सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 316, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 316

चन्द्रोदयवर्णनम् ३०१

नलिन्य. ॥ ६८ ॥ उद्दम्भेद्रूततरुणीरमणोपमर्दमग्रोन्नत्तस्त-
ननिवेशनमिव हिमांशो । बिम्ब कठोरबिसकाण्डकडारमेत-
द्रम्मापदं प्रथममग्रकरैर्न्यनक्ति ॥ ६९ ॥ ताराक्षतान्प्रति-
किरन्कलकण्ठनादान्मन्त्राक्षराणि निगदन्कुसुमेषुरेष ।
लाभाय वासरमणेर्मुषितस्य साय सचारयत्यमृतदीधितिका-
स्यपात्रम् ॥ ७० ॥ एतद्विभाति चरमाचलचूड़चुम्बिडिण्डी-
रपिण्डरुचिशीतमरीचिबिम्बम् । उज्ज्वलितस्य रजनी
मदनानल्स्य धूम दद्यत्प्रकटलाञ्छनकैकतवेन ॥ ७१ ॥ भूय-
स्तराणि यदमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः
प्रतीमः । सध्यानलेन भृशमम्बरमूषिकायामावर्तितैरुडुभि-
रेव कृतोऽयमिन्दुः ॥ ७२ ॥ उज्जृम्भते कुमुदिनीसुकृत
मृगाङ्को विश्वग्विकीर्णपरिपटलरश्मिदण्डः । उत्सूतविद्रुम-
कुलो जलधेस्तरङ्गादुत्क्षिप्यमाण इव कश्चन राजकम्बुः
॥ ७३ ॥ गगनविपिनसिंहः कामभूपातपत्र निखिलदिग्-
बलाना कन्दुक क्रीडनाय । मणिरिव रतिभर्तु कार्मणः
पार्वणोऽयं जयति कुमुदबन्धुर्बन्धुरश्चन्द्रबिम्ब. ॥ ७४ ॥
अयमुदयति चन्द्रो वारिधेरम्बुगर्भामृतकणकरालैरंशुभि-
र्दीप्यमानः । भुजगशयनवक्षोर्म्यदेशे ललन्त्या वदनमिव
यदच्छोत्तान्तित विश्वमातु ॥ ७५ ॥ अयमुदयति चन्द्रश्च-
न्द्रिकाधौतविश्व. परिणतविमलिम्नि व्योम्नि कर्पूरगौर ।
ऋजुरजतशलाकास्पार्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं
विभाति ॥ ७६ ॥ उदयति कलमन्द्रैः कण्ठतालैरलीना
कुमुदमुकुलकेषु व्यञ्जयन्नङ्गहारान् । मदसुखरचकोरीतोय-
कर्मातिकोऽयं तुहिनरुचिरधामा दक्षिण लोकचक्षुः ॥ ७७ ॥
मृगाङ्कोऽयं धत्ते गगनजलधे. फेनतुलना सितच्छत्राकारा
मदननृपतेर्विश्वजयिन. । त्रियामारामाया मलयजविशेष-
प्रतिकृति जगद्धात्रीदेव्या मणिसुकुरलक्ष्मीं च विमलाम्
॥ ७८ ॥ कपाले मार्जारः पय इति करॉलेढि शशिनस्तरु-
च्छिद्रप्रोतान्बिसमिति करी सकलयति । रतान्ते तल्पस्था-
न्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो
विप्लवयति ॥ ७९ ॥ अयं नेत्रादत्रेर्जनि रजनीवल्लभ इति
भ्रमः कोऽय प्रज्ञापरिचयपराधीनमनसाम् । सुधानामाधार.
स खलु रतिबिम्बाधरसुधारसासेकस्निग्धादजनि नयनात्पुष्प-
धनुष. ॥ ८० ॥ जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो
वियोगिव्यापत्तेरिव कलितवैराग्यविशदः । परिप्रेङ्खत्तारापरि-
करकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योम्नि
चरति ॥ ८१ ॥ तथा पौरस्त्याया दिशि कुमुदकेदारकलि-
काकवाटन्नीमिन्दुः किरणलहरीमुल्लसयति । समन्तादुन्मील-
द्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकमेणा-
ङ्कमणय. ॥ ८२ ॥ सुधारश्मिः सद्यस्तिमिरनिकरान्तं
विरचयन्नलिन्देभ्यः स्यन्द शशमणिसुत्यं च वितरन् ।
उदेत्यादौ रक्ताम्बुजममरुचिः कैरववने प्रमोद तन्वानो
मधुपवनितागीतिमधुरम् ॥ ८३ ॥ त्रिनयनजटावलीपुष्पं
निशावदनस्मितं ग्रहकिसलयं सध्यानारीनितम्बनखक्षतिः ।
तिमिरभिदुर व्योम्न शृङ्गं मनोभवकार्मुक प्रतिपदि नवस्ये-
न्दोर्बिम्ब सुखोदयमस्तु न ॥ ८४ ॥ प्रथममरुणच्छायस्ता
वत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युति. ।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदान्मुखे सरसबिसिनीक-
न्दच्छेदच्छविर्मृगलाञ्छनः ॥ ८५ ॥ मयूखनखरत्रुटत्तिमिर्-
कुम्भिकुम्भस्थलोच्छलत्तरलतारकागणविकीर्णमुक्तागण. ।
पुरदरहरिद्दरीकुहरगर्भसुतोत्थितस्तुषारकरकेसरी गगनका-
ननं गाहते ॥ ८६ ॥ प्रसार णपरैः करै. प्रकटितानुरागोदये
सुधाकिरणकामुके त्वरितमम्बरालम्बिनि । तदा विगलितो-
ल्लसत्तिभिरजालनीलांशुका पुरदरदिगङ्गना पुलकितैव तारा-
गणैः ॥ ८७ ॥ कलानिधिरयं रवै. समुपलभ्य रूप स्वय
दिनान्तसमयेऽस्पृशत्सपदि पद्मिनी रागवान् । धैवान्यकर-
सगमान्सुकुलितेति पूर्वाकृति समीक्ष्य जहसुः प्रियों ध्रुवम-
भूदत. पाण्डुरः ॥ ८८ ॥ दर्पोद्रेक कुसुमधनुषो जीवित
कैरवाणा जीवञ्जीवप्रणयगरिमा भाग्यराशिनिशायाः । शृङ्गा-
रश्रीललितहसितं पानपात्रं सुराणा पौरस्त्याद्रेर्जयति शिखर
कि तमः स्थातुमीष्टे ॥ ८९ ॥ तैः सर्वज्ञीभवदभिसृतानेत्र-
सिद्धाञ्जनैर्वा नीरन्ध्रैर्वा त्रिभुवनदशामन्धपट्टैस्तमोभिः ।
व्याप्तं पृथ्वीवलयमखिलं क्षालयन्नुच्छलद्भिर्ज्योत्स्नाजालैरय
मुदयते शर्वरीसार्वभौम. ॥ ९० ॥ पश्योदेति वियोगिना
दिनमणि. शृङ्गाररक्षामणिस्तारामौक्तिकहारनायकमणि-
श्चण्डीशचूडामणि. । प्रौढानङ्गभुजंगमस्तकमणि. कंदर्पसीम-
न्तिनीकाञ्चीमध्यमणिश्चकोरपरिषच्चिन्तामणिश्चन्द्रमाः ॥ ९१ ॥
ॐकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुरस्तारामौक्तिक-
शुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः । शृङ्गारार्गलकुञ्चिका विरहि-
णीमर्मच्छिदा कर्तरी सध्यावारवधूनखक्षतिरिय चान्द्री कला
जृम्भते ॥ ९२ ॥ खैर कैरवकोरकान्विदल्यन् यूना मनो
दोलयन्नम्भोजानि निमीलयन्मृगदृशा मानं समुन्मूलयन् ।
ज्योत्स्ना कन्दलयन्दिशो धवलयन्नम्भोधिमुद्वेलयन्कोकाना-
कुलयंस्तम कवलयन्निन्दु. समुज्जृम्भते ॥ ९३ ॥ एष स्वर्ग-
तरगिणीजलमिलद्दिग्दन्तिदन्तद्युतिर्भ्रश्यद्राजतकुम्भविभ्रम-
घरः शीताशुरभ्युद्यतः । हंसीत्यमलामञ्जुजीयति लस-
ड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति दिशा मानन्द-


१ सूर्याव् २ पति ३ पूर्ववदाकृति स्वरूप यस्य तथा बिम्बम्
प्रथम पद्मिनीदर्शनेन विकृताकृति पश्चान्सुकुलीभावेन निराशर्तया
विकारापगमेन स्वरूपस्थिति प्राप्तमित्यर्थ ४ कैरविण्य ५ विरहिण
सूर्यवन्तापक ६ वराह ७ उद्घाटनसाधनम्, 'चावी' इति लोके.