रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 471 of 735
Read in context४१२ रघुवंशमहाकाव्ये
अन्वयः—हृदयन्यस्तमणिस्पर्शन्निमीलितः स अपयोधरसन्सर्गां प्रियालिङ्गन-निर्वृतिं प्राप ।
स तति । हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां तथाभूताम् । प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ।
भाषार्थ—उस चूड़ामणि को हृदय से लगाकर राम आनन्दमग्न होकर आँखें बन्द कर लिए । उस समय उन्हें ऐसा मालूम होता था मानों स्तनस्पर्श से रहित सीताजी ही हृदय से आ लगी हों ॥ ६५ ॥
श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६६ ॥
अन्वयः—प्रियोदन्तं श्रुत्वा तत्संसर्गोत्सुकः रामः लङ्कायाः महार्णवं परिक्षेपं परिखालघुम् मेने ।
श्रुत्वेति । प्रियाया उदन्तं वार्ताम् । ‘उदन्तः साधुवार्तयोः’ इति विश्वः । श्रुत्वा तस्याः सीतायाः सङ्गम उत्सुकः रामो लङ्कायाः सम्बन्धी यो महार्णव एव परिक्षेपः परिवेष्टस्तं परिखालघुं दुर्गवेष्टनवत्सुतरां मेने ।
भाषार्थ—सीताजी का समाचार सुनकर उनसे मिलने के लिए राम अत्यन्त उत्सुक हो गये उस उत्सुकता में उन्हें लंका के चारों ओर का चौड़ा और गहरा समुद्र खाई से भी छोटा लगने लगा ॥ ६६ ॥
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ ६७ ॥
अन्वयः—केवलं भुवः पृष्ठे न किन्तु व्योम्नि (च) संबाधवर्तिभिः हरिसैन्यैः अनुद्रुतः स अरिनाशाय प्रतस्थे ।
स इति । केवलमेकं भुवः पृष्ठे भूतले न किन्तु व्योम्नि च सम्बाधवर्तिभिः सङ्कठगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोरन्वितः सन् रामोऽरिनाशाय प्रतस्थे चचाल ।
भाषार्थ—वे वानरों की अपार सेना लेकर शत्रु का संहार करने के लिए चल पड़े । वह सेना इतनी अधिक थी कि पृथ्वी की कौन कहे, आकाश में भी बड़ी कठिनाई से चल पाती थी ॥ ६७ ॥
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥ ६८ ॥