Skip to content
SarvaKosh
Back to the archive

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

तृतीयोऽङ्कः (कृतककलह)

Page 251Permalink

१६२ मुद्राराक्षसम्

हिन्दी अनुवाद—पुरुष—[ प्रवेश करके ] अमात्य की जय हो । अमात्य ! शकटदास निवेदन करते हैं कि ये तीन विशिष्ट आभूषण बेचे जा रहे हैं, अतः अमात्य ( इन्हें ) देख लें ।

राक्षस—[ देखकर मन में ] अहा ! आभूषण तो बहुमूल्यक हैं । [ प्रकट ] भद्र ! शकटदास से कहो कि विक्रेता को सन्तुष्ट करके (ये आभूषण) ले ले ।

पुरुष—अमात्य की जो आज्ञा ।

[बाहर चला जाता है ।]

राक्षस—[ मन में ] तब तक मैं भी करभक को कुसुमपुर भेजता हूँ । [ उठकर ] क्या दुष्ट चाणक्य से चन्द्रगुप्त अलग होगा, अथवा मैं (अपने) अभीष्ट को सिद्ध हुआ ही देखता हूँ । क्योंकि—

चन्द्रगुप्त सभी राजाओं का शासक होता हुआ प्रभाव में है । चाणक्य भी मेरी सहायता से यह राजा बना है—इस अभिमान में चूर है । राज्य पा जाने से कृतार्थ एक ( चन्द्रगुप्त ) को और प्रतिज्ञारूपी सागर को पार कर लेने वाले दूसरे ( चाणक्य ) को कृतकृत्यता ही समय पाकर निःसन्देह मित्रभाव से अलग कर देगी ॥ २३ ॥

[सभी ( पात्र रंगमंच पर से ) चले जाते हैं ।]
॥ राक्षस विचार नामक दूसरा अंक समाप्त ॥

टिप्पणी—अलङ्कारविशेषा —अलङ्क्रियते एभि इति अलम्√कृ+घञ् करणे=अलङ्काराः, तेषां विशेषाः । महार्हाणि—बहुमूल्यक अर्ह्यते पूज्यते इति √अर्ह्+घञ् कर्मणि=अर्हः । महान् अर्हः एषाम् इति महार्हाः । कुसुमपुराय—कुसुमपुरम् अभिलक्ष्य । अत्र 'क्रियार्थोपपदस्य'—इति सूत्रेण कर्मणि चतुर्थी । भिद्येत—वैमनस्यं प्राप्नुयादित्यर्थः । √भिद्+लिङ्—ईत कर्मणि । अयं सम्भावनायां लिङ् । यहाँ चन्द्रगुप्त और चाणक्य में फूट पड़ जाने की सम्भावना करके राक्षस 'आशा बलवती राजन् शल्यो जेप्यति पाण्डवान्' इस न्याय से चन्द्रगुप्त के वध के प्रति प्रयत्नशील हो जाता है । समीहितम्—अभिलषितम् । सम्√ईह्+क्त भावे । सर्वभूतलभुजाम्—सभी राजाओं का ।

Page 252Permalink

तृतीयोऽङ्कः | १६३

भूतलं भुञ्जन्ति रक्षन्ति इति भूतल-√भुज् + क्विप् कर्तरि = भूतलभुजः । सर्वे च ते भूतलभुजः सर्वभूतलभुजः, तेषाम् कृद्योगे कर्मणि षष्ठी । आज्ञापकः—आज्ञा देने वाला, शासन करने वाला । आ-√ज्ञा + णिच्, पुक् आगम + ण्वुल्—अक । कृतकृत्यता—कृतार्थता, निरपेक्षता । कृतं कृत्यम् अनेन इति कृतकृत्यः । तस्य भावः इति कृतकृत्य + तल्—टाप् । सौहार्दात्—शोभनं हृदयमस्य इति सुहृत् । सुहृदो भावः इति सुहृद् + अण् 'हायनान्तयुवादिभ्योऽण्' इत्यनेन ततः 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्यनेन उभयपदवृद्धिः = सौहार्दम्, तस्मात् । इस श्लोक मे यथासंख्य नामक अलंकार है और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ २३ ॥

इस प्रकार 'प्राप्त्याशा' अवस्था और 'पताका' अर्थप्रकृति के बीच की स्थिति रूप गर्भसन्धि के बारह अंगो का निरूपण हुआ और गर्भसन्धि समाप्त हुई ।


तृतीयोऽङ्कः

[ ततः प्रविशति कञ्चुकी ]

कञ्चुकी— [ सनिर्वेदम् ]

रूपादीन् विषयान् निरूप्य करणैर्यैरात्मलाभस्त्वया
लब्धस्तेष्वपि चक्षुरादिषु हताः स्वार्थावबोधक्रियाः ।
अङ्गानि प्रसभं त्यजन्ति पटुतामाज्ञाविधेयानि ते
न्यस्तं मूर्ध्नि पदं तवैव जरया तृष्णे ! मुधा माद्यसि ॥१॥

**अन्वयः—**तृष्णे ! मुधा माद्यसि । आज्ञाविधेयानि ते अङ्गानि प्रसभं पटुतां त्यजन्ति । यैः करणैः रूपादीन् विषयान् निरूप्य त्वया आत्मलाभो लब्धः तेषु चक्षुरादिषु अपि स्वार्थावबोधक्रियाः हताः । जरया तव मूर्ध्नि एव पदं न्यस्तम् ॥ १ ॥

**व्याख्या—**तृष्णे—स्पृहे ! मुधा—व्यर्थं, माद्यसि—वर्धसे, (यतो हि) आज्ञाविधेयानि—निर्देशवर्त्तीनि, ते—तव, अङ्गानि—करचरणादीनि कर्मेन्द्रिय-

Page 253Permalink

१६४ मुद्रा राक्षसम्

याणि, प्रसभ—हठात्, पटुता—कार्यक्षमता, त्यजन्ति—जहन्ति। ये करणे — ज्ञानेन्द्रियै, रूपादीन्—रूपरसगन्धस्पर्शशब्दान्, विषयान्—अर्थान्, निरूप्य—अवधार्य, त्वया—भवत्या, आत्मलाभ — स्वजन्म, लब्ध — अधिगत, तेषु—आत्मलाभोपायभूतेषु, चक्षुरादिषु—नेत्रप्रभृतिषु इन्द्रियेषु, अपि, स्वार्थावबोधक्रिया — स्वार्थस्य निजविषयस्य रूपादे य अवबोध ज्ञान तद्रूपा क्रिया व्यापारा, हृता — नष्टा। जरया—वार्धक्येन, तव—ते, मूर्ध्नि—मस्तके, एव, पद—चरण, न्यस्तम्—स्थापितम् ॥ १ ॥

हिन्दी अनुवाद—[ तत्र कञ्चुकी प्रवेश करता है । ]

कञ्चुकी—[ नैराश्य के साथ ] हे तृष्णे ! ( तुम ) व्यर्थ मे प्रसन्न हो रही हो। ( क्योकि ) तुम्हारी आज्ञा का पालन करने वाली कर्मेन्द्रियां तेजी से कार्यक्षमता को छोड़ रही हैं। जिन इन्द्रियो से रूप आदि विषयो को ग्रहण करके तुमने अपना अस्तित्व लाभ किया, उन नेत्र आदियो मे भी अपने (-अपने ) विषय के ज्ञान को प्राप्त करने की क्रियाये नष्ट हो गई। ( इतना ही नही ) बुढ़ापे ने तुम्हारे सिर पर ही पाव रख दिया है ॥ १ ॥

टिप्पणी—इस अंक मे नियताप्ति अवस्था और चौथे अंक मे प्रकरी अर्थप्रकृति के वर्णन होने से इन दोनो अंकों मे विमर्शसंधि है। विमर्शसंधि का लक्षण यह है—'गर्भनिर्भिन्न प्रसिद्धस्य बीजार्थस्यावमर्शनम् । हेतुना येन केनापि विमर्शः संधिरुच्यते ॥' इस संधि के तेरह अंग होते हैं। जैसे—'तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः । द्युतिप्रसङ्गश्छलनं व्यवसायो निरोधनम्। प्ररोचना विचलनमादानञ्च त्रयोदश ॥' सनिर्वेदम्—निराशा या वैराग्य के साथ । निर्√विद्+घञ् भावे=निर्वेद । तेन सह इति सनिर्वेदम् । मुधा—व्यर्थ । यह एक अव्यय है । आज्ञाविधेयानि—आज्ञापालकानि वि√धा+यत् कर्मणि=विधेयानि । आज्ञाया विधेयानि षष्ठीतत्० । अङ्गानि—यहाँ हाथ, पैर आदि कर्मेन्द्रियो से तात्पर्य है । प्रसभम्—हठात्, तेजी से । प्रगता सभा विचार अस्मात् इति प्रसभम् प्रादिबहुव्रीहि स०, तत् यथा स्यात् तथा । क्रियाविशेषणमेतत् । करणे — इन्द्रियै । यहाँ ज्ञानेन्द्रियों से तात्पर्य है। क्रियते एभि इति√कृ+ल्युट् करणे=करणानि, तै । करणे तृतीया । आत्मलाभ—आत्मन निजरूपस्य लाभ । जरया—वृद्धावस्था ने।

Page 254Permalink

तृतीयोऽङ्कः १६५

जराया जरसन्यतरस्याम्' इति सूत्रेण जरसादेशस्य विकल्पपक्षे रूपमेतत् । इस पद्य में विभावना अलंकार और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ १ ॥

[ परिक्रम्याकाशे ] भो भोः सुगाङ्गप्रासादाधिकृताः पुरुषाः ! सुगृहीतनामा देवश्चन्द्रगुप्तो वः समाज्ञापयति । यथा—'प्रवृत्तकौमुदीमहोत्सव-रमणीयतरं कुसुमपुरमवलोकयितुमिच्छामि, तत् संस्क्रियन्तामस्मद्दर्शनयोग्याः सुगाङ्गप्रासादस्योपरिभूमयः' इति । तत् किं चिरयन्ति भवन्तः ? [ आकाशे आकर्ण्य ] किं ब्रूथ 'आर्य ! किमविदित एवाय देवस्य चन्द्रगुप्तस्य कौमुदीमहोत्सवप्रतिषेधः' इति ? आः दैवोपहताः ! किमनेन वः प्राणहरेण कथोद्घातेन ? शीघ्रमिदानीम्—

आलिङ्गन्तु गृहीतधूपसुरभीन् स्तम्भान् पिनद्धस्रजः
सम्पूर्णेन्दुमुखसंहतिरुचां सच्चामराणां श्रियः ।
सिंहाङ्गासनधारणाच्च सुचिरं सञ्जातमूर्च्छामिव
क्षिप्रं चन्दनवारिणा सकुसुमः सेकोऽनुगृह्णातु गाम् ॥२॥

व्याख्या—परिक्रम्य—भ्रमणं कृत्वा, आकाशे—गगने, दत्तदृष्टिः सन् आहेति शेषः । सुगाङ्गप्रासादाधिकृताः—सुगाङ्गाख्ये भवने अधिकृता नियुक्ताः, पुरुषाः—जनाः !, सुगृहीतनामा—प्रातःस्मरणीयाभिधानः, देवः—महाराजः, चन्द्रगुप्तः, वः—युष्मान्, समाज्ञापयति—आदिशति, प्रवृत्तकौमुदीमहोत्सव-रमणीयतरं—प्रवृत्तः आरब्धः यः कौमुदीमहोत्सवः शरदपूर्णिमासाध्यव्रतविशेषः तेन रमणीयतरम् अधिकमनोहरं, कुसुमपुरम्—पाटलिपुत्रम्, अवलोकयितुम्—द्रष्टुम्, इच्छामि—अभिलषामि । तत्—तस्मात्, अस्मद्दर्शनयोग्याः—मदवलोकनीयाः, सुगाङ्गप्रासादस्य, उपरिभूमयः—उपारिष्टातप्रदेशाः, संस्क्रियन्ताम्—अलंक्रीयन्ताम् । तत्—तस्मात्, भवन्तः—यूयं, किं—कथं, चिरयन्ति—विलम्बन्ते ? आकर्ण्य—श्रुत्वा, आर्य—मान्य ! [ यूयं ] किं—कथं, ब्रूथ—कथयथ । अयं—चाणक्येनं विधीयमानः, कौमुदीमहोत्सवप्रतिषेधः—शारद-पूर्णेन्दुपुजनात्मकोत्सवनिषेधः, देवस्य—चन्द्रगुप्तस्य, किम्, अविदित एव—अज्ञात एव ? दैवोपहताः—दैवेन भाग्येन उपहताः विनष्टा इत्यर्थः । अनेन—एतेन, प्राणहरेण—जीवविनाशकेन, कथोद्घातेन—वार्ताप्रसंगेन, वः—युष्माकम्, किम्—न किमपीत्यर्थः । इदानीम्—अधुना, शीघ्रम्—सत्वरम् ।

Page 255Permalink
१६६मुद्राराक्षसम्

अन्वयः—सम्पूर्णेन्दुमयूखसंहतिरुचा सञ्चामराणा श्रिय- गृहीतधूपसुरभीन् पिनद्धस्रज स्तम्भान् आलिङ्गन्तु, सकुसुम चन्दनवारिणा सेक सुचिर सिंहासन-धारणात् सञ्जातमूर्च्छामिव गां क्षिप्रम् अनुगृह्लातु च ॥ २ ॥

व्याख्या—सम्पूर्णेन्दुमयूखसंहतिरुचा—सम्पूर्णा समग्र य इन्दु चन्द्र तस्य ये मयूखा- किरणा तेषा महति समुदाय तस्या म्गिव रुक् कान्ति येषा तादृशाना, सञ्चामराणा—चमरीपुच्छरत्नाना, श्रिय —द्युतय , गृहीतधूपसुरभीन्—गृहीता सेविता ये धूपा तै सुरभीन् घ्राणतर्पणान्, पिनद्धस्रज —पिनद्धा संवेष्टिता स्रज मालिका येषु तान्, स्तम्भान्—स्थूणान् आलिङ्गन्तु—उपश्लिष्यन्तु । सकुसुम —पुष्पयुक्त , चन्दनवारिणा—मलयजलेन, सेक —सेचन, सुचिर—दीर्घकालात्, सिंहासनधारणात्—सिंहाङ्कस्य सिंहचिह्नितस्य आसनस्य सिंहासनस्य इत्यर्थ धारणात् वहनात्, सञ्जातमूर्च्छामिव—सञ्जाता समुत्पन्ना मूर्च्छा वैक्लव्य यस्या तादृशीम् इव, गा—पृथ्वी, क्षिप्र—झटिति, अनुगृह्णातु च—अनुकम्पताम् च ॥ २ ॥

हिन्दी अनुवाद—[ घूमकर आकाश की ओर ( दृष्टिपात करते हुए ) ] हे हे सुगांग-भवन मे नियुक्त पुरुषो ! प्रात स्मरणीय महाराज चन्द्रगुप्त तुम लोग को इस प्रकार आज्ञा दते हैं ( कि )—'प्रारम्भ किये गये कौमुदीमहोत्सव से अयंत रमणीय कुसुमपुर को देखना चाहता हूँ । इसलिए मेरे देखने योग्य -सुगांग भवन के ऊपरी भाग को सजा दो' । तो तुम लोग देर क्यो कर रहे हो ? [ आकाश में ( उत्पन्न शब्दो को ) सुनकर ! ] क्या कहते हो कि आर्य ! क्या महाराज चन्द्रगुप्त को कौमुदीमहोत्सव का निषेध ज्ञात नहीं है ? ओह ! भाग्य के मारे हुओ ! तुम्हे इस प्राणनाशक वार्ता के प्रसग से क्या ( मतलब ) ? अभी शीघ्र—

पूर्ण चन्द्र की किरणों के समूह की कान्ति वाले उत्तम चँवरो की छटायें धूपो के सेवन से सुवासित तथा बांधी हुई मालाओ से युक्त स्तम्भो का आलिंगन करें और पुष्प-समन्वित चन्दन-जल का छिड़काव चिरकाल से सिंहासन धारण करने के कारण मानो मूर्च्छा श प्राप्त पृथ्वी को शीघ्र ही अनुगृहीत करे ।

टिप्पणी—कौमुदीमहोत्सव—कार्तिकी पूर्णिमा को होने वाला उत्सव । कौ पृथिव्या मोदते इति कु√मुद्+क कर्तरि = कुमुदम् । तस्य इयम् इति

Page 256Permalink

१६७

तृतीयोऽङ्कः

कुमुद + अण् स्त्रियां = कौमुदी । आश्विन और कार्तिक दोनों मासों की पूर्णिमा को कौमुदी कहते हैं। दोनों के लिए क्रमशः श्लोक देखिए—'आश्विने पौर्णमास्यां तु चरेज्जागरणं निशि। कौमुदी सा समाख्याता कार्या लोक-विभूतये ॥ कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् । धातुर्जैनियनैश्चैव तेन सा कौमुदी-स्मृता ॥' अविदित एवायं देवस्य—√विद् + क्त वर्तमाने 'मतिबुद्धि'—इत्यनेन = विदितः। न विदितः अविदितः। 'देवस्य' इत्यत्र 'क्तस्य च वर्तमाने' इत्यनेन अनुक्ते कर्तरि षष्ठी । दैवोपहताः—उप √हन् + क्त कर्मणि = उपहताः । दैवेन उपहताः तृतीयात० । कथोद्घातेन—उद् √हन् + घञ् भावे = उद्घातः = प्रसंगः । कथायाः उद्घातः, तेन । करणे तृतीया । पिनद्धस्रजः—बांधी या लपेटी हुई मालाओं वाले । अपि √नह् + क्त कर्मणि = अपिनद्ध वा पिनद्ध 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपञ्चैव हलन्तानां यथा वाचा निशा दिशा ॥' इति कारिकाबलात् विकल्पेन अपेः अकारलोपः । सम्पूर्णेन्दुमयूसंहतिः—सम् √हन् + क्तिन् भावे = संहतिः । सम्पूर्णेन्दुमयूरखानां संहतिः = संहताः सम्पूर्णेन्दुयूखाः 'भावानयने द्रव्यानयनम्' इति नियमात् । चन्दनवारिणा—चन्दनेन संश्लिष्टं वारि चन्दनवारि मध्यमपद-लोपी स०, तेन । सिंहाङ्गासनधारणात्—सिंहासन के धारण करने से अथवा सिंह के द्वारा ( अपनी ) गोद रूप आसन पर धारण किये जाने से । सिंहेन अङ्गासने निजक्रोडरुपासने धारणात् स्थापनात् । यहाँ तात्पर्य यह है कि जैसे सिंह की गोद में पड़ने से मूर्च्छित गाय पानी के छींटे से आश्वस्त की जाती है उसी तरह अत्यन्त भारी राजसिंहासन को धारण करने से थकी हुई पृथ्वी को श्रीखण्ड-मिश्रित जल के सिञ्चन से आश्वस्त करो । इस श्लोक के पूर्वार्ध में समासोक्ति अलंकार है और उत्तरार्ध मे उत्प्रेक्षा अलकार श्लेष अलंकार से संसृष्ट है । इसमें भी शार्दूलविक्रीडित छन्द है ॥२॥

[ आकाशे ] किं कथयन्ति भवन्तः 'एते त्वरामह' इति ? भद्राः ! त्वरध्वम्, अयमागत एव देवश्चन्द्रगुप्तः । य एषः,—

सुविश्रब्धैरङ्गैः पथिषु विषमेष्वप्यचलता
चिरं धुर्येणोढा गुरुरपि भुवो याऽस्य गुरुणा ।
धुरं तामेवोच्चैर्नववयसि वोढुं व्यवसितो
मनस्वी दम्यत्वात् स्खलति न च दुःखं वहति च ॥३॥

Page 257Permalink
१६८मुद्राराक्षसम्

अन्वय —विषमेषु अपि पथिषु अचलता धुर्येण अस्य गुरुणा सुविश्रब्धै अङ्गै भुवं गुरु अपि या चिरम् ऊढा तामेव उच्चै धुरं नववयसि वोढुं व्यवसित मनस्वी दम्यत्वात् दु खं वहति च न स्खलति च ॥३॥

व्याख्या—विषमेषु—गहनेषु (पक्षे) नतोन्नतेषु, अपि, पथिषु—कार्यावधिषु (पक्षे) मार्गेषु, अचलता—स्थिरेण, धुर्येण—धुरन्धरेण (पक्षे) वृषभेण, अस्य—मौर्यस्य, गुरुणा पित्रा नन्देनेत्यर्थ , सुविश्रब्धै —विश्वासपात्रे (पक्षे) सुदृढे , अङ्गै —मन्त्रिप्रभृतिभि (पक्षे) स्व काद्यवयवै , भुवं —पृथिव्या , गुरु अपि—महत्यपि, या—धू , चिरम्—बहुकालपर्यन्तम्, ऊढा—धृता, तामेव—ऊढामेव, उच्चै —गुर्वी , धुर—भार, नववयसि—तारुण्ये, वोढु—धारयितुम्, व्यवसित —उद्यत , मनस्वी—महामना ( चन्द्रगुप्त ), दम्यत्वात्—असमाप्तशिक्षत्वात्, दु ख—क्लेश, वहति च—प्राप्नोति च, न स्खलति च—न भ्रश्यति च ॥३॥

हिन्दी अनुवाद—[आकाश में (स्थित पुरुष को लक्ष्य करके )] आप क्या कहते हैं कि ये हम लोग शीघ्रता कर रहे हैं। भद्र पुरुषो ! शीघ्रता करो। ये महाराज चन्द्रगुप्त आ ही गये हैं। जो ये—

कठिन कार्य-पद्धतियो (पक्षान्तर में ऊँचे-नीचे मार्गों) में विचलित न होने हुए भार वहन करने में समर्थ (पक्षान्तर मे वृषभ) इस (चन्द्रगुप्त) के पिता ने विश्वासपात्र (पक्षान्तर मे सुदृढ) मन्त्री आदि (पक्षान्तर मे अवयवो) से जो पृथ्वी का महान् भार चिरकाल तक वहन किया, उसी महान् भार को नवीन अवस्था म वहन करने के लिए उद्यत मनस्वी (चन्द्रगुप्त) भार वहन करने मे अनभ्यस्त होने के कारण क्लेश अनुभव करता है किन्तु गिरता नही है ॥३॥

टिप्पणी—विषमेषु—विभिन्ना समेभ्य इति विषमा , तेषु । अचलता—√चल् + शतृ = चलन् । न चलन् अचलन्, तेन । धुर्येण—धुरा धारण करने वाले । धुरि साधु तां वहति वा इति धुर्+यत्=धुर्य , तेन । यहाँ नन्द को शिक्षित वृषभ के समान धुरा धारण करने मे समर्थ होने के कारण धुर्य कहा गया है। गुरुणा—पिता, नन्द ने। सुविश्रब्धै —विश्वासी । वि√श्रम् वा स्रम्+क्त कर्तरि=विश्रब्धा वा विस्रब्धा । अतिशयेन विश्रब्धा इति सुविश्रब्धा , तै ।

Page 258Permalink

तृतीयोऽङ्कः १६६

अङ्गैः—स्वामी, अमात्य, सुहृद्, कोष, राष्ट्र, दुर्ग और बल। वृषभ-पक्ष में अवयव। अत्र करणे तृतीया। व्यवसितः—उद्यत। वि-अव √ सो + क्त कर्तरि। मनस्वी—महामना, उत्साही। प्रशस्तं मनः अस्य इति मनस् + विनि मत्वर्थे। दम्यत्वात्—जिसका शिक्षण अभी समाप्त नहीं हुआ है। √ दम् + यत् कर्मणि = दम्यः। तस्य भावः इति दम्य + त्व, तस्मात् हेतौ पञ्चमी। यहाँ चन्द्रगुप्त को दम्य कहा गया है; क्योंकि उसकी शिक्षा अभी समाप्त नहीं हुई है। इस श्लोक में समासोक्ति अलंकार है, वैदर्भी रीति है और शिखरिणी छन्द है। शिखरिणी का लक्षण १, १३ में देखिए ॥३॥

[ नेपथ्ये ] इत इतो देवः।

[ ततः प्रविशति राजा प्रतीहारी च ]

राजा—[स्वगतम्] राज्यं हि नाम राजधर्मानुवृत्तिपरस्य नृपतेर्महदप्रीतिस्थानम्। कुतः—

परार्थानुष्ठाने रहयति नृपं स्वार्थपरता
परित्यक्तस्वार्थो नियतमयथार्थ. क्षितिपतिः।
परार्थश्चेत् स्वार्थादभिमततरो हन्त परवान्
परायत्तः प्रीतेः कथमिव रसं वेत्ति पुरुषः ॥४॥

अन्वयः—परार्थानुष्ठाने स्वार्थपरता नृपं रहयति। परित्यक्तस्वार्थः क्षितिपतिः नियतम् अयथार्थः। परार्थः स्वार्थात् अभिमततरश्चेत् हन्त परवान्। परायत्तः पुरुषः प्रीतेः रसं कथमिव वेत्ति ॥४॥

व्याख्या—परार्थानुष्ठाने—परस्य स्वेतरस्य पुरुषस्य यः अर्थः प्रयोजनं तस्य अनुष्ठाने साधनकर्मणि, स्वार्थपरता—स्वातन्त्र्यं, नृपं—राजानं, रहयति—त्यजति। परित्यक्तस्वार्थः—परित्यक्तः उत्सृष्टः स्वार्थः आत्मप्रयोजनं येन तादृशः, क्षितिपतिः—भूपः, नियतम्—निश्चितम्, अयथार्थः—अयथा मिथ्या अर्थः अभिधेयः यस्य तादृशः (भवति)। परार्थः परस्य अन्यस्य अर्थः प्रयोजनं, स्वार्थात्—आत्मप्रयोजनात्, अभिमततरः—ईप्सिततरः, चेत्—यदि, हन्त—कष्टम्!, परवान्—[पराधी]नः (नृपतिः)। परायत्तः—पराधीनः, पुरुषः—जनः, [प्रीतेः]—सुखस्य [रसं]—आस्वादम्, कथमिव—केन प्रकारेण, वेत्ति—जानाति ?

Page 259Permalink

१७२ मुद्राराक्षसम्

अस्त्या इति दुःखोरचर्या बहुव्रीहि स०। इस श्लोक में काव्यलिंग अलंकार है, वैदर्भी रीति है, ओज गुण है और शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥ ५ ॥

अन्यच्च, कृतककलहं कृत्वा स्वतनन्त्रेण त्वया कञ्चित् काल व्यवहर्त-
व्यमित्यार्योपदेशः । स च कथमपि मया पातकमिवाभ्युपगतः । अथवा शश्वदार्योपदेशमन्त्रियमाणतय सदैंव स्वतन्त्रा वयम् । कुतः?—

इह हि रचयन् साध्वीं शिष्यः क्रिया न निवार्यते
त्यजति तु यदा मार्गं मोहाद् तदा गुरुरङ्कुशः ।
विनयरुचयस्तस्मात् सन्तः सदैव निरङ्कुशाः
परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङ्मुखाः ॥ ६ ॥

अन्वय —इह हि शिष्यः साध्वीं क्रिया रचयन् न निवार्यते, यदा तु मोहात् ( स ) मार्गं त्यजति तदा गुरुः अङ्कुशः । तस्मात् विनयरुचयः सन्तः सदैव निरङ्कुशाः । अतः स्वातन्त्र्येभ्यः वयं परतरं हि पराङ्मुखाः ॥ ६ ॥

व्याख्या—इह हि—अस्मिन् संसारे खलु, शिष्यः—छात्रः, साध्वी—साध्व्या, क्रिया—कार्यं, रचयन्—कुर्वन्, न—नहि, निवार्यते—निषिध्यते । यदा तु—यस्मिन् काले पुनः, मोहात्—अविवेकात्, ( स ) मार्गं त्यजति—सदाचारमतिक्रामति, तदा गुरुः—शिक्षकः, अङ्कुशः—निवारकः ( भवति ) । तस्मात्—ततः, विनयरुचयः—विनये सुशिक्षायां रुचिः स्पृहा येषां तादृशाः, सन्तः—साधवः सदैव—सर्वस्मिन्नेव काले, निरङ्कुशाः—अनिवार्याः स्वतन्त्राः इति यावत् ( भवन्ति ) । अतः अस्मात्, स्वातन्त्र्येभ्यः—स्वेच्छाचारेभ्यः, वयम्, परतरं हि—नितान्तमेव, पराङ्मुखाः—वितृष्णाः ( स्मः ) ॥ ६ ॥

हिन्दी अनुवाद—और भी, आर्य ( चाणक्य ) का उपदेश है कि बनावटी झगड़ा करके उह कुछ समय तक स्वतंत्र रूप से व्यवहार करना चाहिए । उस ( उपदेश ) को मैंने पातक के समान किसी तरह स्वीकार किया । अथवा आर्य के उपदेश से निरन्तर संस्कार की जाति हुई बुद्धि वाले हम सदा ही स्वतंत्र हैं । क्योकि—

यहाँ ( संसार में ) शिष्य उचित कार्य करता हुआ ( गुरु के द्वारा ) रोका नहीं जाता है। किन्तु जब मोहवश ( वह उचित ) मार्ग को छोड़ता है

Page 260Permalink

तृतीयोऽङ्कः । १७३

तब गुरु अंकुश (निवारक) होता है। इसलिए विनय (सुशिक्षा) में रुचि रखने वाले सज्जन सदा ही स्वतन्त्र हैं। अतएव स्वेच्छाचारियों से हम अत्यंत ही पराङ्मुख हैं ॥ ६ ॥

टिप्पणी—कृतककलहम्—कृत्रिमविवादम् । कृत एव कृतकः । तादृशः कलहः, तम् । स्वतन्त्रेण—अनायत्तेन । स्वः आत्मा तन्त्रं प्रधानं यस्य स स्वतन्त्रः, तेन । कञ्चित् कालम्—अत्र व्याप्त्यर्थे द्वितीया । व्यवहर्तव्यम्—वर्तितव्यम् । वि-अव√हृ+तव्य भावे । शश्वदार्योपदेशसंस्क्रियमाणमतयः—अनवरतचाणक्यनिदेशविशोध्यमानबुद्धयः । अतः—इदमतीत्य इति यावत् । अत्र ल्यब्लोपे पञ्चमी । स्वातन्त्र्येभ्यः—स्वतन्त्रस्य भावाः इति स्वतन्त्र+ष्यञ्=स्वातन्त्र्याणि, तेभ्यः । 'ध्रुवमपाये'—इति पञ्चमी । पराङ्मुखाः—मुंह मोड़े हुए, विमुख । परा अञ्चति इति परा√अञ्च्+क्विन् कर्तरि=पराक् । पराक् मुखमेषाम् इति पराङ्मुखाः । इस श्लोक में परिणाम अलंकार है, वैदर्भी रीति है, प्रसाद गुण है और हरिणी छन्द है। इस छन्द का लक्षण यह है—'नसमरसलागः षड्वेदैर्हयैर्हरिणी मता' ॥ ६ ॥

[ प्रकाशम् ] आर्य वैहीनरे ! सुगाङ्गप्रासादमार्गमादेशय ।

कञ्चुकी—इत इतो देवः ।

राजा—[ परिक्रामति ]

कञ्चुकी—[ परिक्रम्य ] अयं सुगाङ्गप्रासादः । शनैरारोढुमर्हत्यार्यः ।

राजा—[ नाट्येणारुह्य दिशोऽवलोक्य ] अहो ! शरत्समयसम्भूतशोभाविभूतीना दिशामतिरमणीयता !! कुतः ?—

शनैः शान्ता भूताः सितजलधरच्छेदपुलिनाः
समन्तादाकीर्णाः कलविरुतिभिः सारसकुलैः ।
चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमुदै-
र्नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥ ७ ॥

अन्वयः—शनैः शान्ताः भूताः सितजलधरच्छेदपुलिनाः कलविरुतिभिः सारसकुलैः समन्तात् आकीर्णाः दश दिशः निशि चित्राकारैः विकचनक्षत्रकुमुदैः चिताः ( सत्यः ) दीर्घाः सरित इव नभस्तः स्यन्दन्ते ॥ ७ ॥

Page 261Permalink

१७४ | मुद्राराक्षसम्


व्याख्या—शनैः—क्रमेण, शान्ता—निर्मला, भूता—जाता, सितजलधरच्छेदपुलिना—सिता धवला जलधरच्छेदा मेघखण्डा पुलिनानि इव सैकतानि इव सन्ति यासां ताः, कलविरुतिभिः—अव्यक्तमधुरशब्दैः, सारसकुलैः—क्रौञ्चपङ्क्तिभिः, समन्तात्—सर्वतः, आकीर्णाः—व्याप्ताः, दश, दिशः—आशाः, निशि—रात्रौ, चित्राकारे—अनेकविधे, विकचनक्षत्रकुमुद—निकचे विकसितैः कुमुदसदृशैः नक्षत्रैः, चिता—व्याप्ता, (सत्यः) दीर्घा—आयता, सरित इव—नद्य इव, नभस्तः—आकाशात्, स्यन्दन्ते—प्रसरन्ति ॥ ७ ॥

हिन्दी अनुवाद—[ प्रकट ] आर्य वैहीनरे ! सुगाङ्ग भवन का मार्ग बताओ ।

कञ्चुकी—इधर से महाराज ( आवें ) इधर से ।

राजा—[ घूमता है । ]

कञ्चुकी—[ घूमकर ] यह सुगाङ्ग भवन है । धीरे-धीरे आप चढ़ें ।

राजा—[ अभिनय के साथ चढ़कर और दिशाओं को देखकर ] अहा ! शरत्काल में बढ़ी हुई शोभा की विभूतियों से सम्पन्न दिशाओं की अतिशय सुन्दरता है । क्योंकि—

क्रमशः निर्मल बनी हुई, रेतीले किनारे के समान शुभ्र मेघ-खण्डों से युक्त, अव्यक्त मधुर शब्द करने वाले क्रौञ्च पक्षियों के समूहों से, सभी ओर से व्याप्त और अनेक प्रकार के विकसित कुमुदों के समान नक्षत्रों से युक्त दसों दिशायें लम्बी नदियों के समान आकाश से प्रवाहित हो रही हैं ॥ ७ ॥

टिप्पणी—वैहीनरे—यह कञ्चुकी का नाम है । विहीनो नरः कामभोगाभ्याम् इति विहोनरः पृषोदरादित्वात् नलोपः । विहीनोरस्य अपत्यं वैहीनरिः विहीनूर + इञ्, तत्सम्बुद्धौ हे वैहीनरे इति । शरत्समयसम्भृतशोभाविभूतीनाम्—शरद् समय के कारण बढ़ी हुई शोभा के ऐश्वर्य से सम्पन्न । शरदव समयः, तेन सम्भृता उपचिता, तादृशी शोभा विभूतिर्यासां ताः ॰ शोभाविभूतयः तासाम् । किसी पुस्तक में 'शान्ता भूता' के स्थान में 'श्यानीभूता' पाठ मिलती है । उसकी व्याख्या होगी—'श्यानीभूता' । √श्यै + क्त कर्तरि = श्याना 'संयोगादेरातो धातोर्यण्वतः' इति सूत्रेण तस्य न । अश्याना श्याना भूता इति

Page 262Permalink

तृतीयोऽङ्कः १७५

श्यान + च्वि, ईत्व √ भू + क्त कर्तरि । सितजलधरच्छेदपुलिनाः—बालुकामय तट के समान उज्ज्वल मेघ-खंडों से युक्त। जलानां धराः जलधराः-तेषां छेदाः । सिताः जलधरच्छेदाः कर्मधारय स० । ते पुलिनानि इव इति सितजल-धरच्छेदपुलिनानि उपमित स० । तानि सन्ति आसाम् इति सितजलधरच्छेद-पुलिन + अच् मत्वर्थे । यह 'दिशः' का विशेषण है। विकचनक्षत्रकुमुदः—विगताः कचाः एषाम् इति विकचानि । तादृशानि नक्षत्राणि । तानि कुमुदानि इव इति विकचनक्षत्रकुमुदानि, तैः । नभस्तः—आकाश से, नदीपक्ष में—श्रावणमास से । स्यन्दन्ते—प्रवाहित हो रही है या फैल रही है । इस श्लोक में श्लेष अलंकार से अनुप्राणित उपमेयोपमा नामक अलंकार है, पाञ्चाली रीति है, प्रसाद गुण है और शिखरिणी छन्द है । शिखरिणी का लक्षण १, १३ मे देखिए ॥ ७ ॥

अपि च—

अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपद
दधत्या शालीनामवनतिमुदारे सति फले ।
मयूराणामुग्रं विषमिव हरन्त्या मदमहो
कृतः कृत्स्नस्यायं विनय इव लोकस्य शरदा ॥ ८ ॥

**अन्वयः—**अहो ! उद्वृत्तानाम् अपां निजं स्थितिपदम् उपदिशन्त्या शालीनां फले उदारे सति अवनतिं दधत्या मयूराणां विषमिव उग्रं मदं हरन्त्या शरदा कृत्स्नस्य लोकस्य अयं विनयः कृत इव ॥ ८ ॥

**व्याख्या—**अहो—आश्चर्यम्, उद्वृत्तानाम्—उपचितानाम् लङ्घिततटानामिति यावत्, अपां—जलानाम्, निजं—स्वाभाविकं, स्थितिपदं—स्थानम्, उपदिशन्त्या—बोधयन्त्या, शालीनां—धान्यविशेषाणां, फले—प्रसवे, उदारे—परिणते, सति, अवनतिं—नम्रतां, दधत्या धारयन्त्या, मयूराणां—बर्हिणां, विषमिव—गरलमिव, उग्रम्—असह्यम्, मदं—गर्वं, हरन्त्या—अपनयन्त्या, शरदा—शरदृतुना, कृत्स्नस्य—समग्रस्य, लोकस्य—भुवनस्य, अयम्—एषः, विनयः—उपदेशः, कृत इव—विहित इव ॥ ८ ॥

**हिन्दी अनुवाद—**और भी—आश्चर्य है कि तटों का अतिक्रमण करने वाले जलों को स्वाभाविक स्थान का बोध कराती हुई, साठी धानों

Page 263Permalink

१७६ मुद्राराक्षसम्

के पक जाने पर नम्र बनाती हुई और मयूरों के विष के समान असह्य मद का अपहरण करती हुई शरद् ऋतु ने मानो सम्पूर्ण संसार को यह विनय सिखाया है॥ ८ ॥

टिप्पणी—उद्वृत्तानाम्—तट या मर्यादा को लाँघे हुए। उद्+√वृत्+क्त कर्तरि=उद्वृत्ता। उत्क्रान्ता वृत्तम् इति उद्वृत्ता 'अत्यादयः क्रान्ताद्यर्थे द्वितीया' इत्यनेन प्रादिसमासः। स्थितिपदम्—ठहरने का स्थान। स्थितेः पदम्। उपदिशन्त्या—उप+√दिश्+शतृ+ङीप्=उपदिशन्ती, तया। यह 'शरदा' का विधेयात्मक विशेषण है। यहाँ स्पष्टार्थ यह है कि वर्षा ऋतु में नदियों का जल तट को लाँघकर बहने लगता है, किन्तु शरद् ऋतु में वह अपने स्वाभाविक स्थान पर पहुँच जाता है, अतएव शरद् ऋतु मानो जल को विनीत होने का उपदेश देती हुई कह रही है कि अपनी मर्यादा को न छोड़ो। इसी तरह आगे साठी धान को झुकाती हुई और मयूरों का मद दूर करती हुई उन्हें भी मानो विनीत होने की शिक्षा दे रही है। यहाँ समासोक्ति अलंकार द्वारा तीन बातों की ओर संकेत किया गया है—( १ ) अत्यन्त उद्धत मलयकेतु के भावी निग्रह की ओर, ( २ ) राक्षस के विष के समान अत्यन्त उग्र पराक्रम और नीतिविषयक गर्व के दूर होने की ओर और ( ३ )-साम्राज्य-रूपी फल से युक्त परम उन्नतिशील चन्द्रगुप्त के विनय की ओर। इस श्लोक में पूर्णोपमा अलंकार, वाच्योत्प्रेक्षा अलंकार और काव्यलिंग अलंकार का योग है। इसमें वैदर्भी रीति है, प्रसादगुण है और शिखरिणी छन्द है॥ ८ ॥

अपि च—

भर्तुस्तथा कलुषिता बहुवल्लभस्य
मार्गे कथञ्चिदवतार्य तनूभवन्तीम् ।
सर्वात्मना रतिकथाचतुरैव दूती
गङ्गां शरन्नयति सिन्धुपतिं प्रसन्नाम् ॥९॥

अन्वय —तथा कलुषिता तनूभवन्ती सर्वात्मना प्रसन्ना गङ्गा रतिकथा-चतुरा दूती इव शरत् बहुवल्लभस्य भर्तुर्मार्गे कथञ्चित् अवतार्य सिन्धुपतिं नयति ॥९॥

Page 264Permalink

तृतीयोऽङ्कः । १७७

व्याख्या—तथा—तेन प्रकारेण, कलुषितां—प्रावृषि पङ्काधिक्यात् निर्मलां (पक्षान्तरे भर्तुरनेकभार्यत्वेन दोषोत्वात्सेर्ष्यामित्यर्थः), तनूभवन्तीं—वर्षापगमेना-
तिक्षीणां (पक्षान्तरे प्रियवियोगेन कृशशरीराम्) सर्वात्मना—सर्वप्रकारेण, प्रसन्नां—स्वच्छसलिलां (पक्षान्तरे प्रसन्नहृदयां), गङ्गां—भागीरथीं (पक्षान्तरे रमणी), रतिकथाचतुरा—रतिकथायां सरसालापे चतुरा दक्षा, दूती इव—सञ्चारिकेव, शरत्, बहुवल्लभस्य—अनेकभार्यस्य, भर्तुः—स्वामिनः, मार्गे—तत्प्रापरार्थे, कथञ्चित्—क्लेशतः, अवतार्य—नीत्वा, सिन्धुपति—सागरं (पक्षान्तरे सिन्धुरिव पतिस्तं सिन्धुसदृशगाम्भीर्यशालिनं पतिमित्यर्थः), नयति—प्रापयति ॥६॥

हिन्दी अनुवाद—उस प्रकार से (वर्षा ऋतु के कीचड़ के कारण) गँदली (नायिका-पक्ष मे ईर्ष्यायुक्त), शरद् ऋतु में वर्षा के बीत जाने से अत्यन्त क्षीण (प्रवाह वाली) (नायिका-पक्ष में वियोग के कारण कृश) होती हुई तथा पूर्ण रूप से निर्मल (नायिका-पक्ष में प्रसन्न चित्त वाली) गङ्गा को प्रेम की कथाओं में दक्ष दूती के समान् शरद् ऋतु अनेक (नदी रूपी) पत्नियो वाले स्वामी (समुद्र) के मार्ग में किसी तरह उतारकर सागर (नायिका-पक्ष में सिन्धु सदृश गाम्भीर्यशाली पति) के पास ले जा रही है ॥६॥

टिप्पणी—तनूभवन्तीम्—अतनुः तनुः भवन्ती इति तनु+च्वि, दीर्घ √भू+शतृ स्त्रियाम् ङीप् । सिन्धुपतिम्—सिन्धूनां नदीना पतिः=समुद्रः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । अथवा सिन्धुरिव पतिः उपमित स० । अथवा सिन्धुनामा पतिः सिन्धुपतिः मध्यमपदलोपी स०, तम् । इस श्लोक मे भी ध्वन्यर्थ यह है कि चतुर दूती के समान अत्यंत गंभीर चाणक्य की नीति राक्षस की बुद्धि की वशीभूत होने के कारण कलुषित नन्दकुल की लक्ष्मी को समुद्र के समान अत्यन्त गंभीर हृदय वाले चन्द्रगुप्त के पास सब प्रकार से पहुँचा रही है। इस पद्य मे अर्थश्लेष से अनुप्रमाणित पूर्णोपमा अलंकार है और वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥६॥

[समन्तान्नाट्येनावलोक्य] अये ! कथमप्रवृत्तकौमुदीमहोत्सवं कुसुमपुरम् ? आर्य ! वैहीनरे ! अथोस्मद्वचनादाघोषितः कुसुमपुरे कौमुदी-महोत्सवः ?

मु० रा०—१२

Page 265Permalink

१७८ मुद्राराक्षसम्

**कञ्चुकी—**देव ! अथ किम् ?

**राजा—**आर्य ! तदेव किं न परिगृहीतमस्मद्वचनं पौरजनेन ?

कञ्चुकी—[कर्णौ पिधाय] देव ! शान्तं पापं, शान्तं पापं, पृथिव्या-मस्खलितपूर्वं देवस्य शासनं कथं पौरेषु स्खलितुमर्हति ?

**राजा—**आर्य वैहीनरे ! तत् कथमप्रवृत्तकौमुदीमहोत्सवमधुनाऽपि कुसुमपुरं पश्यामि ? पश्य—

धूर्तैरन्वीयमाना स्फुटचतुरकथाकोविदैर्वेशनार्यो
नालङ्कुर्वन्ति रथ्या पृथुजघनभराक्रान्तिमन्दैः प्रयातैः ।
अन्योन्यं स्पर्धमाना न च गृहविभवैः स्वामिनो मुक्तशङ्का
साकं स्त्रीभिर्भजन्ते विधिमभिलषितं पार्वणं पौरमुख्याः ॥१०॥

**अन्वय—**स्फुटचतुरकथाकोविदै धूर्तै अन्वीयमाना वेशनार्य पृथुजघनभरा-क्रान्तिमन्दै प्रयाते रथ्या न अलङ्कुर्वन्ति । स्वामिनो मुक्तशङ्का पौरमुख्याश्च गृहविभवे अन्योन्य स्पर्धमाना (सन्त ) स्त्रीभि साकम् अभिलषित पार्वण विधि न भजन्ते ॥१०॥

**व्याख्या—**स्फुटचतुरकथाकोविदै—स्फुटा स्पष्टा चतुरा कुशला या कथा वाच तासु कोविदै विचक्षणै, धूर्तै—विटै, अन्वीयमाना—अनुयाय-माना, वेशनार्य—वाराङ्गणा, पृथुजघनभराक्रान्तिमन्दै—पृथू विशाले च त जघने पृथुजघन तयोर्भरौ भारस्तस्य आक्रान्त्या आरोपेण मन्दे सालसे, प्रयातै—पादचारै, रथ्या—राजमार्गान्, न अलङ्कुर्वन्ति—न शोभयन्ति । स्वामिन—भूपात्, मुक्तशङ्का—निर्भया, पौरमुख्याश्च—नागरिकवर्या अपि, गृहविभवे—गृहसम्पत्तिमि, अन्योन्य—परस्पर, स्पर्धमाना—विजयैषिण, (सन्त ), स्त्रीभि—ललनाभि, साकम्—सह, अभिलषित—वाञ्छित, पार्वण विधि—पूर्णिमा-चार कौमुदीमहोत्सवमित्यर्थ, न भजन्ते—न सेवन्ते ॥१०॥

हिंदी अनुवाद—[चारों ओर अभिनयपूर्वक देखकर] अरे ! कुसुमपुर में कौमुदीमहोत्सव क्यो नही मनाया जा रहा है ? आर्य वैहीनरि ! क्या मेरी आज्ञा से कुसुमपुर में कौमुदीमहोत्सव घोषित कर दिया गया था ?

**कञ्चुकी—**महाराज ! और क्या ?

Page 266Permalink

तृतीयोऽङ्कः १७६

राजा—आर्य ! तो इस प्रकार नागरिकों ने मेरी आज्ञा को क्यों नहीं माना ?

कंचुकी—[कानों को बन्द करके] महाराज ! पाप शान्त हो, पाप शान्त हो। पृथिवी पर पहले (कभी) खाली न जाने वाली महाराज की आज्ञा नागरिकों में कैसे खाली जाएगी ?

राजा—आर्य वैहिनरि ! तो क्यो अभी भी कौमुदीमहोत्सव के प्रारंभ से शून्य कुसुमपुर को मै देख रहा हूँ ? देखो—

स्पष्ट एवं चातुर्यपूर्ण वार्तालाप में प्रवीण धूर्तों से अनुकरण की जाती हुई वेश्याये (अपने) विशाल नितम्बों के भार के आक्रमण के कारण धीमी चालों से राज-मार्गों को सुशोभित नही कर रही है । और राजा से निर्भय तथा घर की सम्पत्तियो के बल पर परस्पर स्पर्धा रखते हुए श्रेष्ठ नागरिक स्त्रियों के साथ शारदीय पूर्णिमा के उत्सव को नही मना रहे है ॥१०॥

टिप्पणी—अप्रवृत्तकौमुदीमहोत्सवम्—कौमुदीमहोत्सव के प्रारंभ से शून्य। अप्रवृत्तः अनारब्धः कौमुदीमहोत्सवः शारदपूर्णचन्द्रपर्वोद्भवः यस्मिन् सः बहुव्रीहि स०। अस्खलितपूर्वम्—पहले (कभी) स्खलित न होने वाली ।√स्खल् + क्त कर्तरि = स्खलितम्। पूर्वं स्खलितम् सुप्सुपा स०, 'भूतपूर्वे चरट्' इति निर्देशात् पूर्वशब्दस्य परनिपातः। न स्खलितपूर्वम् अस्खलितपूर्वम् नञ्तत्०। स्फुटचतुरकथाकोविदैः—स्पष्ट तथा चतुरता भरी बाते करने मे पटु। कौति इति √कु (शब्दे) + विच् कर्तरि = कोः = वेदः। वेत्ति इति √विद् + क कर्तरि = विदः। कोः विदः षष्ठीतत्० = कोविदः = पण्डितः अतएव पटुः। धूर्तैः—विटों के द्वारा। अन्वीयमानाः—अनुसरण की जाती हुई। अनु√इ + शानच् कर्मणि = अन्वीयमानाः। वेशनार्यः—वेश्या। वेश्यालय को वेश कहते है। वेशस्य नार्यः वेशनार्यः। स्वामिनो मुक्तशङ्काः—स्वं धनमस्य अस्तीति स्व + आमिन् मत्वर्थे = स्वामी, तस्मात् 'भीत्रार्थानां भयहेतुः' इत्यनेन पञ्चमी। नन्द के राज्य में प्रजा को अर्थलोलुप नन्द से अपना धन छीने जाने का भय बना रहता था। अब चन्द्रगुप्त के शासन में प्रजा को ऐसा कोई भय नही है; फलतः वे मुक्तशंक = निर्भय हैं। पार्वणम्—अमावास्या और पूर्णिमा को पर्व तिथि कहते है। यहाँ पूर्णिमा से तात्पर्य है। पर्वणि भवः इति पार्वणः पर्वन् + अण्,

Page 267Permalink
१८०मुद्राराक्षसम्

तम् । इस श्लोक में स्वभावोक्ति नामक अलङ्कार है और स्रग्धरा छन्द है । इस छन्द का लक्षण १, १ मे देखिए ॥१०॥

कञ्चुकी—देव ! एवमेतत् ।

राजा—किमेतत् ?

कञ्चुकी—देव ! अत इदम्—।

राजा—आर्य ! स्फुटमभिधीयताम् ।

कञ्चुकी—देव ! प्रतिषिद्ध कौमुदीमहोत्सव ।

राजा—[सक्रोधम्] आ केन ?

कञ्चुकी—नात परमस्माभिर्देवो विज्ञापयितु शक्यते ।

राजा—न खल्वार्येण चाणक्येनापहृत प्रेक्षकाणामतिशयरमणीय-श्चक्षुषो विषय ?

कञ्चुकी—देव ! कोऽन्यो जीवितुकामो देवस्य शासनमतिवर्तेत ?

राजा—शोणोत्तरे ! उपवेष्टुमिच्छामि ।

प्रतीहारी—देव ! एदं सिहामणं । उपविसदु देवो । (देव ! एतत् सिंहासनम् । उपविशतु देव ।)

राजा—[ नाट्येनोपविश्य ] आर्य वैहीनरे ! आर्यचाणक्य द्रष्टुमिच्छामि ।

कञ्चुकी—यदाज्ञापयति देव । [इति निष्क्रान्त ]

[ तत प्रविशतपासनस्थ स्वभवनगत कोपानुविद्धा चिन्ता नाटयन् चाणक्य ।]

चाणक्य —[आत्मगतम्] कथ स्पर्धते मया सह दुरात्मा राक्षस-हतक ! कुत ?—

हिन्दी अनुवाद—कंचुकी—महाराज ! यह ऐसा (ही) है ।

राजा—यह क्या है ?

कंचुकी—महाराज ? इसलिए यह—

राजा—आर्य ! स्पष्ट बतलाइए ।

Page 268Permalink

तृतीयोऽङ्कः १८१

कंचुकी—महाराज ! कौमुदीमहोत्सव रोक दिया गया ।
राजा—[क्रोध के साथ] ऐं, किसके द्वारा ?
कंचुकी—मैं इससे अधिक निवेदन महाराज से नही कर सकता हूँ ।
राजा—(क्या) आर्य चाणक्य ने तो देखने वालों की आँखों का (यह) अत्यन्त सुन्दर दृश्य नही लूट लिया ?
कंचुकी—महाराज ! दूसरा कौन जीवन चाहने वाला महाराज की आज्ञा का उल्लंघन करेगा ?
राजा—शोणोत्तरा ! मैं बैठना चाहता हूँ ।
प्रतीहारी—महाराज ! यह सिंहासन है, आप विराजें ।
राजा—[अभिनयपूर्वक बैठकर] आर्य वैहीनरि ! मैं आर्य चाणक्य को देखना चाहता हूँ ।
कंचुकी—महाराज की जो आज्ञा । [बाहर चला जाता है ।]
[तब अपने भवन में आसन पर विराजमान, क्रोधपूर्वक चिन्ता का अभिनय करते हुए चाणक्य का प्रवेश]
चाणक्य—[ मन में ] दुष्ट राक्षस मेरे साथ क्यों स्पर्धा कर रहा है ? क्योंकि—

टिप्पणी—विज्ञापयितुम्—बोधयितुम्, निवेदन करने के लिए । वि√ज्ञा + णिच्, पुक् + तुमुन् । प्रेक्षकाणाम्—दर्शकानाम् । चक्षुषः विषयः—नेत्रस्य विषयः दृश्यपदार्थ इत्यर्थः । अपहृतः—प्रतिषिद्धः । जीवितुकामः—जीवनाभिलाषी । जीवितुं कामः अस्य इति जीवितुकामः बहुव्रीहि स०, ‘लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि’ इति कारिकाबलात् मलोपः । अतिवर्तेत—उल्लङ्घयेत् । कोपानुविद्धाम्—कोपेन क्रोधेन अनुविद्धा सम्बद्धा क्रोधसहितामित्यर्थः, ताम् । राक्षसह्रतकः—कुत्सितः राक्षसः इति राक्षसह्रतकः ‘कुत्सितानि कुत्सनैः’ इत्यनेन समासः ।

कृतागाः कौटिल्यो भुजग इव निर्याय नगराद्
यथा नन्दान् हत्वा नृपतिमकरोन्मौर्यवृषलम् ।
तथाऽहं मौर्येन्दोः श्रियमपहरामीति कृतधीः
प्रभावं मद्बुद्धेरतिशयितुमेष व्यवसितः ॥११॥

Page 269Permalink
१८२मुद्राराक्षसम्

**अन्वय—**यथा कृतागा कौटिल्य भुजग इव नगरात् निर्याय नन्दान् हत्वा मौर्यवृषल नृपतिम् अकरोत् तथा अह मौर्यन्दो श्रियम् अपहरामि इति कृतधी एष मद्बुद्धे प्रभावम् अतिशयितु व्यवसित ॥११॥

**व्याख्या—**यथा—येन प्रकारेण, कृतागा—कृतम् आचरितम् आग अपराध यस्मिन् तादृश, कौटिल्य—चाणक्य, भुजग इव—सर्प इव, नगरात्—कुसुमपुरात्, निर्याय—निःसृत्य, नन्दान्—एतदाख्यनृपतीन्, हत्वा—विनाश्य, मौर्यवृषल—चन्द्रगुप्तम्, नृपतिम्—राजानम्, अकरोत्—व्यदधात्, तथा—तेन प्रकारेण, अह—राक्षस, मौर्यन्दो—चन्द्रगुप्तस्य, श्रियम्—राज-लक्ष्मीम्, अपहरामि—अपनयामि, इति—इत्थम्, कृतधी—कृता कल्पिता धी बुद्धि येन तादृश कृतसङ्कल्प इत्यर्थ, एष—राक्षस, मद्बुद्धे—मदीयाया, मते, प्रभावम्—प्रकर्षम्, अतिशयितुम्—अतिवर्तितुम्, व्यवसित—समुद्यत ( अस्ति ) ॥ ११ ॥

**हिन्दी अनुवाद—**जिस प्रकार अपराध किये जाने पर चाणक्य ने सांप की तरह नगर से बाहर जाकर नन्दो का विनाश करके चन्द्रगुप्त को राजा बना दिया उसी प्रकार मैं चन्द्रगुप्त की लक्ष्मी का अपहरण कर लूंगा—ऐसा निश्चय करने वाला यह ( राक्षस ) मेरी बुद्धि के प्रभाव को नीचा दिखाने के लिए प्रयत्नशील है ॥ ११ ॥

**टिप्पणी—**कृतगा—जिसका अनिष्ट किया गया हो। भुजग इव—सांप की तरह। भुजेन कुटिलगत्या गच्छतीति भुज् √गम् + कतरि = भुजग, खच्प्रत्यये तु भुजङ्गम। जैसे सांप आघात पहुँचाने वाले से समय पाकर बदला ले लेता है, उसी तरह चाणक्य ने भी अपने अपमानकर्ता नन्द से बदला लिया था। इसीलिए यहाँ भुजग की उपमा दी गई है। अतिशयितुम्—अति क्रमण करने के लिए। अति √शी + तुमुन्। यद्यपि शी धातु अकर्मक है, किन्तु यहाँ उपसर्ग के कारण सकर्मक हो गई है। व्यवसित—उद्यत, कटिबद्ध। वि-अव √सो + क्त कर्तरि। इसका कर्ता 'एष' है, जो राक्षस के लिए आया है। इस श्लोक में उपमा अलकार है और और शिखरिणी छन्द है। शिखरिणी का लक्षण १,१३ मे देखिए ॥ ११ ॥

[प्रत्यक्षवदाकाशे लक्ष्यं बद्ध्वा] राक्षस ! राक्षस ! विरम्यतामस्माद्-दुर्व्यवसितात् ।

Page 270Permalink
तृतीयोऽङ्कः१८३

उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रो
नन्दोऽसौ न भवति चन्द्रगुप्त एषः।
चाणक्यस्त्वमपि च नैव केवलं ते
साधर्म्यं मदनुकृतेः प्रधानवैरम् ॥ १२ ॥

अन्वय—एषः चन्द्रगुप्तः उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रः असौ नन्दः न भवति । त्वमपि च नैव चाणक्यः । केवलं प्रधानवैरं ते मदनुकृतेः साधर्म्यम् ॥ १२ ॥

व्याख्या—एषः—अयम्, चन्द्रगुप्तः—मौर्यः (भवति), उत्सिक्तः—गर्वितः, कुसचिवदृष्टराज्यतन्त्रः—कुसचिवैः कुत्सितामात्यैः दृष्टम् अवलोकितम् राज्यतन्त्रम् राज्यभारः यस्य तादृशः, असौ—अयं, नन्दः—तदाख्यः नृपः, न भवति—नास्ति । त्वमपि च—भवानपि, नैव—नह्येव, चाणक्यः—कौटिल्यः (असि) । केवलम्—एकम्, प्रधानवैरम्—मुख्यशत्रुता, ते—तव, मदनुकृतेः—ममानुकरणस्य, साधर्म्यम् (अस्ति) ॥ १२ ॥

हिन्दी अनुवाद—[आकाश में प्रत्यक्ष (देखते हुए) की तरह दृष्टि बाँधकर] राक्षस ! राक्षस ! इस दुष्प्रयत्न से विरत हो जाओ ।

यह चन्द्रगुप्त है, गर्वित तथा बुरे मंत्रियों को राज्य-भार सौंपने वाला नन्द यह नहीं है और तुम भी चाणक्य नहीं ही हो । केवल मुख्य शत्रुता तुम्हारे मेरे अनुकरण की समानता रखती है ॥ १२ ॥

टिप्पणी—राक्षस राक्षस !—यहाँ कार्य का नैरन्तर्य सूचित करने के लिए शब्द की आवृत्ति की गई है । विरम्यताम्—निवृत्यताम् । दुर्व्यवसितात् — दुः दुष्टं व्यवसितं व्यापारः, तस्मात् । अत्र 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इति वार्तिकेन अपादानसंज्ञा—पञ्चमी । प्रधानवैरम्—यहाँ चाणक्य कहना चाहता है कि हे राक्षस ! तुम बुद्धिप्रकर्षादि मे मेरी बराबरी नहीं कर सकते हो । केवल प्रमुख राजा के साथ वैर करने में मेरे साथ तुम्हारी समानता है । क्योकि जैसे मैने नन्दों को समूल नष्ट कर दिया वैसे तुम भी चन्द्रगुप्त को समूल नष्ट करना चाहते हो; किन्तु न तो चन्द्रगुप्त के समान पराक्रमी राजा नन्द था और न मेरे जैसे बुद्धिमान् मंत्री तुम हो । साधर्म्यम्—समानता । समानो धर्मः सधर्मः कर्मधारय स०, समान इत्यस्य सादेशः । स एव इति