सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished516 पृष्ठ

इस ग्रन्थ के बारे में

सुभाषितरत्नभाण्डागार संस्कृत सुभाषितों, यानी सुन्दर और सारगर्भित श्लोकों, का एक विशाल संकलन है। इसे पण्डित काशीनाथ शर्मा (काशीनाथ पाण्डुरंग परब) ने संगृहीत किया था और यह निर्णय सागर प्रेस, बम्बई से छपता रहा है। अंग्रेज़ी मुखपृष्ठ इसे दस हज़ार से अधिक सुभाषितों का संग्रह बताता है। इसमें काव्य, नाटक, नीति-ग्रन्थों और स्फुट पद्यों से चुने गए श्लोक विषय के अनुसार सजाए गए हैं।

पुस्तक के आरम्भ में 'विषयानुक्रमकोश' है, जिसमें प्रत्येक विषय के साथ पृष्ठ और श्लोक-संख्या दी गई है। पहला मङ्गलाचरण-प्रकरण परब्रह्म, गणेश, सरस्वती, शिव, गङ्गा, विष्णु, लक्ष्मी, ब्रह्मा, दशावतार, कृष्ण, राधा और रुक्मिणी जैसे विषयों पर श्लोक देता है। आगे के प्रकरणों में नीति, राजधर्म, अन्योक्ति, शृङ्गार और प्रकृति-वर्णन जैसे विषयों के श्लोक मिलते हैं।

लगभग ५१६ पृष्ठों का यह ग्रन्थ संस्कृत के विद्यार्थियों, वक्ताओं और लेखकों के लिए किसी विषय पर उपयुक्त श्लोक खोजने का एक पुराना और भरोसेमन्द साधन है।

पृष्ठ 304
स्थायी लिंक
पृष्ठ 304 स्कैन

नायकस्याग्रे दूत्यूक्तयः २८९


परिवाहैर्हग्भ्रुवः मार्गणा दग्धदहनशिखोष्णश्वामपूरैश्च
तस्याः । सुभग बत कृशाङ्गया स्पर्धयान्योन्यमेभि कियत इव
पुगेभू पङ्किला पासुला च ॥४५॥ शरद्वधुनिमित्तं गूढमुन्नेतु-
मस्याः सुभग तव कथाया प्रस्तुताया सखीभि । भवति वि-
ततपृष्ठोदस्तपीनस्तनाग्रा ततवलयितबाहुर्गुम्भितै साङ्गभङ्गैः
॥ ४६ ॥ विपुलपुलकपालि. स्फीतसीत्कारमन्तर्जनित-
जडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधायागन्द-
कन्दर्पचिन्तारसजलनिधिमग्ना ध्यानलब्धा मृगाक्षी ॥ ४७ ॥
अङ्गेऽनङ्गज्वरहुतवहश्वश्रुष्वि ध्यानमुद्रा कण्ठे जीव कर-
किसलये दीर्घशायी कपोलः । असे वेणी कुचपरिसरे
चन्दनं वाचि मौनं तस्या. सर्वं स्थितमपि न तु त्वा विना
क्वापि चेत. ॥ ४८ ॥ कि पृष्टेन द्रुततरमितो गम्यता सा
प्रिया ते दृष्टा मार्गे दिवसमखिलं मान्त्रमेका मयैवम् ।
पान्थे पान्थे त्वमिति रभसोद्ग्रीवमालोकयन्ती दृष्टे दृष्टे न
भवति भवानित्युदश्रुं वलन्ती ॥ ४९ ॥ चित्रोत्कीर्णादपि
विषधराद्भीतिभाजो निशाया किं नु ब्रूमस्त्वदभिगमणे
साहस नाथ तस्याः । ध्वान्ते यान्त्या यदतिनिभृत बालया
सप्रकाशास्ताल्र्पणिः पथि फणिफणारत्नरोधी व्यधायि
॥ ५० ॥ यावद्यावद्भवति कल्या पूर्णकाम शशाङ्कस्ताव-
त्तावच्चुतिमयवपुः क्षीयते सा मृगाक्षी । मन्ये धाता घट-
यति विधु सारमादाय तस्यास्तस्याद्यावन्न भवति सखे
पूर्णिमा तावदेहि ॥ ५१ ॥ हस्ताम्भोजे वदनमलका नाय-
तान्बाहुमूले द्वारि स्वैर नयनमधरे तर्जनी सनिधाय ।
दीर्घोन्च्छ्वास विरतिवश्या स्वादमुत्कण्ठितोष्ण मृगधिक्षा त्वा
ह्लादे विदधती बाष्पमाविष्करोति ॥ ५२ ॥ आद्यः कोप-
स्तदनु मदनस्त्वद्वियोगस्तृतीय. शान्त्यै दूतीवचनमपर.
पञ्चम. शीतभानु. । इत्थं बाला निरवधि पर त्वा फलं प्रार्थ-
यन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव ॥ ५३ ॥
धातु. शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्यय-
मनुपमो दत्तपादः खरस्वे । जातं दैवात्तदशमनयो. सगत
यच्चदेतच्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ ५४ ॥
अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदाना धारासारैर्धरणि-
वलयं सर्वतः प्लावयन्ति । तेन स्नेहं वहति विपुलं मत्स्सखीयुक्त-
मेतत्त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय ॥ ५५ ॥
प्रादुर्भूते नवजलधरे त्वत्पथं दृष्टकामा. प्राणाः पङ्केरुहदल-
दृश. कण्ठदेशं प्रयान्ति । अन्यत्किं वा तव मुखविधुं
द्रष्टुमुड्डीय गन्तु वक्ष पक्ष सृजति बिसिनीपल्लवस्य च्छलेन
॥ ५६ ॥ गृहीतं ताम्बूल परिजनवचोभिः कथमपि
स्मरत्यन्त.शून्या सुभग तव मूर्तिं प्रतिदिनम् । तथैवास्ते
हस्तः कलितफणिगल्लीकमलयस्तथैवासीनस्याः क्रमुकफल-
कालीपरिचितम् ॥ ५७ ॥ गलत्येका मूर्च्छा भवति पुनरन्या
यदनगो किमप्यासीन्मध्ये सुभग सकलायामपि निशि ।
लिखन्त्यास्तत्तस्या कुसुमशरलेखं तव कृते समाप्ति
स्वस्तीति प्रथमपदभागोऽपि न गतः ॥ ५८ ॥ सखीभिक्षा
याचे बत नतगिरास्त्वामिदमहं न चेदस्ति प्रीति. कुरु
तदपि कारुण्यकणिकाम् । अवस्था मा तस्या. सुकृतमय-
मस्या किमपर प्रमोहो विश्रामस्त्वमथ मरण वा प्रतिकृतिः
॥ ५९ ॥ विमुञ्चन्त्या प्राणांश्चिरविरहदुःखासहनया तथा
संदिष्टं ते कठिनहृदयापश्चिममिदम् । अपलं बालैका मम
विधिहतायाः सलिलदा तथा नेय सेव्या व्यसनरुचये
दीयत इति ॥ ६० ॥ न हार नाहार कलयति विहार
विषमिव खरन्ती सा गभा सुभग भवतश्चागमदिनम् । पर
क्षीणा दीना परमसुवहीना सुवदना कुदृपक्ष्मल्लौवचपल-
नयनाङ्गीकृतगतिः ॥ ६१ ॥ क्षण मूर्च्छामेति भ्रमति परितो-
ऽथ क्षणमपि क्षण प्रैति स्तम्भं निग्वधि भवद्ध्याननिग्ता ।
क्षणं स्वप्ने बाला तव सुभग योग च लभते क्षण तेजः
शभोर्नयनजमथ ध्यायति यमम् ॥ ६२ ॥ कुसुमशयने-
ऽप्यङ्गं ताम्यत्यनङ्गविवर्तनं वदनपवनैः श्यामच्छाया बभूव
सखीजनः । हृदयनिहित. शीतो लेपश्चमीति रवं करोत्यहह
कठिनावस्था तस्यास्त्वयैवमुपेक्ष्यते ॥ ६३ ॥ विरहविषम.
कामः काम तनुं कुरुते तनुं दिवसगणनादक्षश्चाय व्यपेत-
घृणोपम. । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जीवत्येवं कथ प्रमदाजन. ॥ ६४ ॥ मृगशिशु-
दृशस्तस्यास्ताप कथं कथयामि ते दहनपतिता दृष्टा मूर्ति-
र्मया न हि वैधवी । इति तु विदित नारीरूप. स लोकदृशा
सुधा तव शततया शिल्प्योत्कर्णे विधेर्विघटिष्यते ॥ ६५ ॥
मुहुर्व्यजनवीजनैः सरसचन्दनासेचनैः सरोजदलवेष्टनैरपि
न चेष्टते सुन्दरी । तथापि तत्र नामनि प्रियसखीभिगवे-
दिते निवेदयति जीवित श्रवणसीम्नि रोमोद्गमः ॥ ६६ ॥
गेहादङ्गणमङ्गणादपि बहिर्वाञ्छाच्च पृथ्वीतल तामार्ति यदि
वेत्ति सैव सुमुखी किं चान्यदाचक्ष्महे । पर्यङ्केऽपि तवाङ्ग-
सङ्गसुभगै. खेदाम्भसा निर्झरैर्घारामण्डपताननीयत तथा
तस्मिन्न्वृल्या सुहुः ॥६७॥ दृष्टे चन्द्रमसि प्रलूनतमसि व्योमा-
ङ्गणस्थेयसि स्फूर्जन्निर्मलतेजसि त्वयि गते दूर निजप्रेयसि ।
श्वास कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति
मन्मथो मुगदृशो दृक्चन्द्रकान्तीयति ॥ ६८ ॥ आवासो
विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन
दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणी-
रूपायते हा कथं कन्दर्पोऽपि यमायते विरचयन् शार्दूल-
विक्रीडितम् ॥ ६९ ॥ अच्छिन्न नयनाम्बु बन्धुषु कृतं


१ पञ्चधा तापम्, पक्षे,-पञ्चाग्निनामकं तप
३७ सु र भा

पृष्ठ 305
स्थायी लिंक
पृष्ठ 305 स्कैन

२९० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


तापः सखीष्वाहितो दैन्यं न्यस्तमशेषतः परिजने चिन्ता
गुरुभ्योऽर्पिता । अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः
परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं
तया ॥ ७० ॥

त्वच्चिन्तापरिकल्पितं सुभग सा सम्भाव्य
रोमाञ्चिता शून्यालिङ्गनसचलद्भुजयुगेनात्मानमालिङ्गति ।
किं चान्यद्विरहव्यथाप्रगमनीं संप्राप्य मूर्च्छां चिरात्प्रत्युज्जी-
वति कर्णमूलपठितैस्त्वन्नाममन्त्राक्षरैः ॥ ७१ ॥

नीरागा
मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजिता-
दपि गिरं नोन्मुद्रयत्यात्मनः । चित्रं दुःसहदाहदायिनि
धृतद्वेषापि पुष्पाशुवे सा बाला सुभग प्रति प्रतिपदं प्रेमा-
धिकं पुष्यति ॥ ७२ ॥

उन्मीलन्ति नखैर्लुनीहि वहति
क्षौमाञ्चलेनावृणु क्रीडाकाननमश्रयन्ति वलयक्वाणैः समु-
त्रासय । इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक-
व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥ ७३ ॥

वर्षन्ति स्तनयित्नवो न सरले धारागृहे वर्तसे गर्जन्ति
प्रतिकूलवादिनि न ते द्वारि स्थिता दन्तिनः । इत्येवं
गमितो वनव्यतिकरः सा राजपुत्री पुनर्वातो वाति कदम्ब-
पुष्पसुरभौ केन प्रतारिष्यते ॥ ७४ ॥

सप्ताहेऽवधिवासरे
क्षणमसौ त्वद्वर्त्मवातायनं वारंवारमुपेत्य निष्कृपतया निश्चित्य
किंचिच्चिरम् । सप्रत्येव निवेद्य केलिकुररीः सास्रं सखीभिः
शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः
॥ ७५ ॥

नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वरस्ते-
नाहं विहिताञ्जलियुदुपते पृच्छामि सत्यं वद । ताम्बूलं कुसुमं
पैटीरसमुदकं यच्चेन्दुभिर्दीयते साद्यत्रैव परत्र तत्किमुचित-
ज्वालावलीदुःसहम् ॥ ७६ ॥

श्वासान्मुञ्चति भूतले विलुठति
त्वन्मार्गमालोकते दीर्घं रोदिति निक्षिपत्यविरतं क्षामा भुजा-
वल्लीम् । किं च प्राणसमा न काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं
निद्रां वाञ्छति न प्रयच्छति पुनर्दग्धो विधिस्तामपि ॥ ७७ ॥

कोदण्डो विशिखो मनोभवसतैः कामस्य तस्या अपि भ्रूवह्वी
नयनाञ्चलं मनसि ते वासः समुन्मीलति । इत्थं साम्यविधौ
तयोः प्रभवति स्वामिस्तथा स्निग्धता तन्वाना तनुतां क्रमाद्-
तनुता नैषा यथा गच्छति ॥ ७८ ॥

शोकोत्पत्तिरशोकतः
सुमनसो यद्वैमनस्योदयो वैरस्यं च रसाळतो विकलता
तावत्कलानां निधेः । किं चान्यन्नलदो भवत्यनलदो निर्णीत-
मुन्नीयते वामः केवलमेक एव न भवानस्यामशेषं जगत्
॥ ७९ ॥

नैष्ठुर्यं कलकण्ठकोमलगिरां पूर्णस्य शीतद्युते-
स्तिग्मत्वं बत दक्षिणस्य मरुतो दाक्षिण्यहानिश्च ताम् । खर्तं-
व्याकृतिमेव कर्तुमबला सनाहमातन्वते तद्भिग्नः क्रियते तृणा-
दिचलनोद्भूतैस्त्वदाप्तिभ्रमैः ॥ ८० ॥

या चन्द्रस्य कलङ्किनो
जनयति स्मेराननेन त्रपां वाचा मन्दिरकीरसुन्दरगिरो या
सर्वदा निन्दति । निःश्वासेन तिरस्करोति कमलामोदा-
न्वित्तान्यानिलान् सा तैरेव रहस्य्वया विरहिता काचिद्दशा
नीयते ॥ ८१ ॥

चन्द्रं चन्दनकर्दमेन लिखितं संमाष्टिं
दग्धाधरा कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च
यत् । वन्द्यं निन्दति यच्च मन्मथमसौ भङ्क्त्वाग्रहस्ता-
ङ्गुलीस्तत्कामं सुभग त्वया वरतनुर्वातूलता लम्भिता ॥ ८२ ॥

तापोऽस्मत्प्रसृतिपचः प्रचयनवान्बाष्पः प्रणालोचितः श्वासा
कम्पितदीपवर्तिकलिका पाण्डिम्नि मग्नं वपुः । कि चान्य-
त्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्र-
निरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ ८३ ॥

बिभ्राणा
हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति
सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति
ताम्य॑ति प्रलपति प्रम्लायति प्रेङ्क॑ति भ्राम्यत्युलुठति प्रणश्यति
गल॑त्युन्मूर्च्छति तृँष्यति ॥ ८४ ॥

कार्श्यं चेत्प्रतिपत्कला
हिमरुचः स्थूलैव चेत्पाण्डिमा लीना एव मृणालिका
यदि पुनर्बाष्पः कियानम्बुधिः । संतापो यदि शीतलो
हुतवहस्तस्याः कियद्वर्ण्यतां किं तु त्वत्स्मृतिमात्रमेव शरणं
लावण्यशेषं वपुः ॥ ८५ ॥

सौधादुद्विजते त्यजत्युपवनं
द्वेष्टि प्रभामैन्दवीं द्वारात्त्रस्यति चित्रकेलिसदसो वेषं विषं
मन्यते । आस्ते केवलमब्जिनी किसलयप्रस्तारशय्यातले
सङ्कल्पोपनमत्त्वदाकृतिरसायत्तेन चित्तेन सा ॥ ८६ ॥

सा
न स्नाति न चानुलिम्पति न वा केशेषु धत्ते सजं न क्रीडासु
मनो दधाति न सखीगलोकेते चाटुषु । किं तु न्यस्य
मुखाम्बुजं करतले बाष्पायमाणेक्षणं निःश्वसद्गलपिताधरं
च शयने जागर्ति ते चिन्तया ॥ ८७ ॥

सा रोमाञ्चति
सीत्करोति विलपत्युत्कम्पते ताम्यति ध्यायत्युद्भ्रमति प्रमी-
लति पतत्युद्याति मूर्च्छत्यपि । एतावल्यतनुज्वरे वरतनु-
र्जीवेन्न किं ते रसात्सर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा
हस्तकः ॥ ८८ ॥

कंदर्पज्वरसंज्वराकुलतनोराश्चर्यमस्या-
श्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सताम्यति । किं
तु क्षान्तिवशेन शीतलतनुं त्वामेवमेकं प्रियं ध्यायन्ती
रहसि स्थिता कथमसौ क्षीणा क्षण प्राणिति ॥ ८९ ॥

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वा
परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्प-
तत्परचनासंकल्पलीलाशतव्यासक्तापि विना त्वया वरत-
नुर्नैषा निशा नेष्यति ॥ ९० ॥

॥ आलम्ब्याङ्गणवापिकापरि-
सरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभि-
नीम् । मन्ये सा तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुर-


पादटिप्पण्यः (Footnotes):

  • १ क्षेत्रम्
  • १ विरहविह्वला २ ग्लानिं प्राप्नोति ३ चलति ४ नैर्बल्यातिशयेन मृतप्राया भवति ५ खेदातिशयादित्यर्थं ६ क्षीणा भवति
पृष्ठ 306
स्थायी लिंक
पृष्ठ 306 स्कैन

नायकं प्रति नायिकासंदेशः, नायिकां प्रति संदेशप्रेषणम्, नायिकां प्रति नायकसंदेशः २९१


त्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ९१ ॥
चित्नाय त्वयि चिन्तिते स्मृतिभुवा सजीकृत स्वं धनुर्वित्तिं
धर्तुमुपागतेऽङ्गुलियुगे बाणा गुणे योजिता । प्रारब्धे तव
चित्रकर्मणि पुनस्तद्द्बाणभिन्ना सती भित्ति द्रागवलम्ब्य विह्व-
लपते सा तत्र चित्रायते ॥ ९२ ॥ आदावञ्जनपुञ्जलितवपुषा
श्वामानिलोल्लासितप्रोत्सर्पद्विरहानलेन च तत. संतापिताना
दशाम् । सप्रत्येव निष्कंकमश्रुपयसा देवस चेनोभुवो भल्ली-
नामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ९३ ॥ ज्योत्स्ना
मौक्तिकदाम चन्दनरस शीताशुकान्तद्रवः कर्पूर कदली
मृणालवलयान्यम्भोजिनीपल्लवा. । अन्तर्मानसमास्त्वया
प्रभवता तस्या स्फुलिङ्गोत्कव्यवपाराय भवन्ति हन्त किम-
नेनोक्तेन न ब्रूमहे ॥ ९४ ॥ पाणिनिर्वकङ्कण स्तनतटी
निष्क्रम्यमानाश्रुका दृष्टिर्निश्चलतारका समभवन्निस्ताण्डव
कुण्डलम् । कश्चित्प्रापयिता मम कृशतनोर्भेदो भवेन्नो यदि
त्वन्नामस्मरणेण कोऽपि पुलकारम्भ. समुज्जृम्भते ॥ ९५ ॥
दत्तोऽस्या प्रणयस्त्वयैव भवता चेय चिर लालिता दैवा-
दद्य किल त्वमेव कृतवानस्या नव विप्रियम् । मन्युर्दुःसह
एष यात्युपशम नो सान्त्ववादैः स्फुट हे निश्चिन्न विमुक्त-
कण्ठकरुण तावत्सखी रोदितु ॥ ९६ ॥ चूडारत्नमपानिधैर्यदि
भवेच्चेत्कुन्तलं गण्डकी कावेरी यदि कङ्कणं यदि पुनग्रैवेयकं
गौतमी । मुक्तासक्सुरनिम्नगा यदि यदि स्यान्मेखला नर्मदा
कौशेय यदि कौशिकी कृशतनोस्तापस्तदाप्येति वा ॥ ९७ ॥

नायकं प्रति नायिकासंदेशः

अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता । नादृष्टेन न
दृष्टेन भवता विद्यते सुखम् ॥ १ ॥ आलीभि सह भाषितं
किमपि तद्धर्मापि सवीक्षितं पञ्चेषु. कुसुमैरपूरि कथमप्या-
धाय चित्ते मनाक् । तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्य-
मालम्बसे प्राणेश प्रबलं तदत्र निखिलं तद्धातिकूल्यं विधे.
॥ २ ॥ नित्य ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा
मानस सानन्दाः स्फुटसल्लकीवनयुता ध्यायन्ति रेवा गजाः ।
युष्मद्दर्शनलालसा. प्रतिदिनं युष्मान्स्मरामो वय धन्य
कोऽपि स वासरोऽत्र भविता यन्नावयोः सगम ॥ ३ ॥
इन्दु कैरविणीव कोकपटलीवाम्भोजिनीबान्धव मेघ चात-
कमण्डलीव मधुपश्रेणीव पुष्पाकरम् । माकन्द पिकसुन्दरीव
तरुणी प्राणेश्वर प्रोषितं चेतोवृत्तितिय मम प्रियसखे त्वा
द्रष्टुमुत्कण्ठते ॥ ४ ॥

नायिकां प्रति संदेशप्रेषणम्

दैवात्पश्येर्जगति विचरन्निच्छया मत्प्रिया चेदाश्वास्यादौ
तदनु कथयेर्मामकीनामवस्थाम् । आग्रान्तन्तुर्न च कथय-
तात्यन्तमुच्छेद्नीयः प्राणत्राण कथमपि कगेत्यायताक्ष्याः
स एकः ॥ १ ॥

नायिकां प्रति नायकसंदेशः

त्वं दूरमपि गच्छन्ती हृदय न जहासि मे । दिनौवमाने
छायेव पुरो मूलं वनस्पते ॥ १ ॥ स्मर्तव्योऽह त्वया
कान्ते न स्मरिष्याम्यह तव । स्मरण चेतमो धर्मस्तचेतो
भवदाहृतम् ॥ २ ॥ त्वया मम समेतस्य कल्या अपि
ममाममा । भवत्या विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे
॥ ३ ॥ यत.प्रभृति ते कान्त मुखमालोकित मया । काम.
काम ममाङ्गानि व्यप्रयत्यमितः शरैः ॥ ४ ॥ तपति तनु-
गात्रि मदनस्त्वामनिशं मा पुनर्दहत्वेव । ग्लपयति यथा
शशाङ्क न तथा हि कुमुद्वती दिवस ॥ ५ ॥ किमकारि
मन्दमतिना रतिपतिना कामतन्त्रनिपुणेन । स्यूतासि हरि-
णनयने हन्त हृदि स्नेहन्तुना न तनौ ॥ ६ ॥ कृष्णा ते
कचसंहतिरम्बुजनयने तवाधरः शोण । त्व सुरतरङ्गिणी
कथमभितस्तापी न ते वियोग स्यात् ॥ ७ ॥ दूर मुक्ता-
लतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शि-
ताशो मानसजन्मा त्वया नीत. ॥ ८ ॥ स्निग्धमालप
सुरूक्षमेव वा त्वत्कथैव सखि मे रसायनम् । शीतलं
सलिलमुष्णमेव वा पावक हि शमयेदसशयम् ॥ ९ ॥
स्वप्नेऽपि देवि रमसे न मया विना त्वं स्वापे त्वया विर-
हितो मृतवद्भवामि । दूरीकृतासि विधिदुर्ललितैस्तथापि
जीवत्यवेहि मन इत्यसवो दुरन्ता ॥ १० ॥ वल्गत्कचानि
वलनासहमध्यमानि कण्ठोदयत्कलरुतानि गल्त्कुचानि ।
आस्वादताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि
तव स्मरामि ॥ ११ ॥ अद्यापि सुन्दरि तवाननचन्द्रबिम्बं
बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः । त्वत्सगमोद्भवसुखं
तनुते तथापि वैर करोति करुणाविकलो विवेकः ॥ १२ ॥
त्वदीयमुखपङ्कज यदि विवोरलं वार्तया तवाधरसुधा यदा
भवति कि सुधा नो सुधा । त्वदङ्कपरिरम्भण भण
कृतं सुधागाहनैस्त्वदीयदृगनुग्रहस्तदपि धिग्धिगैन्द्र पदम्
॥ १३ ॥ भवतु विदित व्यर्थालापैरलं प्रिय गम्यता तनु-
रपि न ते दोषोऽस्माक विधिस्तु पराङ्मुख. । तव यदि
तथाभूतं प्रेम प्रपन्नमिमा दशा प्रकृतिसरले का न पीडा
गते हृतजीविते ॥ १४ ॥ यदिन्दोर्लक्ष्मीस्ते वदनकमले
वासमकरोत्तम् स्तोमस्थेमा तव तरुणि धम्मिल्लमभजत् ।
अनुप्राप्ता हारावलिमपि च तारावलिरुचि शरण्यायाः कस्ते


१ सायङ्काले २ कोमलाङ्गि

पृष्ठ 307
स्थायी लिंक
पृष्ठ 307 स्कैन

१९२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


मम शरणदाने परिभव. ॥ १५ ॥ भवत्या विश्लेषे गुरुहृदय-
खेदेन तनुता तनुर्नित्य धत्ते मद्दशामिति मत्तेभगमने ।
इदं तावच्चित्र कमलमुखि सर्वैरवयवै सुरूपा त्व लोके
नियतमसुरूपा भवसि न ॥ १६ ॥ सुमध्ये वाग्भङ्गेर्वचन-
विधिमङ्गीकुरु न वा स्मितज्योत्स्नाकान्त कुरु वदनमेत-
न्मयि न वा । त्रिलोकीमूर्धन्या यदि विविधपुण्याधिकतया
मया दृष्टासि त्व तदिह सफल मेऽजनि जनु. ॥ १७ ॥
यदि प्राणा एव प्रणयपरिणाह कथमयं विभिन्ना तेभ्य-
श्चेत्कथमियमभेदव्यवसिति । न भिन्ना नाभिना यदि
भवसि किं नाम तदपि त्वमेकासि त्वं मे कुवलयदलश्रेणि-
नयने ॥ १८ ॥ यदेकः कासार रचयति तथा कूपम-
थवा तदाकाङ्क्षा देवो वितरतितरा श्रीपतिरपि । मया तु
त्वद्धेतो कमलमुखि सान्द्राश्रुसलिलै कृताः पारावारास्त
दपि गणना ते न हृदये ॥ १९ ॥ इतो विद्युत्पुञ्जस्फुरितम-
सकृद्वाययतु मामित. केकानेका हरतु हृदय निर्दयमिदम् ।
इत. कामो वाम प्रहरतु मुहु. पुङ्खितशरो गतासि त्व दूर
चपलनयने प्राप्स्यसि कुत ॥ २० ॥ हिमांशुश्चण्डांशुर्नव-
जलधरो दावदहन. सरिद्दीर्घावात. कुपितफणिनि. श्वासपवन. ।
नवा मल्ली भल्ली कुवलयवन कुन्तगहन मम त्वद्विश्लेषा
त्सुमुखि विपरीतं जगदिदम् ॥ २१ ॥ आस्ता तावद्रचन-
रचनाभाजनत्वं विदूरे दूरे चास्ता तव तनुपरीरम्भसभाव-
नापि । भूयो भूय. प्रणतिभिरहं किंतु याचे विधेया स्मार
स्मार स्वजनगणने कापि लेखा ममापि ॥ २२ ॥ श्यामा-
स्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छाया शशिनि
शिखिना बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु
भ्रूविलासान्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति
॥ २३ ॥ त्वामालिख्य प्रणयकुपिता धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्ता-
वन्मुहुरुपचितैर्दृष्टिरलुप्यते मे क्रूरस्तस्मिन्नपि न सहते
संगमं नौ कृतान्त. ॥ २४ ॥ मामाकाशप्रणिहितभुजं
निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीना न खलु बहुशो न स्थलीदेवताना मुक्ता-
स्थूलास्तरु किसलयेष्वश्रुलेशा. पतन्ति ॥ २५ ॥ भित्त्वा
सद्य. किसलयपुटान्देवदारुद्रुमाणा ये तत्क्षीरस्स्रुतिसुर-
भयो दक्षिणेन प्रवृत्ता. । आलिङ्ग्यन्ते गुणवति मया ते
तुषाराद्रिवाता पूर्वं स्पृष्ट यदि किल भवेदङ्गममेभिरस्त्वेति
॥ २६ ॥ सक्षिप्येत क्षण इव कथ दीर्घयामा त्रियामा
सर्वावस्थास्वरपि कथ मन्दमन्दातप स्यात् । इत्थं चेत-
श्श्रुतुलनयने दुर्लभप्रार्थन मे गाढोष्माभिः कृतमशरणं त्वद्वि-
योगव्यथाभि. ॥ २७ ॥ कस्याख्याय व्यतिकरममम मुक्त-
दुःखो भवेय को जानीते निभृतमुभयोरावयो. स्नेहसारम् ।
जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चि-
रमनुगत तन्प्रिये कि करोमि ॥ २८ ॥ त्वद्रूपामृतपान-
दुर्ललितया दृष्ट्या क्व विश्रम्यता त्वद्वाक्यश्रवणाभियोग-
परयोः श्रव्यं कुत. श्रोत्रयो । एभिस्त्वत्परिरम्भनिर्भररसैैरङ्गेः
कथ स्थीयता कष्ट त्वद्विरहेण सप्रति वयं कष्टामवस्था गताः
॥ २९ ॥ यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवर
मेघैरन्तरित प्रिये तव मुखच्छायानुकारी शशी । येऽपि
त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोद-
मात्रमपि मे दैवेन न क्षम्यते ॥ ३० ॥ गूढालिङ्गनगण्ड-
चुम्बनकुचस्पर्शादिलीलायितं सर्व विस्मृतमेव विस्मृतवतो
बाले खलेभ्या भयात् । संलोपस्त्वधुना सुदुर्घटनामस्त-
त्रापि नातिव्यथा यत्त्वद्दर्शनमप्यभूद्सुलभ तेनैव दूये भृशम्
॥ ३१ ॥ धन्यस्तन्वि स एष पाण्डिमवरश्वम्बन्कपोलस्थलं
धन्य तन्वि तदेव कार्श्यमिह यत्प्रत्यङ्गमोलिङ्गति ।
धन्योऽय विरहानलस्तव मनो यस्यानुवृत्तेः पदं दूरे हन्त
तया तु पातितया मादृग्जन सीदति ॥ ३२ ॥ न स्नानं
न च भोजन न पठनं नान्यत्र सौख्य धृतिर्नान्यस्त्रीजन-
सेवन न च कथानिद्राविलासोधमः । किंतु त्वा परिचिन्त-
यामि सततं ध्यानेन चेतःस्थिता स्वमालोकनकामिकेलि-
विधिना जीवामि कान्ते तव ॥ ३३ ॥ रात्रिः कालयुगोपमा
मलयजो गन्धानिल. कि विष सोमः सूर्य इवाभवन्मलय-
जालेपः स्फुलिङ्गोपम. । तिक्त. सुस्वरगीतवाद्यपरभृत्याराव-
तादिध्वनिर्वज्रस्वाहतिरेव कर्णयुगले विच्छेदतो मे तव
॥ ३४ ॥ चन्द्रो द्वादश भास्कराः समभवन्ग्रात्रिर्युगाना
शत मिष्ट तिक्तरस विलेपनमहो दीप्तानलो मे तव ।
विच्छेदान्मलयानल प्रियतमे किं कालकूटः श्रुतौ गीतादि-
ध्वनिरेव वज्रसदृशोऽरण्यं विचित्रं गृहम् ॥ ३५ ॥ स्थाना-
न्निर्गत्य दूर व्रजति मयि चिर मुक्तकण्ठ रुदित्वा पश्चादु-
न्मृज्य नेत्रे प्रणतिमुपगता वेपमानाङ्गयष्टिः । कान्ते यन्मा-
मवोच. प्रलयघनघटाटोपबद्धान्धकारे काले कापालिकोऽपि
प्रवसति न गृहात्तन्मनो मे दुनोति ॥ ३६ ॥

दूतीं प्रति नायिकाप्रश्नाः

उल्लापयन्त्या दयितस्स दूती वध्वा विभूषा च निवेश-
यन्त्या । प्रसन्नता कापि मुखस्स जज्ञे वेषश्रिया तु प्रिय-
वार्तया नु ॥ १ ॥ अलमलमधृणस्स तस्स नाम्ना पुनरपि सैव
कथा गत' स कालः । कथय कथय वा तथापि दूति
प्रतिवचनं द्विषतोऽपि माननीयम् ॥ २ ॥ कथय निपुणे


१ छादित
२ भाषणम्

पृष्ठ 308
स्थायी लिंक
पृष्ठ 308 स्कैन

दूत्युपहासप्रश्नाः, नायिकां प्रति नायकावस्थाकथनम्, सूर्यास्तमनसमयवर्णनम् २९३


कस्स्नेग्दधः कथं नु कियच्चिर किमभिलिखित कि तेनोक्तं
कदा स इहैष्यति । इति बहुविधप्रेमालापप्रपञ्चितविस्तराः
प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टताम् ॥ ३ ॥

दूत्युपहासप्रश्नाः

पार्श्वीभ्या सप्रहाराभ्यामधरे व्रणखण्डिते । दूति सङ्ग्राम-
योग्यासि न योग्या दूतकर्मणि ॥ १ ॥ बहुनात्र किमुक्तेन
दूति मत्कार्यसिद्धये । स्वमासान्यपि दत्तानि वक्तव्येषु तु
का कथा ॥ २ ॥ किं त्वं निगूहसे दूति स्तनौ वक्र च
पाणिना । खण्डिता एव शोभन्ते शूराध्दरपयोधराः ॥ ३ ॥
त्व दूति निरगा. कुञ्जं न तु पापीयसो गृहम् । किशुका-
भरणं देहे दृश्यते कथमन्यथा ॥ ४ ॥ दूति त्वया कृत-
महो निखिल मदुक्तं न त्वादशी परहितप्रवणान्ति लोके ।
श्रान्तासि हन्त मृदुलाङ्गि गता मदर्थ सिध्यन्ति कुत्र सुकृ
तानि विना श्रमेण ॥ ५ ॥ रजन्यामप्यस्या सुरतपरिवृत्ताव-
नुचित मदीयं यद्वास. कथमपि हृतं तेन सुहृदा । त्वया
प्रत्यानीतं निजवसनदानात्पुनरिद कुतस्त्याहग्दूति स्खलित-
शमनोपायनिपुणा ॥ ६ ॥ निःशेषच्युतचन्दन स्तनतट
निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं
तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ७ ॥
दूतीदं नयनोत्पलद्वयमहो तान्तं नितान्तं तव खेदाम्भ.-
कणिका ललाटफलके मुक्ताश्रिय बिभ्रति । नि श्वासा.
प्रचुरीभवन्ति नितरा हा हन्त चन्द्रातपे यातायातवशाद्धथा
मम कृते श्रान्तासि कान्ताकृते ॥ ८ ॥ दूति श्वासविशेष
एष किमहो चण्डि त्वराधावनाद्धि भ्रष्टालकवल्लरी कथमहो
त्वन्नाथपाडार्पणात् । निर्मृष्टाधररागपल्लवरुचिस्त्वत्कार्यसज-
ल्पनाद्द्वास्तस्त्य किमङ्गसङ्गतमहो विश्वासहेतोस्तव ॥ ९ ॥
श्वास. किं त्वरिता गता पुलकिता कस्मात्प्रसाद. कृतः सस्ता
वेण्यपि पादयोर्निपतनान्नीवी गमादागमात् । स्वेदार्द्रं मुख-
मातपेन गलितं क्षामा किमित्युक्तिभिर्दुति म्लानसरोरुहा-
कृतिधरसौष्ठस्य किं वक्ष्यसि ॥ १० ॥ स्विन्नं केन मुख
दिवाकरकरैस्ते रागिणी लोचने रोषात्तद्भ्रुवनोत्थिताद्विलुलिता
नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयक्रषणात्क्लान्तासि
गत्यागतैर्युक्त तत्सकलं किमत्र वद हे दूति श्रुतस्याधरे
॥ ११ ॥ सायं स्नानमुपासितं मलयजेनाङ्ग समालेपित
यातोऽस्ताचलमौलिमम्बरमणिविश्रब्धमन्दा गति । आश्चर्य
तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलन-
व्यतिकर शक्नोमि तेनासितुम् ॥ १२ ॥


१ क्षालितो रागो रक्तिमा यस्य २ अतिशयम् ३ अञ्जनरहिते


नायिकां प्रति नायकावस्थाकथनम्

पढगव्दलीनहृदयो रूपाल्कारगाभवनानपुणः । कविविरव
सचिन्नमुद्रस्तरुणि तवार्थे परं स युवा ॥ १ ॥ परिहरति
रति मतिं लुनीते स्खलतितरा परिवर्तते च भूय । इति
तव विषमा दशास्य देहं परिभवति प्रसभ किमत्र कुर्म
॥ २ ॥ विकिरति मुहु श्वासानासा पुरो मुहुरीक्षते प्रवि-
शति मुहु कुञ्जात्कुञ्ज मुहुर्बहु ताम्यति । रचयति मुहु
शय्या पर्याकुञ्जं मुहुरीक्षते मदनकदनक्लान्त कान्ते प्रियस्तव
वर्तते ॥ ३ ॥ मा मा द्रक्ष्यति वक्ष्यति स्रग्कथा प्रयङ्ग-
मालिङ्गनै. प्रीति यान्यति रस्यते सखि समागत्येति चिन्ता-
कुल । मार्ग पश्यति वेपते पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्छति स्थिरतम पुञ्जे निकुञ्जप्रिय ॥ ४ ॥
पूर्वं यत्र सम त्वया रतिपतेरासादिता सिद्धयस्तस्मिन्नेव
निकुञ्जमन्मथमहातीथे पुनर्मामव । ध्यायस्त्वामनिशं जप-
न्नपि तवैवालापमन्त्रावलीर्भूयस्त्वत्कुचकुम्भनिर्भरणरीग्म्मा-
मृतं वाञ्छति ॥ ५ ॥

सूर्यास्तमनसमयवर्णनम्

मग्रसस्कारसपन्नास्तन्वदौदन्वर्तारप । एतत्रयीमयं
ज्योतिरादित्याख्यं निमज्जति ॥ १ ॥ तापनैरिव तेजोभि-
र्दग्धनिर्वाणमेचका । दिशो जाता. प्रतीची तु समुदाचरति
क्रमात् ॥ २ ॥ पुराणरश्मिजालेषु सस्नेष्वस्तावलम्बनम् ।
बिम्बमम्बुरुहा नेतुरम्बरान्दवलम्बते ॥ ३ ॥ विलोक्य सगमे
राग पश्चिमाया विवस्वत. । कृत कृष्ण मुख प्राच्या नहि
नार्यो विनेर्ष्याया ॥ ४ ॥ करिष्यति कलानाथ. कुतुकी कर-
मम्बरे । इति निर्वापयामास रविदीपं निशाङ्गना ॥ ५ ॥
नलीयमानैर्विहगैर्र्निमीलद्भिश्च पङ्कजै । विकमन्त्या च
मालत्या गतोऽस्तं ज्ञायते रवि. ॥ ६ ॥ अस्तं गतवति सैवि-
तरि भर्तरि मेधुपं निवेश्य कोशान्ते । कमलिन्योऽपि रमन्ते
किमत्र चित्रं मृगाक्षीणाम् ॥ ७ ॥ कृतोपकार प्रियबन्धुमर्क
मा द्राक्षम हीनाशुमध. पतन्तम् । इतीव मत्वा नलिनीवधू-
भिर्निमीलितान्यम्बुरुहेक्षणानि ॥ ८ ॥ साध्यरागरुधिरारुण-
माराह्नि.पपात रविमण्डलमन्धौ । क्रूरकालकैरवालविर्लून
वासरस्य सहसैव शिरो नु ॥ ९ ॥ नो रविर्न च तमो न
तमीशो न युतिर्गहगणो न च सध्या । यादशी प्रथमत.
किल सृष्टेस्तादृगेव भुवन श्रियमूहे ॥ १० ॥ मानुविम्बमिद-
मस्तगामि च प्रोद्यतं कुमुदबन्धुमण्डलम् । दृश्यते रतिपते.
प्रवासिना क्रोधरक्तमिव लोचनद्वयम् ॥ ११ ॥ स्थान-
माहिकमपास्य दन्तिन· सल्लकीविटपभङ्गवासितम् । आविभात-


१ सूर्ये २ भृङ्गम्, पक्षे,-मद्यपम् ३ खड्ग ४ छिन्नम्

पृष्ठ 309
स्थायी लिंक
पृष्ठ 309 स्कैन

२९४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

चर णाय गृह्णते वारि वारिरुहबद्धषट्पदम् ॥ १२ ॥ पश्य पश्चिमदिगन्तलम्बिना निर्मितं कथमिदं विवस्वता । दीर्घया प्रतिमया सरोम्भसा तापनीयमिव सेतुबन्धनम् ॥ १३ ॥ उत्तरन्ति विनेकीर्य पल्वलं गाढपङ्कमतिवाहितातपा । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरविसाङ्कुर इव ॥ १४ ॥ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डल.। हीयमानमहुरत्ययातप पीवरोरु पिबतीव बर्हिण ॥ १५ ॥ पूर्वभागतमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकत । खं हृतातपजल विवस्वता भाति किंचिदिव शेषवत्सर. ॥ १६ ॥ आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकै । आश्रमा प्रविशदध्यधेनवो बिभ्रति श्रियमृदीरितामथ. ॥ १७ ॥ बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुरेशयम् । षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ १८ ॥ दूरलङ्घ्यपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ १९ ॥ साध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् । सपरायवसुधा सशोणित मण्डलाग्रमिव तिर्यगुत्थितम् ॥ २०॥ कोऽत्र भूमिवलये जनान्मुधा तापयन्सुरुचिरमेति संपदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचल तत ॥ २१ ॥ मध्यमोलनभे लसदशावेकतश्रुतिमुपेयुषि भानौ । द्यौरुवाह परिवृत्तिविलोला हारयष्टिमिव वासरलक्ष्मीम् ॥ २२ ॥ अंशुपाणिभिरतीव पिपासु. पद्मजं मधु भृश रसयित्वा । क्षीबतामिव गत. क्षितिमेभ्यँल्लोहितं वपुरुवाह पतङ्ग ॥ २३ ॥ मुक्तमूललघुरुज्झितपूर्व पश्चिमे नभसि सभृतसान्द्र । सौमि मज्जति रवौ न विरेजे खिन्नजिह्व इव रश्मिसमूह ॥ २४ ॥ कान्तदृत्य इव कुङ्कुमभागा. साय मण्डनमभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभि. सौधजालपतिता रविभासः ॥ २५ ॥ अग्रसानुषु नितान्तपिशङ्गैर्भू रुहान्मृदुक रैरवलम्ब्य । अस्तशैल गहनं नु विवस्वानाविवेश जलधि नु मही नु ॥ २६ ॥ आकुलश्वलपतत्त्रिकुलानामारवैरनुदितौषसराग. । आययावहरिदश्वविपाण्डुस्तुल्यता दिनमुखेन दिनान्त ॥ २७ ॥ आस्थित स्थगितवारिदपङ्क्त्या सध्यया गगनपश्चिमभाग. । सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधे. श्रियमूहे ॥२८॥ प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । सध्यानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ २९ ॥ अभितापसपदमथोग्णरुचिर्निजतेजमामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरविरोधमस्तगिरिमभ्यपतत् ॥ ३० ॥ गतया पुरः प्रतिगवाक्षमुख दधती रतेन भृशमुत्सुकताम् । सुहुरन्तरालमुवमस्तगिरे सवितुश्च योषिदिममीत् दृशा ॥ ३१ ॥ विरलातपच्छविरनुष्णवपु परितो विपाण्डु दधदभ्र-

शिर । अभवद्गतः परिणति शिथिलः परिमन्दसूर्यनयनो दिवसः ॥ ३२ ॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये । निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिर ॥ ३३ ॥ उपसध्यमास्त तनु सानुमत. शिखरेषु तत्क्षणमशीतरुच । करजालमस्तसमयेऽपि सतामुचितं खलूत्तरमेत्य पदम् ॥ ३४ ॥ नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यततुषारकर ॥ ३५ ॥ गतवत्यराजत जपाकुसुम्तवकद्युतौ दिनकरेऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्मवलयम् ॥ ३६ ॥ द्रुतशातकुम्भनिभमशुमतो वपुरर्धमग्नवपुष. पयसि । रुरुचे विरञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥ ३७ ॥ अनुरागवन्तमपि लोचनयोर्दधतं वपु. सुखमतापकरम् । निरैकासयद्रविमपेतवसु वियदालँयाँदपरदिग्गणिका ॥ ३८ ॥ अमितिग्मरश्मि चिरमा विरमादवधानखिन्नमनिमेषतया । विगलन्मधुव्रतकुलाश्रुजल न्यमीमीलदब्जनयन नलिनी ॥ ३९ ॥ अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवसन्नातापमतमिस्रमभादपदोपँतैव विगुणस्य गुण. ॥ ४० ॥ रुचिधाम्नि भर्तरि भृश विमला परलोकमभ्युपगते विविशुः । ज्वलनं विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पति. ॥ ४१ ॥ महद्भिरोधैस्तमसामभिद्रुतो भयेऽप्यसम्मूढमतिर्भमन्क्षितौ । प्रदीपवेषेण गृहे गृहे स्थितो विखण्ड्य देहं बहुधेव भास्करः ॥ ४२ ॥ अयमसौ गगनाङ्गणदीपकस्तरकिकालभुजंगशिखामणि. । क्षणविडम्बितवाडवविग्रह. पतति वारिनिधौ विधुरो रविः ॥ ४३ ॥ अभिभूय सतामवस्थिति जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापकृत्कथ जलधौ नावपतेदसौ रवि. ॥ ४४ ॥ परिपतति पयोनिधौ पतङ्ग सरसिरुहासुदरेषु म॑त्तभृङ्गः । उपवनतरुकोटरे विहगस्तरुणिजनेषु शनै शनैरनङ्गः ॥ ४५ ॥ शुचिरिति परित. प्रसिद्धिभाजि प्रकटिततेजसि दुर्जये कृशानौ । निजैवसुनिकुरम्बमस्तवेलाव्यतिकरवाञ्छिर्दधे सँरोजबन्धु ॥ ४६ ॥ जगदिव बहुलातपामितसं जनयितुमद्य जलाभिषेकशीतम् । परिधृत रविशातकुम्भकुम्भा प्रञ्चलति पश्चिमवारिधि दिनश्री. ॥ ४७ ॥ पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्मभूहुताश । प्रसरति चरमा तम.प्ररोह प्रतिपदमद्य यथा मनोविमोह ॥ ४८ ॥ अस्तावलम्बि रविबिम्बम तयोद्याद्रिचूडोन्मिषत्सकलचन्द्रतया च सायम् । सध्याप्रवृत्त-


१ अपूर्णे
१ प्रीतीयुक्तम्, पक्षे,-रक्तिमान्वितम् २ बहिनिष्कामयामास
३ अपेत गत वसु द्रविण तेजश्च यस्मात् ४ अपरदिगेव गणिका
५ निजद्रव्यममूहम्, पक्षे,-किरणसमूहम् ६ स्नापयामास ७ मूर्य

पृष्ठ 310 स्कैन
सूर्यास्तमनसमयवर्णनम्    २९५

हरहस्तगृहीतकांसतालद्वयमेव समलक्ष्यत नाकलक्ष्मी ॥४९॥
यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती
प्रतिबोधनीया । प्रैत्यायनामयमितीव सरोरुहिण्या. सूर्यो-
ऽस्तमस्तकनिविष्टकर करोति ॥ ५० ॥ कृत्वा प्रबुद्धकमला-
मखिला त्रिलोकीमम्भौनिधेर्विशति गर्भमसाविदानीम् ।
अन्तःप्रसुप्तहरिनाभिसरोजबोधकौतूहलीव भगवानरविन्द-
बन्धु ॥ ५१ ॥ पूर्वा क्षणक्रमनिरस्तसमस्तरागा हित्वा
निजान्तिकमुपेत्य रवौ सरागे । आलोक्य पुनरमुष्य धृत-
प्रसादा जाता चिरेण चरमा परमाणुरक्ता ॥ ५२ ॥ स्पृष्टे-
ल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारवि-
न्दम् । क्लिष्टाष्टदिग्दलकलापमुषावतारबद्धान्धकारमधुपावलि
सञ्चकोच ॥ ५३ ॥ पृथु गगनर्कबन्धस्कन्धचक्र किमेत-
त्किमु रुधिरकपाल कालकापालिकस्य । कललभरितमन्त.
कि नु तार्क्यण्डखण्ड प्रजनयति वितर्क साध्यमर्कस्य विम्बम्
॥ ५४ ॥ अयमपि खरयोबिक्कर्णकाषायमीपद्विसृमरतिमि-
रोर्णाजर्जरोपान्तमर्चि. ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 311 स्कैन

२९६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


गुच्छावलिभिरिव तमोवल्लरीभिर्वियन्ते पर्यन्ता प्रान्तवृत्त्या
पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्वित-
तवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति
निजं नीलिमानं वनेषु ॥ ७३ ॥

चक्रवाकावस्थानारख्यानम्

रतिकेलिकल कश्चिद्देश मन्मथमन्थरः । पश्य सुश्रु
समाश्वस्ता कादम्बश्चम्बति प्रियाम् ॥ १ ॥ दृष्टामरस-
केमरत्यजो क्रन्दतोर्विपरिवृत्तकण्ठयो । निम्नयो सरसि
चक्रवाकयोरल्पमन्तरमनल्पता गतम् ॥ २ ॥ आतपे धृतिमतो
सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा
हिमरश्मेर्दु खिते मनसि सर्वमसद्यम् ॥ ३ ॥ गम्यतामुपगते
नयनाना लोहितायति सहस्रमरीचौ । आससाद विरहव्य
धरित्रीं चक्रवाकहृदयान्यमितान् ॥ ४ ॥ इच्छता सह वधू-
भिरभेद् यामिनीविरहिणा विहगानाम् । आपुरेव मिथुनानि
वियोग लङ्घ्यते न खलु कौलनियोगः ॥ ५ ॥ यच्छति
प्रतिमुखं दयितायै

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 312 स्कैन

तमोवर्णनम्

२९७


तेजोपहारिण । स्वामिनो निर्विवेकस्य तमसाश्च किमन्तरम् ॥ २ ॥

आपूरितमिदं श्यामतमसतमसैरिलम् । ब्रह्माण्डमण्डल भाति सकज्जलकरण्डवत् ॥ ३ ॥

तनुलग्ना इव ककुभ क्ष्मावलय चरणचारपात्रमिव । वियदपि चालिकदघ्नं मुष्टिग्राह्य तम कुरुते ॥ ४ ॥

अम्बरविपिनम्बिदानी तिमिरवराहोऽवगाहते जलवेः । रोमसु यटस्य लब्धास्तारकजलबिन्दवो भान्ति ॥ ५ ॥

घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम् ॥ ६ ॥

औषसातपमयादपलीन वासरच्छविविरामपटीय । सनिपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥ ७ ॥

एकतामिव गतस्य विवेक. कस्यचिन्न महतोऽप्युपलेभे । भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषा. ॥ ८ ॥

रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगित नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरैण ॥ ९ ॥

रात्रिरागमलिनानि विकास पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 313 स्कैन

२९८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


ध्वान्तं समुज्जृम्भते ॥ ३३ ॥ नाकाशं न दिशो न भूधर-
कुलं नाम्भोधयो न क्षितिर्न द्यौर्नाम्बुधरा न तीव्रकिरणा
नेन्दुर्न तारागण । एतै षट्पदकायकान्तिपटलीपाण्डित्य-
वैतण्डिकै कल्लोलैस्तमसामसाम्प्रतमयं विश्वव्ययः कल्यते
॥ ३४ ॥ एतद्व्योमवनीवराहवलयं विश्वैकवीरस्मरस्कन्धा-
वारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् । चक्षुष्यञ्जन-
वस्तु धूकमदमा विश्लिष्टचक्राद्वयस्तोमान्तर्गतधूमकेतन-
महाधूम्या तमस्तार्यते ॥ ३५ ॥ सर्वे ध्वान्तमिदं वदन्तु
बहुधा सिद्धान्त एव तु न स्वाधारेषु करेषु पुष्करमणे स्तेषु
नून शनै । अस्तालम्बतयाम्वरेण पतता ग्रस्ते समस्ते
जगत्युन्मीलत्करकन्दलैरपि विधोस्तावत्कदुत्तार्यते ॥ ३६ ॥
विश्वं चाक्षुषमस्तमस्ति हि तमःकैवल्यमौपाविकञ्चाद्यादिव्य-
वहारवीजविरहाद्द्विञ्जात्रमेव स्थितम् । गृह्लन्ते भयहेतव.
पटुभिरप्यक्षान्तर्गैरैर्भाति च ध्वान्तेनातिघनेन वस्तु वचसा
ज्ञात खरेणामुक. ॥ ३७

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 314 स्कैन

अभिसारिकासंचारककथनम्, नक्षत्रोदयवर्णनम्, चन्द्रोदयवर्णनम् २९९


लतरलतरतारकामेचकिम्ना ॥ २१ ॥ उत्तंस केकिपिच्छै-
र्मरकतवलयै श्यामले दोःप्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृग-
मदरचितो वक्त्रपत्रप्रपञ्चः । नीलाब्जैः शेखरश्रीरसितवसनता
चेत्यभीकाभिसारे सप्रत्येणेक्षणाना तिमिरभरसखी वर्तते
वेषलीला ॥ २२ ॥ मलयजरसविलिसतनवो नवहारलताविभू-
षिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरमलांशुका । शश-
भृति विततधाम्नि धवलयति धरामविभाव्यता गता प्रिय-
वसति प्रयान्ति सुखमेव निरस्तभियोऽभिसारिका ॥ २३ ॥

नक्षत्रोदयवर्णनम्

घनतरतिमिरघुणोत्करजग्धानामिब पतन्ति काष्ठानाम् ।
छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥ १ ॥ उद्धर्तुं
किल शैलकेलिगभसस्तानि पाथोनिधेरन्तर्भूषणमौक्तिकानि
दिविजस्त्रीभिः समुत्कण्ठया । गाढ तत्र निमज्जितेन रविणा
बद्धा दृढ रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारा-
पदेशं दधुः ॥ २ ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 315 स्कैन
३००सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥३१॥

एतदुच्छ्वसितपीतमन्दव सोढुमक्षममिव प्रभाकसम् । मुक्त-
षट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥ ३२ ॥

आननानि हरिणीनयनानामद्भुतानि च समीक्ष्य जगत्याम् ।
लज्जयेव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ॥ ३३ ॥

व्यानशे शशधरेण विमुक्त केतकीकुसुमकेसरपाण्डुः ।
चूर्णमुष्टिरिव लम्बितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ ३४ ॥

उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे ।
दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥३५॥

नीलनीरजनिभे हिमगौर शैलरुद्धवपुषः सितरश्मेः । खे
रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥३६॥

द्या निरुन्धदतिलोलधनामं ध्वान्तमुद्यतकरेण पुरस्तात् ।
क्षिप्यमाणमसितेतरभासा शंभुनेव करिचर्म चकासे ॥ ३७ ॥

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्वता^१ जहात

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 316 स्कैन

चन्द्रोदयवर्णनम् ३०१

नलिन्य. ॥ ६८ ॥ उद्दम्भेद्रूततरुणीरमणोपमर्दमग्रोन्नत्तस्त-
ननिवेशनमिव हिमांशो । बिम्ब कठोरबिसकाण्डकडारमेत-
द्रम्मापदं प्रथममग्रकरैर्न्यनक्ति ॥ ६९ ॥ ताराक्षतान्प्रति-
किरन्कलकण्ठनादान्मन्त्राक्षराणि निगदन्कुसुमेषुरेष ।
लाभाय वासरमणेर्मुषितस्य साय सचारयत्यमृतदीधितिका-
स्यपात्रम् ॥ ७० ॥ एतद्विभाति चरमाचलचूड़चुम्बिडिण्डी-
रपिण्डरुचिशीतमरीचिबिम्बम् । उज्ज्वलितस्य रजनी
मदनानल्स्य धूम दद्यत्प्रकटलाञ्छनकैकतवेन ॥ ७१ ॥ भूय-
स्तराणि यदमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः
प्रतीमः । सध्यानलेन भृशमम्बरमूषिकायामावर्तितैरुडुभि-
रेव कृतोऽयमिन्दुः ॥ ७२ ॥ उज्जृम्भते कुमुदिनीसुकृत
मृगाङ्को विश्वग्विकीर्णपरिपटलरश्मिदण्डः । उत्सूतविद्रुम-
कुलो जलधेस्तरङ्गादुत्क्षिप्यमाण इव कश्चन राजकम्बुः
॥ ७३ ॥ गगनविपिनसिंहः कामभूपातपत्र निखिलदिग्-
बलाना कन्दुक क्रीडनाय । मणिरिव रतिभर्तु कार्मणः
पार्वणोऽयं जयति कुमुदबन्धुर्बन्धुरश्चन्द्रबिम्ब. ॥ ७४ ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 317 स्कैन

३०२ सुभाषीतरत्नभाण्डागारम् [ ६ प्रकरणम् ]


कन्दीयति ॥ ९४ ॥ अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहित । उच्चन्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥ ९५ ॥ कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदेर्जाते शशाङ्कोदये ॥ ९६ ॥ पीयूषाश्रपणं जगत्त्रयदृगामालानलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्घाटिनी कुञ्चिका । वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुखश्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ९७ ॥ दिग्बालाकरकन्दुकः स्मरवधूस्रीमन्तमुक्तामणिः कामक्षोणिपतेर्विहारवलभीनिर्यूहपारावतः । हृद्योम्नि विकीर्णतारकमणिः श्यामा वणिक्सुध्रुवः स्फारः स्फाटिकसम्पुटः कुमुदिनीकान्तोऽयमुन्मीलति ॥ ९८ ॥ यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 318 स्कैन
चन्द्रोदयवर्णनम्३०३
[वाम स्तम्भ][दक्षिण स्तम्भ]
यौवनोन्मादलीलागोष्ठीना पीठमर्द्दस्त्रिभुवनवनितानेत्रयो प्रातराश । कामायुष्टोममज्वा शमितकुमुदिनीमानमुद्रानुराग शृङ्गाराद्वैतवादी प्रभवति भगवानेषु पीयूषभानु ॥ ११८ ॥ कल्लोलक्षिप्तसप्तच्छ्रिपुरहरशिर ख स्रवन्तीमृणालं कर्पूरक्षोदजालं कुसुमशरवधुसीधुभृङ्गारनालम् । एतद्दुग्धाब्धिवन्धोर्गगनकमलिनीपत्रपानीयविन्दोरन्तस्तोष न केषा किसल यति जगन्मण्डन खण्डमिन्दो ॥ ११९ ॥ सरम्भोद्रिक्त नक्तसमयदशमुखोद्दण्डदोर्दण्डहेलाकैलास सप्तलोकीजयसुदितमनोजन्यवादित्रशङ्ख । लोलाक्षीगण्डपालीलवणमजलवेरुद्गत. फेनपिण्ड पश्य व्योमावकाशं विशति विरहिणा दत्तशङ्क. शशाङ्क ॥ १२० ॥ कैतन्मार्त्तण्डविम्बं मरसि सरसिजश्रेणिहास्यं क यात कैते याता रथाङ्गा. सपदि गतहियः क प्रविष्टा मरालाः । सध्यरागारुणाङ्ग· कुपित इव पति. प्रोद्यतोऽयं हिमाशुर्मन्ये हर्षादिवेय हसति कुमुदिनी जाग्रतीवालिनादैः ॥ १२१ ॥ प्राचीभागे सरागे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 319 स्कैन
३०४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

काकः ॥ १४३ ॥ कृष्णवर्णहृदय सितदीप्ति दुर्धियः किल कलङ्किनमाहुः । कृष्णवर्णसमुदीरणमात्रादेव यद्गलति दृश्यकलङ्कः ॥ १४४ ॥ आयताग्रसितरश्मिनिबद्धा लाञ्छनच्छविमभीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं खरबालः ॥ १४५ ॥ शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ १४६ ॥ अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्या । यतस्तदीयं प्रतिबिम्बमस्मिन्सल्लक्ष्यते लाञ्छनकैकैतवेन ॥ १४७ ॥ प्रदोषमातङ्गममञ्जदेवस्तुङ्गं समारुह्य समागतोऽयम् । सिन्दूरिते तस्य सुधांशुकुम्भे किमङ्कुशो लक्ष्ममिषेण दत्तः ॥ १४८ ॥ मम प्रियां कैरविणीं करेण संतापयामास दिनाधिनाथः । इतीव दुःखैर्विकलः कलावान्यपौ विषं लक्ष्ममिषेण सद्यः ॥१४९॥ कलाधिनाथानयनाय सायं कुमुद्वतीप्रेषित एष भृङ्गः । किमिन्दुनालिङ्ग्य सरागमङ्के कृतः कलङ्कभ्रममातनोति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 320 स्कैन

नायकातिथ्यवर्णनम्, नायकस्य नायिकां प्रति प्रश्नः, प्रणयकलहे नायिकानुनयः | ३०५

विकासि वेल्लनम् । विसारि रोमाञ्चितकञ्चुक तनोस्तनोति
योऽसौ सुभगे तवागतः ॥ ३ ॥ कलय वलय धम्मिल्लेऽस्मि-
न्निवेशय मल्लिका रचय सिचय मुक्ताहार विभूषय सत्वरम् ।
मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः
प्रातः स ते हृदयप्रियः ॥ ४ ॥

नायकातिथ्यवर्णनम्

आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यता गेहिन्या
परितोषबाष्पकलिलामासज्य दृष्टि सुखे । दत्त्वा पीलुशमी-
करीरकवलं लोलाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराञ्च-
लग्न रजः ॥ १ ॥ बाला चन्दनमालिकाकिसलयग्रन्थींनध.-
कुर्वतः श्रुत्वा वल्लभवाहनस्य रटितं दासेरकस्याङ्गने । आक्र-
न्दात्सुहृदो वनाद्रुरुजनं त्रासायसद्भादसूनकान्तं खीर्घपात-
कात्खरमसत्कीर्तेः परावर्तयत् ॥२॥ किंचित्कम्पितपाणिकङ्कण-
रवैः पृष्ट ननु स्वागतं व्रीडानममुखाम्बुज्या चरणयोर्न्यस्ते च
नेत्रोत्पले ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २३ ॥

पृष्ठ 321 स्कैन
३०६सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

क्लमविमर्दिभिरार्द्रवातं सचालयामि नलिनीदलतालवृन्तम् ।
अङ्के विधाय चरणावुत पद्मताम्रौ संवाहयामि करभोरु यथासुखं ते ॥ २३ ॥

आताम्रतामपनयामि विलक्ष एष लाक्षाकृता चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनिता तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥२४॥

इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलेः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः ॥ २५ ॥

किं मुक्तमासनमलं मयि सम्भ्रमेण नोत्थातुमित्यमुचितं मम तन्तुमध्ये ।
दृष्टिप्रसादविधिमात्रहतो जनोऽयमत्यादरेण किमिति क्रियते विलक्षः ॥२६॥

शुभ्रालकं सितपराजितचन्द्रलेखं दृग्लीलया कुवलयश्रियमाददानम् ।
एतन्मुखं दिविषदामपि दुर्निरीक्ष्यं तन्वङ्गि मामिव सुधा किमद्य करोषि ॥ २७ ॥

लावण्यकान्तिपरिपूरितदिखण्डेऽस्मिन्स्रेऽधुना इव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥ २८ ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 322 स्कैन
प्रणयकलहे नायिकानुनयः, सख्यनुनयः३०७

विधेयताम् ॥ ४९ ॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय
पक्ष्मलं तरुणि मधुरालापैस्ताप विनोदय दृष्टिभिः । सुमुखि
विमुखीभाव तावद्विमुञ्च न वञ्चय स्वयमतिशयस्निग्धो
मुग्धे प्रियोऽहमुपस्थित ॥ ५० ॥ कठिनहृदये मुञ्च भ्रान्तिं
व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम्।
किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यदभिरुचितं
तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५१ ॥ पादासक्ते
सुचिरमिह ते वामता कैव मुग्धे नर्मासक्ते प्रणयिनि जने
कोऽपराधोऽपराध। इत्थं तस्या परिजनकथा कोमले कोपवेगे
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ५२ ॥
कोऽयं कोपविधि. प्रयच्छ करुणागर्भं वचो जायता पीयूष-
द्रवदीर्घिकापरिमलैरामोदिनी मेदिनी । आस्ता वा स्पृहयालु-
लोचनमिदं व्यावर्तयन्ती मुहुर्यस्मै कुप्यसि तस्य सुन्दरि
तपोवृन्द्वानि वन्दामहे ॥ ५३ ॥ सूर्येऽस्ताचलमौलिमालिनि
गृहे दीपावलीशालिनि प्राणस्वामिनि मानिनि प्रतिपदं
सत्कारमातन्वति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 323 स्कैन
३०८सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

कण्ठमस्य दृढं तदा ॥ २ ॥ स्मेरराजीवनयने नयने किं निमीलिते । पश्य निर्जितकंदर्प कंदर्पवशगं प्रियम् ॥ ३ ॥ रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना । वदामि सखि ते तत्त्वं कदाचिन्नोचिताः क्रुधः ॥ ४ ॥ यदि कुप्यसि नास्ति रतिः कोपेन विनाऽथवा कुतः कामः । कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥ ५ ॥ अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्वासान्तरे खरज्वलनः ॥ ६ ॥ अध्वति रजनिरुद्ध्यति तिमिरमिदं चञ्चति मनोभूः । उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन् ॥ ७ ॥ वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशा श्रीः । धरनिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥ ८ ॥ जहीहि कोपं दयितोऽनुगम्यता पुरोऽनुशेते तव चञ्चलं मनः । इति प्रिये काचिदुपैतुमिच्छती पुरानुनान्ये निपुणः सखीजनः ॥ ९ ॥ समयचकितं विन्यस्यन्ती दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें