याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 436, कुल 782 में से
संदर्भ में पढ़ें३८० याज्ञवल्क्यस्मृतिः
उच्च जाति का कन्या का अपहरण करने वाले पुरुष का वध कर देना
चाहिए ॥ २८७ ॥
आनुलोम्यापहरणे दण्डमाह—
सकामास्वनुलोमासु न दोषस्त्वन्यथो दमः ।
यदि सानुरागां हीनवर्णां कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्यथा .
स्वनिच्छन्तीमपहरतः प्रथमसाहसो दण्डः ॥
कन्यादूषणे दण्डमाह—
दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २८८ ॥
'अनुलोमासु' इत्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण नखक्षतादिना
दूषयति तदा तस्य करश्छेत्तव्यः । यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं
कुर्वन्दूषयति तदा मनूक्तषट्शतसहितोऽङ्गुलिच्छेदः । 'अभिसह्य तु यः कन्यां
कुर्याद्दर्पेण मानवः । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥' ( मनुः
८।३६७ ) —इति । यदा पुनः सानुरागां पूर्ववद्दूषयति तदाऽपि तेनैव विशेष
उक्तः ( मनुः ८।३६८ )—'सकामा दूषयंन्कन्यां नाङ्गुलिच्छेदामर्हति । द्विशतं
तु दमं दाप्यः प्रसङ्गविनिवृत्तये ।' इति । यदा तु कन्यैव कन्यां दूषयति,
विदग्धा वा, तत्रापि विशेषस्तेनैवोक्तः । 'कन्यैव कन्यां या कुर्यात्तस्यास्तु
द्विशतो दमः । या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव
वा च्छेदं खरेणोद्वहनं तथा ॥' ( मनुः ८।३६९)—इति । 'कन्यां कुर्यात्'
इति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः ॥ तदा पुनरुत्कृष्टजातीयां कन्यामवि-
शेषा³त्सकामासकामाम् वाऽभिगच्छति तदा हीनस्य क्षत्रियादेर्वध एव; 'उत्तमां
सेवमानस्तु जघन्यो वधमर्हति' ( ८।३६६)—इति मनुस्मरणात् ॥ यदा
सवर्णां सकामामभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् , यदिच्छति;
पितरि तु शुल्कमनिच्छति दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णांमकामां तु
गच्छतो वध एव; यथाह मनुः ( ८।३६६)—'शुल्कं दद्यात्सेवमानः समामि-
च्छेत्पिता यदि' ( ८।३६४)—'योऽकामा दूषयेत्कन्यां स सद्यो वधमर्हति ।
सकामां दूषयंस्तुल्लो न वधं प्राप्नुयान्नरः ॥' इति ॥ २८८ ॥
भाषा—कन्या का भी प्रेम होने पर और उसके ( पुरुष से ) निम्न
जाति की होने पर दोष नहीं होता, अन्यथा ( कन्या का प्रेम न होने पर )
प्रथम साहस का दण्ड होता है; यदि ऐसी ( अर्थात् अपने से हीन जाति की
१. स्त्वन्यथाऽधमः ( = प्रथमसाहसः) । २. दूषयंस्तुल्यो । ३. विशेषा-
त्सरागामकामां ।