सामग्री पर जाएँ
सर्वकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 306, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 306
पृष्ठ 306 स्कैन

नायकं प्रति नायिकासंदेशः, नायिकां प्रति संदेशप्रेषणम्, नायिकां प्रति नायकसंदेशः २९१


त्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ९१ ॥
चित्नाय त्वयि चिन्तिते स्मृतिभुवा सजीकृत स्वं धनुर्वित्तिं
धर्तुमुपागतेऽङ्गुलियुगे बाणा गुणे योजिता । प्रारब्धे तव
चित्रकर्मणि पुनस्तद्द्बाणभिन्ना सती भित्ति द्रागवलम्ब्य विह्व-
लपते सा तत्र चित्रायते ॥ ९२ ॥ आदावञ्जनपुञ्जलितवपुषा
श्वामानिलोल्लासितप्रोत्सर्पद्विरहानलेन च तत. संतापिताना
दशाम् । सप्रत्येव निष्कंकमश्रुपयसा देवस चेनोभुवो भल्ली-
नामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ९३ ॥ ज्योत्स्ना
मौक्तिकदाम चन्दनरस शीताशुकान्तद्रवः कर्पूर कदली
मृणालवलयान्यम्भोजिनीपल्लवा. । अन्तर्मानसमास्त्वया
प्रभवता तस्या स्फुलिङ्गोत्कव्यवपाराय भवन्ति हन्त किम-
नेनोक्तेन न ब्रूमहे ॥ ९४ ॥ पाणिनिर्वकङ्कण स्तनतटी
निष्क्रम्यमानाश्रुका दृष्टिर्निश्चलतारका समभवन्निस्ताण्डव
कुण्डलम् । कश्चित्प्रापयिता मम कृशतनोर्भेदो भवेन्नो यदि
त्वन्नामस्मरणेण कोऽपि पुलकारम्भ. समुज्जृम्भते ॥ ९५ ॥
दत्तोऽस्या प्रणयस्त्वयैव भवता चेय चिर लालिता दैवा-
दद्य किल त्वमेव कृतवानस्या नव विप्रियम् । मन्युर्दुःसह
एष यात्युपशम नो सान्त्ववादैः स्फुट हे निश्चिन्न विमुक्त-
कण्ठकरुण तावत्सखी रोदितु ॥ ९६ ॥ चूडारत्नमपानिधैर्यदि
भवेच्चेत्कुन्तलं गण्डकी कावेरी यदि कङ्कणं यदि पुनग्रैवेयकं
गौतमी । मुक्तासक्सुरनिम्नगा यदि यदि स्यान्मेखला नर्मदा
कौशेय यदि कौशिकी कृशतनोस्तापस्तदाप्येति वा ॥ ९७ ॥

नायकं प्रति नायिकासंदेशः

अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता । नादृष्टेन न
दृष्टेन भवता विद्यते सुखम् ॥ १ ॥ आलीभि सह भाषितं
किमपि तद्धर्मापि सवीक्षितं पञ्चेषु. कुसुमैरपूरि कथमप्या-
धाय चित्ते मनाक् । तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्य-
मालम्बसे प्राणेश प्रबलं तदत्र निखिलं तद्धातिकूल्यं विधे.
॥ २ ॥ नित्य ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा
मानस सानन्दाः स्फुटसल्लकीवनयुता ध्यायन्ति रेवा गजाः ।
युष्मद्दर्शनलालसा. प्रतिदिनं युष्मान्स्मरामो वय धन्य
कोऽपि स वासरोऽत्र भविता यन्नावयोः सगम ॥ ३ ॥
इन्दु कैरविणीव कोकपटलीवाम्भोजिनीबान्धव मेघ चात-
कमण्डलीव मधुपश्रेणीव पुष्पाकरम् । माकन्द पिकसुन्दरीव
तरुणी प्राणेश्वर प्रोषितं चेतोवृत्तितिय मम प्रियसखे त्वा
द्रष्टुमुत्कण्ठते ॥ ४ ॥

नायिकां प्रति संदेशप्रेषणम्

दैवात्पश्येर्जगति विचरन्निच्छया मत्प्रिया चेदाश्वास्यादौ
तदनु कथयेर्मामकीनामवस्थाम् । आग्रान्तन्तुर्न च कथय-
तात्यन्तमुच्छेद्नीयः प्राणत्राण कथमपि कगेत्यायताक्ष्याः
स एकः ॥ १ ॥

नायिकां प्रति नायकसंदेशः

त्वं दूरमपि गच्छन्ती हृदय न जहासि मे । दिनौवमाने
छायेव पुरो मूलं वनस्पते ॥ १ ॥ स्मर्तव्योऽह त्वया
कान्ते न स्मरिष्याम्यह तव । स्मरण चेतमो धर्मस्तचेतो
भवदाहृतम् ॥ २ ॥ त्वया मम समेतस्य कल्या अपि
ममाममा । भवत्या विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे
॥ ३ ॥ यत.प्रभृति ते कान्त मुखमालोकित मया । काम.
काम ममाङ्गानि व्यप्रयत्यमितः शरैः ॥ ४ ॥ तपति तनु-
गात्रि मदनस्त्वामनिशं मा पुनर्दहत्वेव । ग्लपयति यथा
शशाङ्क न तथा हि कुमुद्वती दिवस ॥ ५ ॥ किमकारि
मन्दमतिना रतिपतिना कामतन्त्रनिपुणेन । स्यूतासि हरि-
णनयने हन्त हृदि स्नेहन्तुना न तनौ ॥ ६ ॥ कृष्णा ते
कचसंहतिरम्बुजनयने तवाधरः शोण । त्व सुरतरङ्गिणी
कथमभितस्तापी न ते वियोग स्यात् ॥ ७ ॥ दूर मुक्ता-
लतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शि-
ताशो मानसजन्मा त्वया नीत. ॥ ८ ॥ स्निग्धमालप
सुरूक्षमेव वा त्वत्कथैव सखि मे रसायनम् । शीतलं
सलिलमुष्णमेव वा पावक हि शमयेदसशयम् ॥ ९ ॥
स्वप्नेऽपि देवि रमसे न मया विना त्वं स्वापे त्वया विर-
हितो मृतवद्भवामि । दूरीकृतासि विधिदुर्ललितैस्तथापि
जीवत्यवेहि मन इत्यसवो दुरन्ता ॥ १० ॥ वल्गत्कचानि
वलनासहमध्यमानि कण्ठोदयत्कलरुतानि गल्त्कुचानि ।
आस्वादताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि
तव स्मरामि ॥ ११ ॥ अद्यापि सुन्दरि तवाननचन्द्रबिम्बं
बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः । त्वत्सगमोद्भवसुखं
तनुते तथापि वैर करोति करुणाविकलो विवेकः ॥ १२ ॥
त्वदीयमुखपङ्कज यदि विवोरलं वार्तया तवाधरसुधा यदा
भवति कि सुधा नो सुधा । त्वदङ्कपरिरम्भण भण
कृतं सुधागाहनैस्त्वदीयदृगनुग्रहस्तदपि धिग्धिगैन्द्र पदम्
॥ १३ ॥ भवतु विदित व्यर्थालापैरलं प्रिय गम्यता तनु-
रपि न ते दोषोऽस्माक विधिस्तु पराङ्मुख. । तव यदि
तथाभूतं प्रेम प्रपन्नमिमा दशा प्रकृतिसरले का न पीडा
गते हृतजीविते ॥ १४ ॥ यदिन्दोर्लक्ष्मीस्ते वदनकमले
वासमकरोत्तम् स्तोमस्थेमा तव तरुणि धम्मिल्लमभजत् ।
अनुप्राप्ता हारावलिमपि च तारावलिरुचि शरण्यायाः कस्ते


१ सायङ्काले २ कोमलाङ्गि