Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 270 of 488

Read in context
Page 270
तृतीयोऽङ्कः१८३

उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रो
नन्दोऽसौ न भवति चन्द्रगुप्त एषः।
चाणक्यस्त्वमपि च नैव केवलं ते
साधर्म्यं मदनुकृतेः प्रधानवैरम् ॥ १२ ॥

अन्वय—एषः चन्द्रगुप्तः उत्सिक्तः कुसचिवदृष्टराज्यतन्त्रः असौ नन्दः न भवति । त्वमपि च नैव चाणक्यः । केवलं प्रधानवैरं ते मदनुकृतेः साधर्म्यम् ॥ १२ ॥

व्याख्या—एषः—अयम्, चन्द्रगुप्तः—मौर्यः (भवति), उत्सिक्तः—गर्वितः, कुसचिवदृष्टराज्यतन्त्रः—कुसचिवैः कुत्सितामात्यैः दृष्टम् अवलोकितम् राज्यतन्त्रम् राज्यभारः यस्य तादृशः, असौ—अयं, नन्दः—तदाख्यः नृपः, न भवति—नास्ति । त्वमपि च—भवानपि, नैव—नह्येव, चाणक्यः—कौटिल्यः (असि) । केवलम्—एकम्, प्रधानवैरम्—मुख्यशत्रुता, ते—तव, मदनुकृतेः—ममानुकरणस्य, साधर्म्यम् (अस्ति) ॥ १२ ॥

हिन्दी अनुवाद—[आकाश में प्रत्यक्ष (देखते हुए) की तरह दृष्टि बाँधकर] राक्षस ! राक्षस ! इस दुष्प्रयत्न से विरत हो जाओ ।

यह चन्द्रगुप्त है, गर्वित तथा बुरे मंत्रियों को राज्य-भार सौंपने वाला नन्द यह नहीं है और तुम भी चाणक्य नहीं ही हो । केवल मुख्य शत्रुता तुम्हारे मेरे अनुकरण की समानता रखती है ॥ १२ ॥

टिप्पणी—राक्षस राक्षस !—यहाँ कार्य का नैरन्तर्य सूचित करने के लिए शब्द की आवृत्ति की गई है । विरम्यताम्—निवृत्यताम् । दुर्व्यवसितात् — दुः दुष्टं व्यवसितं व्यापारः, तस्मात् । अत्र 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इति वार्तिकेन अपादानसंज्ञा—पञ्चमी । प्रधानवैरम्—यहाँ चाणक्य कहना चाहता है कि हे राक्षस ! तुम बुद्धिप्रकर्षादि मे मेरी बराबरी नहीं कर सकते हो । केवल प्रमुख राजा के साथ वैर करने में मेरे साथ तुम्हारी समानता है । क्योकि जैसे मैने नन्दों को समूल नष्ट कर दिया वैसे तुम भी चन्द्रगुप्त को समूल नष्ट करना चाहते हो; किन्तु न तो चन्द्रगुप्त के समान पराक्रमी राजा नन्द था और न मेरे जैसे बुद्धिमान् मंत्री तुम हो । साधर्म्यम्—समानता । समानो धर्मः सधर्मः कर्मधारय स०, समान इत्यस्य सादेशः । स एव इति