रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 466 of 735
Read in contextद्वादशः सर्गः ४०७
राघवेति। एका शूर्पवन्नखानि यस्याः सा शूर्पणखा। "पूर्वपदात्संज्ञायामगः" इति णत्वम्। "नखमुखात्संज्ञायाम्" इति ङीप्प्रतिषेधः। सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरादीनां दुष्प्रवृत्तिं वार्त्तां हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत्। 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः। "हरतेरनुद्यमनेऽच्" इत्यच्प्रत्ययः।
भाषार्थ—राम के अस्त्रों से मारे गये उन राक्षसों की मृत्यु का समाचार रावण के पास पहुँचाने के लिए केवल शूर्पणखा ही बच पाई ॥ ५१ ॥
निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु ॥ ५२ ॥
अन्वयः—स्वसुः निग्रहात् आप्तानाम् वधात् च धनदानुजः रामेण दशसु मूर्धसु पदं निहितं मेने।
निग्रहादिति। स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदाप्तानां बन्धूनां खरादीनां वधाच्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने।
भाषार्थ—बहन शूर्पणखा का अपमान और खर, दूषण, त्रिशिरा आदि अपने आप्त बन्धुओं का वध रावण को इतना अपमानजनक जान पड़ा कि मानों राम ने उसके दशों सिरों पर पैर रख दिया हो ॥ ५२ ॥
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५३ ॥
अन्वयः—सः मृगरूपेण रक्षसा तौ वञ्चयित्वा पक्षीन्द्रप्रयासक्षणविघ्नितः ( सन् ) सीतां जहार।
रक्षसेति। स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य। पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः, सन्सीतां जहार।
भाषार्थ—उस रावण ने मारीच को माया से सुवर्ण का मृग बना कर और राम और लक्ष्मण को धोखा देकर सीता का हरण कर लिया। मार्ग में गृद्धराज जटायु कुछ देर लड़ा भी, पर वह सफल न हो सका ॥ ५३ ॥
तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम्।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥ ५४ ॥
अन्वयः—सीतान्वेषिणौ तौ लूनपक्षं गृध्रं कण्ठवर्तिभिः प्राणैः दशरथप्रीतेः अनृणं अपश्यताम्।
ताविति। सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः