Skip to content
SarvaKosh
Back to the archive

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages
Page 443Permalink

१७०

मुद्राराक्षसम्

राक्षस—अनभ्यमनुरक्तवान् किमयमन्यनारीजनम् ?

पुरुष—[ कर्णौपिधाय ] अज्ज ! सन्त पाव, सन्त पाव । अभूमौ क्खु एसो विणअणिधाणस्स सेट्ठिजणस्स, विसेसदो जिष्णुदासस्स ।
( आर्य ! शान्तं पाप, शान्तं पापम् । अभूमि खल्वेष विनयनिधानस्य वणिग्जनस्य, विशेषतो जिष्णुदासस्य । )

राक्षस — किमस्य भवतो यथा सुहृद एव नाशो विपम् ? ॥१६॥

अन्वय — किम् ओषधपथातिगैः महाव्याधिभि उपहत ? किम् अग्नि-विषकल्पया नरपते क्रुधा निरस्त ? किम् अयम् अनभ्यम् अन्यनारी-जनम् अनुरक्तवान् ? किम् भवत यथा सुहृद नाश एव विपम् ( तथा ) अस्य ? ॥१६॥

व्याख्या—किम्, ओषधपथातिगै—ओषधानां भेषजाना पन्थान वर्म अतिगच्छन्ति अतीत्य वर्तन्ते ये तादृशैः अचिकित्स्यैरिति यावत्, महाव्या-धिभि —भयंकररोगैः, उपहत —प्रपीडित ? किम्, अग्निविषकल्पया—वह्नि-विषतुल्यया, नरपते —राज्ञ , क्रुधा—कोपेन, निरस्त—समाक्षिप्त ? किम्, अय—जिष्णुदास , अलभ्य—दुष्प्राप्यम्, अन्यनारीजनम्—पारश्रियम्, अनुरक्तवान्—आसक्तवान् ? किम्, भवतः—तव, यथा—येन प्रकारेण, सुहृद —मित्रस्य, नाश एव—मरणमेव, विपम्—विनाशकारणं ( तथा ) अस्य—जिष्णुदासस्य ( मित्रान्तरमरणमेव विनाशकारण ) ?

हिन्दी अनुवाद—राक्षस—भद्र ! तो तुम्हारे मित्र का अग्नि मे प्रवेश करने का क्या कारण है ?

क्या ओषधि के मार्ग का अतिक्रमण करने वाले ( अर्थात् अचिकित्स्य ) महान् रोगो से पीडित ( होने के कारण ऐसा कर रहे ) हैं ?

पुरुष—आर्य ! नहीं नहीं ।

राक्षस—क्या अग्नि और विष के तुल्य राजा के क्रोध से ग्रस्त ( होने के कारण ऐसा कर रहे ) हैं ?

पुरुष—आर्य ! पाप शान्तं हो, पाप शान्त हो । चन्द्रगुप्त के राज्य मे क्रूर प्रवृत्ति नहीं है ।

Page 444Permalink

षष्ठोऽङ्कः ३७१

राक्षस—क्या वे दुर्लभ पर-नारी में अनुरक्त ( होने के कारण ऐसा कर रहे ) हैं ?

पुरुष—[ कानों को बन्द करके ] आर्य ! पाप शान्त हो, पाप शान्त हो । यह अत्यन्त विनीत वणिग् जाति, विशेष करके जिष्णुदास के लिए अयोग्य बात है ।

राक्षस—क्या आप की तरह मित्र का विनाश ही उनके विनाश का कारण है ?

टिप्पणी—औषधपथातिगैः—औषधानां पन्थाः औषधपथः 'ऋक्पूरब्धूः'—इत्यनेन समासान्तः अप्रत्ययः । तम् अतिगच्छन्ति इति औषधपथ अति√गम् + ड कर्तरि = औषधपथातिगाः, तैः । अग्निविषकल्पया—अग्निश्च विषञ्च इति अग्निविषे, ताभ्याम् ईषदूना इति अग्निविष + कल्पप् स्त्रियाम्, तया । अनृशंसा—अघातुका । प्रतिपत्तिः--प्रवृत्तिरित्यर्थः । अभूमिः—अविषयः । इस श्लोक में उपमोत्थापित रूपक अलंकार है । इसमें पृथ्वी छन्द है । पृथ्वी का लक्षण यह है—'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' ॥१६॥

पुरुषः—अज्ज ! अध इं ? ( आर्य ! अथ किम् ? )

राक्षसः—[ सावेगमात्मगतम् ] चन्दनदासोऽस्य सुहृदः प्रियसुहृत्, तस्य प्रिसुहृद्विनाश एवाऽग्निप्रवेशहेतुरिति यत् सत्यं समाकुलित एवाऽस्मि सुहृत्स्नेहपक्षपातिना हृदयेन । [ प्रकाशम् ] भद्र ! तस्यापि तव सुहृदः सुचरितं विस्तरेण श्रोतुमिच्छामि ।

पुरुषः—अज्ज ! अदो अबरं ण सक्कणोमि मन्दभाओ मरणस्स विग्धमुप्पादेदुं । ( आर्य ! अतोऽपरं न शक्नोमि मन्दभाग्यो मरणस्य विघ्नमुत्पादयितुम् । )

राक्षसः—श्रवणीयां कथां कथयतु भद्रमुखः ।

पुरुषः—का गदी ? एसो क्खु णिवेदेमि, णिसामेदु अज्जो । ( का गतिः ? एष खलु निवेदयामि, निशामयत्वार्यः । )

राक्षसः—भद्र ! दत्तावधानोऽस्मि ।

Page 445Permalink

३७२ मुद्राराक्षसम्

पुरुष — अत्थि, जाणादि अज्जो, एत्थ णअरे मणिआरसेट्ठी चन्दन-
दासो णाम। ( अस्ति, जानात्यार्य , इह नगरे मणिकारश्रेष्ठी चन्दन-
दामो नाम । )

राक्षस — [सविषादात्मगतम्] एतत्तदपावृतमस्मद्विनाशदीक्षाप्रकाशद्वार
दैवेन। हृदय ! स्थिरीभव, किमपि ते कष्टतरमाकर्णनीयम्। [ प्रकाशम् ]
भद्र ! श्रूयते मित्रवत्सल म साधु । किं तस्य ?

पुरुषः— सो एदस्स जिष्णुदासस्स पिअवअस्सो होदि। ( स एतस्य
जिष्णुदासस्य प्रियवयस्यो भवति । )

राक्षस — [ स्वगतम् ] अयमभ्यर्णः शोकवज्रपातो हृदयस्य [ प्रकाशम् ]
ततस्तत ?

पुरुष— तदो जिष्णुदासेण पिअवअस्सस्स सिणेहसरिस अज्ज
विण्णत्तो चन्दउत्तो । ( ततो जिष्णुदासेन प्रियवयस्यस्य स्नेहमदृशमद्य
विज्ञप्तश्चन्द्रगुप्त । )

राक्षस — कथय किमिति ?

पुरुष — देव ! अत्थि मे गेहे कुटुम्बभरणपज्जत्तो अत्थो। तस्स
विणिमएण मुञ्चिज्जदु मे पिअवअस्सो चन्दनदासो त्ति । ( देव ! अस्ति
मे गृहे कुटुम्बभरणपर्याप्तोऽर्थ । तस्य विनिमयेन मुच्यता मे प्रियवयस्य-
श्चन्दनदास इति । )

हिन्दी अनुवाद—पुरुष— आर्य ! और क्या ?

राक्षस— [ आवेग के साथ मन ही मन ] चन्दनदास इसके मित्र के
प्रिय मित्र हैं, और उसके प्रिय मित्र का विनाश ही अग्नि मे प्रवेश करने का
कारण है। इसलिए सचमुच मित्र-स्नेह के पक्षपाती हृदय से मैं व्याकुल हूँ।
[ प्रकट ] भद्र ! तुम्हारे उस मित्र का भी सुचरित विस्तार से सुनना
चाहता हूँ।

पुरुष— आर्य ! इसके बाद मैं अभागा मृत्यु के विघ्न को उत्पन्न करने में
समर्थ नही हूँ।

राक्षस— भद्रमुख सुनने योग्य क्या को कहे।

Page 446Permalink

षष्ठोऽङ्कः १७३

**पुरुष—**क्या उपाय है ? यह कहता हूँ, आर्य सुनें ।
**राक्षस—**भद्र ! सावधान हूँ ।
**पुरुष—**आर्य जानते होगे कि इस नगर में चन्दनदास नाम के सेठ जौहरी हैं ।
राक्षस—[ विषाद के साथ मन में ] यह तो भाग्य ने मेरे विनाश के उपदेश के आने का मार्ग खोल दिया है। हृदय ! स्थिर हो जाओ। तुम्हें कुछ कष्टदायक ( वचन ) सुनना है । [ प्रकट ] भद्र ! सुना जाता है कि वे सज्जन मित्र के प्रेमी है । उनका क्या हुआ ?
**पुरुष—**वे इन जिष्णुदास के प्रिय मित्र हैं ।
राक्षस—[ मन में ] यह हृदय का शोकरूपी वज्रपात समीप है । [ प्रकट ] तब क्या हुआ ?
**पुरुष—**तब आज जिष्णुदास ने प्रिय मित्र के स्नेह के अनुरूप चन्द्रगुप्त से निवेदन किया ।
**राक्षस—**कहो क्या ?
**पुरुष—**महाराज ! मेरे घर में कुटुम्ब के भरण-पोषण के लिये पर्याप्त धन है । उसे लेकर मेरे प्रिय मित्र चन्दनदास को छोड़ दिया जाय ।

टिप्पणी—सुहृत्स्नेहपक्षपातिना—मित्रानुरागासक्तेन । सुहृदः स्नेहः, तस्मिन् पक्षपातः, सः अस्ति अस्य इतिसुहृत्स्नेहपक्षपात + इनि । विस्तरेण—वि√स्तृ—अप् भावे = विस्तरः; विस्तार शब्दे तु 'प्रथमे वावशब्दे' इति सूत्रेण घञ् प्रत्ययः । अतएव 'वाक्यस्य विस्तरः, 'पटस्य विस्तारः' इत्यादि । तेन । करणे तृतीया । अस्मद्विनाशदीक्षाप्रकाशद्वारम्—अस्मद्विनाशेपदेशागमनमार्गः । अभ्यर्णः—समीपवर्ती । अभि√अर्द् + क्त कर्तरि = अभ्यर्णः वा अभ्यर्दितः ।

राक्षसः— [ स्वगतम् ] साधु जिष्णुदास ! साधु !! अहो ! दर्शितो मित्रस्नेहः । कुतः ?—

पितॄन् पुत्राः पुत्रान् परवदभिहिंसन्ति पितरो
यदर्थं सौहार्दं सुहृदि च विमुञ्चन्ति सुहृदः ।

Page 447Permalink

३७४ मुद्राराक्षसम्

प्रियं मोक्तुं तद्यो व्यसनमिव सद्यो व्यवसित
कृतार्थोऽय सोऽर्थस्तव सति वणिक्त्वेऽपि वणिज ॥१७॥

अन्वयः—यदर्थं पुत्रा पितॄन्, पितरः पुत्रान् परवत् अभिहिंसन्ति, सुहृदः सुहृदि सौहार्दं विमुञ्चन्ति च। सः अयम् अर्थः वणिजः तव वणिक्त्वे सति अपि कृतार्थः, यः ( त्वं ) तत् प्रियं व्यसनमिव सद्यः मोक्तुं व्यवसितः ॥१७॥

व्याख्या—यदर्थं—यस्मै अर्थाय निमित्तं, पुत्रा—सुताः, पितॄन्—जन- कान्, पितर—जनकाः, पुत्रान्—सुतान्, परवत्—रिपव इव, अभिहिंसन्ति—निघ्नन्ति, सुहृद—मित्राणि, सुहृदि—मित्रे, सौहार्दं—मित्रत्व, विमुञ्चन्ति—त्यजन्ति च। सः अय—सर्वातिशयः, अर्थ—धन, वणिज—पण्यजीविनः, तव—भवतः, वणिक्त्वे—वणिक्भावे, सति अपि—विद्यमानेऽपि, कृतार्थ—सफल , य—त्वम्, तत् प्रिये—प्रार्थनीय, वस्तु अर्थमिति यावत्, व्यसन- मिव—दु खमिव, सद्यः—तत्क्षणम्, मोक्तु—हातुं, व्यवसितः—समु- द्युक्तः ॥१७॥

हिन्दी अनुवाद—राक्षस—[ मन में ] वाह जिष्णुदास ! वाह ! ! महा ! मित्र-स्नेह ( तुमने ) दिखा दिया। क्योकि—

जिस ( धन ) के लिए पुत्र पिताओ को और पिता पुत्रो को शत्रु की भाँति मार डालते हैं तथा मित्र मित्र के प्रति मित्रता त्याग देते हैं, वह यह धन वणिक् तुम्हारे वणिक् होने पर भी सार्थक हो गया। जो तुम उस प्रिय ( धन ) को दुःख की भाँति तुरन्त छोड़ने के लिए उद्यत हो गए हो ॥१७॥

टिप्पणी—सौहार्दम्—सुहृदो भाव इति सुहृत् + अण् 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः। वणिक्त्वे सति—अत्र अनादरे सप्तमी। प्रियम्—अत्र सामान्ये नपुंसकम्। इस श्लोक में दो उपमा अलकार, वाक्यार्थ-हेतुक काव्यलिंग अलङ्कार और विरोधाल्कार की संसृष्टि है। इसमें शिखरिणी छन्द है। इस छन्द का लक्षण, १, १३ में देखिए ॥१७॥

[ प्रकाशम् ] भद्र ! ततस्तयाऽभिहितेन सता किं प्रतिपन्नं मौर्येण ?

पुरुष—अज्ज ! तदो एव भणिदेण चन्दणत्तेण प्पडिभणिदो सेट्ठी जिण्णुदासो—'जिण्णुदास ! ण मए अत्थस्स कालणेण सेट्ठी चन्दन-

Page 448Permalink

षष्ठोऽङ्कः । ३७५

दासो संजमिदो, किंतु पच्छादिदो अणेण अमच्चरक्खसस्स घरअणो, बहुसो जाचिदेणावि ण समप्पिदो त्ति ताजइ अमच्चरक्खसस्स घरअणं समप्पेदि, तदो अत्थि से मोक्खो, अण्णधा प्पाणहरो से दण्डो' त्ति भणिअ बज्झट्ठाणं आणिदो चन्दणदासो। तदो 'जाव पिअबअस्सस्स चन्दणदासस्स असुणिदव्वं ण सुणेमि, तावज्जैव अत्ताणं बावादेमि' त्ति ज्जलणे प्वबिसिदुकामो सेट्ठी जिण्णुदासो णअरादो णिग्गदो। अहं वि जाव पिअबअस्सस्स जिण्णुदासस्स असुणिदव्वं ण सुणेमि, ताव उब्बन्धिअ अत्ताणं बावादेमि, त्ति इमं जिण्णुज्जाणं आगदो ह्मि।

( आर्य ! तत एवं भणितेन चन्द्रगुप्तेन प्रतिभणितः श्रेष्ठो जिष्णुदासः—'जिष्णुदास ! न मयाऽर्थस्य कारणेन श्रेष्ठो चन्दनदासः संयमितः, किन्तु प्रच्छादितोऽनेनामात्यराक्षसस्य गृहजनः, बहुशो याचितेनाऽपि न समर्पित इति। तद्यद्यमात्यराक्षसस्य गृहजनं समर्पयति,ततोऽस्त्यस्य मोक्षः, अन्यथा प्राणहरोऽस्यदण्ड' इति भणित्वा वध्यस्थानमानीतश्चन्दनदासः। ततो 'यावत् प्रियवयस्यस्य चन्दनदासस्याश्रोतव्यं न शृणोमि, तावदेवात्मानं व्यापादयामि' इति ज्वलने प्रवेष्टुकामः श्रेष्ठो जिष्णुदासो नगरात्निर्गतः। अहमपि यावत् प्रियवयस्यस्य जिष्णुदासस्याश्रोतव्यं न शृणोमि, तावदुद्बध्यात्मानं व्यापादयामि, इतीदं जीर्णोद्यानमागतोऽस्मि ।)

व्याख्या—ततः—तदनन्तरम्, एवम्—इत्थम्, भणितेन—उक्तेन, चन्द्रगुप्तेन—मौर्येण, श्रेष्ठो जिष्णुदासः प्रतिभणितः—प्रत्युक्तः, 'मया, अर्थस्य—धनस्य, कारणेन—हेतुना, श्रेष्ठो चन्दनदासः, न संयमितः—न बद्धः, किन्तु, अनेन, अमात्यराक्षसस्य, गृहजनः—कलत्रादि, प्रच्छादितः—गोपितः, बहुशः—असकृत्, याचितेनापि—अर्थितेनापि, न समर्पितः—न दत्तः। तत्—तस्मात्, यदि—चेद, अमात्यराक्षसस्य, गृहजनं—परिवारं, समर्पयति—ददाति, ततः—तदा, अस्य—चन्दनदासस्य, मोक्षः—मुक्तिः, ( अस्ति ) अन्यथा—तदसमर्पणे, अस्य—चन्दनदासस्य, प्राणहरः—जीवनाशः, दण्डः—क्लेशः, ( भविष्यति )' इति भणित्वा—एवमुक्त्वा, चन्दनदासः, वध्यस्थानं—मारणभूमिम्, आनीतः—प्रापितः। ततः—तदुत्तरं 'यावत्—यत्कालपर्यन्तं; प्रियवयस्यस्य—प्रियसूहृदः चन्दनदासस्य, अश्रोतव्यम्—अनाकर्णनीयं मरणमिति यावत्, न शृणोमि—

Page 449Permalink

३७६ मुद्राराक्षसम्

न आकर्णयामि, तावदेव—तत्कालपर्यन्तमेव, आत्मान—प्राणान्, व्यापदयामि—विनाशयामि' इति—अतो हेतोः ज्वलन—अग्नौ, प्रवेष्टुकाम—प्रवेषाभिलाषी, श्रेष्ठी, जिष्णुदास , नगरात्—पुरात्, निर्गत —निःसृतः । अहमपि, यावत् प्रियवयस्यस्य, जिष्णुदासस्य, अश्रोतव्य, न शृणोमि, तावत्, उद्वध्य—ऊर्ध्वबन्धन कृत्वा, आत्मान, व्यापदयामि, इति—अतो हेतो, इदम्—एतत्, जीर्णोद्यान—पुरातनोपवनम्, आगतोऽस्मि—प्राप्तोऽस्मि ।

हिन्दी अनुवाद—[ प्रष्ट ] भद्र ! तब उस प्रकार कहे जाने पर चन्द्रगुप्त ने क्या उत्तर दिया ?

पुरुष—आर्य ! तब इस प्रकार कहे जाने पर चन्द्रगुप्त ने सेठ जिष्णुदास को उत्तर दिया—'जिष्णुदाम ! मैंने धन के निमित्त सेठ चन्दनदाम को नहीं बांधा है। किन्तु इसने अमात्य राक्षस के परिवार को छिपा रक्खा है और बहुत कहे-सुने जान पर भी समर्पित नहीं किया । अत, यदि अमात्य राक्षस के परिवार को सौंप देता है तो इसका छुटकारा है, अन्यथा इसका प्राणनाशक दण्ड है' ऐसा कहकर चन्दनदाम को वध्यभूमि में लाया गया है। उसके वाद 'जब तक प्रिय मित्र चन्दनदास के न सुनने योग्य ( समाचार ) को नहीं सुनता हूँ तब तक आत्महत्या कर लेता हूँ'—यह सोचकर अग्नि म प्रवेश करने की इच्छा से सेठ जिष्णुदाम नगर से बाहर निकल गया है। मैं भी जब तक प्रिय मित्र जिष्णुदास का न सुनने योग्य ( ममाचार ) नहीं सुनता हूँ तब तक फासी लगाकर आत्महत्या कर लेता हूँ—इस विचार से जीर्ण उपवन में आया हूँ।

टिप्पणी—अभिहितेन—कथितेन । अभि√धा+क्त कर्मणि, 'दधातेर्हिः' इत्यनेन धा इत्यस्य हि आदेश । प्रतिपन्नम्—प्रत्युक्तम । भणितेन—कथितेन ।√भण्+क्त कर्मणि । अर्थस्य कारणेन—अत्र शेषत्वविवक्षया षष्ठी, अन्यथा 'अर्थेन कारणेन' इति प्रयोगेण भाव्यम् । अथवा √वृ+णिच्+ल्युट् भावे=कारणम् । अर्थस्य यत् कारण=प्रेरणा तेन हेतुना इत्यर्थोऽवसेयः । प्राणहर —प्राणान् हरतीति प्राण√हृ+अच् कतरि अथवा हरतीति हरः प्राणाना हर प्राणहरः ।

राक्षस —न खलु व्यापादितश्चन्दनदास ?

Page 450Permalink

षष्ठोऽङ्कः ३७७

पुरुषः—अज्ज ! ण दाव बावादीअदि । सो क्खु संपदं पुणो पुणो अमच्चरक्खसस्स घरजणं जाचीअदि । ण सो मित्तवच्छलदाए जाची-अन्तो वि तं समप्पेदि । ता एदिणा कालणेण होदि से मरणस्स काल-हरणं । (आर्य ! न तावत् व्यापाद्यते । स खलु साम्प्रतं पुनः पुनरमात्य-राक्षसस्य गृहजनं याच्यते । न स मित्रवत्सलतया याच्यमानोऽपि तं समर्पयति । तदेतेन कारणेन भवत्यस्य मरणस्य कालहरणम् ।)

राक्षसः—[ सहर्षमात्मगतम् ] साधु वयस्य चन्दनदास ! साधु साधु !—

शिवेरिव समुद्भूतं शरणागतरक्षया ।
निचीयते त्वया साधो ! यशोऽपि सुहृदा विना ॥१८॥

अन्वयः—साधो शरणागतरक्षया समुद्भूत शिवेः यश इव त्वया सुहृदा विनाऽपि निचीयते ॥१८॥

व्याख्या—साधो !—सज्जन ! शरणागतरक्षया—शरण रक्षितारम् आग-तस्य प्राप्तस्य ( जनस्य ) रक्षया त्राणेन, समुद्भूतम्—उत्पन्नं, शिवेः—उशीनरदेशाधिपस्य, यश इव—कीर्तिरिव, ( यशः ) त्वया—भवता, सुहृदा—मित्रेण, विनाऽपि—ऋतेऽपि, निचीयते—अर्जयते ॥१८॥

हिन्दी अनुवाद—राक्षस—चन्दनदास को मार तो नहीं दिया ?

पुरुष—मारे नहीं गए हैं । इस समय उनसे बार-बार अमात्य राक्षस का परिवार माँगा जा रहा है । ( किन्तु ) वे मित्र-प्रेम के कारण माँगे जाते हुए भी उस ( अमात्य परिवार ) को नहीं सौंप रहे हैं । सो इस कारण से उनकी मृत्यु का कालक्षेप हो रहा है ।

राक्षस—[ हर्षपूर्वक मन में ] धन्य मित्र चन्दनदास ! धन्य ( हो ) धन्य !—

महात्मन् ! शरण में आये हुए की रक्षा करने से उत्पन्न शिवि के यश के समान ( यश ) तुमने बिना मित्र के भी अर्जित कर लिया ॥१८॥

टिप्पणी—सः गृहजनं याच्यते—यहाँ 'सः' 'याच्यते' का अप्रधान कर्म

Page 451Permalink

३७८ मुद्राराक्षसम्

हे । 'अप्रधाने दुहादीनाम्' इस कारिका के बल से यह उक्त कर्म हो गया है । इसलिए इससे प्रथमा हुई । शरणागतरक्षया—शरण में आये हुए कपोत रूप अग्नि की श्येन रूप इन्द्र से रक्षा करने के कारण । दे० १, २५ की टिप्पणी । सुहृदा विना—तात्पर्य यह है कि शिवि ने शरणागत के समक्ष अपना शरीर दिया था किन्तु तुम-तो शरणागत मेरे परोक्ष में अपना शरीर दोगे, यह आश्चर्य की बात है । इस पद्य में उपमा और व्यतिरेक अलङ्कार की संसृष्टि है । इसमें अनुष्टुप् छन्द है । अनुष्टुप् का लक्षण १, ३ में देखिए ॥१८॥

[ प्रकाशम् ] भद्र ! भद्र !! गच्छ शीघ्रमिदानीं जिष्णुदास ज्वलन-प्रवेशान्निवार्य । अहमपि चन्दनदास मरणान्मोचयामि ।

पुरुष—अथ केण उण उदाएण अज्जो चन्दणदास मरणादो मोचेदि ? ( अथ केन पुनरुपायेनाऽऽर्यश्चन्दनदास मरणान्मोचयति ? )

राक्षस—[ खङ्गमाकृष्ट्य ] नन्वनेन व्यवसायमहासुहृदा निस्त्रिंशेन । ननु पश्य—

निस्त्रिंशोऽयं विगत जलदव्योमसङ्काशमूर्ति-
र्युद्धश्रद्धापुलकित इव प्राप्तसख्य करेण ।
सत्त्वोत्कर्षात् समरनिकषे दृष्टसार परैर्मे
मित्रस्नेहाद् विवशमधुना साहसे मां नियुङ्क्ते ॥१९॥

अन्वय—विगतजलदव्योमसङ्काशमूर्ति समरनिकषे परै दृष्टसारः सत्त्वोत्कर्षात् युद्धश्रद्धापुलकित इव करेण प्राप्तसख्यः, अय मे निस्त्रिशः मित्रस्नेहात् विवशं माम् अधुना साहसे नियुङ्क्ते ॥१९॥

व्याख्या—विगतजलदव्योमसङ्काशमूर्ति—विगतः दूरीभूतः जलदः मेघः यस्मात् तादृशं यत् व्योम गगनं तेन सङ्काशा समाना मूर्तिः रूपं यस्य तादृशः, समरनिकषे—समरः सङ्ग्रामः एव निकष परीक्षणोपलः तस्मिन्, परैः—शत्रुभिः दृष्टसार—दृष्ट अवलोकित अनुभूत इत्यर्थ सार शक्ति यस्य तादृशः, सत्त्वोत्कर्षात्—सत्त्वस्य बलस्य उत्कर्षात् आधिक्यात्, युद्धश्रद्धापुलकित इव—युद्धे रणे या श्रद्धा आदर तथा पुलकित इव सञ्जातर रोमाञ्च इव, करेण—हस्तेन, प्राप्तसख्य—प्राप्त लब्ध सख्य मैत्री येन तादृश , अय—दृश्यमान ,

Page 452Permalink

षष्ठोऽङ्कः ३७६

मे—मम, निस्त्रिंशः—खङ्गः, मित्रस्नेहात्—सुहृदनुरागात्, विवशं—व्यग्रं, माम्—राक्षसम्, अधुना—सम्प्रति, साहसे—पौरुषे युद्धव्यापार इत्यर्थः, नियुङ्क्ते—प्रेरयति ।।१६।।

हिन्दी अनुवाद—[ प्रकट ] भद्र ! भद्र !! शीघ्र जाओ, इस समय जिष्णुदास को अग्नि में प्रवेश करने से रोको। मैं भी चन्दनदास को मृत्यु से छुड़ाता हूँ।

पुरुष—अब फिर किस उपाय से आर्य चन्दनदास को मृत्यु से छुड़ायेंगे ?

राक्षस—[ तलवार खींचकर ] इस पुरुषार्थ रूप महामित्र वाले तलवार से ही। देखो—

मेघनिर्मुक्त आकाश के समान रूप वाली, संग्राम रूपी कसौटी पर शत्रुओं के द्वारा देखी गई शक्ति वाली और बल के आधिक्य के कारण युद्ध विषयक आदर से मानो रोमांचित हाथ के साथ प्राप्त मित्रता वाली यह मेरी तलवार मित्र-प्रेम के कारण विवश मुझको इस समय साहसिक कर्म में नियुक्त कर रही है ।।१६।।

टिप्पणी—ज्वलनप्रवेशात्—अत्र 'वारणार्थानामीप्सितः' इति अपादानत्वात् पञ्चमी। मरणात्—अत्र 'भीत्रार्थानां भयहेतुः' इति अपादानत्वात् पञ्चमी। व्यवसायमहासुहृदा—व्यवसायः पौरुषं महासुहृत् प्रियसखं यस्य स व्यवसायमहासुहृत्, तेन अथवा व्यवसाये पौरुषे महासुहृत् तेन = पौरुषैकसहायेन। यह 'निस्त्रिंशेन' का विशेषण है। वि-अव√सो + घञ् भावे = व्यवसायः। 'निस्त्रिंशेन—असिना। निर्गतः त्रिंशतोऽङ्गुलिभ्यः इति निस्त्रिंशः बहुव्रीहि स०, निर्-त्रिंशत् + डच् समासान्तः 'संख्यायास्तत्पुरुषस्य वाच्यः' इति वार्त्तिकेन। विगतजलद०—अर्थात् निर्मल आकाश की भाँति चमकने वाली। कहीं 'सजलजलद०' पाठ है। इस पाठ में सजल मेघ के समान तलवार की कृष्णता तथा आकाश के समान धार की शुभ्रता विवक्षित है। पुलकित—पुलकः सञ्जातः अस्य इति पुलक + इतच्। विवशम्—वशम् = आयत्तता। विगतं वशम् अस्य इति विवशः, तम् तथाविधम्। साहसे—सहसा कृतं साहसम्, तस्मिन्। 'हिताहितानपेक्षं यत्कर्म तत्साहसं विदुः'। नियुङ्क्ते—नि√युज् + लट् = ते कर्तरि। इस श्लोक में उपमा, उत्प्रेक्षा और रूपक अलंकारों की संसृष्टि है।

Page 453Permalink

३८० मुद्राराक्षसम्

इसमें मन्दाक्रान्ता छन्द है। इस छन्द का लक्षण यह है—'मन्दाक्रान्ता जलधि-षड्गैर्म्भो न तौ नाद्गुरू चेत्' ॥१६॥

पुरुष — अज्ज ! एव सेट्ठिचन्दनदामजीविद होदि त्ति सुणिद, विसमदसाविभाअपरिणामपडिदो ण सक्कणोमि णिच्चिदपद पडिवत्तु। [ विलोक्य पादयोर्निपत्य ] अय मुगिहीदणामधेआ अमच्चरक्खसपादा तुम्हे त्ति ता करेहि मे प्पसाद सदेहणिण्णएण । (आर्य ! एव श्रेष्ठिचन्दनदामजीवित भवतीति श्रुत, विषमदशाविभागपरिणामपतितो न शक्नोमि निश्चितपद प्रतिपत्तुम् । अय सुगृहीतनामधेया अमात्यराक्षसपादा यूयमिति, तत् कुरु मे प्रसाद सन्देहनिर्णयेन ।)

राक्षस — भद्र ! सोऽहमनुभूतभर्तृवंशविनाश सुहृद्विनाशहेतुरनार्यो दुगृहीतनामा यथार्थो राक्षस ।

पुरुष — [ सहर्षं पादयोर्निपत्य ] पसीदध, प्पसीदध । हीमाणहे ! दिट्ठिआ कदत्थोम्हि । (प्रसीदत, प्रसीदत । आश्चर्यम् ! दिष्ट्या कृतार्थोऽस्मि ।)

राक्षस — भद्र ! उत्तिष्ठोत्तिष्ठ, कृतमिदानी कालहरणेन, निवेद्यता जिष्णुदासाय, यथैष राक्षस चन्दनदास मरणान्मोचयति । [ इति 'निस्त्रिंशोऽद्य' इत्यादि पठन् आकृष्टखङ्ग परिक्रामति । ]

**हिन्दी अनुवाद—पुरुष—**आर्य ! इस प्रकार सेठ चन्दनदास का जीवन रह जाएगा, यह सुन लिया । किन्तु सकटपूर्णा अवस्था-विशेष के परिणाम मे निमग्न मै (आपको) निश्चित रूप मे जानने मे समर्थ नही हूँ । [ देखकर पैरो पर गिर कर ] क्या आप प्रात स्मरणीय अमात्य राक्षस हैं ? तो मेरे सन्देह का निर्णय करने की कृपा कीजिये ।

**राक्षस—**भद्र ! वह मै स्वामी के वंश के विनाश का अनुभव करने वाला मित्रो के विनाश का कारण, अनार्य, नाम न लिये जाने के योग्य तथा अर्थ के अनुरूप राक्षस हूँ ।

पुरुष—[ हर्ष के साथ फिर पैरो पर गिर कर ] प्रसन्न हो, प्रसन्न हो । आश्चर्य है ! भाग्य से मैं कृतार्थ हो गया हूँ ।

Page 454Permalink

षष्ठोऽङ्कः ३८१

राक्षस— भद्र ! उठो, उठो । इस समय कालक्षेप करना व्यर्थ है । जिष्णुदास से निवेदन कर दो कि यह राक्षस चन्दनदास को मृत्यु से छुड़ा रहा है । [ 'निस्त्रिंशोऽयम्' इत्यादि ( श्लोक ) पढ़ते हुए तलवार खींचकर घूमता है । ]

टिप्पणी— जीवितं भवति—अत्र भविष्यत्सामीप्ये लट् । भविष्यतीत्यर्थः । **विषमदशाविभागपरिणामपतितः—**असदवस्थाविशेषपरिपाकप्राप्तः । **निश्चितपदम्—**निर्णीतस्थानं त्वामिति शेषः । **प्रतिपत्तुम्—**ज्ञातुम् । **अनुभूतभर्तृ वंशविनाशः—**भर्तुः वंशः, तस्य विनाशः, अनुभूतः भर्तृवंशविनाशः येन सः । **सुहृद्विनाशहेतुः—**सुहृदां कौलूतादीनां सुहृदः चन्दनदासस्य वा यो विनाशः मरणं तस्य हेतुः कारणम् । **दुर्गृहीतनामा—**अपुण्यनामधेया । **यथार्थः—**अन्वर्थः ।

पुरुषः—[ पादयोर्निपत्य ] प्पसीदन्तु प्पसीदन्तु अमच्चरक्खसपादा । अत्थि दाब एत्थ णअरे पढमं चन्दउत्तहदएण अज्जसअड़ासस्स बधो आणत्तो । सो अ केणाबि बज्झट्ठाणादो अबहरिअ, देसन्तरं अब्बाहिदो । तदो चन्दउत्तहदएण कीस प्पमादो किदो त्ति अज्जसअड़ासबधबज्जणाए समुज्जलिदो रोसग्गो घादअजणबधजलेण णिब्बाबिदो । तदो पहुदि घादआ जं कं पि गहीदसत्थं अपुव्वं पुरुसं अग्गदो पच्चादो बा पेक्खन्ति, तदो अद्धबधे ज्जेब अत्तणो जीबिदं परिरक्खन्तो अप्पमत्ता एदे अबाप्तबज्झट्ठाणं बज्झं बाबादेन्ति । ता एव्वं गहीदसत्थेहिं अमच्चपादेहिं तर्हि गच्छन्तेहिं सेट्ठिचन्दणदासस्स बहो तुबराइदो होदि । (प्रसीदन्तु प्रसीदन्त्वमात्यराक्षसपादाः । अस्ति तावदत्र नगरे प्रथमं चन्द्रगुप्तहतकेनाऽऽर्यशकटदासस्य वध आज्ञप्तः । स च केनापि वध्यस्थानादपहृत्य देशान्तरमपवाहितः । ततश्चन्द्रगुप्तहतकेन 'कस्मात् प्रमादः कृतः ?' इति आर्यशकटदासवधवञ्चनया समुज्ज्वलितो रोषाग्निर्घातकजनवधजलेन निर्वापितः । ततः प्रभृति घातका यं कमपि गृहीतशस्त्रम् अपूर्वं पुरुषमग्रतः पश्चाद्वा प्रेक्षन्ते, तदार्धपथे एवात्मनो जीवितं परिरक्षन्तोऽप्रमत्ता एतेऽप्राप्तवध्यस्थानं वध्यं व्यापादयन्ति । तस्मादेवं गृहीतशस्त्रैरमात्यपादैस्तत्र गच्छद्भिः श्रेष्ठिचन्दनदासस्य वधस्त्वरायितो भवति । )

[ इति निष्क्रान्तः । ]

Page 455Permalink

३८२ | मुद्राराक्षसम्

व्याख्या—पादयोः—चरणयोः, निपत्य—पतित्वा पादौ प्रणम्येत्यर्थः । प्रथमम्—पूर्वम्, चन्द्रगुप्तहतकेन—कुत्सितेन मौर्य्येण, आर्यशकटदासस्य, वधः—हत्या, आज्ञप्त—आदिष्टः । स च—शकटदासः, केनापि—अज्ञातेन पुरुषेण, वध्यस्थानात्—प्राणनिपातस्थानात्, अपहृत्य—आदाय, देशान्तरम्—अन्यदेशम्, अपवाहितः—प्रापितः । ततः—तदनन्तरम्, चन्द्रगुप्तहतकेन, ‘कस्मात्—कुतः कारणात्, प्रमादः अनवधानता, कृत—विहितः ?’ इति—एतदुक्त्वा, आर्यशकटदासवधवञ्चनया—पूज्यशकटदासमारणप्रतारणया, समुज्ज्वलितः—प्रदीप्तः, रोषाग्निः—क्रोधवह्निः, घातकजनवधजलेन—मारकजनहत्यावारिणा, निर्वापित—शमितः । ततः प्रभृति—तत आरभ्य, घातकाः—मारकाः, यं कमपि, गृहीतशस्त्रम्—आयुधधारिणम्, अपूर्वम्—अदृष्टपूर्वम्, पुरुष—जनं, प्रेक्षन्ते—पश्यन्ति, तदा, अर्धपथे एव—वधमार्गे एव, आत्मानम्—स्वस्य, जीवित—जीवनं, परिरक्षन्तः—परित्रायमाणाः, अप्रमत्ताः—सावधाना (सन्तः), एते—घातकाः, अप्राप्तवधस्थानम्—अनवाप्तमारणप्रदेशं, वध्य—वधाहं पुरुषमिति शेषः, व्यापादयन्ति—मारयन्ति । तस्मात्—ततः, एवम्—इत्थं, गृहीतशस्त्रैः—आयुधविशिष्टैः, अमात्यपादैः—मन्त्रिचरणैः, तत्र—वध्यस्थाने, गच्छद्भिः—प्राप्नुवद्भिः, श्रेष्ठिचन्दनदासस्य, वध—हत्या, त्वरायितः—शीघ्र येण कृतं, भवति—स्यात् ।

हिन्दी अनुवाद—पुरुष—[पैरों पर गिरकर] पूज्यचरण अमात्य राक्षस प्रसन्न हों, प्रसन्न हों। इस नगर में पहले दुष्ट चन्द्रगुप्त ने आर्य शकटदास के वध की आज्ञा दी थी। किन्तु उसको किसी ने वध्य-स्थान से अपहृत करके दूसरे देश में पहुँचा दिया। तदनन्तर दुष्ट चन्द्रगुप्त ने ‘किस कारण ऐसी असावधानी हुई?’ यह कहकर पूज्य शकटदास के वध में हुई वञ्चना से धधकती हुई क्रोधाग्नि को वधिकों की (ही) हत्या रूपी जल से बुझा डाला। तब से लेकर वधिक लोग शस्त्र धारण किए हुए जिस किसी अजनबी व्यक्ति को आगे या पीछे देख लेते हैं, उस समय अपने जीवन की रक्षा करते हुए सावधान ये (वधिक) वध्यस्थान में बिना पहुँचे मारने योग्य व्यक्ति को आधे रास्ते में ही मार डालते हैं। इसलिए इस प्रकार शस्त्र धारण करके वहाँ जाते हुए अमात्यचरण के द्वारा सेठ चन्दनदास का वध शीघ्रतायुक्त हो जाएगा।

Page 456Permalink

षष्ठोऽङ्कः ३८३

[ बाहर चला जाता है । ]

टिप्पणी—चन्द्रगुप्तहतक्रेन, आर्यशकटदासस्य—इन दोनों पदों में 'हतक' तथा 'आर्य' शब्द जोड़कर वह दिखलाना चाहता है कि मैं नन्दवंश के प्रति अनुरक्त हूँ । त्वरायितः—देखिए टिप्पणी अंक ५ श्लोक ६ के आगे ।

राक्षस०—[ स्वगतम् ] अहो ! दुर्बोधश्चाणक्यवटोंनीतिमार्गः । कुतः ?—

यदि स शकटो नीतः शत्रोर्मतेन ममान्तिकं
किमिति निहतस्तेन क्रोधाद् वधाधिकृतो जनः ? ।
अथ न कृतकं तादृक्कष्टं कथं नु विभावये-
दिति मम मतिस्तर्कारूढा न पश्यति निश्चयम् ॥२०॥

अन्वयः—स शकटः यदि शत्रोः मतेन ममान्तिकं नीतः (तर्हि) तेन क्रोधात् वधाधिकृतः जनः किमिति निहतः ? अथ कृतक न, तादृक् कष्ट कथ नु विभावयेत् ? इति मम मतिः तर्कारूढा निश्चयं न पश्यति ॥ २० ॥

व्याख्या—सः—मम मित्रं, शकटः—शकटदासः, यदि—चेत्, शत्रोः—रिपोः, मतेन—आज्ञया, मम—मे, अन्तिकं—समीपं, नीतः—प्रापितः (तर्हि), तेन—कौटिल्येन, चन्द्रगुप्तेन वा, क्रोधात्—कोपात्, वधाधिकृतः—वधे हनने अधिकृतः नियोजितः, जनः—लोकः, किमिति—कुतः, निहतः—व्यापादितः ? अथ—पक्षान्तरे, कृतकं न—मिथ्या न ( अपि तु यथार्थमेव पर्यवसन्न तदात्वे ) तादृक्—यथाविध, कष्टं—विषममनुष्ठानं स्वहस्तलेखमुद्राङ्कनादिरूपमिति यावत् कथं नु—केन वा प्रकारेण, विभावयेत्—चिन्तयेत् ?, इति—इत्थम्, मम—मे, मतिः—बुद्धिः, तर्कारूढा—ऊहे प्रवृत्ता ( सती ), निश्चय—सिद्धान्तं, न पश्यति—नाधिगच्छति ॥ २० ॥

हिन्दी अनुवाद—राक्षस—[ मन में ] ओह ! दुष्ट चाणक्य की नीति का मार्ग समझने में कठिन है । क्योंकि—

यह शकटदास यदि शत्रु की अनुमति से मेरे समीप पहुँचाया गया तो उस ( शत्रु ) ने क्रोध से वध करने में नियुक्त व्यक्ति को क्यो मार दिया ? और यदि ( शकटदाससम्बन्धी बात ) बनावटी नहीं है तो वैसा कष्टपूर्ण ( कूटलेख,

Page 457Permalink

३८४ | मुद्राराक्षसम्

मुद्राङ्कन आदि ) कार्य क्यो सोचता ? इस प्रकार मेरी बुद्धि तर्क वितर्क में संलग्न होती हुई निश्चय नहीं कर पा रही है ॥ २० ॥

टिप्पणी—यदि स इस श्लोक में चाणक्य की नीति की दुर्बोधता दिखाई गई है। यदि शकटदास का जान-बूझकर राक्षस के पास पहुँचाया गया तो वधिकों को मरवाने की क्या आवश्यकता थी ? और यदि शकटदास यथार्थ रूप में भागकर गया था तो उसने कूटपत्र लिखकर स्वामी का द्रोह जैसा कुत्सित कर्म क्यो किया ? यहाँ पाठक यह न समझ बैठे कि वाधकों को मरवाने की बात सही ही होगी। कारण वह पुरुष चाणक्य का गुप्तचर है। वह राक्षस को भुलावा देने के लिए ऐसी बात गढ़ सकता है। इस प्रसंग में एक बात और ध्यान देने योग्य है कि मलयकेतु के यहाँ राक्षस के साथ जो घटना घटित हुई, उसके उपरान्त राक्षस ने अपने परम विश्वासपात्र शकटदास से उस कूटपत्र के सम्बन्ध में क्यों नहीं पूछा ? इस पद्य में वाक्यार्थहेतुक काव्यलिङ्ग अलंकार है। इसमें शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥ २० ॥

[ विचिन्त्य ] तस्मात्—

नायं निस्त्रिंशकालः प्रथममिह कृते घातकानां विघाते
नीतिः कालान्तरेण प्रकटयति फलं किं तया कार्यमत्र ? ।
औदासीन्यं न युक्तं प्रियसूहृदि गते मत्कृते चातिघोरां
व्यापात्तिं ज्ञातमस्य स्वतनूमहमिमां निष्क्रयं कल्पयामि ॥ २१ ॥

[ इति निष्क्रान्ताः सर्वे । ]

॥ इति षष्ठोऽङ्कः ॥

अन्वय — इह प्रथमं घातकानां विघाते कृते अयं निस्त्रिंशकालः न। नीतिः कालान्तरेण फलं प्रकटयति, अत्र तया किं कार्यम् ? प्रियसूहृदि मत्कृते अति घोरं व्यापत्तिं गते औदासीन्यं च न युक्तम्। ज्ञातम्—अहम् इमां स्वतनूम् अस्य निष्क्रयं कल्पयामि ॥ २१ ॥

व्याख्या — इह—अस्मिन् चन्दनदासमोचनकर्मणि, प्रथम-पूर्वं चन्दनदासस्य मोचनात् पूर्वमित्यर्थः, घातकानां—घातकैरित्यर्थः, ( चन्दनदासस्य ) विघाते—विनाशे, कृते—विहिते ( सति ), अयम्—एषः, निस्त्रिंशकालः—खड्ग-

सप्तमोऽङ्कः (राक्षसग्रहण व भारतवाक्य)

Page 458Permalink

षष्ठोऽङ्कः ३८५

खड्गवारणसमयः, न—नहि ( विद्यते )। नीतिः—नयः खड्गवारणविषयेत्यर्थः, कालान्तरेण—समयान्तरेण, फलं—सिद्धिं, प्रकटयति—दर्शयति । अत्र—अस्मिन् चन्दनदासमोचनकर्मणि, तया—नीत्या, किं कार्यम्—न किमपीत्यर्थः । प्रियसुहृदि—प्रियमित्रे चन्दनदासे, मत्कृते—मदर्थम्, अतिघोराम्—अतिदारुणां, विपत्तिं—विपदं, गते—प्राप्ते ( सति ), औदासीन्यं च—तटस्थतं-यावस्थानमपि, न युक्तं—नोचितम् । ज्ञातम्—कर्त्तव्यं मया अवधारितम्, अहम्—राक्षसः, इमाम्—एताम्, स्वतनूं—निजशरीरम्, अस्य—चन्दनदासस्य, निष्क्रयं—मूल्यं, कल्पयामि—उपस्थापयामि ॥२१॥

हिन्दी अनुवाद—[ सोचकर ] इसलिए—

यहाँ ( चन्दनदास के छुड़ाने के विषय में ) पहले ( ही ) बधिकों के द्वारा ( चन्दनदास के ) वध कर दिये जाने पर यह तलवार ( उठाने ) का समय नहीं है । नीति का प्रयोग कालान्तर में फल प्रकट करता है । यहाँ उससे क्या प्रयोजन ? प्रिय मित्र ( चन्दनदास ) के मेरे लिए अत्यन्त दारुण विपत्ति को प्राप्त हो जाने पर उदासीन होना भी उचित नहीं है । समझ लिया ( अर्थात् मैंने अपना कर्त्तव्य निश्चित कर लिया ) कि मैं इस अपने शरीर को उस ( चन्दनदास के छुटकारे ) का मूल्य बनाता हूँ ॥२१॥

[ सभी ( पात्र ) चले जाते हैं । ]

॥ छठा अंक समाप्त ॥

टिप्पणी—घातकानाम्—अत्र कृद्योगे कर्तरि षष्ठी । अतएव 'घातकों के द्वारा' ऐसा अर्थ करना चाहिए । कालान्तरेण—अन्तरम् = अवकाशः । कालस्य अन्तरम्, तेन । अपवर्गे तृतीया । मत्कृते—मम कृते = अर्थे । 'कृते' एक अव्यय है । निष्क्रयम्—मूल्य । निष्क्रीयते अनेन इति निर् वा निस्√क्री+अच् करणे = निष्क्रयः । इस पद्य में परिवृत्ति नामक अलंकार तीन काव्यलिंग अलंकारों से उज्जोजित है । इसमें स्रग्धरा छन्द है । स्रग्धरा का लक्षण, १, १ में देखिए ॥२१॥


मु० रा०—२५

Page 459Permalink

३८६ | मुद्राराक्षसम्

सप्तमोऽङ्क

[ तत प्रविशति चण्डाल । ]

चाण्डाल —ओसलध अज्जा ! ओसलध, अवेध माणहे ! अवेध—
( अपसरत आर्या. ! अपसरत, अपेत मान्या ! अपेत—)

जइ लक्खिदु मणद्ध प्पाणे, विहवे, कुल कलत्ते अ ।
परिहरध ता विस विअ लाआपत्थ पअत्तेण ॥१॥
( यदि रक्षितु मन्यध्व प्राण, विभव, कुल, कलत्र च ।
परिहरत तस्माद् विषमिव राजापथ्य प्रयत्नेन ॥१॥)

अन्वय —यदि प्राण विभव कुल कलत्र च रक्षितु मन्यध्वम्, तस्माद प्रयत्नेन विषमिव राजापथ्य परिहरत ॥१॥

व्याख्या—यदि—चेत्, प्राणम्—आत्मान, विभव—धन, कुल—वश, कलत्र च—दाराश्च, रक्षितु—परित्रातु, मन्यध्वम्—इच्छत यूयमिति शेष , तस्मात्—ततो हेतो , प्रयत्नेन—प्रयासेन, विषमिव—गरलमिव, राजापथ्य—नृपाहित, परिहरत—दूरे त्यजत ॥१॥

हिन्दी अनुवाद—[ तदनन्तर चाण्डाल प्रवेश करता है । ]
चाण्डाल—सज्जनो ! हटो, हटो । मान्यो ! हटो, हटो—

यदि प्राण, धन, कुल और स्त्री की रक्षा करना चाहते हो तो विष के समान राज-द्रोह से यत्नपूर्वक बचो ॥१॥

टिप्पणी—छठे अक तक में अमात्य राक्षस को वश मे करने का मुख्य कार्य सम्पन्न हो चुका है, अब अमात्य राक्षस को चन्द्रगुप्त का अमात्य बनाकर उसकी राज्यलक्ष्मी की स्थिरता सम्पादनरूप नाटक के उत्कृष्ट फल को प्राप्त कराने के लिये सातवें अक का प्रारम्भ किया जा रहा है । यदि रक्षितुम् इस पद्य में व्यतिरेक अलकार हे और आर्या छन्द है । आर्या का लक्षण १, १ में देखिये ॥१॥

अविअ—( अपि च— )

होदि पुलिसस्स व्वाहो मलण बा सेविदे अपत्येवि ।
लाआपत्थे उण सेविदे समन्त वि कुल मलदि ॥२॥

Page 460Permalink

सप्तमोऽङ्कः ३८७

(भवति पुरुषस्य व्याधिर्मरणं वा सेविते अपथ्येऽपि।
राजापथ्ये पुनः सेविते हि सकलमपि कुलं म्रियते ॥२॥)

अन्वयः—अपथ्ये अपि सेविते पुरुषस्य व्याधिः वा मरणं भवति, पुनः राजापथ्ये सेविते हि सकलमपि कुलं म्रियते ॥२॥

व्याख्या—अपथ्ये अपि—अहितकरे अपि ( वस्तुनि ), सेविते—भुक्ते ( सति ), पुरुषस्य—जनस्य, व्याधिः—रोगः, वा—अथवा, मरणं—मृत्युः, भवति—जायते, पुनः—भूयः, राजापथ्ये--नृपानिष्टकरे ( वस्तुनि ), सेविते—भुक्ते ( सति ), हि—निश्चयेन, सकलमपि—समग्रमपि, कुलं—वंशः, म्रियते—विनश्यति ॥२॥

हिन्दी अनुवाद—और भी—अपथ्य ( वस्तु ) के भी सेवन से मनुष्य को रोग या मृत्यु होती है, फिर राज-द्रोह करने से सम्पूर्ण कुल का भी निश्चित रूप से नाश हो जाता है ॥२॥

टिप्पणी—भवति पुरुषस्य............इस पद्य में व्यतिरेकालंकार है और द्वितीय प्रतीपालंकार की ध्वनि है। इसमें भी आर्या छन्द है ॥२॥

ता जइ ण प्पत्तिआअध, तदा पेक्खध एणं लाआपत्थकारिणं सेट्ठिचन्दणदासं बज्झट्ठाणं आणिअमाणं सपुत्तकलत्तं। [आकाशे] अज्जा ! किं भणाध ? अत्थि किं चन्दनदासस्स मोक्खोबाओ त्ति ? कुदो से अधणस्स मोक्खोबाओ ? एदं उण अत्थि—सो जइ अमच्चरक्खसस्स घरअणं समर्प्पेदि। [पुनराकाशे] किं भणाध ? एसे सरणागदवच्छले अत्तणो जीविदस्स कारणेण ईरिसं अकज्जं ण करिस्सदि त्ति ? अज्जा ! जइ एव्वं, त्तेण हि अबधाणेध से सुभगदिं। किं दाणीं तुह्माणे प्पडीआल-बिआरेण ? (तद्यदि न प्रत्ययध्वं, तदा प्रेक्षध्वमेनं राजापथ्यकारिणं श्रेष्ठिचन्दनदास वध्यस्थानमानीयमानं सपुत्रकलत्रम् । आर्याः ! किं भणथ ? अस्ति किं चन्दनदासस्य मोक्षोपाय इति ? कुतोऽस्याधन्यस्य मोक्षोपायः ? एतत् पुनरस्ति—स यद्यमात्यराक्षसस्य गृहजनं समर्पयति । किं भणथ ? एष शरणागतवत्सल आत्मनो जीवितस्य कारणेनेदृशमकार्यं न करिष्यतीति ? आर्याः ! यद्येवं, तेन ह्यवधत्तास्य शुभगतिम् । किमि-दानीं युष्माकं प्रतीकारविचारेण ? )

Page 461Permalink

१८८ मुद्राराक्षसम्

व्याख्या—तत्—मदुक्तवचन, यदि—चेत्, न—नहि, प्रत्ययध्वम्—विश्वसित, तदा—तर्हि, एनम्—अमुम्, राजापथ्यकारिणम्—नृपानिष्टविधायिन, वध्यस्थानम्—प्राणदण्डभूमिम्, आनीयमान—प्राप्यमाण, सपुत्रकलत्रम्—सुतस्त्रीसहित, श्रेष्ठिचन्दनदास, प्रेक्षध्वम्—पश्यत । आर्या !—पूज्याः, किं भणथ—किं कथयत ? चन्दनदासस्य, मोक्षोपाय—मुक्तिप्रकारः, किम्, अस्ति—विद्यते ? कुत—कस्मात्, मोक्षोपाय—मुक्तिप्रकार नास्तीत्यर्थः । सः—चन्दनदास , यदि—चेत्, अमात्यराक्षसस्य, गृहजन—परिवार, समर्पयति—ददाति, एतत् पुनरस्ति—एष मोक्षोपायो विद्यते । पुन—भूयः, आकाशे—गगने, ( सन्निधापितनेत्र सन् ब्रवीतीत्यर्थ ) किं भणथ—किं ब्रूथ, एष—असौ, शरणागतवत्सल—शरणापन्नेषु अनुरागवान्, आत्मनः—स्वस्य, जीवितस्य—जीवनस्य, कारणेन—हेतुना, ईदृशम्—एतादृशम्, अकार्यं—राक्षसपरिवारसमर्पणरूप कुत्सित कर्मेत्यर्थ , न करिष्यति—न विधास्यति । आर्या !, यद्येव—चन्दनदासः राक्षसपरिवारसमर्पण न करिष्यति इति चेत्, तेन हि—तर्हीत्यर्थ , अस्य—चन्दनदासस्य, शुभगतिम्—सद्गतिम्, अवघत—जानीत । इदानीम्—साम्प्रतम्, युष्माक—भवता, प्रतीकारविचारेण—मोक्षोपायचिन्तनेन, किम्—न किमपीत्यर्थ ।

हिन्दी अनुवाद—इसलिये यदि विश्वास न करो तो इस राजद्रोही सेठ चन्दनदास को स्त्री-पुत्र समेत वध्य-भूमि पर ले जाते हुए देखो [ आकाश की ओर ( देखते हुये ) ] सज्जनो ! क्या कहते हो ? क्या चन्दनदास के छुटकारे का ( कोई ) उपाय है ? इस अभागे के छुटकारे का उपाय कहाँ से हो सकता है ? यदि वह अमात्य राक्षस के परिवार को सौंप देता है तो यह छुटकारे का उपाय हो सकता है। [ पुन आकाश की ओर देखते हुये ] क्या कहते हो ? क्या यह शरण मे आये हुये का प्रेमी ( सेठ चन्दनदास ) अपने जीवन के निमित्त ऐसा कुत्सित कार्य नही करेगा ? सज्जनो ! यदि ऐसी बात है तो इस ( चन्दनदास ) की सद्गति मनाओ। अब तुम्हारे प्रतीकार ( छुटकारे का उपाय ) सोचने से क्या ( लाभ ) ?

टिप्पणी—जीवितस्य कारणेन—जीवितस्य यत् कारण प्रेरणा, तेन इत्यपि व्याख्यातुं शक्यते। शुभगतिम्—इसका बाह्य अर्थ है—शरणागत की

Page 462Permalink

सप्तमोऽङ्कः ३८६

रक्षा करने के कारण स्वर्ग लोक की प्राप्ति और गूढ़ अर्थ है—अमात्य राक्षस के द्वारा बंधन से मुक्त हो जाने के कारण कल्याण की प्राप्ति।

[ ततः प्रविशति द्वितीयचण्डालानुगतो वध्यवेषधारी शूलस्कन्धमादाय, कुटुम्बिन्या पुत्रेण चानुगम्यमानश्चन्दनदासः। ]

चन्दनदासः—हद्धी ! हद्धी !! अह्णारिसाणं बि कध णित्तचारित्त-भङ्गभीरुणं चोरजणोचिद मलणं पत्त त्ति। णमो किदन्तस्स। अहवा ण णिसंसाणं उदासीणेसु इदरेसु वा बिसेसो अत्थि। तथा हि—(हा धिक्, हा धिक् !! अस्मादृशानामपि कथं नित्यचारित्रभङ्गभीरूणां चौरजनानामिव मरणं प्राप्तमिति। नमः कृतान्तस्य। अथवा न नृशंसानामुदासीनेष्वितरेषु वा विशेषोऽस्ति। तथा हि—)

मौहूण आमिसाईं मलणभएण तिणेहिं जीवन्तम् ।
बाहाणं मुद्धहरिणं हन्तुं को णाम णिब्बन्धो ? ॥३॥
(मुक्त्वा आमिषाणि मरणभयेन तृणैर्जीवन्तम् ।
व्याधानां मुग्धहरिणं हन्तुं को नाम निर्बन्धः ? ॥३॥)

अन्वयः—मरणभयेन आमिषाणि मुक्त्वा तृणैः जीवन्तम् मुग्धहरिणं हन्तुं व्याधानां को नाम निर्बन्धः ? ॥३॥

व्याख्या—मरणभयेन—मरणात् मृत्योः भयेन भीत्या, आमिषाणि—मांसानि, मुक्त्वा—त्यक्त्वा, तृणैः—शष्पैः, जीवन्तं—प्राणान् धारयन्तं, मुग्धहरिणं—मुग्धं सरलस्वभावं हरिणं मृगं, हन्तुं—व्यापादयितुं, व्याधानां—किरातानां, को नाम निर्बन्धः—कः आग्रहातिशयः ? ॥३॥

हिन्दी अनुवाद—[ तदनन्तर दूसरे चण्डाल के साथ वध के योग्य वेश धारण किये हुए तथा शूल को कंधे पर लेकर पत्नी और पुत्र से अनुसरण किये जाते हुए चन्दनदास का प्रवेश। ]

चन्दनदास—हाय धिक्कार है ! हाय धिक्कार है !! कैसे निरन्तर चरित्र के दोष से डरते रहने वाले हम सरीखे (लोगों) को भी चोर मनुष्यों की तरह मृत्यु प्राप्त हुई ? यमराज को नमस्कार है। अथवा निर्दयी व्यक्तियों के लिए