युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
नीतियुक्तिः । १५
अथ दण्डः ।
दण्डः संरक्षते धर्मं * तथैवार्थं विधानतः ।
कामं संरक्षते यस्मात्त्रिवर्गो † दण्ड उच्यते ॥ १०३ ॥
राजदण्ड भयाल्लोकाः पापाः पापं न कुर्व्वते ।
यमदण्ड भयादेके परलोक भयात्तथा ‡ ॥ १०४ ॥
दण्डेच्चेन्नभवेल्लोके ¶ विभजन् साध्वसाधु वा ।
शूले§मत्स्यानिवाऽपच्यन् दुर्बलान् वलवत्तराः ॥ १०५ ॥
अपराधेसु भूपालो दण्डं कुर्य्याद् यथाविधि ।
अन्यथाकरणात्तस्य राजा भवति किल्विषी ॥ १०६ ॥
विरुद्धमपि जल्पन्तो दूता दण्ड्या न भूभृता ।
दूत हन्ता तु नरकमाविशेत् सचिवैः सह ॥ १०७ ॥
विपक्षवचनादन्यो भृत्यो दण्डं न चार्हति ।
विपक्ष वचनाद्दण्डः स्वामिनं नरकं नयेत् ॥ १०८ ॥
- दमनाहार्हाणां दण्ड एव समु
१६ युक्तिकल्पतरौ—
मन्त्रमूलं यतो राज्यं (३) अतो मन्त्रः सुरक्षितः ।
कुर्य्याद्राजा सदा मन्त्रान् कर्म्मणामाफलोदयात् ॥ १०८ ॥
अर्थानर्थौ हि यत्रो भौ संशयश्च परीक्ष्यते ।
समन्त्र इति विज्ञेयः शेषाश्च खलु विभ्रमाः ॥ ११० ॥
एकमेव विषं हन्ति शस्त्रेणैकश्च बध्यते ।
सराष्ट्रं (४) सम्पदं हन्ति राज्ञाञ्च (५) मन्त्रविप्लवः ॥ १११ ॥
करिष्यन्नप्रभाषेत कृतान्येवतु दर्शयेत् ।
धर्म्मार्थ-काम-कार्याणि हतो मन्त्रो न भिद्यते ॥ ११२ ॥
गिरिपृष्ठं (६) मुपारुह्य (७) प्रासादम्बारुहोगतः *।
सराष्ट्रं रभसं (८) हन्ति राजानं मन्त्रविप्लवः ॥ ११३ ॥
अपथे निश्शलाके वा तत्र मन्त्रो विधीयते ।
तत्र साम प्रयोक्तव्यं कार्येषु गुणवत्स्वपि ॥ ११४ ॥
दानं लुब्धेऽपि भेदश्च शङ्कितेष्वपि निश्चयः ।
जड़मूकांश्च बधिरान् तिर्य्यग्योनीन् वयोऽधिकान् ॥११५॥
(३) राष्ट्रम् (ख) पुस्तक पाठः ।
(४) स राष्ट्रमिति (ख) पुस्तक पाठः ।
(५) राजानं (अज्ञानाम्) (ग) पुस्तक पाठः ।
(६) उपाविष्ठ (ख)-(ग) पुस्तक पाठः ।
(७) प्रासादश्वारोहो गतः ? (ग) पुस्तक पाठः ।
(८) अद्रवं (सद्रवस) मिति (क)-(ख) पुस्तक पाठः ।
- (क) पुस्तके धर्म्मार्थे……इत्यादित आरभी गत इत्यन्तः सार्द्धश्लोकोऽधिको दृश्यते ।
(ख)-(ग) पुस्तके तन्नास्ति ।
Digitized By Siddhanta eGangotri Gyaan Kosha
नीतियुक्तिः । १७
स्त्री म्लेच्छ व्याधित व्यङ्गान् (९) मन्त्रकाले निषेधयेत् ।
इति संक्षेपतः प्रोक्ता राजनीतिः कियन्मया ॥ ११६ ॥
यच्चिवर्गाविरुद्धंस्या द्राजनीति स्तदुच्यते ।
इति श्रीभोजराजीये युक्तिकल्पतरौ नीतियुक्तिः ॥
अथ दुर्ग-युक्तिः ।
राज्ञो बलं न हि बलं दुर्गमेव बलम्बलम् (१०) ।
अप्यल्प (११) बलवान् राजा स्थिरो दुर्ग-बलाद्भवेत् ॥११७॥
तथा च,—
एकः शतं योधयति प्राकारस्थो धनुर्द्धरः ।
शतं दश सहस्राणि तस्माद्दुर्गं विशिष्यते ॥ ११८ ॥
अकृत्रिमं कृत्रिमञ्च तत्पुनर्द्विविधम्भवेत् ।
यद्दैवघटितं दुर्गं गिरिनद्यादि-संश्रितम् ॥ ११९ ॥
अकृत्रिम (१२) मिदं ज्ञेयं दुर्लङ्गमरि-भूभुजाम् (१३) ।
प्राकार-परिखारथ्य-संश्रयं यद्भवे दिह ॥ १२० ॥
कृत्रिमं नामविज्ञेयं लङ्गालङ्घ्यन्तु वैरिणाम् ॥ १२१ ॥
( ९ ) व्यङ्गान् इति (ख) पुस्तक पाठः ।
( १० ) परम्बलम् इति (ग) पुस्तक पाठः ।
( ११ ) अत्यल्प इति (ग) पुस्तक पाठः ।
( १२ ) तत् कलिम इति (ख) पुस्तक पाठः ।
( १३ ) अवनीभूजां इति (ग) पुस्तक पाठः ।
३
CC-0. Gurukul Kangri Collection, Haridwar.
१८ युक्तिकल्पतरौ—
अथाकृत्रिम दन्दयुक्तिर्यथा ।
अत्युच्च (१४) विस्तीर्ण-शिरा दुरारोहः सकाननः ।
सजलाशय-सम्भार-भोज्यद्रव्य-समाश्रयः ॥ १२२ ॥
सुख (१५) निःसरणो दन्दः पर्व्वताख्यो महीभुजाम् ।
नद्यो गभीर विस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः ॥ १२३ ॥
तन्मध्ये भूप्रदेशो यो नदीदन्दः स उच्यते ।
यदन्यच्चिरकालीनं दुर्लङ्घ्यं विपिनादिकम् ॥ १२४ ॥
तन्मध्ये रचिता भूमि र्दन्दत्वे(१६)नोपतिष्ठते ।
नवदन्द(१७)मिति ख्यातं यथा पूर्व्वं महत्तरम् ॥ १२५ ॥
——— * ———
कृत्रिम दन्द-युक्तिर्यथा ।
यस्मिन्राज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः ।
तस्य मध्ये महीपालः कृत्रिमं दन्दमारभेत् ॥ १२६ ॥
गजैरलङ्
िश्रं द्वन्द्वमाचरेत् ॥ १३१ ॥`
Line 9:
आश्रित्वा कृत्रिमं द्वन्द्वं बलवद्वैरिणोदिशि ।
Line 10:
अन्यत्र कृत्रिमद्वन्द्वं कृत्वा नरपति र्व्वशेत् ॥ १३२ ॥
Wait, "र्व्वशेत्" or "र्व्वसेत्"?
Look at the letter: र्व्व then शेत् or सेत्?
It is शेत्: र्व्वशेत् (with talavya sha).
Line 11:
रथपतिर्य्यदा वैरी जले (७) द्वन्द्वं तदाचरेत् ।
Wait, "वैरो" or "वैरी"?
Line 11: वैरी - wait, look at the matra: it's an ee-kar with ra-phala: वैरी? Wait, वैरो?
Look at: वै then री? It has a vertical line and a curve to the right, री.
Wait, look at line 12: वैरो or वैरी?
Line 12 has द्वैरो or द्वैरी? It has an ee-kar ी. द्वैरी.
Line 13:
`गिरि-द्वन्द्वं नृपः सेवेन्मुख्यः
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:
२० युक्तिकल्पतरौ—
गुप्ते स्त्री कोषसम्भारं * संरच्छेदिति निश्चयः ॥ १३६ ॥
—*—
अथ सामान्यतो गुणाः ।
तथाहि नीति-शास्त्रम् ।
स प्रवेशापसरणं दन्द मुत्तममुच्यते ।
अन्यत्र वन्दिशालेव न तादृग् (द)वन्धमाश्रयेत् ॥ १३७ ॥
धनुर्द्दन्दं मही दन्दं गिरि-दन्दन्तथैव च ।
मनुष्य दन्द-संसर्गं वरदन्दञ्च तानि षट् ॥ १३८ ॥
अन्ये तु—
न दन्दं दन्दमित्याहु र्योद्धृ-दन्दं प्रकीर्त्तितम् ।
योद्धृ-शून्यं हि यद्गेहं (१) मृतकाय समं हि तत् ॥ १३९ ॥
अथान्यच्चापि,—
यावत् प्रमाणं नगरं हि राज्ञाम्,
ततो भवेदुत्तम मध्यमान्त्यम् ।
त्रिंशच्च (२) लक्षाष्टगुणोत्तरेण
नीतिव्यक्तिः । २१
गर्गस्तु—
यदन्यद्विविधं दन्दं प्रोच्यते धरणीभुजाम् ।
ताभ्यामेवातिरिच्येत (३) मन्त्रयुद्धं (४) विशेषतः * ॥१४१॥
अन्येषु दैवाङ्गिनेषु मन्त्रदन्द्वाज्जये नृपः ।
मन्त्रदन्दे हि भिन्ने हि न चान्यत्कार्य्य(५)कारणम् ॥१४२॥
भोजस्तु,—(†)
यदैव वैरि-दुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् ।
स प्रवेशापसरणं तद्द्दन्द(६)मुत्तमं विदुः ॥ १४३ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ द्वन्द्वयुक्तिः ॥
( ३ ) अतिरिक्ते तत् इति (ख) पुस्तक पाठः ।
( ४ ) मन्त्रद्वन्दं इति (ग) पुस्तक पाठः ।
( ५ ) कार्य्यकारकं इति (ग) पुस्तक पाठः ।
( ६ ) तद्युद्धमुत्तमं इति (ग) पुस्तक पाठः ।
- “उपायान् षड्गुणं मन्त्रं शक्तौः स्वस्यापि चिन्तयेत् ।
धर्मयुद्धैः कूटयुद्धै र्हन्यादेव रिपुं सदा ॥”
“मन्त्रेरित-महाशक्ति-बाणाद्यैः शत्रुनाशनम् ।
मान्त्रिकास्त्रेण तद् युद्धं सर्व्वयुद्धोत्तमं स्मृतम् ॥”—इति शुक्रनीतौ ।
—अथोपायान् सामादीन्, षड्गुणान् सन्ध्यादीन् ;
धर्मयुद्धैः कूटयुद्धैर्वा सदा शत्रून् संहन्यादेव ।
† भोजस्त्विति—ग्रन्थ प्रणेतृतोऽन्यः कश्चन नीतिनिपुणः प्राचीनो भोजराजोऽप्यासीदित्य-
नुमीयते, एतदवतारिकायां द्रष्टव्यम् ।
२१ युक्तिकल्पतरौ—
अथ नगर निर्माणादि-कालः ।
स्थिरराशि-गते भानौ चन्द्रे च स्थिर-भोदये * ।
शुद्धे काले दिने चैव नगरं कारयेत् नृपः ॥ १४४ ॥
—*—
अथास्य लक्षणम् ।
भविष्योत्तरे,—
दीर्घं वा चतुरस्रं वा नगरं कारयेन्नृपः ।
तह्यं (१) वहुलम्बापि कदाचिदपि कारयेत् ॥ १४५ ॥
दीर्घः पादैः प्रसरः चतुरस्रः समोचितः ।
त्रिभिः पादैः समं त्र्यस्रं वर्त्तुलं वलयाकृतिः ॥ १४६ ॥
दीर्घं स्याद्दीर्घकालाय सुखसम्पत्ति-हेतवे ।
चतुरस्रं चतुर्वर्ग(२) फलाय पृथिवी-पतेः ॥ १४७ ॥
——————————————————————————————————————————
( १ ) तद्रुखं इति (ख) पुस्तक पाठः ।
( २ ) चतुर्व्वन्ध (ङ) इति चतुर्व्वद्ध इति (ख)—(ग) पुस्तक पाठः ।
——————————————————————————————————————————
- “आदित्ये युक्कर्कि-क्रियमिथुनघटालिखिते सत्समेतैः,
केन्द्राष्टान्त्ये रसौम्यैस्स्थिरभवरिपुगतैः खस्थिरग्रामलग्ने ।
भेषु स्वात्यार्द्-विशाखादिति फणिदहनीग्रैतरेष्वर्कशुद्धौ ;
वेश्मारम्भः शुभः स्यात् सुतिथि शुभविधौ भौमसूर्य्येतराहे ॥”
अत्र वेश्म इत्युपलक्षणम्, तेन सर्व्वं वास्तुकार्य्यं बोध्यम् ।
—इत्यादीनि ज्योतिषीय शिल्पशास्त्रीय प्रमाणानि मुहूर्त्तचिन्तामणि-बृहत्पाराशर-मूल
स्तम्भशास्त्र-कुमारवास्तुशास्त्र-पाराशरीय शिल्पशास्त्र-ज्योतिस्तत्त्व-शुक्रनीति-वराहमिहिरीयादिषु
च सन्दर्भेषु अनुसन्धेयानि ।
नीतियुक्तिः । २३
चस्रं विशक्ति-नाशाय वर्त्तुलं बहुरोगकृत् ।
राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः ॥ १४८ ॥
राजहस्तैस्तु दशभी राजदण्ड उदाहृतः ।
राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥ १४९ ॥
राजच्छत्रैस्तु दशभी राजकाण्ड उदाहृतः ।
राजकाण्डैश्च दशभी राजपुरुष (३) उच्यते ॥ १५० ॥
राज-प्रधानौ (तु) कथिता दशभी (४) राजपुरुषैः ।
राजधानी दशगुणा (५) राजक्षेत्रमुदाहृतम् ॥ १५१ ॥
सप्तैव परिमाणानि प्रोक्तानि पूरपत्तने ।
भय-श्री भोगसम्पत्ति-मृत्युकीर्त्ति-सुखार्थिनाम् ॥ १५२ ॥
राज-क्षेत्रेण नृपतिः * पूर-पत्तनमारभेत् ।
लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एव च ॥ १५३ ॥
समृद्धिर्वित्त-नाशश्च मङ्गलञ्च वलच्चयः ।
साम्राज्यं भोगसम्पत्तिरिति षोडश-कीर्त्तिताः ॥ १५४ ॥
यथार्थ संज्ञा † नगरी मुनिना तत्त्ववेदिना ।
—*—
अथ वसति-लक्षणम् ।
विस्तीर्णमध्यो नगरः सममर्द्दे चतुष्पथः ।
प्रपा मण्डप कासार-काननाद्युपशोभितः ॥ १५५ ॥
——————————————————————————————
( ३ ) पूरुष इति (क) पुस्तक पाठः ।
( ४ ) स सती इति (क) पुस्तक पाठः ।
——————————————————————————————
- पूरम्-राजान्तःपूरी । पत्तनं-पुटभेदनम् ।
† मान-नियमस्तु यथाव दृश्यते न तथा विश्वकर्मंप्रकाशादौ, शुक्रनीतिसारे,
बृहत्काश्यपीये, पराशरीय शिल्पाद्यौ च ।
२४ युक्तिकल्पतरौ—
ईशान-पूर्व्व-प्लवनः मध्यस्थान-समुन्नतः ।
रोगकृद्दक्षिण-प्लावी धनदश्चोत्तर-प्लवः ॥ १५६ ॥
पश्चिम-प्लवनो ग्राम सुख-सम्पत्ति-नाशनः ।
मध्ये निम्नो दरिद्रत्वं प्रान्ते निम्नः सुखं वहेत् ॥ १५७ ॥
त्रिपथाद्राजदण्डेषु राज-च्छत्रे चतुष्पथे ।
राजकाण्डे मण्डपिका सरसौ राज-पूरुषे ॥ १५८ ॥
राजधान्यन्तरे हट्टं(ट्ट) राजच्छेत्रे च दुग्धकम् (५) ।
मध्ये साधुमृदुभिषक् दैवज्ञान् वासयेदथ ॥ १५९ ॥
प्रान्ते म्लेच्छान्यज-क्रुर वीर सैनिक कर्कशान् ।
गोपुरे सैनिकान् वौरान् मन्त्रिणो भवनान्तिके ॥ १६० ॥
मन्त्रिणः (६) प्रतिवेशित्वं कदाचिदपि नाचरेत् ।
तयोर्हि प्रतिवेशित्वे दुर्मन्त्रोऽपि च जायते ॥ १६१ ॥
नियोगिनां स्थितिं कुर्य्यान्नगरे चान्तरेऽन्तरा ।
नियोगि-मन्त्रिणोर्दृष्टिः (७) कार्य्यध्वंसाय कल्पते ॥ १६२ ॥
मन्त्रिणोऽदूरवसतिः (८) कर्म्म कुर्य्यान्न सत्वरम् (६) ।
नवकं (१०) नवकद्वारं नैकद्वारं समारभेत् ॥ १६३ ॥
न विषमं नाविषमं न समं नासमन्तथा ।
न मध्ये हस्तिनां वासो न प्रान्ते वाजिनान्तथा ॥ १६४ ॥
(५) दुग्धकम् ? (दृद्धकम्, दृढकम्) इति (ख)-(ग) पुस्तक पाठः ।
(६) मन्त्रियोः इति (ख) पुस्तक पाठः ।
(७) —दृष्टः इति (ख) पुस्तक पाठः ।
(८) दूरवसतिः इति (ग) पुस्तक पाठः ।
(९) निसत्वरं इति (ख) पुस्तक पाठः ।
(१०) नरकं इति (ख) पुस्तक पाठः ।
नीतियुक्तिः । ३५
नादूरे पत्ति-वसतिं न दूरे साधु-मन्त्रिणोः ।
न वर्णिनो नाधिकाङ्गान् न हीनान् नच दुष्टतान् ॥ १६५ ॥
न देशान्तरगान् नोच्चान् न महाव्याधि-पीड़ितान् ।
स्वपुरे रचयेद्राजा यदीच्छेदात्मनः श्रियम् ॥ १६६ ॥
न भृत्य-शाला ( १२ ) स्वपुरे न वाध्ययन-शालिका ❊ ।
तत्र शत्रुचरःस्थित्वा सर्व्वं वेत्ति वलावलम् ॥ १६७ ॥
भोजेनापि नगरयुक्तिरन्योक्ता ॥ १६८ ॥
तद्यथा,—
राज(ग्नः)-सहस्तैः कोष्ठ्या च राजक्षेत्रमुदाहृतम् ।
एतेन परिमाणेन भूपः पत्तनमारभेत् ॥ १६६ ॥
यस्मिन् लग्ने भवेज्जन्म महीभर्तु र्महीतले ।
तद्दण्ड-राजक्षेत्रेण राजा पत्तनमारभेत् ॥ १७० ॥
एतेन मेषादिषु पादोन-चतुर्दण्डादिषु मानेषु जातस्य नृ
२६ युक्तिकल्पतरौ—
परदारेषु यो दोष स्तथा पर-पुरेषु च।
यदिच्छेच्छाश्वतीं लक्ष्मौन्तदेतत् उभयन्त्यजेत् ॥ १७४ ॥
निज-लग्नं दशामान-मिते निजकृते नरे (१) ।
नगरे यो वसेद्राजा लक्ष्मोस्तस्यैव शाश्वती १७५ ॥
इति भोजराजीये युक्ति कल्पतरौ नगरौ युक्तिः ॥
अथ वास्तुयुक्तिः।
तत्रस्थान-निर्णयः।
नदी श्मशान शैलानां वनस्य निकटे तथा।
न वास्तुकर्म कुर्वीत न इन्द्र-नगरान्तयोः ॥ १७६ ॥
तत्र दिङ्निर्णयः।
राक्षसानिल-वह्नीनां यमस्य दिशि वेश्मनः।
नारम्भं कारयेद्राजा भौरुग्दाह-क्षयप्रदम् ॥ १७७ ॥
तथाहि,—
भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयङ्करः।
दाह इत्येष कथितो दिशि वास्तु-फलोद्भवः ॥ १७८ ॥
भोजे च,—
यल्लग्ने जायते राजा तस्य लग्नस्य यः पतिः।
या दिक् तस्य नृपस्तस्यां वास्त्वारम्भं समाचरेत् ॥ १७९ ॥
(१) नवे इति (ख) पुस्तक पाठः।
नौतियुक्तिः । २७
एवञ्च कुजादि-पतिके मेषलग्ने
जातस्य नृपतेः कुजादि-पतिकायां
दक्षिणायामपि वास्तुर्न दुष्यति इति ॥ १८० ॥
पराशरस्तु,—
यद्दशा-जनितो राजा वास्त्वारम्भस्तु (१) तद्दिशि * ।
एतेन सूर्यादि-दशा जनितस्य नृपतेः
पूर्व्वादि दिक्षु वास्तु-करणम् ।
तेन शुक्रदशायां जातस्याग्ने य्यामपि न दुष्यति ॥ १८१ ॥
अथ लक्षणम्,—
वास्तुं कुर्य्यान्महीपालः समं सुस्निग्धमृत्तिकम् ।
प्रागुदक्-प्लवनं † रम्यं रम्य-वृक्षोपशोभितम् ॥ १८२ ॥
लक्ष्मीर्दाहः क्षयो भीतिर्धन-नाशोऽर्थ-(२) शून्यता ।
सम्पदष्टिरिति प्रोक्तं पूर्व्वादि-ककुभं फलम् ॥ १८३ ॥
तथाहि प्लवनमन्यत्,—
जन्मलग्नेन दिक् पश्चाद् राज्ञां वास्तु-पुरोमतः ।
एतेन सूर्याधिपतिः तुलालग्ने जातस्य नृपतेः सूर्याधिपतेः
पूर्व्वस्याः पश्चात् पश्चिम-प्लवो हि न दुष्यति ॥ १८४ ॥
──────────────────────────
( १ ) वास्त्वारम्भञ्च इति (क) पुस्तक पाठः ।
( २ ) अर्थशून्यता इति (ख) पुस्तक पाठः ।
──────────────────────────
- दशालग्नादिकं बृहत्पराशर-बृहज्जातकाद्यनुसारेण ज्ञेयम् ।
† पूर्व्वनिम्नमुत्तरनिम्नं वा वास्तु कार्य्यम् ।
३८ युक्तिकल्पतरौ—
अन्ये तु, —
यद्दशा जनितो राजा तद्दिग्गयः प्लवो मतः ।
एतेन गुरुदशा-जातस्य नृपतेर्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥
अन्यत्र तु, —
ब्रह्म-क्षत्रिय-विट्-शूद्राः पूर्व्वादि-दिग्युगे क्रमात् ।
वास्तु-प्लवनमिच्छन्ति निजसम्पत्ति-हेतवे ॥ १८६ ॥
नीतिशास्त्रे च, —
वास्तुकर्म्म नृपः कुर्य्यात् * बलद्वैरिणो दिशि ।
दीर्घां वा चतुरस्रां वा वास्तु-भूमिं महोच्छिताम् ।
एतयोर्लक्षणं तद्वत् फलञ्च नगरे यथा ॥ १८७ ॥
अथ मानम् ।
राजकाण्डेन † नृपतिर्वास्त्वारम्भं समाचरेत् ।
जयोभङ्गः सुखं दुःखं प्रीतिर्भीश्च चलः स्थिरः ॥
इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥ १८८ ॥
अन्यत्र च, —
जन्मलग्ने महीभर्त्तुः कुण्डयोरन्त एव हि ।
राजकाण्डैस्तु तावद्भिर्वास्तुं कुर्य्यान्महीपतिः ॥ १८६ ॥
सुदर्शा(६)च्छन्द-संख्येन राजपट्टेन भूपतेः ।
वास्तुकर्म्म-समारम्भो धनधान्य-जयप्रदः ॥ १६० ॥
( ६ ) खदशा दशाच्छन्द इति (ग) पुस्तक पाठः ।
- नगरप्रकरणोक्त-परिमाणमत्र विज्ञेयम् ।
† गृह-वास्तु-नगर-हर्म्मादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्व्वत्र
समैव ज्ञेया, एवं दुर्ग सेनानिवासादौ च तथैव बोध्यम् ।
Digitized By Siddhanta eGangotri Gyaan Kosha
नौतियुक्तिः। २९
एतयोरपि पूर्व्ववद् व्याख्यानम्।
राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते।
तस्यापि पूर्व्ववन्मानं तन्मान (७) मिति भाषितम् ॥ १६१ ॥
अथ तत्र गुणदोषौ,—
[पुस्तकालय-पत्रकम्:]
विषय संख्या ३१० / १२(ए)
आगत पंजिका संख्या
पुस्तकालय
गुरुकुल कांगड़ी विश्वविद्यालय
30 MAY 1974
K56/77
- 5 JAN 1976
३२३/Z
[मूलपृष्ठ-अंशाः:]
॥
६७ ॥
(
(
(
(१०) ...
(११) वस्तूद्देशः इति (ख) पुस्तक पाठः।
CC-0. Gurukul Kangri Collection, Haridwar.
२८ युक्तिकल्पतरौ—
अन्ये तु,—
यदृशा जनितो राजा तद्दिगग्रः प्लवो मतः ।
एतेन गुरुदृशा-जातस्य नृपतेर्दक्षिणप्लवो न दुष्यति ॥ १८५ ॥
(मध्यभागः पत्रेणाच्छादितः)
( इ
- नगरप्रकरणोक्त-परिमाणमत्र विज्ञेयम् ।
† गृह वास्तु-नगर-हर्म्यादीनामारम्भे जन्मलग्न-ग्रह-तिथि-भयोगादीनां शुद्धिः सर्व्वत्र
समैव ज्ञेया, एवं दुर्ग सेनानिवासादी च तथैव बोध्यम् ।
नौतियुक्तिः । २८
एतयोरपि पूर्व्ववद् व्याख्यानम् ।
राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते ।
तस्यापि पूर्व्ववन्मानं तन्मान (७) मिति भाषितम् ॥ १८१ ॥
अथ तत्र गुणदोषौ,–
परनिर्मित-वास्तुस्थो न तिष्ठति चिरं नृपः ।
न सुखाय न धर्म्माय तत्तस्य भुवि जायते ॥ १८२ ॥
एवमन्यत्रापि,–
राजन्य (८) वीर्य्य-प्रत्याशो पर वास्तुकृत-स्थितिः ।
सुखाय नो भवेन्नॄणां यथा पर-गृहे ग्रहः ॥ १८३ ॥
यः स्वनिर्मित-वास्तुस्थो निज-लग्नादि-संयुक्तः ।
विचारित पुरो-राजा सुचिरं सुखमश्नुते ॥ १८४ ॥
अन्यत्रापि,–
राजा स्वबाहु-वीर्य्याढ्यः निजनिर्मित-वास्तु भाक् ।
स चिरं तनुते सौख्यं स्वगृहस्थो ग्रहो यथा ॥ १८५ ॥
अथ वास्त्वारम्भ-कालः ।
वर्षान्ते (९) ऽभ्युदिते शुक्रे केन्द्रे सुरगुरौ शुभे ।
वास्तु-कर्म्म समारम्भः शुक्रचन्द्रार्क-भूमिजे ॥ १८६ ॥
गृहयुक्तौ (१०) यः समयः कर्त्तव्यस्तत्र वै शुभे ।
वास्त्वारम्भः कार्य्यः शुभसम्पत्ति-कामिना राज्ञा ॥ १८७ ॥
इति श्री भोजराजीये वास्तुयुक्तौ (११) वास्तूद्देशः ।
( ७ ) तद्देशमिति (क) पुस्तक पाठः ।
( ८ ) राजन्य-वीर्य इति (क) पुस्तक पाठः ।
( ९ ) वर्षान्ते इति (ख) पुस्तक पाठः ।
( १० ) गृहयुक्तौ इति (ख) पुस्तक पाठः ।
( ११ ) वस्तूद्देशः इति (ख) पुस्तक पाठः ।
३० युक्तिकल्पतरौ—
अन्येषां यथा,—यदाह वास्तुकुण्डल्याम्—
स्वामिहस्तैश्चतुर्भिः स्यात् कुण्डस्तेनैव मापयेत् ।
क्षेमं भयङ्करो भव्यः शोककृद्विजयः शुचिः ।
वंशकृत्पापकारो च विकारी शोभनः शिवः ॥ १९८ ॥
कुणपः कामदो धूम्नो (१२) धौम्यो धनहरस्तथा ।
धनदः सुखकृ(हृ)च्चेति वाव्योऽ(१३)ष्टादशकीर्त्तिताः ॥ १९६ ॥
तद्यथा,—
आयाम परिणाहाभ्यां योऽङ्ग(१४)पिण्डोऽभि जायते ।
ऊनविंश-हृते (१५) भागे शेषैरेतै यथाक्रमम् ॥ २०० ॥
क्षेमे सर्व्वार्थ-सिद्धिः स्यात् (१६) भयकारि-भयङ्करः ।
भव्यो भोगं प्रकुरुते शोककृत् (१७) वन्धुनाशनम् ॥ २०१ ॥
विजयः कुरुते वृद्धिं शुचिः सर्व्व-सुखं वहेत् ।
वंशकृत् कुरुते वंशं पापकारी कुलापहः ॥ २०२ ॥
विकारी कुरुते दुःखं शोभनः शुभमावहेत् ।
शिवः सर्व्वार्थसिद्धिः स्यात् कुणपः सर्व्वनाशनः ॥ २०३ ॥
कामदोऽभीष्ट-लाभः स्याद् धूम्नो दहति सर्व्वशः ।
धौम्ये धर्ममतिः सौख्यं दुःखं धनहरो भवेत् ॥ २०४ ॥
( १२ ) धृष्टो धै इति (ख) पुस्तक पाठः ।
( १३ ) वाष्टाऽष्टादश इति (ग) पुस्तक पाठः ।
( १४ ) योऽञ्चः इति (ग) पुस्तक पाठः ।
( १५ ) हृते इति (ख) पुस्तक पाठः ।
( १६ ) संसिद्धिः इति (ख) पुस्तक पाठः ।
( १७ ) शोकहृत् इति (ग) पुस्तक पाठः ।
नौतियुक्तिः । ३१
धनदो धन-लाभ स्यात् सुखकृत् सुखकारकः ।
इति प्रोक्तोऽतिसंक्षेपाद्वास्तु-लक्षणसंग्रहः ॥ २०५ ॥
भोजस्तु,—
दण्डमानन्तथैव किन्तु युक्तिरन्या ।
ख (१८) दशाब्दतो द्विगुणै स्तैः शुभावहश्चतुरस्र एव
नव वास्तु शिष्यते ॥ २०६ ॥
किन्तुलग्न-(१९) दण्डमित-लग्नमित-(२०) दण्डसम्मितः ।
प्रकरोति वास्तुरति सौख्य-सम्पदम् ॥ २०७ ॥
उषरा वालुका हित्वा (२१) चयमेतद्विनिन्दितम् ।
त्रिकोणो वर्त्तुलो दोर्घो यवमध्यो वह्निमुखः ॥ २०८ ॥
तथा डमरुरूपश्च सर्पाकार स्तथैव च ।
छिन्नो भिन्नो मध्यनिम्नो व्यजनाभश्चतुष्पथः ॥ २०९ ॥
त्रिपथो जनदोषो च (२२) वृक्षदोषो तथापरः ।
गजशुण्डाकृतिश्चैव यो द्रवः परिकीर्त्तितः ॥ २१० ॥
वास्तु-खण्डे महादोषा हेयास्तस्माद्विचक्षणैः ।
चतुरस्रः शुभो दीर्घस्तस्य (२३) प्रान्तः समाश्रितः ॥
दोषैर्विहीनो विज्ञेयो वास्तुखण्डः सुखावहः ॥ २११ ॥
इति श्री भोजराजीये युक्तिकल्पतरौ वास्तुयुक्तिः ।
( १८ ) सुदशाब्द इति (क) पुस्तक पाठः ।
( १९ ) किमुलग्न इति (ख) पुस्तक पाठः ।
( २० ) दण्डलग्नमितदण्ड इति (ख) पुस्तक पाठः ।
( २१ ) छित्वा इति (ग) पुस्तक पाठः ।
( २२ ) दोषाच इति (ग) पुस्तक पाठः ।
( २३ ) तुभ्य इति (ख) पुस्तक पाठः ।
३२ युक्तिकल्पतरौ—
अथ तत्र कालनिर्णयः * ।
वैशाख-श्रावणाषाढ-मार्गफाल्गुन कार्त्तिकाः ।
सुप्रशस्ता गृहारम्भे पत्नीपुत्र-समृद्धिदाः ॥ २१२ ॥
शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतोभयम् (२४) ।
आदित्य भौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ॥ २१३ ॥
तथान्यत्र,—
पूर्णिमायाष्टमीं यावत् पूर्व्वस्यां वर्ज्जयेत् गृहम् ।
उत्तरस्यां न कुर्वीत नवम्यादि-चतुर्दशीम् ॥ २१४ ॥
अमावश्याष्टमीं यावत् पश्चिमस्यां विवर्जयेत् ।
नवम्यादि तथायामयां यावच्छुक्ला चतुर्दशीम् ॥ २१५ ॥
वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ।
विस्कुम्भ गण्डयोश्चैव गृहारम्भं न कारयेत् ॥ २१६ ॥
आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठाधनिष्ठोत्तराः,
रेवत्याथ मघानुराधहरिभिः शुद्धैः स्व-भावादिभिः ।
सौम्यानां दिवसेऽथ (२५) पापरहिते योगेविरिक्ते तिथौ ;
विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादि-कार्यं शुभम् ॥ २१७॥
मत्स्यपुराणेऽपि,—
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभ-निरीक्षणम् ।
स्तम्भोच्छ्रादिकर्त्तव्यो (२६) ऽन्यत्तु विवर्ज्जयेत् ॥ २१८ ॥
(२४) कृष्णे च भरतो इति (क) पुस्तक पाठः ।
(२५) प्राण इति (ग) पुस्तक पाठः ।
(२६) ब्रह्मादि कर्त्तव्यम् इति (क) पुस्तक पाठः ।
- एतद्विषये प्रमाणान्तराणि—भोजराजीय राजमार्त्तण्डे, ज्योतिस्तत्त्वे, वराहमिहि-
रीये, शिल्पसन्दर्भे चानुसन्धेयानि ।