रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 469 of 735
Read in context| ४१० | रघुवंशमहाकाव्ये |
|---|
**भाषार्थ—**सुग्रीव के द्वारा सीता का पता लगाने के लिए आज्ञा पाकर वानर भी उसी प्रकार इधर-उधर घूमकर सीता की खोज करने लगे, जिस प्रकार विरही राम का मन सीताजी की खोज में इधर-उधर भटकता था ॥५९॥
प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात् ।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥ ६० ॥
**अन्वयः—**सम्पातिदर्शनात् तस्याः प्रवृत्तौ उपलब्धायं मारुतिः सागरं निर्ममः संसारमिव तीर्णः ।
प्रवृत्ताविति । सम्पातिर्नाम जटायुषो ज्येष्ठायान्भ्राता तस्य दर्शनात् । तन्मुखादिति भावः । तस्याः सीतायाः प्रवृत्तौ वार्तायाम् । ‘वार्ता प्रवृत्तिर्वृत्तान्तः’ इत्यमरः । उपलब्धायं ज्ञातायां सत्याम् । मरुतस्यापत्यं पुमान्मारुतिः हनूमान्सागरं । ममेत्येतदव्ययं ममतावाचि । तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव तीर्णस्ततार । तरतेः कर्तरि क्तः ।
**भाषार्थ—**मार्ग में जटायु के भाई सम्पाति से उनकी भेंट हो गई, उसने बतलाया कि समुद्र के पार लंका का राजा रावण सीताजी को हर ले गया है, यह सुनकर हनुमान् जी उसी प्रकार समुद्र को लांघ गये जिस प्रकार निर्मोही पुरुष संसार को पार कर जाता है ॥ ६० ॥
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परीतेव महौषधिः ॥ ६१ ॥
**अन्वयः--**लङ्कायां विचिन्वता तेन राक्षसीवृता जानकी विषवल्लीभिः परीता महौषधिः इव दृष्टा ।
दृष्टेति । लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी, विषवल्लीभिः परीता परिवृता महौषधिः सञ्जीवनीलतेव दृष्टा ।
**भाषार्थ—**लंका में पहुँचकर सीता को ढूंढ़ते हुए हनुमान् जी ने एक स्थान पर देखा कि चारों ओर राक्षसियों से घिरी हुई वे ऐसी लग रही थी जैसे विष की लताओं के बीच में सञ्जीवनी बूटी हो ॥ ६१ ॥
तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः ॥ ६२ ॥
**अन्वयः-**कपिः भर्तुः अभिज्ञानं अङ्गुलीयं तस्यै अनुष्णैः तदानन्दाश्रुभिः प्रत्युद्गतम् इव ।