Skip to content
SarvaKosh
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

सप्तमः सर्गः २२१

Page 288Permalink

सप्तमः सर्गः २२१

रिपून्घ्नन्तीति रिपुघ्नाः तान्। ''अमनुष्यकर्तृके च'' इति ठक्प्रत्ययः।
बाणान्सुषुव इव सुषुवे किमु इत्युत्प्रेक्षा।

भावार्थ—अज युद्ध में इतनी जल्दी बाण चला रहे थे कि यह पता नहीं चलता था कि उन्होंने कब अपना दाहिना हाथ तरकस पर रखा और कब बाण निकाल कर बायें हाथ से धनुष पर रखा किन्तु ऐसा मालूम पड़ता था कि वे जब कान तक धनुष की डोरी खींचते थे तब उसमें से शत्रुओं का नाश करने वाले बाण बराबर निकलते चले जा रहे हैं ॥ ५७ ॥

स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हुंकारगर्भैर्द्विषतां शिरोभिः ॥ ५८ ॥

अन्वयः—सः रोषदष्टाधिकलोहितोष्ठैः व्यक्तोर्ध्वरेखाः भ्रुकुटीः वहद्भिः भल्लनिकृत्तकण्ठैः हुंकारगर्भैः द्विषतां शिरोभिः गां तस्तार।

स इति। सोऽजः रोषेण दष्टा अत एवाधिकलोहिता ओष्ठा येषां तानि तैः व्यक्ता ऊर्ध्वा रेखा यासां तां भ्रुकुटीभ्रूभङ्गान्वहद्भिः भल्लनिकृत्ता बाणविशेषच्छिन्नाः कण्ठा येषां तैः हुँकारगर्भैः सहुंकारैः हुंकुर्वद्भिरित्यर्थः द्विषतां शिरोभिर्गां भूमिं तस्तार छादयामास।

भावार्थ—जिन राजाओं ने क्रोध से अपने ओठों को चबाकर लाल कर लिया था और जो भौंहें तान-तान कर हुंकार करते हुए आगे बढ़ रहे थे उनके मस्तकों को भाले से काट-काट कर अज ने धरातल को ढँक दिया ॥ ५८ ॥

सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रु र्युधि सर्व एव ॥ ५९ ॥

अन्वयः—सर्व एव भूमिपालाः द्विरदप्रधानैः सर्वैः बलाङ्गैः कङ्कटभेदिभिः सर्वायुधैः, च सर्वप्रयत्नेन च युधि तस्मिन् प्रजह्रुः।

सर्वैरिति। द्विरदप्रधानैर्गजमुख्यै सर्वैर्बलाङ्गैः सेनाङ्गैः । 'हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्' इत्यमरः। कङ्कटभेदिभिः कवचभेदिभिः । 'उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम्' इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह—सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः तं प्रजह्रुरित्यर्थः । सर्वत्र सर्वकारकसंभवात्कर्मणोऽप्याधिकरणविवक्षायां सप्तमी। तदुक्तम्—''अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते ॥'' इति ॥

भावार्थ—सभी राजा सब प्रकार की सेनाओं से, कवच को काट देने वाले

Page 289Permalink

२३० रघुवंशमहाकाव्ये

सब प्रकार के तीक्ष्ण अस्त्रों से और सर्वप्रकार के उपायों द्वारा एक साथ अज पर प्रहार करने लगे ॥ ५९ ॥

सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः ।
नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ ६० ॥

अन्वयः—परेषाम् अस्त्रव्रजैः छन्नरथः सः नीहारमग्नः दिनपूर्वभागः किञ्चित्प्रकाशेन, विवस्वता इव ध्वजाग्रमात्रेण लक्ष्यः बभूव ।

स इति । परेषां द्विषामस्त्रव्रजैः शस्त्रसमुदायैश्छन्नरथः सोऽजः नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकाल किंचित्प्रकाशेनेषल्लक्ष्येण विवस्वतेव आच्छादितरथः ध्वजाग्रमात्रेण लक्ष्यो बभूव । ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ।

भावार्थ—इन राजाओं ने अज पर इतना बाण बरसाया कि उनके अस्त्रों से अज का रथ ढँक गया । जिस प्रकार कुहरे की दिनों में सुबह होने का ज्ञान धुंधले प्रकाश वाले सूर्य को देखकर होता है उसी प्रकार उसके रथ का ज्ञान पताका के सिरे को देखकर ही होता था ॥ ६० ॥

प्रियंवदात्प्राप्तमसौ कुमारः प्रामुङ्क्त राजस्वधिराजसूनुः ।
गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलोलः ॥ ६१ ॥

अन्वयः—अधिराजसूनुः कुसुमास्त्रकान्तः स्वप्ननिवृत्तलौल्यः असौ कुमार प्रियंवदात् प्राप्तं प्रस्वापनं गान्धर्वम् अस्त्रं राजसु प्रामुङ्क्त ।

प्रियंवदादिति । अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नबितृष्णः । जागरूक इत्यर्थः । असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तगान्धर्वं गन्धर्वदेवताकम् । "सास्य देवता" इत्यण् । प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रामुङ्क्त प्रयुक्तवान् ।

भावार्थ—उसके बाद कामदेव के समान सुन्दर सदा सावधान रहने वाले उस रघुकुमार अज ने प्रियम्वद नाम के गन्धर्व से प्राप्त उस प्रस्वापन नामक गान्धर्व अस्त्र को हजारों के ऊपर चलाया जिससे उन्हें नींद आ जाती है ॥६१॥

ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ६२ ॥

अन्वयः—ततः धनुष्कर्षणमूढहस्तं एकांसपर्यस्तशिरस्रजालं ध्वजस्तम्भनिषण्णदेहम्, नरदेवसैन्यं निद्राविधेयं सत् तस्थौ ।

तत इति । ततो धनुष्कर्षणे चापकर्षगे मूढहस्तमव्यापृतहस्तम् एकस्मिन्नंसे