Skip to content
SarvaKosh
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages
Page 464Permalink

द्वादशः सर्गः । ४०५

शेषः । तैर्यातुधानैस्तु स राम आजौ युद्धे, ते यातुधाना यावन्तो यावत्संख्याका एव तावांस्तावत्संख्याकश्च ददृशे ।

भावार्थ— यद्यपि राम अकेले थे और राक्षस हजारों थे पर राम इस प्रकार लड़ रहे थे कि वहाँ जितने राक्षस थे उन्हें उतने ही राम दिखाई पड़ रहे थे ॥ ४५ ॥

असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥ ४६ ॥

अन्वयः— अथ शुभाचारः सः काकुत्स्थः असज्जनेन प्रयुक्तं दूषणं आत्मनः दूषणम् इव न चक्षमे ।

असीदिति । अथ शुभाचारो रणे साधुचारि सद्वृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुच्चारितं च दूषणं । दूषयतीति दूषणस्तं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे । प्रतिकर्तुं प्रवृत्त इत्यर्थः ।

भावार्थ— जिस प्रकार सदाचारी व्यक्ति नीच पुरुषों द्वारा अपने ऊपर लगाये गए दोष को नहीं सहन करता है उसी प्रकार राम युद्ध में दूषण राक्षस का जाना भी नहीं सह सके ॥ ४६ ॥

तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिबोद्ययुः ॥ ४७ ॥

अन्वयः— सः तं खरत्रिशिरसौ च शरैः प्रतिजग्राह । क्रमशः ( प्रयुक्ताः ) तस्य ते पुनः चापात् समं इव उद्ययुः ।

तमिति । स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह प्रतिजहारेत्यर्थः । क्रमशो यथाक्रमं प्रयुक्ता अपीति शेषः । तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः । अतिलघुहस्त इति भावः ।

भावार्थ— राम ने उस दूषण खर और त्रिशिरा पर एक-एक करके अपने बाण चलाये । अत्यन्त शीघ्रता से चलाये हुए वे बाण ऐसे जान पड़ते थे मानों वे एक ही साथ धनुष से छूटे हों ॥ ४७ ॥

तैस्त्रयाणां शितैर्बाणैर्यथापूर्वंविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥ ४८ ॥

अन्वयः— देहातिगैः यथापूर्वंविशुद्धिभिः शीतैः तैः बाणैः त्रयोणां आयुः पीतं, रुधिरं तु पतत्रिभिः पीतम् ।

तैरिति । देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः । तैर्यथास्थिता पूर्वंविशुद्धि-

Page 465Permalink
४०६रघुवंशमहाकाव्ये

येषां तैः । अतिवेगत्वेन देहभेदात्प्रागिव रुधिरलेपरहितैरित्यर्थः । 'शितैस्तीक्ष्णै-
स्तैर्बाणैस्त्रयाणां खरादीनामायुर्जीवितं पीतं। रुधिरं तु पतत्रिभिः पक्षिभिः पीतम्।
भाषार्थ—वे बाण उनके शरीर को छेदकर इतने वेग से बाहर निकल गये कि उनमें रक्त भी नहीं लग सका; क्योंकि बाण तो उनकी आयु पीने के लिये गये थे उनका रक्त तो पक्षियों ने पीया ॥ ४८ ॥

तस्मिन्न्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन ॥ ४९ ॥

अन्वयः—तस्मिन् रामशरोत्कृत्ते महति रक्षसां बले उत्थितं कबन्धेभ्यः अन्यत् च किञ्चित् न ददृशे ।

तस्मिन्निति । तस्मिन्न्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः । 'कबन्घोऽस्त्री क्रियायुक्तमपमूर्धंकलेवरम्' इत्यमरः । अन्यच्चान्यत्किञ्चन न ददृशे । कबन्धेभ्य इत्यत्र 'अन्यारात्*' इति पञ्चमी । निःशेषं हतमित्यर्थः ।
भाषार्थ — राम ने राक्षसों की उस बड़ी सेना को अपने बाणों से इस प्रकार काट डाला कि युद्ध भूमि में राक्षसों के धड़ो छोड़कर और कुछ भी नहीं दिखाई दे रहा था ॥ ४९ ॥

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ ५० ॥

अन्वयः—सा सुरद्विषां वरूथिनी वाणवर्षिणं रामं योधयित्वा गृध्रच्छाये अप्रबोधाय सुष्वाप ।

सेति । सा सुरद्विषां रक्षसां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा गृध्राणां छाया गृध्रच्छायम् । "छायां बाहुल्ये" इति क्लीबत्वम् । तस्मिन्नप्रबोधायापुनर्बोधाय सुष्वाप । ममारत्यर्थः । अत्र सुरतश्रान्तकान्तासमाधिर्ध्वन्यते ।
भाषार्थ—बाण बरसाने वाले राम से लड़कर उन राक्षसों की सेना गिद्धों के पंखों की छाया में सदा के लिए सो गई अर्थात् मर गई ॥ ५० ॥

राघवास्त्राविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ ५१॥

अन्वयः—एका शूर्पणखा एव रावणं प्रति राघवास्त्रविदीर्णानां तेषां रक्षसां दुष्प्रवृत्तिहरा अभवत् ।

Page 466Permalink

द्वादशः सर्गः ४०७

राघवेति। एका शूर्पवन्नखानि यस्याः सा शूर्पणखा। "पूर्वपदात्संज्ञायामगः" इति णत्वम्। "नखमुखात्संज्ञायाम्" इति ङीप्प्रतिषेधः। सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरादीनां दुष्प्रवृत्तिं वार्त्तां हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत्। 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः। "हरतेरनुद्यमनेऽच्" इत्यच्प्रत्ययः।

भाषार्थ—राम के अस्त्रों से मारे गये उन राक्षसों की मृत्यु का समाचार रावण के पास पहुँचाने के लिए केवल शूर्पणखा ही बच पाई ॥ ५१ ॥

निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥ ५२ ॥

अन्वयः—स्वसुः निग्रहात् आप्तानाम् वधात् च धनदानुजः रामेण दशसु मूर्धसु पदं निहितं मेने।

निग्रहादिति। स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदाप्तानां बन्धूनां खरादीनां वधाच्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने।

भाषार्थ—बहन शूर्पणखा का अपमान और खर, दूषण, त्रिशिरा आदि अपने आप्त बन्धुओं का वध रावण को इतना अपमानजनक जान पड़ा कि मानों राम ने उसके दशों सिरों पर पैर रख दिया हो ॥ ५२ ॥

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५३ ॥

अन्वयः—सः मृगरूपेण रक्षसा तौ वञ्चयित्वा पक्षीन्द्रप्रयासक्षणविघ्नितः ( सन् ) सीतां जहार।

रक्षसेति। स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य। पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः, सन्सीतां जहार।

भाषार्थ—उस रावण ने मारीच को माया से सुवर्ण का मृग बना कर और राम और लक्ष्मण को धोखा देकर सीता का हरण कर लिया। मार्ग में गृद्धराज जटायु कुछ देर लड़ा भी, पर वह सफल न हो सका ॥ ५३ ॥

तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम्।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥ ५४ ॥

अन्वयः—सीतान्वेषिणौ तौ लूनपक्षं गृध्रं कण्ठवर्तिभिः प्राणैः दशरथप्रीतेः अनृणं अपश्यताम्।

ताविति। सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः

Page 467Permalink

४०८

रघुवंशमहाकाव्ये

प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैविमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ । दृष्टेलंङि रूपम् ।

भावार्थ — सीता को ढूंढ़ते हुए राम और लक्ष्मण दोनों ने मार्गमें देखा कि जटायु के पङ्ख कट गये थे और उसके प्राण कण्ठ तक आ गये थे, किन्तु उसने सीता के हरण करने वाले रावण से लड़कर अपने मित्र दशरथ का ऋण चुका दिया था ॥ ५४ ॥

स रावणहृतां ताभ्यां वचसाऽऽचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः ॥ ५५ ॥

अन्वयः— सः रावणहृतां मैथिलीं ताभ्यां वचसा आचष्ट, आत्मनः सुमहत्कार्यं व्रणैः आवेद्य संस्थितः ।

स इति । स जटायू रावणहृतां मैथिलीं ताभ्यां रामलक्ष्मणाभ्याम् । 'क्रिया-ग्रहणमपि कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी । वचसा वाग्वृत्त्याऽऽचष्ट । आत्मनः सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः ।

भावार्थ— वह जटायु राम और लक्ष्मण से बतलाया कि सीता को रावण हर ले गया है । जटायु के घावों को देखकर ही यह स्पष्ट हो रहा था कि वह कितने जी जान से रावण से लड़ा था । बाद उसका प्राण निकल गया ॥५५॥

तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः ।
पितरीवाग्निसंस्कारात्पराववृतिरे क्रियाः ॥ ५६ ॥

अन्वयः— नवीभूतपितृव्यापत्तिशोकयोः तयोः तस्मिन् पितरि इव अग्निसंस्कारात् पराः क्रिया ववृतिरे ।

तयोरिति । व्यापत्तिर्मरणं नवीभूतः पितृव्यापत्तिशोको पितुः दशरथस्य व्यापत्तेर्मरणस्य शोकः ययोस्तौ तयो राघवयोस्तस्मिन्गृध्रे पितरीवाग्निसंस्कारादग्निसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त । तस्य पितृवदौर्ध्वदैहिकं चक्रतुरित्यर्थः ।

भावार्थ — जटायु केवल इतना ही कहकर चल बसा । उसके मरने से राम और लक्ष्मण को उतना ही शोक हुआ जितना उन्हें अपने पिता दशरथ के मरने पर हुआ था । बाद उसका विधिवत् दाह संस्कार करके पिता के समान ही उन्होंने उसका प्रेत आदि कर्म किया ॥ ५६ ॥

वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमुक्षुः सख्यं रामस्य समानव्यसने हरौ ॥ ५७ ॥

Page 468Permalink

द्वादशः सर्गः ४०९

अन्वयः—वधनिर्धूतशापस्य कबन्धस्य उपदेशतः रामस्य समानव्यसने हरौ सख्यं मुमूच्छं ।

वधेति । वधेन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशे-षस्योपदेशतो रामस्य समानव्यसने समानापदि कलत्रवियोगदुःखिते सख्यार्थिनीत्यर्थः । हरौ कपौ सुग्रीवे । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । सख्यं मुमूच्छं ववृधे ।

भाषार्थ—वहाँ से कुछ आगे बढ़ने पर उन्हें कबन्ध मिला, जो एक ऋषि के शाप से राक्षस हो गया था, राम ने उसकी भुजायें काट डालीं जिससे उसका शाप छूट गया और वह पुनः देवता हो गया । इससे प्रसन्न होकर उसने सुग्रीव का पता बतलाया जिसके भाई बाली ने उसके राज्य और स्त्री को छीन लिया था इसलिए स्त्री वियोगी राम ने स्त्री वियोगी उस सुग्रीव से मित्रता कर ली ॥ ५७ ॥

स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थानं इवादेशं सुग्रीवं संन्यवेशयत् ॥ ५८ ॥

अन्वयः—वीरः सः वालिनं हत्वा चिरकांक्षिते तत्पदे धातोःस्थाने आदेशम् इव सुग्रीवं संन्यवेशयत् ।

स इति । वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकांक्षिते तत्पदे वालि स्थाने धातोः स्थान आदेशमिव । आदेशभूतं धात्वन्तरमिवेत्यर्थः । सुग्रीवं सन्नयवेशयत्स्थापितवान् । यथा "अस्तेर्भूः" इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः । आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ।

भाषार्थ—उस वीर राम ने बाली को मारकर चिरकाल से अभिलषित उसके सिंहासन पर सुग्रीव को उसी प्रकार बैठा दिया । जिस प्रकार वैयाकरण लोग लिट् लुट् आदि लकारों में "अस्तेर्भूः" इस पाणिनी के सूत्र के आधार पर अस् धातु के स्थान पर भू आदेश को बैठा देते हैं ॥ ५८ ॥

इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः ॥ ५९ ॥

अन्वयः—वैदेहीम् अन्वेष्टुं भर्तृ चोदिताः कपयः आर्तस्य रामस्य मनोरथा इव इतस्ततः च चेरुः ।

इतस्ततश्चेति । वैदेहीमन्वेष्टुं मागितुं भर्त्रा सुग्रीवेण चोदिताः प्रयुक्ताः कपयो हनूमत्प्रमुखाः । आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव इतस्ततश्चेरुर्नानादेशे बभ्रमुश्च ।

Page 469Permalink
४१०रघुवंशमहाकाव्ये

**भाषार्थ—**सुग्रीव के द्वारा सीता का पता लगाने के लिए आज्ञा पाकर वानर भी उसी प्रकार इधर-उधर घूमकर सीता की खोज करने लगे, जिस प्रकार विरही राम का मन सीताजी की खोज में इधर-उधर भटकता था ॥५९॥

प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात् ।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥ ६० ॥

**अन्वयः—**सम्पातिदर्शनात् तस्याः प्रवृत्तौ उपलब्धायं मारुतिः सागरं निर्ममः संसारमिव तीर्णः ।

प्रवृत्ताविति । सम्पातिर्नाम जटायुषो ज्येष्ठायान्भ्राता तस्य दर्शनात् । तन्मुखादिति भावः । तस्याः सीतायाः प्रवृत्तौ वार्तायाम् । ‘वार्ता प्रवृत्तिर्वृत्तान्तः’ इत्यमरः । उपलब्धायं ज्ञातायां सत्याम् । मरुतस्यापत्यं पुमान्मारुतिः हनूमान्सागरं । ममेत्येतदव्ययं ममतावाचि । तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव तीर्णस्ततार । तरतेः कर्तरि क्तः ।

**भाषार्थ—**मार्ग में जटायु के भाई सम्पाति से उनकी भेंट हो गई, उसने बतलाया कि समुद्र के पार लंका का राजा रावण सीताजी को हर ले गया है, यह सुनकर हनुमान् जी उसी प्रकार समुद्र को लांघ गये जिस प्रकार निर्मोही पुरुष संसार को पार कर जाता है ॥ ६० ॥

दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परीतेव महौषधिः ॥ ६१ ॥

**अन्वयः--**लङ्कायां विचिन्वता तेन राक्षसीवृता जानकी विषवल्लीभिः परीता महौषधिः इव दृष्टा ।

दृष्टेति । लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी, विषवल्लीभिः परीता परिवृता महौषधिः सञ्जीवनीलतेव दृष्टा ।

**भाषार्थ—**लंका में पहुँचकर सीता को ढूंढ़ते हुए हनुमान् जी ने एक स्थान पर देखा कि चारों ओर राक्षसियों से घिरी हुई वे ऐसी लग रही थी जैसे विष की लताओं के बीच में सञ्जीवनी बूटी हो ॥ ६१ ॥

तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः ॥ ६२ ॥

**अन्वयः-**कपिः भर्तुः अभिज्ञानं अङ्गुलीयं तस्यै अनुष्णैः तदानन्दाश्रुभिः प्रत्युद्गतम् इव ।

Page 470Permalink

द्वादशः सर्गः ४११

तस्या इति । कपिर्हनुमान् भर्तू रामस्य सम्बन्ध्यभिज्ञानं । अभिज्ञायत इत्यभिज्ञानं साधकमङ्गुलीयमूर्मिकाम् । ‘अङ्गुलीयकर्मिका’ इत्यमरः । “जिह्वामूलाङ्गुलेश्छः” इति छप्रत्ययः । तस्यै जानक्यै ददौ । किविधमङ्गुलीयम् । अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम् । भर्तृभिज्ञानदर्शनानन्दबाष्पो जात इत्यर्थः ।

**भाषार्थ—**उनके पास जाकर हनुमान् जी ने राम की अँगूठी दे दी, जिसका स्वागत सीताजी ने आनन्द के शीतल आँसुओं से किया ॥ ६२ ॥

निर्वाप्य प्रियसन्देशैः सीतामक्षवधोद्धतः ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥ ६३ ॥

**अन्वयः—**सः प्रियसन्देशैः सीतां निर्वाप्य अक्षवधोद्धतः क्षणसोढारिनिग्रहः लङ्कापुरीं ददाह ।

निर्वाप्येति । स कपिः प्रियस्य रामस्य सन्देशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा । अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन्, क्षणं सोढ़ोऽरेरिन्द्रजितः कर्तुः निग्रहो बाधो ब्रह्मास्त्रबन्धरूपो येन स तथोक्तः सन्, लङ्कां पुरीं ददाह भस्मीचकार ।

**भाषार्थ—**पहले तो हनुमान् जी ने रामजी का प्रिय सन्देश सुनाकर सीता जी को ढाढस बँधाया, फिर रावण के पुत्र अक्षयकुमार को मार डाला, और कुछ देर शत्रुओं के हाथ बन्दी रहकर लंका में आग लगा कर जला दिया ॥ ६३॥

प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥ ६४ ॥

**अन्वयः—**कृती ( स ) स्वयं आयातं मूर्तिमत् वैदेह्या हृदयम् इव तस्याः प्रत्यभिज्ञानरत्नं च रामाय आदर्शयत् ।

प्रत्यभिज्ञेति । कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ।

**भाषार्थ—**कृतकृत्य उस हनुमान् जी ने सीताजी के मिलने की पहचान के लिए उनके चूड़ामणि लेकर राम के पास आकर उन्हें दिखलाया । वह मणि पाकर रामजी को वैसा ही आनन्द हुआ, मानों साक्षात्सीता का हृदय ही मूर्तिमान् बनकर अपने आप चला आया हो ॥ ६४ ॥

स पाप हृदयन्यस्तमणिस्पर्शनिमीलितः ।
अपयोधरसंसर्गा प्रियालिङ्गननिर्वृतिम् ॥ ६५ ॥

Page 471Permalink

४१२ रघुवंशमहाकाव्ये

अन्वयः—हृदयन्यस्तमणिस्पर्शन्निमीलितः स अपयोधरसन्सर्गां प्रियालिङ्गन-निर्वृतिं प्राप ।

स तति । हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां तथाभूताम् । प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ।

भाषार्थ—उस चूड़ामणि को हृदय से लगाकर राम आनन्दमग्न होकर आँखें बन्द कर लिए । उस समय उन्हें ऐसा मालूम होता था मानों स्तनस्पर्श से रहित सीताजी ही हृदय से आ लगी हों ॥ ६५ ॥

श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६६ ॥

अन्वयः—प्रियोदन्तं श्रुत्वा तत्संसर्गोत्सुकः रामः लङ्कायाः महार्णवं परिक्षेपं परिखालघुम् मेने ।

श्रुत्वेति । प्रियाया उदन्तं वार्ताम् । ‘उदन्तः साधुवार्तयोः’ इति विश्वः । श्रुत्वा तस्याः सीतायाः सङ्गम उत्सुकः रामो लङ्कायाः सम्बन्धी यो महार्णव एव परिक्षेपः परिवेष्टस्तं परिखालघुं दुर्गवेष्टनवत्सुतरां मेने ।

भाषार्थ—सीताजी का समाचार सुनकर उनसे मिलने के लिए राम अत्यन्त उत्सुक हो गये उस उत्सुकता में उन्हें लंका के चारों ओर का चौड़ा और गहरा समुद्र खाई से भी छोटा लगने लगा ॥ ६६ ॥

स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ ६७ ॥

अन्वयः—केवलं भुवः पृष्ठे न किन्तु व्योम्नि (च) संबाधवर्तिभिः हरिसैन्यैः अनुद्रुतः स अरिनाशाय प्रतस्थे ।

स इति । केवलमेकं भुवः पृष्ठे भूतले न किन्तु व्योम्नि च सम्बाधवर्तिभिः सङ्कठगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोरन्वितः सन् रामोऽरिनाशाय प्रतस्थे चचाल ।

भाषार्थ—वे वानरों की अपार सेना लेकर शत्रु का संहार करने के लिए चल पड़े । वह सेना इतनी अधिक थी कि पृथ्वी की कौन कहे, आकाश में भी बड़ी कठिनाई से चल पाती थी ॥ ६७ ॥

निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥ ६८ ॥

Page 472Permalink

द्वादशः सर्गः ४१३

अन्वयः—उदधेः कूले निविष्टं तं विभीषणः राक्षसक्ष्म्या स्नेहात् बुद्धिम् आविश्य इव प्रपेदे ।

निविष्टमिति । उदधेः कूले निविष्टं तं रामं । विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः । राक्षसक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रणोदित इव प्रपेदे प्राप्तः ।

भाषार्थ—जब राम समुद्र तट पर पहुँचे, तब रावण के छोटे भाई विभीषण उनसे मिलने के लिए आये, मानों राक्षसों की राजलक्ष्मी ने उनकी बुद्धि में बैठकर वह समझा दिया हो कि अब राम की शरण में जाने पर ही तुम्हारा कल्याण है ॥ ६८ ॥

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ ६९ ॥

अन्वयः—राघवः तस्मै निशाचरैश्वयं प्रतिशुश्राव काले समारब्धा नीतयः फलं बध्नन्ति खलु ।

तस्मा इति । राघवस्तस्मै विभीषणाय । "प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता" सम्प्रदानत्वाच्चतुर्थी । निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान् । तथाहि कालेऽवसरे समारब्धाः प्रक्रान्ता नीतयः फलं बध्नन्ति गृह्णन्ति खलु जनयन्तीत्यर्थः ।

भाषार्थ—राम ने भी उनसे यह प्रतिज्ञा कर ली कि मैं आपको राक्षसों का राजा बना दूंगा । ठीक है, समय पर काम में लाई हुई नीति आगे चलकर अवश्य ही सफल होती है ॥ ६९ ॥

स सेतुं बबन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥ ७० ॥

अन्वयः—स लवणाम्भसि प्लवगैः शार्ङ्गिणः स्वप्नाय रसातलात् उन्मग्नं शेषं इव सेतुं बन्धयामास ।

स इति । स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भस्तस्मिंल्लवणाम्बधौ प्लवगैः प्रयोज्यैः शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात्पातालादुन्मग्नमुत्थितं शेषमिव स्थितं सेतुं बन्धयामास ।

भाषार्थ—राम ने वानरों के द्वारा क्षार समुद्र पर जो पत्थरों का पुल बँधवाया, वह ऐसा जान पड़ता था कि मानों विष्णु को अपने ऊपर सुलाने के लिए स्वयं शेषनाग ही पाताल से ऊपर आये हों ॥ ७० ॥

द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥

Page 473Permalink
४१४रघुवंशमहाकाव्ये

तेनोत्तीर्य पथालङ्कां रोधयामास पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥

अन्वयः— ( रामः ) तेन पथा ( सागरं ) उत्तीर्य पिङ्गलैः द्वितीयं हेमप्राकारं कुर्वद्भिः इव वानरैः लङ्का रोधयामास ।

तेनेति । रामस्तेन पथा सेतुमार्गेणोत्तीर्य सागरमिति शेषः । पिङ्गलै सुवर्णवर्णै रत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ।

भाषार्थ— उस पुल से समुद्र पार करके पीले-पीले वानरों ने लंका को चारों ओर से घेर लिया। उनसे घिरी हुई लंका ऐसी जान पड़ती थी मानो लंका के चारों ओर सोने का दूसरा परकोटा बन गया है ॥ ७१ ॥

रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ ७२ ॥

अन्वयः— तत्र प्लवगरक्षसां भीमः दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषण रणः प्रववृते ।

रण इति । तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयङ्करो दिग्विज़ृम्भितं काकुत्स्थपौलस्त्ययो रामरावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः । 'अस्त्रियां समरानीकरणाः कलविग्रहौ' इत्यमरः ।

भाषार्थ— लंका में वानरों और राक्षसों का ऐसा भयंकर युद्ध होने लगा कि राम और रावण की जयकारों से दिशायें गूंज उठीं ॥ ७२ ॥

पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ॥ ७३ ॥

अन्वयः— पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ( रण प्रववृते ) ।

पादपेति । किविधो रणः पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः । 'परिघः परिघातनः' इत्यमरः । शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोधना यस्मिन्स तथोक्तः 'द्रुघणो मुद्गरघनो' इत्यमरः । अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखन्यासा यस्मिन्स तथोक्तः । शैलै रुग्णा भग्ना मतङ्गजा यस्मिन्स तथोक्तः ।

भाषार्थ— उस युद्ध में वानर वृक्षों से मार-मारकर परिघों को तोड़ देते थे, पत्थर बरसा कर राक्षसों के मुद्गरों को चूर-चूर कर देते थे, अपने नखों से ऐसे

द्वादशः सर्गः ४१५

Page 474Permalink

द्वादशः सर्गः ४१५

भयंकर घाव करते थे कि शस्त्रों से भी वैसे घाव नहीं हो सकते थे और लड़ाकू हाथियों के शिरों पर बड़ी-बड़ी चट्टानें फेंककर उनका कचूमर निकाल देते थे ॥ ७३ ॥

अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७४ ॥

अन्वयः—अथ शिरच्छेददर्शनोद्भ्रान्तचेतनां सीतां त्रिजटा माया इति शंसन्ती समजीवयत् ।

अथेति । अथानन्तरं छिद्यत इति छेदः खण्डः शिर एव छेद इति विग्रहः । रामशिरच्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं नत्वेतत्सत्यमिति शंसन्ती ब्रुवाणा । "इयप्स्यनोर्नित्यम्" इति नित्यं नुमागमः। समजीवयत् ।

भाषार्थ—इसी बीच विद्युज्जिह्व नामक एक राक्षस ने माया से कटा हुआ राम का शिर बनाकर सीताजी के सामने ला पटका, उसे देखते ही सीताजी व्याकुल हो गई, पर त्रिजटा ने उन्हें समझाया कि यह राक्षसी माया है, तब सीता जी को जान में जान आ गई ॥ ७४ ॥

कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीविताऽस्मीति लज्जिता ॥ ७५ ॥

अन्वयः—सा मे नाथः जीवति इति शुचं कामं विजहौ, ( किन्तु ) प्राक् अस्य अन्त सत्यं मत्वा जीविता अस्मि इति लज्जिता ।

काममिति । सा सीता मे नाथो जीवतीति हेतोः शुचं शोको कामं विजहौ तत्याज । किन्तु प्राक्पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता - जीवतवत्यस्मीति हेतोर्लज्जिता लज्जावती । कर्तरि क्तः । दुःखादपि दुःसहो लज्जाभार इति भावः ।

भाषार्थ—यह जानकर सीताजी ने शोक करना तो छोड़ दिया कि मेरे पतिदेव राम अभी जीवित हैं, पर उन्हें इस बात की बड़ी लज्जा हुई कि पहले पति के मारे जाने का समाचार सुनकर भी मैं जीती रह गई, उसी क्षण मर नहीं गई ॥ ७५ ॥

गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ ७६ ॥

अन्वयः—गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः क्षणक्लेशः दाशरथ्योः स्वप्नवृत्त इव अभवत् ।

गरुडेति । गरुडस्तार्क्ष्यः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण

Page 475Permalink
४१६रघुवंशमहाकाव्ये

नागपाशेन बन्धनं यस्मिन्स तथोक्तः । क्षणक्लेशो दाशरथ्योः रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थायां भूत इवाभवत् ।

**भाषार्थ—**उसी समय मेघनाद ने राम और लक्ष्मण को नागपाश में बाँध लिया, पर गरुण ने आकर उस फन्दे को तत्काल काट दिया । पाश में बँधने का यह क्षण भर का क्लेश भी उन दोनों भाइयों को ऐसा मालूम पड़ा, मानों स्वप्न में हुआ हो ७६ ॥

ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥ ७७ ॥

**अन्वयः—**ततः पौलस्त्यः शक्त्या लक्ष्मणं वक्षसि बिभेद, रामः तु अनाहतः अपि शुचा विदीर्णहृदयः आसीत् ।

तत इति । ततः पौलस्त्यो रावणः शक्त्या कासूनामकेनायुधेन । 'कासूसा-मर्थ्ययोः शक्तिः' इत्यमरः । लक्ष्मणं वक्षसि बिभेद विदारयामास । रामस्त्वना-हतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ।

**भाषार्थ—**तब पुलस्त्य के कुल में उत्पन्न रावण के पुत्र मेघनाद ने खींचकर लक्ष्मण की छाती पर ऐसा शक्तिबाण मारा, कि लक्ष्मण तत्काल गिर गये और उन्हें देखकर यद्यपि राम को किसी प्रकार की चोट नहीं लगी थी फिर भी उनका हृदय शोक से फटने लगा ॥ ७७ ॥

स मारुतिसमानीतमहौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ७८ ॥

**अन्वयः—**स मारुतिसमानीतमहौषधिहतव्यथः (सन् ) पुनः शरैः लङ्कास्त्रीणां विलापाचार्यकं चक्रे ।

स इति । स लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजीवन्या हतव्यथः सन्पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने । 'विलापः परि-देवनम्' इत्यमरः । आचार्यकमाचार्यकर्म "योपधाद्गुरूपोत्तमाद्वुञ्" इति वुञ् । चक्रे । पुनरपि राक्षसाञ्घानेति व्यज्यते ।

**भाषार्थ—**हनुमान् जी तत्काल जाकर धवलागिरि पर्वत से संजीवनी बूटी लाये, जिसके पिलाते ही लक्ष्मण की मूर्च्छा छूट गई और सारी पीड़ा दूर हो गई । फिर उठकर उन्होंने अपने बाणों से अगणित राक्षसों को मारकर लंका की स्त्रियों के रोने में आचार्य का कार्य किया । अर्थात् उनके बाणों से राक्षसों के मारे जाने पर उनकी स्त्रियाँ विलाप करने लगीं ॥ ७८ ॥

Page 476Permalink

द्वादशः सर्गः
४१७

स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत् ॥ ७९ ॥

अन्वयः— सः शरत्कालः मेघस्य इव मेघनादस्य नादं इन्द्रायुधप्रभं धनुः च किञ्चित् अपि न पर्यशेषयत् ।

स इति । स लक्ष्मणः शरत्कालो मेघस्येव मेघनादस्येन्द्रजितो नादं सिंहनादम् । अन्यत्र गर्जितं च । इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किञ्चिदल्पमपि न पर्यशेषयन्नावशेषितवान् । तमवधीदित्यर्थः ।

भाषार्थ— जिस प्रकार शरद् ऋतु वर्षा कालीन मेघ के गर्जन और इन्द्रधनुष को नष्ट कर देता है उसी प्रकार लक्ष्मण ने मेघनाद के गर्जन और इन्द्रधनुष के समान प्रभाववाले धनुष को नष्ट कर डाला । अर्थात् लक्ष्मण ने मेघनाद को मार डाला ॥ ७९ ॥

कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ८० ॥

अन्वयः— कपीन्द्रेण स्वसुः तुल्यावस्थः कृतः कुम्भकर्णः टङ्कच्छिन्नमनःशिलः शृङ्गी इव रामं रुरोध ।

कुम्भकर्णं इति । कपीन्द्रेण सुग्रीवेण स्वसुः सूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः । कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्न मनःशिला रक्तवर्णं धातुविशेषो यस्य स तथोक्तः । 'टङ्कः पाषाणदारणः' इति 'धातुर्मनःशिलाद्यद्रेः' इति शृङ्गी शिखरीव रामं रुरोध ।

भाषार्थ— उधर वानरराज सुग्रीव ने कुम्भकर्ण की नाक काटकर शूर्पणखा के समान बना दिया था वह राम का मार्ग रोककर वैसे ही सामने खड़ा हो गया जैसे टांगी से कटी मैनसिल की चट्टान आ गिरी हो ॥ ८० ॥

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ ८१ ॥

अन्वयः— प्रियस्वप्नः भवान् वृथा भ्रात्रा अकाले बोधितः इति इव असौ रामेषुभिः दीर्घनिद्रां प्रवेशितः ।

अकाल इति । प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः । यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ।

भावार्थ— राम के बाणों से घायल होकर कुम्भकर्ण गिरकर मर गया, मानो
२७ र० सम्पू०

Page 477Permalink

४१८ रघुवंशमहाकाव्ये

राम के बाणों ने उसे यह कहकर गहरी नींद में सुला दिया कि तुमको नींद बड़ी प्यारी है, तुम्हारे भाई रावण ने व्यर्थ ही तुम्हें असमय में जगा दिया है ॥ ८१ ॥

इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ८२ ॥

**अन्वयः—**इतराणि रक्षांसि अपि वानरकोटिषु समरोत्थानि रजांसि तच्छोणितनदीषु इव पेतुः ।

इतराणीति । इतराणि रक्षांस्यपि वानरकोटिषु समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव पेतुः निपत्य मृतानीत्यर्थः ।

**भाषार्थ—**और भी बहुत से राक्षस करोड़ों वानरों की सेना के बीच में इस प्रकार गिर रहे थे, मानो राक्षसों के रक्त की नदी में रणक्षेत्र से उठी हुई धूली पड़ रही हो ॥ ८२ ॥

निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
अरावणमरामं वा जगदद्येति निश्चितः ॥ ८३ ॥

**अन्वयः—**अथ पौलस्त्यः अद्य जगत् अरामं अरावणं वा ( भवेत् ) इति निश्चितः पुनः युद्धाय मन्दिरात् निर्ययौ ।

निर्ययाविति । अथ पौलस्त्यो रावणः अद्य जगदरावणं रावणशून्यं रामशून्यं वा भवेदिति निश्चितो निश्चितवान् । कर्तरि क्तः । विजयमरणयोरन्तरनिश्चयवान्पुनर्युद्धाय मन्दिरात्निर्ययौ निर्जगाम ।

**भाषार्थ—**इसके बाद रावण युद्ध के लिए अपने राजभवन से निकल पड़ा, उसने अपने मन में ठान लिया था कि आज संसार में या तो रावण ही नहीं रहेगा या राम ही नहीं रहेंगे । अर्थात् मैं मर जाऊँगा या राम को ही मार डालूँगा ॥ ८३ ॥

रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरन्दरः ॥ ८४ ॥

**अन्वयः—**पदातिं रामं वरूथिनम् लंकेशं च आलोक्य पुरन्दरः हरियुग्यं रथं तस्मै प्रजिघाय ।

राममिति । पादाभ्यामततीति पदातिः पादचारिणं रामम् । वरूथो रथगुप्तिः । ‘रथगुप्तिर्वरूथो ना' इत्यमरः । अत्र वरूथेन रथो लक्ष्यते । वरूथिनं रथिनं लंकेशं चालोक्य पुरन्दर इन्द्रः । युगं वहन्तीति युग्या रथाश्वाः “तद्वहति रथयुगप्रासङ्गम्”

Page 478Permalink

द्वादशः सर्गः ४१६

इति यत्प्रत्ययः । हरियुग्यं कपिलवर्णाश्वम् । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । रथं तस्मै रामाय प्रजिघाय प्रहितवान् ।

भाषार्थ—रावण को रथ पर सवार और राम को पैदल देख कर इन्द्र ने अपना वह रथ भेजा, जिसमें पीले रंग के घोड़े जुते हुए थे ॥ ८४ ॥

तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥ ८५ ॥

अन्वयः—राघवः व्योम गङ्गोर्मिवायुभिः आधूतध्वजपटं जैत्रं त देवसूतभुजालम्बी ( सन् ) अध्यास्त ।

तमिति । राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम् । मार्गवशादिति भावः । जैतेव जैत्रो जयनशीलः तम् जैत्रं । जैतृशब्दात्तन्नन्तात् ‘प्रज्ञादिभ्यश्च' इति स्वार्थेऽणप्रत्ययः । तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बी सन्नध्यास्ताधिष्ठितवान् । आसेर्लङ् ।

भाषार्थ—उस रथ की ध्वजा आकाश गंगा की लहरों की हवा से फड़फड़ाती चल रही थी । इन्द्र के सारथी मातलि का हाथ पकड़कर रामजी उस विजयशील रथ पर चढ़ गये ॥ ८५ ॥

मातलिस्रतस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैव्यमस्त्राण्यापुः सुरद्विषाम् ॥ ८६ ॥

अन्वयः—मातलिः माहेन्द्रं तनुच्छदं तस्य मुमोच यत्र सुरद्विषां अस्त्राणि उत्पलदलक्लैव्यं आपुः ।

मातलिरिति । मातलिरेन्द्रसारथिर्माहेन्द्रम् । तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म । “पुंसि संज्ञायां घः प्रायेण” इति घः। तं तस्य रामस्यास्यामुमोवासञ्जयामास । यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैव्यं नपुंसकत्वं निरर्थकत्वं तदापुः ।

भावार्थ—मातलि ने राम को इन्द्र का वह कवच भी पहना दिया जिस पर राक्षसों के अस्त्र ऐसे लगते थे मानों वे अस्त्र नहीं है। किन्तु कमल के पुष्प हों ॥ ८६ ॥

अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥ ८७ ॥

अन्वयः—चिरात् अन्योऽन्यदर्शनावाप्तविक्रमावसरं रामरावणयोः युद्धं चरितार्थम् इव अभवत् ।

अन्योन्येति । चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धमायोधनं चरितार्थं सफलमभवदिव । प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ।

Page 479Permalink
४२०रघुवंशमहाकाव्ये

भाषार्थ—बहुत दिनों के बाद राम और रावण ने एक दूसरे को देखा । इसलिए उन दोनों को अपनी-अपनी वीरता दिखाने का अवसर मिल गया, राम-रावण का युद्ध आज सफल सा हो गया ॥ ८७ ॥

भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः ।
ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः ॥ ८८ ॥

अन्वयः—अयथापूर्वः एकः अपि धनदानुजः भुजमूर्धोरुबाहुल्यात् मातृवंशे स्थित इव ददृशे ।

भुजेति। यथाभूतः पूर्वं यथापूर्वः। सुप्सुपेति समासः । यथापूर्वो न भवतीत्य-यथापूर्वः । निहतबन्धुत्वाद्रक्षः परिचारशून्य इत्यर्थः । अत एवैकोऽपि सन्धन-दानुजो रावणः भुजांश्च मूर्धानंश्चोरवः पादाश्च भुजमूर्धोरुप्राण्यङ्गत्वाद्द्वन्द्वैकवद्भावः । तस्य बाहुल्याद्बहुत्वाद्धेतोः । तद्वहुत्वे यादवः—‘दशास्यो विशतिभुज-श्चतुष्पान्मातृमन्दिरे’ इति । मातृवंशे मातृसम्बन्धिनि वर्गे स्थित इव ददृशे दृष्टो हि । 'वंशो वेणौ कुले वर्गे' इति विश्वः । अत्र रावणात् रक्षो जातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते । अतश्चैकोऽप्यनेकरक्षःपरिवृत इवालक्ष्यतेत्यर्थः ।

भाषार्थ—अन्य राक्षसों के मारे जाने के कारण रावण अकेला ही रह गया था, फिर भी अनेक उरु शिर और भुजाओं के कारण वह ऐसा जान पड़ता था मानों उसके साथ बहुत से राक्षस हों । अर्थात् अकेला होता हुआ भी रावण बहुत राक्षसों से घिरा मालूम पड़ता था ॥ ८८ ॥

जेतारं लोकपालानां स्वमुखैरचितेश्वरम् ।
रामस्तुलितकैलासमरातिं बहुमन्वत ॥ ८६ ॥

अन्वयः—लोकपालानां जेतारं स्वमुखैः अर्चितेश्वरं तुलितकैलासं आरातिं रामः बहु अमन्यत ।

जेतारमिति । लोकपालानामिन्द्रादीनां जेतारम् "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी । स्वमुखैः स्वशिरोभिरर्चितेश्वरं तुलितकैलासमुत्क्षिप्तरुद्राद्रिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्रहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाच्च बहुमन्वत । साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहु-मानमकरोदित्यर्थः । बह्विति क्रियाविशेषणम् ।

भाषार्थ—जिस रावण ने इन्द्र आदि दिक्पालों को जीत लिया था, जिसने अपने शिरों को काटकर शिवजी को चढ़ा दिया था और जिसने कैलास पर्वत

द्वादशः सर्गः ४२१

Page 480Permalink

द्वादशः सर्गः ४२१

को अंगुलियों पर उठा लिया था उसे देखकर राम ने समझा कि यह कम पराक्रमी नहीं है ॥ ८९ ॥

तस्य स्फुरति पौलस्त्यः सीतासङ्गमशंसिनि ।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥ ९० ॥

अन्वयः—अधिकक्रोधः पौलस्त्यः स्फुरति सीतासंगमशंसिनि सव्येतरे भुजे शरं निचखान ।

तस्येति । अधिकक्रोधः पौलस्त्यः स्फुरति स्पन्दमानेऽत एव सीतासंगमशंसिनि सीताया सङ्गमं शंसतीति तस्मिन् । तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे । “न बहुव्रीहौ” इतीतरशब्दस्य सर्वनामसंज्ञाप्रतिषेधः । भुजे शरं निचखान निखातवान् ।

भाषार्थ—अत्यन्त क्रुद्ध होकर रावण ने राम की उस दाहिनी भुजा में बाण मारा जो फड़कती हुई शुभ सूचना दे रही थी कि अब सीता के प्राप्त होने में देर नहीं है ॥ ९० ॥

रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ ९१ ॥

अन्वयः—रामास्तः आशुगः रावणस्य अपि हृदयं भित्वा उरगेभ्यः प्रियं आख्यातुम् इव भुवं विवेश ।

रावणस्येति । रामेणास्तः क्षिप्त आशुगो बाणः विश्रवसोऽपत्यं पुमान्रावणः विश्रवःशब्दादपत्येऽर्थेऽण्प्रत्यये सति । ‘विश्रवसो विश्रवणरवणौ’ इति रवणादेशः । तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदार्य । उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव भुवं विवेश ।

भाषार्थ—राम ने जो बाण छोड़ा, वह रावण की छाती को छेदकर पाताल में चला गया । वह ऐसा लगा मानो पातालवासी नागों से रावण के मरने की प्रिय सूचना देने लिए गया हो ॥ ९१ ॥

वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ ९२ ॥

अन्वयः—वाक्यं वचसा अस्त्रं अस्त्रेण निघ्नतोः तयोः वादिनोः इव अन्योऽन्यजयसंरम्भः ववृधे ।

वचसेति । वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः वादिनोः कथकयोरिव अन्योन्यविषये जयसंरम्भो ववृधे ।

Page 481Permalink

४२२ रघुवंशमहाकाव्ये

**भावार्थ—**जिस प्रकार वादी और प्रतिवादी एक दूसरे की बात को अपनी बात से काटते हुए जीतने के लिए क्रुद्ध हो जाते हैं उसी प्रकार एक दूसरे के अस्त्र को अपने अस्त्र से काटते हुए अपनी-अपनी विजय प्राप्त करने के लिए अत्यन्त क्रुद्ध हो गये ॥ ९२ ॥

विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥ ९३ ॥

**अन्वयः—**जयश्रीः विक्रमव्यतिहारेण द्वयोः अपि अन्तरा वेदी मत्तवारणयोः इव सामान्या अभूत् ।

विक्रमेति । जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेणतयोर्द्वयोरपि अन्तरा-मध्ये। अव्ययमेतत्। वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव सामान्या साधारणाऽभूत् नत्वन्यतरनियतेत्यर्थः । अत्र मत्तवारणयोरित्यत्र द्वयोरित्यत्र च “अन्तरान्तरेण युक्ते’ इति द्वितीया न भवति । अन्तराशब्दस्योक्तरीत्यान्यत्रान्वयात् । मध्ये कामपि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ।

**भावार्थ—**कभी राम अपना पराक्रम दिखलाते थे कभी रावण, इसलिए विजयश्री कभी राम के पास जाती थी कभी रावण के पास, उसकी दशा वैसी ही हो गयी थी जैसे लड़ते हुए मतवाले हाथियों के बीच की दिवार की होती है ॥ ९३ ॥

कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ॥ ९४ ॥

**अन्वयः—**कृतप्रतिकृतप्रीतैः सुरासुरैः तयोः मुक्तां पुष्पवृष्टिं परस्परशरव्राताः न सेहिरे ।

कृतेति । स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयो रामरावणयोर्मुक्तां पुष्पवृष्टिं द्वयीमिति शेषः । परस्परं शरव्रात न सेहिरे । अहमेवालं किं त्वयेति चान्तराल एवेतरबाणवृष्टिरितरेतरपुष्पवृष्टिमवारयदित्यर्थः ।

**भावार्थ—**जब राम बाण चलाते थे या रावण का वार रोकते थे तब देवता उनके ऊपर फूल बरसाने लगते थे और जब राम पर रावण प्रहार करता था या उनका वार रोकता था तब असुर उस पर फूल बरसाते थे, पर ये दोनों इतना अधिक बाण छोड़ते थे कि पुष्प भूमि पर न गिर कर आकाश में ही तितर-बितर हो जाते थे ॥ ९४ ॥

द्वादशः सर्गः ४२३

Page 482Permalink

द्वादशः सर्गः ४२३

अयःशङ्कुचितां रक्षः शतघ्नीमय शत्रवे।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ ९५ ॥

अन्वयः—अथ रक्षः अयःशंकुचितां शतघ्नीं हृतां वैवस्वतस्य कूटशाल्मलिम् इव शत्रवे अक्षिपत् ।

अय इति । अथ रक्षो रावणोऽयसः लोहस्य शङ्कुभिः कीलैश्चितां कीर्णां शतघ्नीं लोहकण्टककीलितयष्टिविशेषताम् । 'शतघ्नी तु चतुस्ताला लोहकण्टक-संचिता । यष्टिः' इति केशवः । हृतां विजयलब्धां वैवस्वतस्यान्तकस्य कूटशाल्म-लिरिति शत्रवे राघवायाक्षिप्तवान् । कूटशाल्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकीवृक्ष-विशेषः । 'रोचनः कूटशाल्मलिः' इत्यमरः । तत्सादृश्यं च गदया अयःशंकुचित-त्वादनुसंधेयम् ।

भाषार्थ—इसके बाद रावण ने लोहे की कीलों से बनी हुई वह शतघ्नी राम को मारने के लिए चलाई जो यमराज की गदा शाल्मलि के समान भयंकर थी ॥ ९५ ॥

राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्वाणैश्चिच्छेद कदलीमुखम् ॥ ९६ ॥

अन्वयः—राघवः रथम् अप्राप्तां तां सुरद्विषां आशां च अर्द्धचन्द्रमुखैः वाणैः कदलीमुखं चिच्छेद ।

राघव इति । राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजय-तृष्णां च । 'आशा तृष्णादिशोः प्रोक्ता' इति विश्वः अर्धचन्द्र इव मुखं येषां तैर्बाणैः । कदली वन्मुखं यथा तथा विच्छेद । अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ।

भाषार्थ—राक्षसों को पूरी आशा हो गई थी उससे राम अवश्य मर जायेंगे । पर राम ने उस शतघ्नी को अपने रथ के पास पहुँचने के पहले ही अर्द्धचन्द्राकार फलों वाले बाणों से केले के समान सुखपूर्वक काट दिया यह देखकर राक्षसों की आशा पर पानी फिर गया ॥ ९६ ॥

अमोघं संदधे चास्मै धनुष्येकधनुर्धरः ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ ९७ ॥

अन्वयः—एकधनुर्धरः प्रियाशोकशल्यनिष्कर्षणौषधं अमोघं ब्राह्मं अस्त्रं अस्मै च धनुषि सन्दधे ।

Page 483Permalink

४२४ | रघुवंशमहाकाव्ये

अमोघमिति । एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निष्कर्ष णमुद्धारकं यदौषधं तदमोघं सफलं ब्रह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च तद्वधार्थमित्यर्थः । धनुषि संदधे ।

भाषार्थ—अद्वितीय धनुर्धारी राम ने रावण को मारने के लिए धनुष पर वह ब्रह्मास्त्र चढ़ाया जो कभी व्यर्थ नहीं जाता । वह ऐसा था मानों सीता के शोकरूपी काँटे को निकालने के लिए अचूक ओषधि हो ॥ ९७ ॥

तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
वपुर्महोरगस्येव करालफणमण्डलम् ॥ ९८ ॥

अन्वयः—व्योम्नि शतधा भिन्नं दीप्तिमन्मुखं तत् करालफणमण्डलं महोरगस्य वपुः इव ददृशे ।

तदिति । व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रं करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम् । 'करालो दन्तुरे तुङ्गे करा लो भीषणेऽपि च' इति विश्वः । महोरगस्य शेषस्य वपुरिव ददृशे ।

भाषार्थ—वह ब्रह्मास्त्र आकाश में सैकड़ों रूपों में फैल गया और उसके अग्रभाग चमकने लगे, वह ऐसा मालूम पड़ता था मानों फणों का भयंकर चमकीला मण्डल लिए शेषनाग हों ॥ ९८ ॥

तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् ।
स रावणशिरःपंक्तिमज्ञातव्रणवेदनाम् ॥ ९९ ॥

अन्वयः--स मन्त्रप्रयुक्तेन तेन अज्ञातव्रणवेदनां रावणशिरःपङ्क्तिम् निमेषार्धात् अपातयत् ।

तेनेति । स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादनुभूत-व्रणदुःखां रावणशिरःपंक्ति निमेषार्धादपातयत्पातयामास ।

भाषार्थ—मन्त्रपूर्वक चलाये हुए उस ब्रह्मास्त्र से राम ने रावण के दशों शिरों को आधे पल में काटकर पृथ्वी पर गिरा दिया, जिससे रावण को थोड़ा सा भी वेदना का अनुभव नहीं हुआ ॥ ९९ ॥

बालार्कप्रतिमेबाप्सु वीचिभिन्ना पतिष्यतः ।
रराज रक्षःकायस्य कण्ठच्छेदपरम्परा ॥ १०० ॥

अन्वयः—पतिष्यतः रक्षःकायस्य कण्ठच्छेदपरम्परा वीचिभिन्ना अप्सु बालार्कप्रतिमा इव रराज ।