सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 61, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 61

नीतियुक्तिः । २३
चस्रं विशक्ति-नाशाय वर्त्तुलं बहुरोगकृत् ।
राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः ॥ १४८ ॥
राजहस्तैस्तु दशभी राजदण्ड उदाहृतः ।
राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥ १४९ ॥
राजच्छत्रैस्तु दशभी राजकाण्ड उदाहृतः ।
राजकाण्डैश्च दशभी राजपुरुष (३) उच्यते ॥ १५० ॥
राज-प्रधानौ (तु) कथिता दशभी (४) राजपुरुषैः ।
राजधानी दशगुणा (५) राजक्षेत्रमुदाहृतम् ॥ १५१ ॥
सप्तैव परिमाणानि प्रोक्तानि पूरपत्तने ।
भय-श्री भोगसम्पत्ति-मृत्युकीर्त्ति-सुखार्थिनाम् ॥ १५२ ॥
राज-क्षेत्रेण नृपतिः * पूर-पत्तनमारभेत् ।
लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एव च ॥ १५३ ॥
समृद्धिर्वित्त-नाशश्च मङ्गलञ्च वलच्चयः ।
साम्राज्यं भोगसम्पत्तिरिति षोडश-कीर्त्तिताः ॥ १५४ ॥
यथार्थ संज्ञा † नगरी मुनिना तत्त्ववेदिना ।
—*—
अथ वसति-लक्षणम् ।
विस्तीर्णमध्यो नगरः सममर्द्दे चतुष्पथः ।
प्रपा मण्डप कासार-काननाद्युपशोभितः ॥ १५५ ॥
——————————————————————————————
( ३ ) पूरुष इति (क) पुस्तक पाठः ।
( ४ ) स सती इति (क) पुस्तक पाठः ।
——————————————————————————————

  • पूरम्-राजान्तःपूरी । पत्तनं-पुटभेदनम् ।
    † मान-नियमस्तु यथाव दृश्यते न तथा विश्वकर्मंप्रकाशादौ, शुक्रनीतिसारे,
    बृहत्काश्यपीये, पराशरीय शिल्पाद्यौ च ।