सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 307, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 307

१९२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्


मम शरणदाने परिभव. ॥ १५ ॥ भवत्या विश्लेषे गुरुहृदय-
खेदेन तनुता तनुर्नित्य धत्ते मद्दशामिति मत्तेभगमने ।
इदं तावच्चित्र कमलमुखि सर्वैरवयवै सुरूपा त्व लोके
नियतमसुरूपा भवसि न ॥ १६ ॥ सुमध्ये वाग्भङ्गेर्वचन-
विधिमङ्गीकुरु न वा स्मितज्योत्स्नाकान्त कुरु वदनमेत-
न्मयि न वा । त्रिलोकीमूर्धन्या यदि विविधपुण्याधिकतया
मया दृष्टासि त्व तदिह सफल मेऽजनि जनु. ॥ १७ ॥
यदि प्राणा एव प्रणयपरिणाह कथमयं विभिन्ना तेभ्य-
श्चेत्कथमियमभेदव्यवसिति । न भिन्ना नाभिना यदि
भवसि किं नाम तदपि त्वमेकासि त्वं मे कुवलयदलश्रेणि-
नयने ॥ १८ ॥ यदेकः कासार रचयति तथा कूपम-
थवा तदाकाङ्क्षा देवो वितरतितरा श्रीपतिरपि । मया तु
त्वद्धेतो कमलमुखि सान्द्राश्रुसलिलै कृताः पारावारास्त
दपि गणना ते न हृदये ॥ १९ ॥ इतो विद्युत्पुञ्जस्फुरितम-
सकृद्वाययतु मामित. केकानेका हरतु हृदय निर्दयमिदम् ।
इत. कामो वाम प्रहरतु मुहु. पुङ्खितशरो गतासि त्व दूर
चपलनयने प्राप्स्यसि कुत ॥ २० ॥ हिमांशुश्चण्डांशुर्नव-
जलधरो दावदहन. सरिद्दीर्घावात. कुपितफणिनि. श्वासपवन. ।
नवा मल्ली भल्ली कुवलयवन कुन्तगहन मम त्वद्विश्लेषा
त्सुमुखि विपरीतं जगदिदम् ॥ २१ ॥ आस्ता तावद्रचन-
रचनाभाजनत्वं विदूरे दूरे चास्ता तव तनुपरीरम्भसभाव-
नापि । भूयो भूय. प्रणतिभिरहं किंतु याचे विधेया स्मार
स्मार स्वजनगणने कापि लेखा ममापि ॥ २२ ॥ श्यामा-
स्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छाया शशिनि
शिखिना बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु
भ्रूविलासान्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति
॥ २३ ॥ त्वामालिख्य प्रणयकुपिता धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्ता-
वन्मुहुरुपचितैर्दृष्टिरलुप्यते मे क्रूरस्तस्मिन्नपि न सहते
संगमं नौ कृतान्त. ॥ २४ ॥ मामाकाशप्रणिहितभुजं
निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीना न खलु बहुशो न स्थलीदेवताना मुक्ता-
स्थूलास्तरु किसलयेष्वश्रुलेशा. पतन्ति ॥ २५ ॥ भित्त्वा
सद्य. किसलयपुटान्देवदारुद्रुमाणा ये तत्क्षीरस्स्रुतिसुर-
भयो दक्षिणेन प्रवृत्ता. । आलिङ्ग्यन्ते गुणवति मया ते
तुषाराद्रिवाता पूर्वं स्पृष्ट यदि किल भवेदङ्गममेभिरस्त्वेति
॥ २६ ॥ सक्षिप्येत क्षण इव कथ दीर्घयामा त्रियामा
सर्वावस्थास्वरपि कथ मन्दमन्दातप स्यात् । इत्थं चेत-
श्श्रुतुलनयने दुर्लभप्रार्थन मे गाढोष्माभिः कृतमशरणं त्वद्वि-
योगव्यथाभि. ॥ २७ ॥ कस्याख्याय व्यतिकरममम मुक्त-
दुःखो भवेय को जानीते निभृतमुभयोरावयो. स्नेहसारम् ।
जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चि-
रमनुगत तन्प्रिये कि करोमि ॥ २८ ॥ त्वद्रूपामृतपान-
दुर्ललितया दृष्ट्या क्व विश्रम्यता त्वद्वाक्यश्रवणाभियोग-
परयोः श्रव्यं कुत. श्रोत्रयो । एभिस्त्वत्परिरम्भनिर्भररसैैरङ्गेः
कथ स्थीयता कष्ट त्वद्विरहेण सप्रति वयं कष्टामवस्था गताः
॥ २९ ॥ यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवर
मेघैरन्तरित प्रिये तव मुखच्छायानुकारी शशी । येऽपि
त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोद-
मात्रमपि मे दैवेन न क्षम्यते ॥ ३० ॥ गूढालिङ्गनगण्ड-
चुम्बनकुचस्पर्शादिलीलायितं सर्व विस्मृतमेव विस्मृतवतो
बाले खलेभ्या भयात् । संलोपस्त्वधुना सुदुर्घटनामस्त-
त्रापि नातिव्यथा यत्त्वद्दर्शनमप्यभूद्सुलभ तेनैव दूये भृशम्
॥ ३१ ॥ धन्यस्तन्वि स एष पाण्डिमवरश्वम्बन्कपोलस्थलं
धन्य तन्वि तदेव कार्श्यमिह यत्प्रत्यङ्गमोलिङ्गति ।
धन्योऽय विरहानलस्तव मनो यस्यानुवृत्तेः पदं दूरे हन्त
तया तु पातितया मादृग्जन सीदति ॥ ३२ ॥ न स्नानं
न च भोजन न पठनं नान्यत्र सौख्य धृतिर्नान्यस्त्रीजन-
सेवन न च कथानिद्राविलासोधमः । किंतु त्वा परिचिन्त-
यामि सततं ध्यानेन चेतःस्थिता स्वमालोकनकामिकेलि-
विधिना जीवामि कान्ते तव ॥ ३३ ॥ रात्रिः कालयुगोपमा
मलयजो गन्धानिल. कि विष सोमः सूर्य इवाभवन्मलय-
जालेपः स्फुलिङ्गोपम. । तिक्त. सुस्वरगीतवाद्यपरभृत्याराव-
तादिध्वनिर्वज्रस्वाहतिरेव कर्णयुगले विच्छेदतो मे तव
॥ ३४ ॥ चन्द्रो द्वादश भास्कराः समभवन्ग्रात्रिर्युगाना
शत मिष्ट तिक्तरस विलेपनमहो दीप्तानलो मे तव ।
विच्छेदान्मलयानल प्रियतमे किं कालकूटः श्रुतौ गीतादि-
ध्वनिरेव वज्रसदृशोऽरण्यं विचित्रं गृहम् ॥ ३५ ॥ स्थाना-
न्निर्गत्य दूर व्रजति मयि चिर मुक्तकण्ठ रुदित्वा पश्चादु-
न्मृज्य नेत्रे प्रणतिमुपगता वेपमानाङ्गयष्टिः । कान्ते यन्मा-
मवोच. प्रलयघनघटाटोपबद्धान्धकारे काले कापालिकोऽपि
प्रवसति न गृहात्तन्मनो मे दुनोति ॥ ३६ ॥

दूतीं प्रति नायिकाप्रश्नाः

उल्लापयन्त्या दयितस्स दूती वध्वा विभूषा च निवेश-
यन्त्या । प्रसन्नता कापि मुखस्स जज्ञे वेषश्रिया तु प्रिय-
वार्तया नु ॥ १ ॥ अलमलमधृणस्स तस्स नाम्ना पुनरपि सैव
कथा गत' स कालः । कथय कथय वा तथापि दूति
प्रतिवचनं द्विषतोऽपि माननीयम् ॥ २ ॥ कथय निपुणे


१ छादित
२ भाषणम्