सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 322, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 322
प्रणयकलहे नायिकानुनयः, सख्यनुनयः३०७

विधेयताम् ॥ ४९ ॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय
पक्ष्मलं तरुणि मधुरालापैस्ताप विनोदय दृष्टिभिः । सुमुखि
विमुखीभाव तावद्विमुञ्च न वञ्चय स्वयमतिशयस्निग्धो
मुग्धे प्रियोऽहमुपस्थित ॥ ५० ॥ कठिनहृदये मुञ्च भ्रान्तिं
व्यलीककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम्।
किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं यदभिरुचितं
तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५१ ॥ पादासक्ते
सुचिरमिह ते वामता कैव मुग्धे नर्मासक्ते प्रणयिनि जने
कोऽपराधोऽपराध। इत्थं तस्या परिजनकथा कोमले कोपवेगे
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ५२ ॥
कोऽयं कोपविधि. प्रयच्छ करुणागर्भं वचो जायता पीयूष-
द्रवदीर्घिकापरिमलैरामोदिनी मेदिनी । आस्ता वा स्पृहयालु-
लोचनमिदं व्यावर्तयन्ती मुहुर्यस्मै कुप्यसि तस्य सुन्दरि
तपोवृन्द्वानि वन्दामहे ॥ ५३ ॥ सूर्येऽस्ताचलमौलिमालिनि
गृहे दीपावलीशालिनि प्राणस्वामिनि मानिनि प्रतिपदं
सत्कारमातन्वति । यन्मानं न जहासि कोपकलनादालोहित-
स्तत्क्षणादिन्दुः सुन्दरि पूर्वपर्वतशिर.सीमानमारोहति ॥५४॥
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः
प्रणमन्ति किं तव पुनर्जासो यथा वर्तते । आत्मद्रोहिणि
दुर्जनप्रलपितं कर्णे वृथा मा कृथाश्छिन्नस्नेहरसा भवन्ति
पुरुषा दु खानुवर्त्या यत. ॥ ५५ ॥ क्षीणांशु शशलाञ्छनः
सखि पुनः क्षीणो न मानस्तव ²सैरं पद्मवनं मना-
गपि न ते ¹खेर मुखाम्भोरुहम् । पीत श्रोत्रयुगेन
³चैद्रपदस्तं पीत न ते जल्पितं रक्ता ⁴शैकदिगङ्गना
रविकरैर्नाद्यापि रक्तासि किम् ॥ ५६ ॥ कि कण्ठे शिथिली-
कृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनैष्त्वमि-
मुखी नाद्यापि सभाविता । अन्यस्त्रीजनसकथायलघुरहं स्वप्रे
त्वया लक्षितो दोष पश्यसि किं प्रिये परिजनोपालम्भयोग्ये
मयि ॥ ५७ ॥ चक्षुर्जाड्यमपैतु मानिनि मुखं सदर्शय
श्रोत्रयोः पीयूषस्रुतिसौरभ्यमस्तु मधुरा वाचं प्रिये व्याहर ।
तापः शाम्यतु मे प्रसादशिशिरा दृष्टि शनैः पातय त्यक्त्वा
दीर्घमभूतपूर्वमचिराद्दोषं सखीदोषजम् ॥ ५८ ॥ कल्याणाङ्ग-
रुचानुरक्तमनसा त्व येन सप्रार्थ्यते यस्यार्थे सुमुखि त्वया
पुनरसुत्यागोऽपि सनह्यते । सोऽयं सुन्दरि पञ्चबाणवि-
शिखव्यालीढदोरन्तरस्त्वैरोत्पीडितपीवरस्तनतटस्त्वद्दोलतापञ्जरे
॥ ५९ ॥ शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ
रम्भागर्भनिभं तयोरुयुगलं बाहू मृणालोपमौ । इत्याह्लादकरा-
खिलाङ्गि रभसान्निःशङ्कमालिङ्ग्य मामङ्गानि त्वमनङ्गतताप-
विधुराण्येह्येहि निर्वापय ॥ ६० ॥ स्निग्धं यद्यपि वीक्षितं
नयनयोस्ताम्रा तथापि द्युतिर्माधुर्यापि सती स्वलत्यनुपदं ते
गद्गदा वागियम् । निःश्वासा नियता अपि स्तनभरोत्कम्पेन
सलक्षिता. कोपस्ते प्रकटं प्रयत्नविघृतोऽप्येष स्फुटं लक्ष्यते
॥ ६१ ॥ भ्रूभङ्गैः क्रियते ललाटशशिन. कस्मात्कलङ्को मुधा
वाताकम्पितबन्धुपुष्पसमता नीतोऽधरः कि स्फुरन् । मध्यश्रा-
धिककम्पितस्तनमरेणार्यं पुनः खिद्यते कोप मुञ्च तवैव चित्त-
हरणार्यैतन्मया क्रीडितम् ॥ ६२ ॥ भ्रूभङ्गं न करोषि रोदिषि
मुहुर्मुर्मुवेक्षणे केवलं नातिप्रस्फुरिताधरानवरतं निःश्वासमेवो-
ज्झसि । वाचं नापि ददासि तिष्ठसि पर प्रध्यातनम्रानना
कोपस्ते स्तिमितोऽतिपीडयति मा गूढप्रहारोपमः ॥ ६३ ॥
धृष्ट. कि पुरतोऽवरुध्य विहसन्गृह्णामि कण्ठे प्रिया कि वा
चाटुशतप्रचण्डरचनाप्रीता करिष्यामि ताम् । कि तिष्ठामि
कृताञ्जलिर्निपतितस्तस्या. पुरः पादयोः सत्यं सत्यमहो न
वेद्यमनुनयस्तस्याः कथं स्यादिति ॥ ६४ ॥ सुभ्रु त्वं कुपितेत्य-
पास्तमशनं त्यक्ताः कथा योषिता दूरादेव मयोज्झिताः सुरभयः
स्रग्गन्धधूपादद्य. । रागं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदा-
धुना सद्यस्त्वद्विरहे भवन्ति सुभगे सर्वा ममान्धा दिशः
॥ ६५ ॥ व्यावृत्तं खलु सर्वतो विषयतस्त्वय्येव लीनं मनो
नित्यं च त्वदधीनमेव नियतं मज्जीवितं मानिनि । मत्वैवं मयि
नूनमन्यविषया शङ्का त्वया त्यज्यता किं वान्यत्र निशाकरोऽ-
भिरमते मुक्त्वा क्षणं कौमुदीम् ॥ ६६ ॥ यद्रम्यं गुरुगौरवस्य
सुहृदो यस्मिँल्लभन्तेऽन्तर यद्दाक्षिण्यवशात्प्रसह्य सहते नर्माप-
चारानपि । यल्लज्जा निरुणद्धि यत्र शपथैस्तूप्याद्यते प्रेत्यय-
स्तत्कि प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् ॥ ६७॥
मुग्धे मानिनि कोपरीतिरियती युक्ता न तथ्यं त्विदं कान्ते
कि त्वदुपेक्षिता मम तनु. शोभेत नेहाद्भुतम् । अन्यायो
भवति च्छलस्य करणे दक्षे जनेऽन्यादृशं काहेति प्रतिरुद्ध-
वागकरवं वाक्स्तम्भनं चुम्बनैः ॥ ६८ ॥ मानं मानिनि मुञ्च
देवि दयिते मिथ्या वचः श्रूयते कि कोपो निजसेवके यदि
वचः सत्यं त्वथा गृह्यते । दोभ्यों बन्धवमाशु दन्तदलनं
पीनस्तनास्फालन दोषश्रेन्नम ते कटाक्षविशिखै. शस्त्रैः प्रहार
कुरु ॥ ६९ ॥ सुभ्रु त्व नवनीतकल्पहृदया केनापि दुर्मन्त्रिणा
मिथ्यैव प्रियकारिणा मधुमुखेनाक्षासु चण्डीकृता । किं
त्वेतद्विमृश क्षणं प्रणयिनामेणाक्षि कस्ने हित. कि धात्री-
तनया वयं किमु सखी कि वा किमक्षत्सुहृत् ॥ ७० ॥


सख्यनुनयः

मुग्धे मानं न ते कर्तुं युक्तं प्राणाधिके प्रिये । धत्से
मत्सी कियत्कालं जीवितं ³जीवैनं विना ॥ १ ॥ कुपितासि
यदा तन्वि निधाय करजक्षतम् । बधान भुजपाशाभ्या


१ प्रिया २ विकसितम् ३ अमरशब्द ४ प्राची
१ दृढ २ विश्वास ३ जलम्