सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 311, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 311

२९६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


गुच्छावलिभिरिव तमोवल्लरीभिर्वियन्ते पर्यन्ता प्रान्तवृत्त्या
पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्वित-
तवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति
निजं नीलिमानं वनेषु ॥ ७३ ॥

चक्रवाकावस्थानारख्यानम्

रतिकेलिकल कश्चिद्देश मन्मथमन्थरः । पश्य सुश्रु
समाश्वस्ता कादम्बश्चम्बति प्रियाम् ॥ १ ॥ दृष्टामरस-
केमरत्यजो क्रन्दतोर्विपरिवृत्तकण्ठयो । निम्नयो सरसि
चक्रवाकयोरल्पमन्तरमनल्पता गतम् ॥ २ ॥ आतपे धृतिमतो
सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा
हिमरश्मेर्दु खिते मनसि सर्वमसद्यम् ॥ ३ ॥ गम्यतामुपगते
नयनाना लोहितायति सहस्रमरीचौ । आससाद विरहव्य
धरित्रीं चक्रवाकहृदयान्यमितान् ॥ ४ ॥ इच्छता सह वधू-
भिरभेद् यामिनीविरहिणा विहगानाम् । आपुरेव मिथुनानि
वियोग लङ्घ्यते न खलु कौलनियोगः ॥ ५ ॥ यच्छति
प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते
स्म नतिमुज्झितहर्ष पङ्कज मुखमिवाम्बुरुहिण्या ॥ ६ ॥
आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुर च विचिनोति
धुनोति पक्षम् । उन्मत्तवद्भमति कूजति मुक्तकण्ठः कान्ता-
वियोगविधुरो निशि चक्रवाकः ॥ ७ ॥ एकेनाक्ष्णा प्रवित-
तरुषा वीक्षते लम्बमानं भानोर्बिम्बं जलविलुलितेनापरेण
स्वकान्तम् । अहश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ
सकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ८ ॥ वापीतोय
तटरुहुवनं पद्मिनीपत्रशय्या चन्द्रालोको विकचकुसुमामोद-
हृद्य समीर । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्न-
स्तत्रोपायः क इव भवतु प्राणसवारणो यः ॥ ९ ॥ चक्राह्वो
विरही हतोऽपि हृदये बाणेन न त्यक्तवान्प्राणानप्राणसमास-
मागमसुखध्यानैकतानश्रिरम् । स्वा छायामवलोक्य वारिणि
गलद्रक्तामवेक्ष्य प्रिया भ्रान्तस्तद्भवणवेदनापरिरतः कथं मृत
साम्प्रतम् ॥ १० ॥ तीरात्तीरसमुपैति रौति करुणं चिन्ता
समालम्बते किंचिद्ध्यायति निश्चलेन मनसा योगीव युंक्ते
क्षण । स्वा छायामवलोक्य कूजति पुन कान्तेति मुग्ध
खगो धन्यास्ते भुवि ये निवृत्तमनसो धिग्दुःखितान्कामिनः
॥ ११ ॥ मित्रे कापि गते सरोरुहवने बद्धानने ताम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताक्षिष्ठं पुर सारसम् । चक्राहेन
वियोगिना बिसलता नास्वादिता नोज्झिता वक्रे केवलमर्गलेव
निहिता जीवस्य निर्गच्छतः ॥ १२ ॥ भङ्क्त्वा भोक्तु न
मुङ्के कुटिलबिसलताकोटिभिन्दोर्वितर्कात्ताराकारास्तुषार्त.
पिबति न पयसा विप्रुषैः पत्रसस्थाः । छायामम्भोरुहाणाम्-


लिकुलसबला वेत्ति सध्यामसव्या कान्ताविश्लेषभीरुर्दिनमपि
रजनीं मन्यते चक्रवाकः ॥ १३ ॥

संध्यावर्णनम्

उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गेरिकगण्डशैलः ।
तस्यैव पातेन विचूर्णितास सध्यारजोराजिरिवोजिहीते ॥१॥
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
चिरमुज्झितापि तनुरोज्झदसौ न पितुप्रसूः प्रकृतिमात्मभुवः
॥ २ ॥ अथ सान्द्रसाध्यकिरणारुणित हरिहेतितिहृति मिथुन
पततो । पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलेपिसमिव
॥ ३ ॥ निलय श्रिय सततमेतदिति प्रथितं यदेव जल-
जन्म तया । दिवसयात्यात्तदपि सुक्तमहो चपलाजन प्रति
न चोद्यमद्. ॥ ४ ॥ दिवसोऽनुमित्रमगमद्द्बिलय किमिहास्यते
बत मयावलया । रुचिमर्तुरस्य विरहाधिगमादिति सध्ययापि
सपदि व्यगमि ॥ ५ ॥ मुग्धस्य केलिविजितखरचापयष्टेरात-
न्वती रुचिमतीव सुधाकरस्य । रागोद्धुरा स्फुटसमुत्थित-
तारकश्रीः संध्याविरस्ति ननु कापि पतिवरेव ॥ ६ ॥

रजनिवर्णनम्

व्योमपात्रमपि चैकपाणिना स्फुटोडुकुसुमानि बिभ्रति ।
अन्यपाणिकलतेन्दुदर्पणा कामिनीव रजनीयमागता ॥ १ ॥
नृपतिपुरुषशङ्कितप्रचार परगृहदूषणनिश्चिरैतकवीरम् । घन-
मिरनिरुद्धसर्वभावा रजनिरिय जननीव संवृणोति ॥ २ ॥
अस्तोदयाचलविलम्बिरविन्दुबिम्बव्याजात्क्षणं श्रवणयोर्नि-
हितारविन्दा । ताराच्छलेन कुसुमानि समुत्क्षिपन्ती सध्येय-
मागतवती प्रमदेव काचित् ॥ ३ ॥ शशाङ्के सनद्धे भरत
इव सध्यायवनिका तिरोभूत्वा पुष्पाञ्जलिमिव विकीर्योडु-
निकरम् । कलं गायन्तीभि कुमुदवनभृङ्गीभिरधुना नभोरङ्गं
प्राप्ता विहरति निशोलासकवधूः ॥४॥ उन्मुक्ताभिर्दिवसम-
धुना सर्वतस्तामिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्व-
मेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रा-
ङ्गीय रमयति तमःस्तोमनीला धरित्री ॥ ५ ॥ ज्योत्स्ना-
भस्माच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका
रात्रिकापालिकीयम् । द्वीपाद्दीपं भ्रमति दधती चन्द्रमुद्रा-
कपाले न्यस्त सिद्धाञ्जनपरिमल लाञ्छनस्य च्छलेन ॥ ६ ॥

तमोवर्णनम्

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नम । असत्पुरुष-
सेवेव दृष्टिनिष्फलता गता ॥ १ ॥ अविज्ञातविशेषस्य सर्व


१ दैवर्नियोग
२ सबद्धदृष्टि
३ विन्दव •
१ नाट्यनिपुणा नटीव रात्रि
२ अङ्गलेप
३ कौतुके
४ रात्रिरूपा योगिनी