Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 252 of 488

Read in context
Page 252

तृतीयोऽङ्कः | १६३

भूतलं भुञ्जन्ति रक्षन्ति इति भूतल-√भुज् + क्विप् कर्तरि = भूतलभुजः । सर्वे च ते भूतलभुजः सर्वभूतलभुजः, तेषाम् कृद्योगे कर्मणि षष्ठी । आज्ञापकः—आज्ञा देने वाला, शासन करने वाला । आ-√ज्ञा + णिच्, पुक् आगम + ण्वुल्—अक । कृतकृत्यता—कृतार्थता, निरपेक्षता । कृतं कृत्यम् अनेन इति कृतकृत्यः । तस्य भावः इति कृतकृत्य + तल्—टाप् । सौहार्दात्—शोभनं हृदयमस्य इति सुहृत् । सुहृदो भावः इति सुहृद् + अण् 'हायनान्तयुवादिभ्योऽण्' इत्यनेन ततः 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्यनेन उभयपदवृद्धिः = सौहार्दम्, तस्मात् । इस श्लोक मे यथासंख्य नामक अलंकार है और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ २३ ॥

इस प्रकार 'प्राप्त्याशा' अवस्था और 'पताका' अर्थप्रकृति के बीच की स्थिति रूप गर्भसन्धि के बारह अंगो का निरूपण हुआ और गर्भसन्धि समाप्त हुई ।


तृतीयोऽङ्कः

[ ततः प्रविशति कञ्चुकी ]

कञ्चुकी— [ सनिर्वेदम् ]

रूपादीन् विषयान् निरूप्य करणैर्यैरात्मलाभस्त्वया
लब्धस्तेष्वपि चक्षुरादिषु हताः स्वार्थावबोधक्रियाः ।
अङ्गानि प्रसभं त्यजन्ति पटुतामाज्ञाविधेयानि ते
न्यस्तं मूर्ध्नि पदं तवैव जरया तृष्णे ! मुधा माद्यसि ॥१॥

**अन्वयः—**तृष्णे ! मुधा माद्यसि । आज्ञाविधेयानि ते अङ्गानि प्रसभं पटुतां त्यजन्ति । यैः करणैः रूपादीन् विषयान् निरूप्य त्वया आत्मलाभो लब्धः तेषु चक्षुरादिषु अपि स्वार्थावबोधक्रियाः हताः । जरया तव मूर्ध्नि एव पदं न्यस्तम् ॥ १ ॥

**व्याख्या—**तृष्णे—स्पृहे ! मुधा—व्यर्थं, माद्यसि—वर्धसे, (यतो हि) आज्ञाविधेयानि—निर्देशवर्त्तीनि, ते—तव, अङ्गानि—करचरणादीनि कर्मेन्द्रिय-