानस्तु जघन्यो वधमर्हति' ( ८।३६६)—इति मनुस्मरणात् ॥ यदा
सवर्णां सकामामभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् , यदिच्छति;
पितरि तु शुल्कमनिच्छति दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णांमकामां तु
गच्छतो वध एव; यथाह मनुः ( ८।३६६)—'शुल्कं दद्यात्सेवमानः समामि-
च्छेत्पिता यदि' ( ८।३६४)—'योऽकामा दूषयेत्कन्यां स सद्यो वधमर्हति ।
सकामां दूषयंस्तुल्लो न वधं प्राप्नुयान्नरः ॥' इति ॥ २८८ ॥
भाषा—कन्या का भी प्रेम होने पर और उसके ( पुरुष से ) निम्न
जाति की होने पर दोष नहीं होता, अन्यथा ( कन्या का प्रेम न होने पर )
प्रथम साहस का दण्ड होता है; यदि ऐसी ( अर्थात् अपने से हीन जाति की
१. स्त्वन्यथाऽधमः ( = प्रथमसाहसः) । २. दूषयंस्तुल्यो । ३. विशेषा-
त्सरागामकामां ।

व्यवहाराध्यायः ३८१
और न चाहने वाली) कन्या को बलपूर्वक नखक्षत आदि से दूषित करने
पर हाथ काटने और अपने से उच्च वर्ण की अनचाहती कन्या को दूषित
करने पर वध का दण्ड होता है ॥ २८८ ॥
शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने ।
पशून्गच्छञ्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ २८९ ॥
किंच, 'स्त्री'शब्देनात्र प्रकृतत्वात्कन्याऽवमृश्यते । तस्या यदि कश्चिद्विद्य-
मानानेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान्प्रकाशय 'इय-
मकन्या' इति दूषयति, असौ शतं दाप्यः । मिथ्याऽभिशंसने तु पुनरविद्यमान-
दोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्यः ।
यः पुनर्हीनां स्त्रियमन्त्यावसायिनीमविशेषात्सकामामक़ामां वा गां चाभिगच्छ-
त्यसौ मध्यमसाहसं दण्डनीयः ॥ २८९ ॥
भाषा—किसी कन्या का वास्तविक दोष भी प्रकाशित करने पर सौ
पण और उस पर झूठा दोष लगाने पर दो सौ पण दण्ड दे । पशु मैथुन करने
वाले से सौ पण दण्ड ले और हीन स्त्री एवं गाय में मैथुन करने वाले को
मध्यम साहस का दण्ड होता है ॥ २८९ ॥
साधारणस्त्रीगमने दण्डमाह—
अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥ २९० ॥
'गच्छन्' इत्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यः, ता एव स्वामिना
शुश्रूषाहानिनिवृ॑दासार्थं गृह एव स्थातव्यमित्येवं पुरुषान्तरपभोगातो निरुद्धा
अवरुद्धाः, पुरुषनियतपरिग्रहा भुजिष्याः, यदा दास्योऽवरुद्धा भुजिष्या वा
भवेयुस्तदा तासु तथा । 'च'शब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां
भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन्
पञ्चाशत्पणं दण्डनीयः, परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च
स्पष्टमुक्तं नारदेन ( १२।७८।७९ )—'स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी
च या । गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥ आस्वेव तु भुजिष्यासु
दोषः स्यात्परदारवत् । गम्यास्वपि हि नोपेयाद्य³तस्ताः सपरिग्रहाः ॥' इति ॥
निष्कासिनी स्वाम्यनवरुद्धा दासी । ननु च स्वैरिण्यादीनां साधारणतया
गम्यत्वाभिधानमुक्तम् । नहि जातितः शास्त्रतो वा काश्चन लोके साधारणाः

१. मिथ्याभिशंसिते; । मिथ्याभिशंसिता । २. पशुं गच्छञ्शतं दाप्यो
हीनस्त्रीं गां । ३. यतस्ताः परपरिग्रहाः ।

३८२ याज्ञवल्क्यस्मृतिः

स्त्रिय उपलभ्यन्ते । तथा हि-स्वैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव; ‘स्वैरिणी
या पतिं हित्वा सवर्णं कामतः श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रति-
लोमतः ॥’ इति मनुस्मरणात् ॥ नच वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषा-
न्तरोपभोगो घटते; ‘दुःशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । परिचार्यः
स्त्रिया साध्व्या सततं देववत्पतिः ॥ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥’ ( मनुः ५।१५४-१५७ )—इति
निषेधस्मरणात् ॥ नापि कन्यावस्थायाः साधारणत्वम् । पित्रादिपरिरक्षितायाः
कन्याया एव दानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात् ।
न च दासी भावात्स्वधर्माधिकारच्युतिः । पारतन्त्र्यं हि दास्यम् , न स्वधर्म-
परित्यागः । नापि वेश्या साधारणी; वर्णानुलोमजन्यव्यतिरेकेण गञ्यजात्यन्तरा-
संभवात् । तदन्तःपातित्वे च पूर्ववदेवागम्यत्वम् ; प्रतिलोमजत्वे तु तासां
नितरामगम्यत्वम् । अतः पुरुषान्तरोपभोगे तासां निन्दितकर्माभ्यासेन
पातित्यात् , पतितसंसर्गस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । सत्य-
मेवम् । किं त्वत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकरा जदण्डभयादिदृष्टदोषाभावाद्व-
म्यत्ववाचोयुक्तिः । दण्डाभावश्चावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो
दण्डविधानात्तदुपाधिरहितास्वर्थादवगम्यते । स्वैरिण्यादीनां पुनर्दण्डाभावो
विधानाभावात् ॥ ‘कन्यां भजन्तीमुत्कृष्टों न किंचिदपि दापयेत् ॥’ इति
लिङ्गनिदर्शनाच्चावगम्यते । प्रायश्चित्तं तु स्वधर्मस्खलननिमित्तं गम्यानां गन्तॄणां
चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्यन्तरासंभवेन वर्णान्तःपातित्वमनुमा-
नादुक्तम्—‘वेश्या वर्णानुलोमाद्यन्तःपातिन्यः; मनुष्यजात्याश्रयत्वात् , ब्राह्मणा-
दिवत्’ इति । तन्न; कुण्डगोलकादिभिरनैकान्तिकत्वात् । अतो वेश्याख्या काचि-
ज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुषादुत्पन्नापुरुषसंभोगवृत्ति-
र्वेश्येति ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगैमनीयम् । नच निर्मूलैयं प्रसि-
द्धिः । स्मर्यते हि स्कन्दपुराणे—‘पञ्चचूडा नाम काश्चनाप्सरसः, तत्सन्तति-
र्वेश्याख्या पञ्चमी जातिः’ इति । अतस्तासां नियतपुरुषपरिणयनविधिविधुर-
तया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु
चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाऽप्यदृष्टदोषोऽस्त्येव ।
‘स्वदारनिरतः सदा’ ( ३।४५ ) इति नियमात् ।—‘पशुवेश्याभिगमने
प्राजापत्यं विधीयते’ इति प्रायश्चित्तस्मरणाच्चेति निरवद्यम् ॥ २९० ॥
भाषा—यदि कोई पुरुष दूसरे की अवरुद्धा ( केवल स्वामी की सेवा के
लिए रखी गई, जिसे घर से बाहर निकलना मना हो ) दासी और भुजिष्या

१. स्वार्थाद्गम्यते । २. मुत्कृष्टं । ३. उपगमनीया ।

(अर्थात् किसी विशेष पुरुष को सौंपी गई) दासी से संभोग करे तो उस
दासी के गम्य होने पर भी पुरुष को पचास पण दण्ड लेवे ॥ २९० ॥
‘अवरुद्धासु दासीषु’ (व्य० २९०) इत्यनेन दासीस्वैरिण्यादिभुजिष्याभि-
गमने दण्डं विदधतस्तत्स्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तं तस्यापवादमाह—
प्रसह्म दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्यकामाऽसौ चतुर्विंशतिकः पृथक् ॥ २९१ ॥¹
पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्म बला-
त्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव ²एकामनिच्छन्तीमपि
बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः ।
यदा पुनस्तदिच्छया भृतिं दत्त्वा पश्चादनिच्छन्तीमपि बलाद्व्रजन्ति तदा तेषाम-
दोषः; यदि व्याध्याद्यभिभवस्तस्या न स्यात्ः ‘व्यथिता सश्रमा व्यग्रा
राजकर्मपरायणा । आमन्त्रिता चेन्नागच्छेद्दण्ड्या वडवा स्मृता ॥’ इति
नारदवचनात् ॥ २९१ ॥
भाषा—(पुरुष संभोग से जीविका चलाने वाली स्वैरिणी) दासियों
से बलपूर्वक (बिना धन दिये ही) संभोग करने का दण्ड दस पण कहा
गया है। यदि अनेक पुरुष मिलकर न चाहने वाली स्वैरिणी दासी के साथ
बलात्कार करें तो उनमें से प्रत्येक से चौबीस पण दण्ड लेवे ॥ २९१ ॥
गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् ।
अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ २९२ ॥
यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं
दद्यात् तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव ।
—‘शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन्दत्तशुल्कोऽपि
शुल्कहानिमवाप्नुयात् ॥’ इति तेनैवोक्तम् । तथाऽन्योऽपि विशेषस्तेनैव
दर्शितः—‘अप्रयच्छंस्तथा शुल्कमनुभूय पुमान्स्त्रियम् । अक्रमेण च संगच्छन्
³पाददन्तनखादिभिः ॥ अयोनौ वाऽभिगच्छेद्यो बहुभिर्वाऽपि वासयेत् । शुल्क-
मष्टगुणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना यास्तत्र कामुकास्तद्गृहो-
षिताः । तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥’ इति ॥ २९२ ॥
भाषा—शुल्क लेकर (और स्वस्थ होने पर भी) शुल्क देने वाले
पुरुष से संभोग की इच्छा न रखने वाली वेश्या शुल्क का दूना धन देवे।
१. अयोनौ गच्छतो...चाधिमेहतः...॥ २९२ ॥ २. मनभिलषन्तीं ।
३. घातदन्तनखा ।

३८४ याज्ञवल्क्यस्मृतिः
बिना शुल्क लिये ही संभोग की स्वीकृति देने के बाद नट जाने वाली वेश्या
शुल्क के बराबर धन दे । इसी प्रकार का दण्ड वेश्या के समीप गये हुए
पुरुष के विषय में भी होता है । ( यदि शुल्क देने के बाद स्वस्थ होने पर भी
संभोग न करे तो फिर शुल्क वापस लेने का अधिकारी नहीं होता ) ॥२९२॥
अयोनौ गच्छतो योषां पुरुषं वोऽभिमेहतः ।
चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ॥ २९३ ॥
किंच, यैस्तु स्वयोषां मुखादावभिगच्छति पुरुषं वाऽभिमुखो मेहति तथा
प्रव्रजितां वा गच्छत्यसौ चतुर्विंशतिपणान्दण्डनीयः ॥ २९३ ॥
भाषा—स्त्री की योनि को छोड़ कर उसके मुख आदि किसी अन्य अंग में
मैथुन करने वाले, पुरुष के समक्ष रति करने वाले और प्रव्रजिता (संन्यासिनी)
का संभोग करने वाले पुरुष को चौबीस पण दण्ड लगता है ॥ २९३ ॥
अन्त्याभिगमने ⁴त्वङ्क्यः कुबन्धेन प्रवासयेत् ।
शूद्रस्तथार्थाऽन्त्य एव स्यादन्त्यस्यार्यागमे वधः ॥ २९४ ॥
किंच, अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान्प्रायश्चित्तानभिमुखान् 'सहस्रं
त्वन्त्यजस्त्रियम्' ( ८।३८५ ) इति मनुवचनात्पणसहस्रं दण्डयित्वा कुबन्धेन
कुत्सितबन्धेन भगाकारेणाङ्कयित्वा स्वराष्ट्रात्रिर्वासयेत् । प्रायश्चित्ताभिमु-
खस्य पुनर्दण्डनमेव । शूद्रः पुनश्चाण्डाल्यभिगमनेऽन्त्य एव चाण्डाल एव भवति ।
अन्त्यजस्य पुनश्चाण्डालादेरुत्कृष्टजातिस्त्र्यभिगमे वध एव ॥ २९४ ॥
भाषा—चाण्डाली से संभोग करने वाले पुरुष को, उसके शरीर पर
भग की आकृति दागकर अपने राज्य से निर्वासित कर दे । शूद्र पुरुष
( चाण्डाली संभोग से ) चण्डाल ही हो जाता है और उत्तम जाति की स्त्री
से रति करने पर चाण्डाल का वध होता है ॥ २९४ ॥
इति स्त्रीसंग्रहणप्रकरणम् ।
अथ प्रकीर्णकप्रकरणम् २५
व्यवहारप्रकरणमध्ये स्त्रीपुंसयोगाख्यमप्यपरं विवादपदं मनुनारदाभ्यां विवृ-
तम् । तत्र नारदः ( १२।१ )—'विवाहादिविधिः स्त्रीणां यत्र पुंसा च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तद्विवादपदमुच्यते ॥' इति ॥ मनुरप्याह (९।२)—'अस्वतन्त्राः
स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो
१. अन्त्याभिगमने ०००॥२९३॥ २. चाभिमेहतः। विद्वान्द्वशपणो दण्डः ।
३. स्वेच्छया योषां । ४. स्वाङ्क्य । ५. कबन्धेन । ६. स्तथाऽङ्क्य ।