Skip to content
SarvaKosh
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

नवम सर्गः ३०९

Page 368Permalink

नवम सर्गः ३०९

अन्वयः— इति आत्मनः विस्मृतान्यकरणीयं सचिवावलम्बितधुरम् अनुबन्ध-सेवया परिवृद्धिरागं धराधिपं मृगया चतुरा कामिनी इव जहार ।

इतीति । इति पूर्वोक्तप्रकारेणात्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम् । विस्मृतात्मकार्यान्तरमित्यर्थः । सचिवैरवलम्बिता धृता धूर्यस्य तम् । “ऋक्पूरब्धूः-पथामानक्षे” इति समासान्तोऽच्प्रत्ययः । अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपं मृग्यन्ते यस्यां मृगा इति मृगया । परिचर्यापरिसर्या-मृगयाटाट्यादानामुपसंख्यानम् इति शप्प्रत्ययान्तो निपातः । चतुरा विदग्धा कामिनीव जहाराचकर्ष । 'न जातु कामः कामानानुभोगेन शाम्यति । हविशा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥' इति भावः ।

भाषार्थ— इस प्रकार अपने दूसरे कर्तव्यों को भूले हुए, राज्य का भार मन्त्रियों पर छोड़ कर बन में आये हुए और निरन्तर सेवन करने से अधिक आसक्ति युक्त राजा दशरथ को शिकार के व्यसन ने वैसे ही लुभा लिया जैसे कोई चतुर स्त्री अपने पति की सेवा करके उसे अपने वश में कर लेती है । अर्थात् सब कार्य भूल कर राजा दशरथ शिकार में आसक्त हो गये ॥ ६९ ॥

स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
नरपतिरतिवाहयाम्बभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ ७० ॥

अन्वयः— स नरपतिः ललितकुसुमप्रवालशय्यां ज्वलितमहोषधिदीपिका-सनाथां त्रियामां क्वचित् असमेतपरिच्छदः सन् अतिवाहयाम्बभूव ।

स इति । स नरपतिः ललितानि कुसुमानि प्रवालानि पल्लवानि शय्या यस्यां तां ज्वलिताभिर्महोषधीभिरेव दीपिकाभिः सनाथां तत्प्रधानामित्यर्थः । त्रियामां त्रयो यामा यस्याः सा ताम् रात्रि क्वचिदसमेतपरिच्छदः परिहृत-परिजनः सन्नित्यर्थः । अतिवाहयाम्बभूव गमयामास । पुष्पिताग्रावृत्तम् ।

भाषार्थ— शिकार के वशीभूत राजा दशरथ ने राजाओं के योग्य सामग्री की परवाह न करके कभी २ परिजनों के बिना अकेले ही कोमल-कोमल पुष्पों और नवपल्लवों को शय्या बनाकर तथा जंगल की जलती हुई महौषधियों को दीपक का प्रकाश समझकर रात बिताई ॥ ७० ॥

उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि ॥ ७१ ॥

अन्वयः— उषसि पटुपटहध्वनिभिः गजयूथकर्णतालैः, विनीतनिद्रः सः तत्र मधुराणि, विहगविकूजितवन्दिमंगलानि शृण्वन् अरमत ।

Page 369Permalink
३१०रघुवंशमहाकाव्ये

उषसीति। उषसि प्रातः पटूनां पटहानाभिव ध्वनियैषां तैर्गजयूथानां हस्ति-समूहानां कर्णैरेव तालैर्वाद्यप्रभेदैर्विनीतनिद्रः स नृपस्तत्र वने मधुराणि विहगानां विहङ्गमानां विकूजितान्येव वन्दिनां मङ्गलाति मङ्गलगीतानि शृण्वन्नरमत।

भाषार्थ— वन में रहते हुए भी राजा दशरथ के सभी व्यवहार राजाओं के समान हुआ करते थे। प्रातःकाल जब बड़े-बड़े नगाड़ों के समान शब्द करने वाले हाथियों के कानों की फट-फट होती थी तब आंखें खुलती थी और उस समय वन के पक्षी चारणों के समान जो मंगल गीत गाते थे उन्हें सुन कर वे परम प्रसन्न होते थे॥ ७१ ॥

अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण॥ ७२ ॥

अन्वयः— अथ जातु रुरोः गृहीतवर्त्मा विपिने पार्श्वचरैः अलक्ष्यमाणः, श्रमफेनमुचा तुरङ्गमेण तपस्विगाढां तमसां नदीं प्राप ।

अथेति। अथ जातु कदाचिद्रुरोर्मृगस्य गृहीतवर्त्मा स्वीकृतरुरुमार्गो विपिने वनेपार्श्वचरैरनुचरैरलक्ष्यमाणः। तुरगवेगादित्यर्थः। श्रमेण फेनमुचा सफेनं स्विद्यतेत्यर्थः। तुरङ्गमेण तपस्विभिर्गाढामवगाढां सेवितां तमसां नाम नदीं सरितं प्राप।

भाषार्थ— इससे बाद एक दिन रुरुमृग का पीछा करते हुए राजा दशरथ को साथियों से साथ छूट गया, थकावट के कारण उनका घोड़ा मुंह से फेन फेंकने लगा उसी पर चढे हुए वे तमसा नदी के उस तीर पर पहुँच गये जहाँ तपस्वि लोग स्नान करते थे॥ ७२ ॥

कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ७३ ॥

अन्वयः— तस्याः अम्भसि कुम्भपूरणभवः पटुः उच्चै निनदः उच्चचार, तत्र सः द्विरदबृंहितशङ्की सन् शब्दपातिनम् इषुं विससर्ज।

कुम्भेति। तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः। पचाद्यच्। पटुर्मधुरः उच्चैर्गम्भीरो निनदो ध्वनिरुच्चचारोदियाय। तत्र निनदे स नृपः द्विरदबृंहितं शङ्कित इति द्विरदबृंहितशङ्की सन् शब्देन शब्दानुसारेण पततीति शब्दपातिनमिषुं विससर्ज। स्वागतावृत्तम्।

भाषार्थ— उस तमसा नदी में श्रवण कुमार अपने अन्धे माता-पिता के लिए घड़े में पानी भर रहा था, घड़ा भरते समय जो गम्भीर शब्द उत्पन्न हुआ

Page 370Permalink

नवमः सर्गः ३११

उसको राजा दशरथ ने हाथी का शब्द समझकर झट शब्दवेधी बाण उसपर चला ही दिया ॥ ७३ ॥

नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् ।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ७४ ॥

अन्वयः—पङ्क्तिरथः यत् नृपतेः प्रतिषिद्धम् एव, तत् विलङ्घ्य कृतवान् श्रुतवन्तः अपि रजोनिमीलिताः (सन्तः) अपथे पदम् अर्पयन्ति हि ।

नृपतेरिति । तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्कर्म गजवधरूप पङ्क्तिरथो दशरथो विलङ्घ्य ‘लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्’ इति शास्त्रमुल्लंघ्य कृतवान् । ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह—अपथ इति । श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिताः रजोगुणावृताः सन्तः न पन्था इत्यपथम् । "पथो विभाषा" इति वा समासान्तः । "अपथं नपुंसकम्" इति नपुंसकम् । ‘अपन्थ्यास्त्वपथं तुल्यम्’ इत्यमरः । तस्मिन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि । प्रवर्तन्त इत्यर्थः । वैतालीय वृत्तम् ।

भाषार्थ—युद्ध स्थल से अन्यत्र कहीं भी राजा को हाथी का वध नहीं करना चाहिए, इस लिए राजा दशरथ ने जो किया, वह राजा के लिए उचित नहीं था । कभी-कभी विद्वान् लोग भी जब रजो गुण के आवेश में अन्धे हो जाते हैं तब वे अयोग्य कार्य कर बैठते हैं ॥ ७४ ॥

हा तातेति क्रन्दितमाकर्ण्य विषण्ण-
स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥ ७५ ॥

अन्वयः—हा तात इति क्रन्दितम् आकर्ण्य विषण्णः सः तस्य वेतसगूढम् प्रभवम् अन्विष्यन् शल्यप्रोतम् सकुम्भम् मुनिपुत्रम् प्रेक्ष्य क्षितिपः अपि तापात् अन्तःशल्यः इव आसीत् ।

हा तातेति । हेत्यातौ तातो जनकः । ‘हा विषादशुगर्तिषु’ इति ‘तातस्तु जनकः पिता’ इति चामरः । हा तातेति क्रन्दितं क्रोशनमाकर्ण्य विषण्णो भग्नोत्साहः सन् तस्य क्रन्दितस्य वेतसैर्गूढं छन्नं प्रभवत्यस्मादिति प्रभवः कारणं तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । ‘शल्यं शङ्कौ शरे वंशे’ इति विश्वः । सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत् । मत्तमयूरं वृत्तम् ।

Page 371Permalink
३१२रघुवंशमहाकाव्ये

**भाषार्थ—**हा पिताजी ! इस प्रकार श्रवणकुमार का करुण क्रन्दन सुनकर दुःखी होकर बेंतों के कुञ्जों में छिपे हुए उस करुण ध्वनि के उत्पत्ति स्थान को ढूंढते हुए राजा दशरथ ने देखा कि बेंत की झाड़ियों में बाणों से विद्ध घड़े पर झुका हुआ कोई मुनिकुमार पड़ा हुआ है उसे देखकर उनको ऐसा कष्ट हुआ मानों इन्हें ही बाण लग गया हो ॥ ७५ ॥

तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भि-
रात्मानमक्षरपदैः कथयाम्बभूव ॥ ७६ ॥

**अन्वयः—**प्रथितान्वयेन तेन तुरगात् अवतीर्य पृष्टान्वयः जलकुम्भनिषण्ण-देहः सः तस्मै स्खलद्भिः अक्षरपदैः आत्मानं द्विजेतरतपस्विसुतम् कथयाम्बभूव ।

तेनेति। प्रथितान्वयेन प्रख्यातवंशेन । एतेन पापभीरुत्वं सूचितं । तेन राज्ञा तुरगादवतीर्य पृष्टान्वयी ब्रह्महत्याशङ्कया पृष्टकुलः जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः अशक्तिवशादर्धोच्चारितैरित्यर्थः । अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयाम्बभूव । न तावत्त्रैवर्णिक एवाहमस्मि किन्तु करणः ‘वैश्यात्तु करणः शूद्रायाम्’ इति याज्ञवल्क्यः कुतो ब्रह्महत्येत्यर्थः । तथा च रामायणे—‘‘ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ न द्विजातिरिरहं राजन्मा भूत्ते मनसो व्यथा । शूद्रायमस्मि वैश्येन जातो जनपदाधिप ॥’’

**भाषार्थ—**राजा दशरथ अत्यन्त पापभीरु थे इस लिए घोड़े से शीघ्र उतर कर उन्होने ब्रह्महत्या की आशंका से घड़े पर झुके हुए उस मुनिकुमार से पहले उसकी जाति और नाम पूछा, उसने भी उनका आशय समझ कर सड़खड़ाती वाणी से बताया कि मैं द्विज से भिन्न वैश्य पिता से शूद्रा माता से उत्पन्न करण संज्ञक मुनि कुमार हूँ । इसलिए राजा दशरथ अपने को ब्रह्महत्या से मुक्त समझे ॥ ७६ ॥

तच्चोदितः स तमनुद्धृतशल्यमेव
पित्रोः सकाशमवसन्नदृशोर्निनाय ।
ताभ्यां तयागतमुपेत्य तमेकपुत्र-
मज्ञानतः स्वचरितं नृपतिः शशंस ॥ ७७ ॥

Page 372Permalink

नवमः सर्गः ३१३

अन्वयः—तच्चोदितं नृपतिः अनुद्धतशल्यम् एव तम् अवसन्नदृशोः पित्रोः सकाशं निनाय च, समागतम् एकपुत्रम् तम् उपेत्य अज्ञानतः स्वचरितं ताभ्यां शशंस।

तदिति। तच्चोदितस्तेन पुत्रेण चोदितः प्रेरितः पितृसमीपं प्रापयेत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम् अवसन्नदृशोर्नष्टचक्षुषोः अन्धयोरित्यर्थः। पित्रोर्मातापित्रोः। "पिता माता" इत्येकशेषः। सकाशं समीपं निनाय। इदं च रामायणविरुद्धम् तत्र—'अथाहमेकस्तं देशं नीत्वा तौ भृशः- दुःखितौ। अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया॥' इति नदीतीर एव मृतं पुत्रं प्रति पित्रोरानयनाभिधानात्। तथागतं वेतसगूढम् एकश्चासौ पुत्रश्चैकपुत्रस्तम्। एकग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थं तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्यां। क्रियाग्रहणाच्चतुर्थी। शशंस कथितवान्।

भाषार्थ—उस श्रवणकुमार ने राजा दशरथ से कहा कि मुझे मेरे अन्धे माता-पिता के पास पहुँचा दीजिए। यह सुनकर उन्होंने उस बाण से बिधे हुए मुनिकुमार को उठाकर उसके माता-पिता के पास ले जाकर उनसे सारी कथा बता दी कि मैंने भूल से आपके एकलौते पुत्र पर किस प्रकार बाण चला दिया॥ ७७॥

तौ दम्पती बहु विलप्य शिशोः प्रहर्त्रा
शल्यं निखातमुदहारयतामुरस्तः।
सोऽभूत्परासुरथ भूमिपतिं शशाप
हस्तार्पितैर्नयनवारिभिरेव वृद्धः॥ ७८॥

अन्वयः—तौ दम्पती बहु विलप्य शिशोः उरस्तः निखातम् शल्यम् प्रहर्त्रा उदहारयता सः गतासुः अभूत् अथ वृद्धःहस्तार्पितैः नयनवारिभिः एव भूमिपतिं शशाप।

ताविति। तौ जाया च पतिश्च दम्पती। राजदन्तादिषु जायाशब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः। 'दम्पती जम्पती जायापती भार्यापती च तौ' इत्यमरः। बहु विलप्य भूरि परिदेव्य। 'विलापः परिदेवनम्' इत्यमरः। शिशोरुरस्तो वक्षसः। "पञ्चम्यास्तसिल्"। निखातं शल्यं शरं प्रहर्त्रा राज्ञोदा- हारयतामुद्धारयामासतुः। स शिशुः परासुर्गतप्राणोऽभूत्। अथ वृद्धो हस्तार्पितै- र्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप।

भाषार्थ—यह सुनते ही उन दोनों स्त्री पुरुषों ने बहुत विलाप कर अपने पुत्र के मारने वाले राजा दशरथ को आज्ञा दी कि छाती से बाण निकाल लो,

Page 373Permalink

३१४ रघुवंशमहाकाव्ये

बाण निकालते ही श्रवणकुमार के प्राण विकल गये इस पर बूढ़े तपस्वी ने चुल्लू में आंसू का जल लेकर राजा को ऐसा शाप दिया कि ॥ ७८ ॥

दिष्टान्तमाप्स्यति भवानपि पुत्रशोका-
दन्त्ये वयस्यहमिवेति तमुक्तवन्तम्।
आक्रान्तपूर्वमिव मुक्तविषं भुजङ्गं
प्रोवाच कोसलपतिः प्रथमापराधः ॥ ७९ ॥

**अन्वयः—**हे राजन् भवान् अपि अन्त्ये वयसि अहम् इव पुत्रशोकात् दिशान्तम् आप्स्यति इति उक्तवन्तं आक्रान्तपूर्वं मुक्तविषम् भुजगं इव तम् प्रथमापराधः कोशलपतिः प्रोवाच ।

दिष्टान्तमिति । हे राजन् ! भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाद्दिष्टान्तं कालावसानं मरणमित्यर्थः ‘दिष्टः काले च दैवे स्याद्दिष्टम्' इति विश्वः । आप्स्यति प्राप्स्यति प्राप्स्यसि इत्युक्तवन्तम् आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः । सुप्सुपेति समासः । "राजदन्तादिषु परम्" इत्यनेन परनिपातः । तं प्रथममपकृतमित्यर्थः । मुक्तविषमपकारात्पश्चादुत्सृष्टविषं भुजङ्गमिव स्थितं तं वृद्धं प्रति प्रथमापराधः प्रथमापराधी । कर्तरि क्तः । इदं च सहने कारणमुक्तम् । कोसलपतिर्दशरथः शापदानात्पश्चादप्येनं मुनिः प्रोवाच ।

**भावार्थ—**हे राजन् ! जाओ तुम भी वृद्धावस्था में मेरे ही समान पुत्र शोक में मरोगे । जिस प्रकार पैर से दबने पर सांप विष उगल कर शान्त हो जाता है उसी प्रकार शाप देकर जब वृद्ध मुनि शान्त हो हुये। तब पहले पहल अपराध करने वाले राजा दशरथ उनसे बोले ॥ ७९ ॥

शापोऽप्यदृष्टतनयाननपद्मशोभे
सानुग्रहो भगवता मयि पातितोऽयत् ।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो
बीजप्ररोहजननीं ज्वलनः करोति ॥ ८० ॥

**अन्वयः—**अदृष्टतनयाननपद्मशोभे मयि भगवता पतितः अयं शापः अपि सानुग्रहः (एव) इन्धनेद्धः ज्वलनः कृष्याम् क्षितिम् दहन् अपि खलु बीजप्ररोहजननीं करोति ।

शाप इति । अदृष्टा तनयाननपद्मशोभा पुत्रमुखकमलश्रीयैन तस्मिन्नपुत्रके मयि भगवता पातितः वज्रप्रायत्वादित इत्युक्तम् । अयं पुत्रशोकान्निग्न्यस्वेत्येवंरूपः शापोऽपि सानुग्रहः वृद्धकुमारीवरन्यायेनेष्टावाप्तेरान्तरीयकत्वात्सोपकार एव । निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह—कृष्यामिति । इन्धनैः काष्ठैरिद्धः प्रज्वलितो ज्वलनोऽग्नि कृष्यां कर्षणाहाम् । "ऋदुपधाच्चाक्लृपि चतेः" इति क्यप् । क्षिति दहन्नपि बीजप्ररोहाणां बीजांकुराणां जननीमुत्पादनक्षमां करोति ।

Page 374Permalink

नवमः सर्गः ३१५

भाषार्थ—हे मुने ! मुझे आज तक पुत्र के मुखकमल का दर्शन तक नहीं हुआ है इसलिए मैं आपके इस शाप को वरदान ही समझता हूँ क्योंकि इसी व्याज से मुझे पुत्र तो प्राप्त होगा । घास फूस इन्धन आदि से प्रदीप्त अग्नि जिस प्रकार भूमि को जलाता हुआ भी बीज अंकुरित होने के योग्य बनाकर भूमिका उपकार ही करता है उसी प्रकार आपका शाप भी सफल होने के लिए.मुझे पुत्र उत्पन्न करके मेरा उपकारक ही होगा ॥ ८० ॥

इत्थं गते गतघृणः किमयं विधत्तां
वध्यस्तवेत्यभिहितो वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे
पुत्रं परासुमनुगन्तुमनाः सदारः ॥ ८१ ॥

अन्वयः—इत्थम् गते, ( सति ) वसुधाधिपेन गतघृणः तव वध्यः अयम् किं विधत्ताम् ? इति अभिहितः सदारः सः मुनिः परासुम् पुत्रम् अनुगन्तुमनाः ( सन् ) हुताशनवतः एधान् ययाचे ।

इत्यमिति । इत्थं गते प्रवृत्ते सति वसुधाधिपेन राज्ञा गतघृणो निष्करुणः । हन्तृत्वान्निष्कृप इत्यर्थः । अत एव तव वध्यो वधार्होऽयं जनः अयमिति राज्ञो निर्वेदादनादरेण स्वात्मनिर्देशः । किं विधत्तामित्यभिहित उक्तः । मया किं विधेयमिति विज्ञापित इत्यर्थः । स मुनिः सदारः सभार्यः परासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन् । “तुं काममनसोरपिः” इति मकारलोपः । हुताशनवतः साग्नीनेधान्काष्ठानि ययाचे । न चात्रात्मघातदोषः । 'अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः । भृग्वग्निजलसंपातं मरणं प्रविधीयते ) इत्युक्तेः ।

भाषार्थ—यह कहकर राजा दशरथ ने पुनः उनसे कहा—मैं तो इसी योग्य हूँ कि आप मेरा वध कर दें, अब आप मुझे क्या आज्ञा देते हैं ? यह सुनकर उस मुनि ने कहा कि अब मैं और मेरी स्त्री दोनों अपने प्रिय पुत्र के साथ ही मर जायेंगे, अतः हमारे लिए अग्नि और ईंधन जुटा दो ॥ ८१ ॥

प्राप्तानुकः सपदि शासनमस्य राजा
सम्पाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदमात्मविनाशहेतुम्
शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥ ८२ ॥

Page 375Permalink
३१६रघुवंशमहाकाव्ये

**अन्वयः—**प्राप्तानुगः, राजा सपदि अस्य शासनम् सम्पाद्य पातकविलुप्तधृतिः (सन्) अन्तर्निविष्टपदम् आत्मविनाशहेतुम् अम्बुराशिः और्वम् ज्वलनम् इव दधत् (वनात्) निवृत्तः।

प्राप्तेति। प्राप्तानुगः प्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काष्ठसम्भाष-णरूपं प्रागैकोऽपि सम्प्रति प्राप्तानुचरत्वात्त्वात्सम्पाद्य पातकेन मुनिवधरूपेण विलुप्तम् धृतिर्नष्टोत्साहः सन् अन्तर्निविष्टपदमन्तर्लब्धस्थानमात्मविनाशहेतुं शापम् अम्बुराशि-रौर्वं ज्वलनं वडवानलमिव। 'आर्वस्तु वाडवो वडवानलः' इत्यमरः। दधद्दधृतवान् निवृत्तः। वनादिति शेषः।

इति महामहोपाध्यायकोलचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये मृगयावर्णनं नाम नवमः सर्गः॥ ६॥

**भाषार्थ—**इतने में राजा दशरथ के अनुचर भी तब तक वहाँ पहुँच गये, तत्काल इन्धन और अग्नि जुटा दी गई। जिस प्रकार समुद्र के अन्दर वडवाग्नि जला करता है उसी प्रकार अपने पाप से अधीर हृदय में अपने विनाश का कारण मुनि का शाप लिए हुए राजा दशरथ अपने घर लौट आये ॥ ८२ ॥

यह त्रिपाठ्युपाव्ह पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित
अन्वय और चन्द्रकला नाम की हिन्दी टीका में
रघुवंश महाकाव्य का मृगयावर्णन नामक
नवम सर्ग समाप्त हुआ ॥ ९ ॥


दशमः सर्गः

आशंसे नित्यमानन्दं रामनामकथामृतम्।
सद्भिः स्वश्रवणैर्नित्यं पेयं पापं प्रणुदितुम्॥
पृथिवीं शासत्तस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनर्द्धेः शरदमयुतं ययौ ॥ १ ॥

**अन्वयः—**पृथिवीं शासतः पाकशासनतेजसः अनूनर्द्धेः तस्य किञ्चित् ऊनम् अयुतम् शरदम् ययौ।

पृथिवीमिति। पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः अनूनर्द्धे-

Page 376Permalink

दशमः सर्गः ३१७

र्महासमृद्धैस्तस्य दशरथस्य किञ्चिदूनमीषन्न्यूनं शरदां वत्सराणाम् । 'स्यादृतौ वत्सरे शरत्' इत्यमरः । अयुतं दशसहस्रं ययौ 'एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयु-तम् । कोट्यर्बुदं च पद्मं स्थानात्स्थानं दशगुणं स्यात् ॥' इत्यार्यभट्टः । इदं च मुनिशापात्परं वेदितव्यं न तु जननात् । 'षष्टिवर्षसहस्राणि जातस्य मम कौशिक । दुःखेनोत्पादितश्चमं न रामं नेतुमर्हसि ॥' इति रामायणविरोधात् । नाप्यभिषेकात्परं तस्यापि 'सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम्' इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ।

भाषार्थ—महासमृद्धिशाली और इन्द्र के समान तेजस्वी राजा दशरथ को पृथ्वी का पालन करते हुए लगभग दस हजार वर्ष बीत गये ॥ १ ॥

न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥ २ ॥

अन्वयः—सः पूर्वेषाम् ऋणनिर्मोक्षसाधनम् सद्यः शोकतमोपहम् सुताभिधानम्, ज्योतिः न च उपलेभे ।

न चेति । स दशरथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम् 'एष वा अनृणो यः पुत्री' इति श्रुतेः । पितॄणामृणविमुक्तिकारणं सद्यः शोक एव तमस्तममपहन्तीति शोकतमोपहम् । अत्राभयंकर इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य । "अपक्लेशतमसः" इति डप्रत्ययः । सुताभिधानं सुताख्यं ज्योतिर्नोपलेभे न प्राप ।

भाषार्थ—किन्तु अभी तक पितरों का ऋण से मुक्त करने का साधन ओर शोकरूपी अन्धकार को दूर करने वाली वह ज्योति उन्हें नहीं मिली, जिसे पुत्र कहते हैं । अर्थात् अभी तक राजा की पुत्र नहीं हुआ ॥ २ ॥

अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
प्राङ्मन्थानदनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥ ३ ॥

अन्वयः—प्रत्ययापेक्षसन्ततिः स नृपः मन्थात् प्राक् अनभिव्यक्तरत्नोत्पत्तिः अर्णवः इव चिरम् अतिष्ठत् ।

अतिष्ठदिति । प्रत्ययं हेतुमपेक्षत इतिम्प्रत्ययापेक्षा सन्ततिर्यस्य स तथोक्तः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । स नृपः मन्थात्प्राङ्मन्थानात्पूर्वमनभिव्यक्ताऽदृष्टा रत्नोत्पत्तिर्यस्य सोऽर्णव इव चिरमतिष्ठत् । सामग्रग्रभावाद्दि-लम्बो न तु वन्ध्यत्वादिति भावः ।

भाषार्थ—जिस प्रकार समुद्रों में रत्नों के रहते हुए भी मन्थन के पहले वे

Page 377Permalink
३१८रघुवंशमहाकाव्ये

प्रकट नहीं होते, उसी प्रकार दशरथ के भाग्य में पुत्रों के रहते हुए भी पुत्रेष्टि यज्ञ रूप कारण की अपेक्षा करने वाले पुत्र भी दशरथ को नहीं उत्पन्न हुए ॥ ३ ॥

ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ॥ ४ ॥

अन्वयः—ऋष्यशृङ्गादयः जितात्मानः ऋत्विजः सन्तानकाङ्क्षिणः तस्य पुत्रीयाम् इष्टिम् आरेभिरे।

ऋष्यशृङ्गेति। ऋष्यशृङ्गादयः ऋष्यशृङ्गो नाम कश्चिदृषिः तदादयः ऋतमृतो वा यजन्तीत्यृत्विजो याज्ञिकाः। 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' इत्यनेन क्यबन्तो निपातः। जितात्मानः जितान्तःकरणाः सन्तः सतामकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम्। "पुत्राच्छ चः' इति छप्रत्ययः। इष्टिं यागमारेभिरे प्रचक्रमिरे।

भाषार्थ—तब ऋष्यशृङ्गादि जितेन्द्रिय और अन्य ऋत्विजों ने सन्तान चाहने वाले राजा दशरथ के लिए पुत्रेष्टि यज्ञ करना आरम्भ किया ॥ ४ ॥

तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम्।
अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥ ५ ॥

अन्वयः—तस्मिन् अवसरे देवाः पौलस्त्योपप्लुताः, (सन्तः) निदाघार्ता अध्वगाः छायावृक्षम् इव हरिं अभिजग्मुः।

तस्मिन्निति। तस्मिन्नवसरे पुत्रकामेष्टिप्रवृत्तिसमये देवाः पुलस्त्यस्य गोत्रापत्यं पुमान्पौलस्त्यो रावणः तेनोपप्लुप्ताः पीडिताः सन्तः निदाघार्ता घर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पन्थाः। "अन्तर्यन्ताध्वदूरपारसर्वानन्तेषु ड" इति डप्रत्ययः। छायाप्रधानं वृक्षं छायावृक्षमिव। शाकपार्थिवादित्वात्समास। हरिं विष्णुमभिजग्मुः।

भाषार्थ—उसी समय रावण के अत्याचार से घबड़ाकर देवता लोग उसी प्रकार भगवान् विष्णु के शरण में गये, जिस प्रकार धूप से व्याकुल होकर पथिक छायादार वृक्ष के नीचे जाते हैं ॥ ५ ॥

ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥ ६ ॥

अन्वयः—ते च उदन्वन्तं प्रापुः च आदिपुरुषः बुबुधे, हि अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेः लक्षणम्।

त इति। ते देवाश्चोदन्वन्तं समुद्रम्। "उदन्वानुदधौ च" इति निपातः। प्रापुः। आदिपुरुषो विष्णुश्च बुबुधे योगनिद्रां जहावित्यर्थः। गमनप्रतिबोधयोरविलम्बार्थो

Page 378Permalink

दशमः सर्गः
३१९

चकार। तथा हि अव्याक्षेपो गम्यस्याव्यासङ्ग अविलम्ब इति यावत् । भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्गं हि । उक्तं च —"अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम् ॥" इति ।

भाषार्थ—देवता लोग ज्यों ही क्षीरसागर में पहुँचे त्यों ही भगवान् विष्णु भी योगनिद्रा से जग उठे । किसी कार्य में विलम्ब न होना पूर्ण होनेवाले कार्य की सिद्धि का शुभ लक्षण है ॥ ६ ॥

भोगिभोगासनासीनं ददृशुस्तं दिवौकसः ।
तत्फणामण्डलादर्चिर्मणियोतितविग्रहम् ॥ ७ ॥

अन्वयः—दिवौकसः भोगिभोगासनासीनम् तत्फणामण्डलादर्चिर्मणियोतितविग्रहम् तम् ( विष्णुम् ) ददृशुः ।

भोगीति । द्योरौको येषां ते दिवौकसो देवाः । पृषोदरादित्वात्साधुः । यद्वा दिवशब्दन्तोऽप्यस्ति । तथा च बुद्धचरिते—"न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ।" इति 'दिवु क्रीडादौ' इति धातोः "इगुपधज्ञाप्रीकिरः कः" इति कः । दिवमोक एषामिति विग्रहः । भोगिनः शेषस्य भोगः शरीरम् । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । स एवासनं सिंहासनं तत्रासीनमुपविष्टम् । आस्ते शानच् 'इदास' इतीकारादेशः । तस्य भोगिनः फणमण्डले य उदचिष उद्रश्मयो मणयस्तैद्योतितविग्रहं विष्णुं ददृशुः ॥ ७ ॥

भाषार्थ—देवताओं ने देखा कि भगवान् विष्णु शेष शय्या पर लेटे हुए हैं और शेष के फणों की किरण मणियों से उनका शरीर और भी अधिक चमक उठा है ॥ ७ ॥

श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥ ८ ॥

अन्वयः—( दिवौकसः कथंभूतं विष्णुं ददृशुः ) पद्मनिषण्णायाः श्रियः क्षौमान्तरितमेखले आस्तीर्णकरपल्लवे अङ्के निक्षिप्तचरणम् ।

श्रिय इति । कीदृशं विष्णुं पद्मे निषण्णाया उपविष्टायाः श्रियं क्षौमान्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन् । आस्तीणौ करपल्लवो पाणिपल्लवौ तस्मिन् । विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते । तस्मिन्नङ्के निक्षिप्तौ चरणौ येन तम् ।

भाषार्थ—देवताओं ने देखा कि कमल पर बैठी हुई लक्ष्मी विष्णु के चरण

Page 379Permalink

३२० रघुवंशमहाकाव्ये

को अपनी गोद में रखकर दबा रही हैं, विष्णु के चरणों में करधनी न चुभे
इसलिए करधनी पर अपनी साड़ी का अंचला बिछाया है। इसपर जब लक्ष्मी
जी को सन्तोष न हुआ तब उन्होंने अंचला पर अपना कर पल्लव रख
दिया ॥ ८ ॥

प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥ ६ ॥

अन्वयः— (पुनः कथंभूतम् ) प्रबुद्धपुण्डरीकाक्षम् बालातपनिभांशुकम् प्रारम्भ-
मुखदर्शनम् शारदम् दिवसम् इव (स्थितम् )।

प्रबुद्धेति। पुनः कीदृशम् । प्रबुद्धे विकसिते पुण्डरीके सिताम्भोजे इवाक्षिणी
यस्य तम् । दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः । बालातपनिभमंशुकं यस्य
तं पिताम्बरधरमित्यर्थः । अन्यत्र बालातपव्याजांशुकमित्यर्थः । 'निभो व्याज-
सदृशयोः' इति विश्वः । प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भाः योगिनः तेषां
सुखदर्शनम् । अन्यत्र प्रारम्भ आदौ सुखदर्शनं शारदं शरत्सम्बन्धिनं दिवसमिव
स्थितम् ।

**भाषार्थ'--**खिले हुए श्वेत कमल के समान नेत्रवाले, प्रातःकाल' की धूप के
समान सुनहले पीताम्बर वस्त्र पहने हुए, आरम्भ सुख देने वाले और देखने में
सुन्दर शरद ऋतु के दिन के समान आनन्द पहले देनेवाले भगवान् विष्णु को
देखा ॥ ९ ॥

प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥ १० ॥

अन्वयः— (पुनः कीदृशम् ? ) प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणं
कौस्तुभाख्यम् अपाम् सारम् बृहता उरसा बिभ्राणम् ।

प्रभेति । पुनः किंविधं प्रभयाऽलिप्तमनुरंजितं श्रीवत्सं नाम लाञ्छनं येन
तं । लक्ष्म्या विभ्रमदर्पणः । कौस्तुभ इत्याख्या यस्य तम् । अपां समुद्राणां सारं
स्थिरांशम् । अम्मयमणिमित्यर्थः । वृहतोरसा विशालवक्षः स्थलेन बिभ्राणम् ।

**भाषार्थं—**विष्णु भगवान् के विशाल वक्षस्थल पर कौस्तुभ मणि चमक
रहा था जिसमें लक्ष्मी जी कभी-कभी शृंगार के समय अपना मुंह देख लिया
करती और जिसकी प्रभाव से भृगु के चरण के प्रहार से बना हुआ श्रीवत्स
चिह्न भी चमक उठता था ॥ १० ॥

बाहुभिर्विटपाकारैर्दिव्याभरणभूषितै ।
आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥ ११ ॥