याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
आचाराध्यायः ६३
गोदानफलमाह—
दाताऽस्याः स्वर्गमाप्नोति वत्सरांरोमसंमितान् ।
कपिला चेत्तारयति भूयश्चासप्तमं कुलम् ॥ २०५ ॥
अस्या गोः रोमसंमितान् रोमसंख्याकान्वत्सरान्स्वर्गमाप्नोति दाता । सा
यदि कपिला तदा न केवलं दातारं तारयति किंतु कुलमपि आसप्तमं सप्तम-
मभिव्याप्य पित्रादीन्षट् आत्मानं च सप्तमम् । अप्यर्थे 'भूयः' शब्दः ॥ २०५ ॥
भाषा—जितने रोएँ (गौ के शरीर में) होते हैं उतने वर्ष तक उस गौ का
दाता स्वर्ग प्राप्त करता है। और यदि वह गाय कपिला हो तो वह न केवल दाता
को अपितु उसकी सातवीं पीढ़ी तक को तार देती है ॥ २०५ ॥
उभयतोमुखीदानफलम्—
सवत्सारेामतुल्यानि युगान्युभयतोमुखीम् ।
दाताऽस्याः स्वर्गमाप्नोति पूर्वेण विधिना ददत् ॥ २०६ ॥
सवत्सारेामतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोममुल्यानि
वत्सस्य गोश्च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतो-
मुखीं ददत्स्वर्गमाप्नोत्यनुभवति पूर्वेण विधिना दाता चेत् ॥ २०६ ॥
भाषा—पूर्वोक्त विधि से उभयतोमुखी गाय का दान देने वाला व्यक्ति उतने
युग तक स्वर्ग प्राप्त करता है जितने रोएँ गौ और बछड़े के शरीर में मिलाकर
होते हैं ॥ २०६ ॥
का पुनरुभयतोमुखी कथं तावत्प्रदानं महाफलमित्यत आह—
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ २०७ ॥
गर्भाग्निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते
तावत्कालं उभयतोमुखमस्या अस्तीत्युभयतोमुखी । यावत्कालं गर्भं न मुञ्चति
तावत्सा गौः पृथिवीसमा ज्ञेया । अतः फलातिशयो युक्तः ॥ २०७ ॥
भाषा—(गर्भ से निकलते हुए) बछड़े के दो पैर और मुख जब तक योनि
में दिखाई पड़ते हैं (तब तक वह उभयतोमुखी होती है) जब तक गौ बछड़े का
प्रसव नहीं करती तब तक (इस स्थिति में) उसे पृथिवी के समान समझना
चाहिए ॥ २०७ ॥
१. भूय आ। २. मुखी। ३. द्वौ पादौ। ४. प्रदृश्यते।
६४ याज्ञवल्क्यस्मृतिः
सामान्यगोदाने फलम्—
यथाकथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ २०८ ॥
यथाकथंचित् हेमशृङ्गाद्यभावेऽपि यथासंभवं पूर्वोक्तेन विधिना धेनुं दोग्ध्रीं
अधेनुं वा अवन्ध्यां अरोगां रोगरहितां अपरिक्षिष्टां अत्यन्तादुर्बलां गां दत्त्वा
दाता स्वर्गे महीयते पूज्यते ॥ २०८ ॥
भाषा—जिस किसी प्रकार हो ( सोने से सींग और चाँदी से खुर मढ़ाये
बिना भी ) दूध देने वाली या अवन्ध्या, रोगहीन, और दुर्बल गाय का दान करने
वाला व्यक्ति स्वर्ग में पूजा जाता है ॥ २०८ ॥
गोदानसमान्याह—
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ॥ २०९ ॥
श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परि-
चर्या यथाशक्त्यौषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्यादि-
भिराराधनम् । पादशौचं द्विजानां समानानामधिकानां च । तेषामेवोच्छिष्टस्य
संमार्जनम् । एतान्यन्तरोक्तेन गोदानेन समानि ॥ २०९ ॥
भाषा—थके हुए के खेद को ( आसन, बिस्तर आदि देकर ) दूर
करना, रोगी की सेवा, देवताओं की ( माला पुष्प आदि से ) पूजा, द्विजों का
पैर धोना और उनका जूठा साफ करना ये सभी कर्म गोदान के तुल्य
होते हैं ॥ २०९ ॥
भू^१दीपांश्चान्नवस्त्राम्भस्तिलसर्पिः प्रतिश्रयान् ।
नैवेशिकं^२ स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ २१० ॥
भूः फलै^३प्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासिनामाश्रयः ।
निवेशानार्थं गार्हस्थ्यार्थं यत्कन्या दीयते तन्नैवेशिकम् । स्वर्णं सुवर्णम् । धुर्यो
भौर^४सहो बलीवर्दः, शेषं प्रसिद्धम् , एतान्भूदीपादीन्दत्त्वा स्वर्गलोके महीयते
पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम् । 'यत्किंचित्कुरुते
पापं ज्ञानतोऽज्ञानतोऽपि वा । अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥' तथा
मनुः (४।२२९) —'वारिदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः । तिलप्रदः
प्रजामिष्टां दीपश्चक्षुरुत्तमम् ॥ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अन-
१. भूदीपान्नान्नवस्त्रा । २. नैवेशिकस्वर्णधुर्यान् । ३. भूःकृषिफलप्रद ।
४. भारवाहो ।
आचाराध्यायः ६५
ङ्कुदः श्रियं पुष्टां मोदो ब्रध्नस्य विष्टपम् ॥' इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं
च बृहस्पतिना दर्शितम्- 'सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दश तान्येव
गोचर्म दत्त्वा स्वर्गे महीयते ॥' इति ॥ २१० ॥
भाषा-( उर्वर ) भूमि, दीपक, अन्न; वस्त्र, जल, तिल, घी, परदेशी को
आश्रयस्थान ( गृहस्थाश्रम के लिये ) कन्या, सोना और भार ढोने वाले बैल का
दान देकर दाता स्वर्ग में सम्माननीय स्थान पाता है ॥ २१० ॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वाऽत्यन्तं सुखी भवेत् ॥ २११ ॥
गृहं प्रसिद्धम्, धान्यानि च शालीगोधूमादीनि, अभयं भीतत्राणम्,
उपानहौ, छत्रम्, माल्यं मल्लिकादेः, अनुलेपनं कुङ्कुमचन्दनानि, यानं रथादि,
वृक्षं उपजीव्यमाम्रादिकम्, प्रियं यद्यस्य प्रियं धर्मादिकम्, शय्यां च दत्त्वा,
अत्यन्तमतिशयेन सुखी भवति । न च हिरण्यादिवद्धस्ते दातुमशक्यत्वाद्धर्मस्य¹
दानासम्भवः । भूमिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात्-
'देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं
क्वचित् ॥' अपुण्यदाने² तदेव वर्धते प्रतिग्रहीतुर्दाप लोभादिना प्रवृत्तस्य, 'यः
पापमबलं³ ज्ञात्वा प्रतिगृह्णाति दुर्मतिः । गर्हिताचरणात्तस्य पापं तावत्समाश्वयेत् ॥
समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ॥' इति स्मरणात् । इह च सर्वत्र
देशकालपात्रविशेषाद्देयविशेषात्- 'दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि'
इति प्रतिग्रहीतृवृत्तिविशेषाच्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥
भाषा-घर, और धान्य का दान, ( डरे हुए को ) अभयदान, जूता,
छाता कुङ्कुमचन्दन आदि लेपन, रथ इत्यादि सवारी, ( आम्रादि फल वाले )
वृक्ष, अभीष्ट वस्तु तथा शय्या का दान देकर दाता अत्यन्त सुखी
होता है ॥ २११ ॥
दानात्फलमुक्तमिदानीं दानफलावाप्तिहेतूनाह-
सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद्दत्समवाप्नोति ब्रह्मलोकम⁴विच्युतम् ॥ २१२ ॥
यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्य-
धिकं अतस्तद्ददध्यापन द्वारेण ब्रह्मलोकमवाप्नोति । अविच्युतं
च्युतिर्यथा न भवति । आभूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः । अत्र च
ब्रह्मदाने परस्वत्वापादनमात्रं दानम् ; स्वत्वनिवृत्तेः कर्तुमशक्यत्वात् ॥ २१२ ॥
१. धर्मादीनामसंभवः । २. दानेन । ३. प्रबलं ज्ञात्वा । ४. मविच्युतः ।
६६ याज्ञवल्क्यस्मृतिः
भाषा—सब धर्मों के ज्ञान से युक्त होने के कारण वेद का दान सभी दानों से
बढ़कर होता है । इसका दान करने वाला ब्रह्मलोक में अचल होकर सतत निवास
करता है ॥ २१२ ॥
१दाने फलमुक्तम्, इदानीं दानव्यतिरेकेणापि दानफलावाप्तेर्हेतुमाह—
प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥ २१३ ॥
यः पात्रभूतोऽपि प्राप्तं प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोति, असौ
यद्यत्प्राप्तं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्तान्समग्रानाप्नोति ॥ २१३ ॥
भाषा—जो व्यक्ति दान लेने का पात्र होते हुए भी दान नहीं लेता
वह उन सभी लोकों को प्राप्त कर लेता है जो लोक दान देने वाले को
मिलते हैं ॥ २१३ ॥
इदानीं सर्वप्रतिग्रहप्रवृत्तिप्रसङ्गेऽपवादमाह—
कुशाः शाकं पयो मत्स्याः गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ २१४ ॥
धानाः भृष्टा यवाः, क्षितिर्मृत्तिका, शेषं प्रसिद्धम् । एतत् कुशादिकं
स्वयमुपानीतं न प्रत्याख्येयम् । चकाराद्गृह्यादि (मनुः ४।२५०)—'शय्यां
गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्यान्पयो मांसं शाकं चैव न
निर्णुदेत् ॥' तथा—'एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णी-
यान्मध्वथाभयदक्षिणाम् ॥' ( ४।२४७ ) इति मनुस्मरणात् ॥ २१३ ॥
भाषा—कुश, शाक, दूध, मछली, सुगन्धि, फूल, दही, भूमि, मांस, शय्या,
आसन, भूने हुए धान, और जल ये सब बिना माँगे ही मिले तो अस्वीकार न
करना चाहिए ॥ २१४ ॥
किमिति न प्रत्याख्येयमित्याह—
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥ २१५ ॥
यस्माद्याचितमेतत्कुशाद्याहृतं दुष्कृतकारिणोऽपि संबन्धि ग्राह्यं, किमुत
यथोक्तकारिणः । तस्मान्न प्रत्याख्येयम् । अन्यत्र कुलटाषण्ढपतितेभ्यः शत्रोश्च ।
कुलात्कुलमटन्तीति कुलटाः स्वैरिण्यादिकाः, षण्ढस्तृतीयाप्रकृतिः ॥ २१५ ॥
१. दातुः फलमुक्त्वेदानों । २. भ्रष्टतण्डुलाः । ३. मध्वाज्याभय ।
४. षण्ड ।
आचाराध्यायः ६७
भाषा—बिना माँगे ही दुराचारी व्यक्ति द्वारा भी लाई हुई (कुशादि)
वस्तुएँ ग्रहण करने योग्य होती हैं; किन्तु कुलटास्त्री, नपुंसक एवं पतित व्यक्ति
द्वारा स्वयं लाई गई (ये वस्तुएँ भी) द्विज न ग्रहण करे ॥ २१५ ॥
प्रतिग्रहविवृत्तेरपवादान्तरमाह—
देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ॥ २१६ ॥
देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थम १नात्मकारणात् । पतिताद्यत्यन्तकुत्सित-
वर्जं सर्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः, भृत्याः भरणीयाः
भार्यापुत्रादयः ॥ २१६ ॥
भाषा—देवता और अतिथि की पूजा एवं सत्कार के लिये अथवा
माता पिता आदि गुरुजनों एवं स्त्री पुत्रादि आश्रित जनों के लिए तथा अपनी
वृत्ति के लिए सभी स्थानों से दान लेना विहित है ॥ २१६ ॥
इति दानप्रकरणम् ।
अथ श्राद्धप्रकरणम्
इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा
द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः। तच्च द्विविधं—पार्वणमेकोद्दिष्टं चेति। तत्र
त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् ।
पुनश्च त्रिविधं-नित्यं नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधौ चोदि-
तमहरहरमावास्याष्टकादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्र-
जन्मादिषु । फलकामनोपाधौ विहितं२ काम्यं यथा स्वर्गादिकामानां कृत्तिकादि-
नक्षत्रेष्ठ, तिथिषु च। पुनश्च पञ्चविधम्—'अहरहः श्राद्धं पार्वणं वृद्धिश्राद्धमे-
कोद्दिष्टं सपिण्डीकरणं चे'ति । तत्राहरःश्राद्धं—'अन्नं पितृमनुष्येभ्यः' इत्यादि-
नोक्तम् । तथा च मनुः (३।८२)—'कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥' इति ॥
अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह—
अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुंवत्सूर्यसंक्रमः ॥ २१७ ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः ॥ २१८ ॥
१. मानापत्कारणात् । २. चोदितं । ३. विषुवः ।
७ या०
९८ याज्ञवल्क्यस्मृतिः
यत्र दिने चन्द्रमा न दृश्यते सा अमावश्या, तस्यामहर्द्वयव्यापिन्याम-
पराह्नव्यापिनी ग्राह्या; 'अपराह्नः पितॄणाम्' इति वचनात् । अपराह्नश्च
पञ्चधा विभक्ते दिने चतुर्थो भागस्त्रिमुहूर्तः । अष्टकाश्चतस्रः 'हेमन्तशिशिर-
योश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः' (गृ. सू. २४।१) इत्याश्वलायनोक्ताः, वृद्धिः
पुत्रजन्मादिः, कृष्णपक्षोऽपरपक्षः, अयनद्वयं दक्षिणोत्तरसंज्ञकम्, द्रव्यं १कृसर-
माषादिकम्, ब्राह्मणसंपत्तिर्वक्ष्यमाणा, विषुवद्वयं मेषतुलयोः सूर्यगमनम्,
सूर्यसंक्रमः आदित्यस्य राशेः राश्यन्तरगमनम्, अयनविषुवतोः संक्रान्तित्वे
सिद्धेऽपि पृथगुपादानं फलातिशयप्रतिपादनार्थम् । व्यतीपातो योगविशेषः ।
गजच्छाया—'यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । २यस्यां तिथिर्भवेत्सा
हि गजच्छाया प्रकीर्तिता ॥' इति परिभाषिता । हस्तिच्छा्येति केचित्,
सेह न गृह्यते; कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरुपरागः । यदा च कर्तुः
श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाद्युगादिप्रभृतयः । एते श्राद्धकालाः ।
यद्यपि—'चन्द्रसूर्यग्रहे नाद्यात्' इति ग्रहणे भोजननिषेधस्तथापि भोक्तुर्दोषः,
दातुरभ्युदयः ॥ २१७-१८ ॥
भाषा—अमावश्या अष्टका (हेमन्त और शिशिर ऋतु के कृष्णपक्षों
की चारों अष्टमी तिथियों) को, पुत्र जन्म के अवसर पर, कृष्णपक्ष में,
दोनों (उत्तर एवं दक्षिण) अयनों में, द्रव्य (कृषरमाष) ब्राह्मणसम्पत्ति,
मेष और तुला राशि पर सूर्यसंक्रमण, सूर्य की दूसरी राशि पर गमन,
व्यतीपात (एक विशेष योग), गजच्छाया, चन्द्रमा और सूर्य ग्रहण के समय
और जब करने की इच्छा हो तब श्राद्ध का काल होता है ॥ २१७-२१८ ॥
अहरहः श्राद्धव्यतिरिक्तवक्ष्यमाणचतुर्विधश्राद्धेषु ब्राह्मणसंपत्तिमाह—
अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥ २१९ ॥
सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाप्यजस्रास्खलिताध्ययनत्तम
अग्र्यः । श्रोत्रियः श्रुताध्ययनसंपन्नः । वक्ष्यमाणं ब्रह्म यो वेत्ति असौ ब्रह्म-
वित् । युवा मध्यमवयस्कः । सर्वस्येदं विशेषणम् । मन्त्रब्राह्मणयोरर्थं वेत्तीति
वेदार्थवित् । ज्येष्ठसाम सामविशेषः, तदध्ययनाङ्गव्रतं च तद्व्रताचरणेन यस्तद-
धीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशः, तद्व्रतं च तद्व्रताचरणेन ३तदधीते
इति त्रिमधुः । त्रिसुपर्णं ऋग्यजुषोरेकदेशः, तद्व्रतं च तद्व्रताचरणेन यस्तदधीते
स त्रिसुपर्णकः । 'एते ब्राह्मणाः श्राद्धसंपद' इति ४वक्ष्यमाणेन संबन्धः ॥ २१९ ॥
१. कृष्णसारमांसादि । २. याऽया तिथि तिथिवैश्ववणीया ( =त्रयोदशी) ।
३. तदुत्थ्याञ्चौ । ४. वक्ष्यमाणक्रियासंबन्धः ।
आचाराध्यायः ६६
भाषा—सभी वेदों का ध्यानपूर्वक अध्ययन करने वाले, श्रुताध्ययनसंपन्न,
ब्रह्मज्ञानी, युवक, वेद का अर्थ जानने वाले, ज्येष्ठसाम नाम के साममंत्रों का
आचरणपूर्वक अध्ययन करने वाले, (ऋग्वेद के) त्रिमधु मन्त्रों को व्रता-
चरण सहित पढ़ने वाले (ऋग्यजुस् के) त्रिसपर्ण मन्त्रों का नियम के साथ
पारायण करने वाले ब्राह्मण—॥ २१९ ॥
स्वस्रीयक्रत्विग्जामातृयाज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्रशिष्यसंबन्धिवान्धवाः ॥ २२० ॥
स्वस्त्रीयो भागिनेयः, ऋत्विगुक्तलक्षणः, जामाता दुहितुर्भर्ता, त्रिणाचिकेतं
यजुर्वेदैकदेशः, तद्व्रतं च तद्व्रताचरणेन यस्तदध्यायी स त्रिणाचिकेतः । अन्य-
प्रसिद्धम् । एते च पूर्वोक्तान्यश्रोत्रियाचभावे वेदितव्याः, ‘एष वै प्रथमः
कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥’ (मनु.
३।१४७) इत्यभिधाय मनुना स्वस्त्रीयादीनामभिहितत्वात् ॥ २२० ॥
भाषा—भागिनेय, ऋत्विज्, दामाद, यजमान, श्वशुर मामा, (यजुर्वेद
के) त्रिणाचिकेत का व्रत एवं अध्ययन करने वाले, दौहित्र (कन्या का पुत्र,
नाती) शिष्य, सम्बन्धी, बान्धव— ॥ २२० ॥
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ॥ २२१ ॥
कर्मनिष्ठा विहितानुष्ठानतत्पराः, तपोनिष्ठास्तपःशीलाः, सभ्यावसथ्यौ
त्रेताग्नयश्च यस्य सन्ति स पञ्चाग्निः, पञ्चाग्निविद्याध्यायी च, ब्रह्मचारी उप-
कुर्वाणको नैष्ठिकश्च, पितृमातृपरास्तत्पूजापराः, चकारात् ज्ञाननिष्ठादयः ।
ब्राह्मणाः न क्षत्रियादयः । श्राद्धसंपदः श्राद्धेष्वक्षय्यफलसंपत्तिहेतवः ॥ २२१ ॥
भाषा—कर्मनिष्ठ (विहित अनुष्ठान में तत्पर रहने वाले), तपस्वी,
पञ्चाग्नि का आधान करने वाले, ब्रह्मचारी, पिता-माता की सेवा करने वाले
ब्राह्मण श्राद्ध में अक्षय फल के हेतु होते हैं (क्षत्रिय आदि नहीं) ॥ २२१ ॥
वर्ज्यानाह—
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ २२२ ॥
रोगी महारोगोपसृष्टः, हीनमतिरिक्तं वाऽङ्गं यस्यासौ हीनातिरिक्ताङ्गः, एके-
नाक्ष्णा यो न पश्यति स काणः, एतस्मादेवान्धबधिरवृद्ध³प्रजनन⁴खलतिदुश्चर्म-
१. ज्ञान । २. श्राद्धसंपदे (= श्राद्धस्य संपदे समृद्धये) । ३. वृद्धप्रजनन ।
४. खलतिर्निष्केशशिराः खल्वाटः ।
प्रभृतयो निरस्ताः । पुनर्भूक्तलक्षणा, तस्यां जातः पौनर्भवः, अवकीर्णी
ब्रह्मचर्य एव स्खलितब्रह्मचर्यः, कुण्डगोलौ—'परदारेषु जायेते द्वौ सुतौ
कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः॥' (मनुः ३।१७४)
इत्येवमुक्तलक्षणौ, कुनखी १कुत्सितनखः, श्यावदन्तकः स्वभावान्कृष्णदशनः ।
'एते श्राद्धे निन्दिताः' इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥
भाषा—रोगी, अङ्गहीन या बढ़े हुए अंग वाला, काना, पुनर्भू (दुबारा
व्याही गई स्त्री) का पुत्र, स्खलितब्रह्मचर्य, कुण्ड (पति के जीवित रहते
दूसरे पुरुष के सम्बन्ध से उत्पन्न) पुत्र, गोलक (पति के मरने पर दूसरे
पुरुष से उत्पन्न) पुत्र, भद्दे नाखूनों वाला, काले दाँतों वाला, ॥ २२२ ॥
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ २२३ ॥
वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः, वेतनदानेन च योऽधीते
सोऽपि, क्लीबो नपुंसकः, असद्भिः सद्भिर्वा दोषैर्यैः कन्यां दूषयति स कन्या-
दूषी, सताऽसता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रध्रुक् मित्रद्रोही,
परदोषसंकीर्तनशीलः पिशुनः, सोमविक्रयी यज्ञे सोमस्य विक्रेता, परिविन्दकः
परिवेत्ता, ज्येष्ठेऽकृतदारेऽकृताग्निपरिग्रहे वा यः कनीयान्दारपरिग्रहमग्निपरिग्रहं
वा कुर्यात्स परिवेत्तः । ज्येष्ठस्तु परिवित्तिः । तथाह मनुः (३।१७१)—
'दाराग्निहोत्रसंयोगं यः२ करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु
पूर्वजः ॥' इति । एवं दातृ-याजकावपि—'परिवित्तिः परिवेत्ता यया च परि-
विद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥' इति (३।१७२) ३मनु-
वचनात् ॥ २२३ ॥
भाषा—वेतन लेकर पढ़ाने वाला, नपुंसक, कन्या पर झूठे या सही
दोष लगाने वाला, ब्रह्महत्यादि के पाप से अभिशस्त, मित्रद्रोही, चुगलखोर,
सोमलता का विक्रय करने वाला, बड़े भाई के अविवाहित रहते विवाह
करने वाला ॥ २२३ ॥
४मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ २२४ ॥
विना कारणेन मातापितृगुरून् यस्त्यजति स मातापितृगुरुत्यागी । एवं
भार्यासुतत्याग्यपि, 'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्य-
१. संकुचितनखः । २. कुरुते योऽग्रजे स्थिते । ३. इति समान-
दोषश्रवणात् । ४. मातृपितृ, मातापित्रोगुरोः ।
[Page Header: आचाराध्यायः १०१]
कार्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत् ॥' (मनुः ११।११०) इति समाननिर्देशात्
कुण्डस्यान्नं योऽश्नात्यसौ कुण्डाशी, एवं गोलकस्यापि; 'यस्तयोरन्नमश्नाति सा
कुण्डाशी प्रकीर्तितः इति वचनात् । वृषलो निर्धर्मस्तत्सुतो वृषलात्मजः, पर-
पूर्वा पुनर्भूः, तस्याः पतिः, अदत्तादायी स्तेनः, कर्मदुष्टाः शास्त्रविरुद्धकारिणः ।
चकारात्सितवदेवलकप्रभृतयः । एते श्राद्धे निन्दिताः प्रतिषिद्धाः । 'अग्र्याः
सर्वेषु वेदेषु' ( आ. २१७ ) इत्यादिना श्राद्धयोग्यब्राह्मणप्रतिपादनेनैव तद्व्य-
तिरिक्तानामयोग्यत्वे सिद्धेऽपि पुनः केषांचिद्रोग्यादीनां प्रतिषेधवचनमुक्त-
बहुगुणब्राह्मणासंभवे प्रतिषेधरहितानां प्राप्त्यर्थम् ॥ २२४ ॥
भाषा—अकारण माता, पिता और गुरु का त्याग करने वाला, कुण्डे भर
अन्न खाने वाला, अधर्मी का पुत्र, पुनर्भू का पति, न दी हुई वस्तु को ग्रहण
करने वाला चोर, और शास्त्रविरुद्ध कार्य करने वाला —ये सभी श्राद्धकर्म में
निषिद्ध होते हैं ॥ २२४ ॥
एवं श्राद्धकालान्ब्राह्मणांश्चोक्त्वाऽधुना पार्वणप्रयोगमाह—
निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवाञ्शुचिः ।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥ २२५ ॥
पूर्वोक्तान्ब्राह्मणान् 'श्राद्धे १क्षणः क्रियताम्' इति पूर्वेद्युर्निमन्त्रयेत प्रार्थनया
क्षणमभ्युपगमयेत् । अपरेद्युर्वा; 'पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेत
त्र्यवरान्सम्यग्विप्रान् यथोदितान् ॥' इति ( ३।१८७ ) मनुस्मरणात् । आत्म-
वान् शोकोन्मादादिरहितश्चेत् दोषवान् भवति । यद्वा, —आत्मवाञ्जित्येन्द्रियो
भवेत् । शुचिः प्रयतश्च । तैरपि निमन्त्रितैर्ब्राह्मणैः । मनोवाक्कायव्यापारैः
संयतैर्नियतैर्भवितव्यम् ॥ २२५ ॥
भाषा—( श्राद्ध के ) पहले दिन स्वस्थ मन एवं पवित्र होकर ( पूर्वोक्त
प्रकार के ) ब्राह्मणों को निमन्त्रित करे । उन निमन्त्रित ब्राह्मणों को भी मन, वाणी,
शरीर एवं कर्म से पवित्रता रखनी चाहिये ॥ २२५ ॥
अपराह्ने समभ्यर्च्य स्वागतेनांगतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ २२६ ॥
अपरा उक्तलक्षणे समभ्यर्च्य तान्निमन्त्रितान्ब्राह्मणानह्वय स्वागतवचनेन
पूजयित्वा कृतपादधावनाचान्तान् क्लृप्तेष्वासनेषु पवित्रपाणिः पवित्रपाणीनुप-
वेशयेत् । यद्यप्यत्र सामान्येन 'अपराह्ने' इत्युक्तं, तथापि कुतपे प्रारभ्य तदादि
पञ्चमुहूर्तेषु परिसमापनं श्रेयस्करम्, 'अह्नो मुहूर्ता विख्याता दश पञ्च च
१. अवसर उत्सवो वा क्षणः । २. नागतान्द्दिजान् । ३. विज्ञेया ।
१०६ याज्ञवल्क्यस्मृतिः
सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ मध्याह्ने सर्वदा यस्मा-
न्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥ ऊर्ध्वं
मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते ॥' (मात्स्य
श्राद्ध. २२।८४-८५,८८) इति वचनात् । तथान्यदपि श्राद्धोपयोगि कुतपसंज्ञक-
मुक्तम् , 'मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः । रौप्यं दर्भास्तिला गावो
दौहित्रश्चाष्टमः स्मृतः ॥ पापं कुत्सितमित्याहुस्तस्य संतापकारिणः । अष्टावेते
यतस्तस्मात्कुतपा इति विश्रुताः ॥' (मात्स्य. २२।८६-८७) इति ॥ २२६ ॥
भाषा—उन आये हुए ब्राह्मणों की अपराह्न के समय स्वागत वचन द्वारा
अर्चना करके (अपने) हाथों को शुद्ध करके उन्हें आचमन कराकर आसनों पर
बैठावे ॥ २२६ ॥
युग्मान्दैवे यथाशक्ति ^१पित्र्येऽयुग्मांस्तथैव च ।
^२परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ २२७ ॥
दैवे आभ्युदयिके श्राद्धे युग्मान् समान्ब्राह्मणानुपवेशयेत् । कथम् ? यथा-
शक्ति शक्तिमनतिक्रम्य । तत्र वैश्वदेवे द्वौ द्वौ, मात्रादीनां तिसृणामेकैकस्या द्वौ
द्वौ, तिसृणां वा द्वौ । एवं पित्रादीनामेकैकस्य द्वौ द्वौ, त्रयाणां वा द्वौ । एवं
मातामहादीनां च वर्गत्रयेऽपि वैश्वदेवं पृथक्, तन्त्रं वा । पित्र्ये पार्वणश्राद्धे
अयुग्मान् विषमानुपवेशयेदिति संबध्यते । एतच्च परिस्तृते सर्वतः प्रच्छादिते
शुचौ गोमयादिनोपलिप्ते दक्षिणाप्रवणे दक्षिणतोऽवनते देशे कार्यम् ॥ २२७ ॥
भाषा—दैव (आभ्युदयिक) श्राद्ध में अपनी शक्ति के अनुसार सम
संख्यावाले और पित्र्य अर्थात् पार्वण श्राद्ध में विषम संख्या में ब्राह्मणों को
चारों ओर से आसनों द्वारा ढके हुए (गोबर आदि से लीप कर) पवित्र किए
गये, और दक्षिण की ओर झुके हुए स्थान पर बैठावे ॥ २२७ ॥
'अयुग्मान्पित्र्ये' (श्लो. २२७) इति पार्वणश्राद्धाङ्गभूते वैश्वदेवेऽप्ययुग्मप्रसङ्गे
इदमारभ्यते—
द्वौ दैवे ^३प्राक् त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥ २२८ ॥
द्वौ दैव इति । दैवे वैश्वदेवे द्वौ ब्राह्मणौ प्राङ्मुखावुपवेश्यौ । पित्र्ये अयुग्मा-
नित्यविशेषप्रसङ्गे विशेष उच्यते—त्रयः पित्र्ये इति । पित्र्ये पित्रादिस्थाने त्रय
उदङ्मुखा उपवेश्याः । पक्षान्तरमाह—एकैकमेव वा । वैश्वदेवे पित्र्ये च एकमे-
१. पित्र्ये युग्मान् । २. परिश्रिते ( = काण्डपटादिना परिवृते) ।
३. प्राक्तु पित्र्ये त्रीन् ।
कमुपवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमन्त्रणादि ।
द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वेत्येव मतं पितृश्राद्धवत्कर्त्तव्यम् । पितृश्राद्धे
मातामहश्राद्धे च वैश्वदेविकं पृथक् तन्त्रेण वा कर्त्तव्यम् । 'तन्त्र'शब्दः समुदाय-
वाचकः । यदा तु द्वावेव ब्राह्मणौ लब्धौ तदा तु वैश्वदेवे पात्रं प्रकल्प्य उभय-
त्रैकैकं ब्राह्मणं नियुञ्ज्यात् । यथाह वसिष्ठः ( ११।३०,३१ )—'यद्येकं भोजये-
च्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवता-
यतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदन्नं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे ॥'
इति ॥ २२८ ॥
भाषा—दो ब्राह्मणों को विश्वदेवों की ओर पूर्वदिशा में मुख कराके,
पित्रादिस्थान में विषम संख्या वाले ब्राह्मणों को उत्तर की ओर मुख कराके
अथवा वैश्वदेव एवं पित्र्यस्थान में एक-एक ब्राह्मण को बैठावे । मातामह के श्राद्ध में
भी ऐसा ही करे अथवा वैश्वदेविक पृथक् तन्त्र से करे ॥ २२८ ॥
पाणिप्रक्षालनं दत्त्वा १विष्टरार्थं कुशानपि ।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥ २२९ ॥
तदनन्तरं वैश्वदेवार्थ ब्राह्मणस्ते जलं दत्त्वा विष्टरार्थं कुशांश्च युग्मान्
द्विगुणितानासने दक्षिणतो दत्त्वा 'विश्वान्देवानावाहयिष्ये' इति ब्राह्मणान्
पृष्ट्वा तैः 'आवाहत' इत्यनुज्ञातो 'विश्वे देवास आगत' ( ऋ. ४।८।१५ )
इत्यनयर्चा 'आगच्छंतु महाभागाः' इत्यनेन च स्मार्तेन मन्त्रेण तानावाहयेत् ।
एतच्च यज्ञोपवीतिना२ प्रदक्षिणं च कार्यम्, 'अपसव्यं सतः कृत्वा पितॄणामप्र-
दक्षिणम्' ( आ. २३२ ) इति पित्र्ये विशेषस्मरणात् ॥ २२९ ॥
भाषा—तब ( विश्वदेव के लिये ) ब्राह्मण को हाथ धोने के लिये जल
देकर ) बैठने के लिये ( जोड़ा ) कुश देकर, उनकी आज्ञा से 'विश्वेदेवास आगत'
इत्यादि ऋचा द्वारा ( और आगच्छन्तु महाभागाः' स्मार्त मन्त्र से ) उनका
आवाहन करे ॥ २२९ ॥
यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २३० ॥
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
ततो ३वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं
तैजसादिभाजने सपवित्रके कुशयुग्मान्तर्हिते 'शं नो देवीरभिष्टय' ( ऋ. ७।६।
५४ ) इत्यनयर्चापः क्षिप्त्वा 'यवोऽसि धान्यराजोऽसि' इत्यादिना मन्त्रेण
पाद-टिप्पणी (Footnotes):
१. विष्टरार्थान् । २. वीतिना सव्येन च । ३. विश्वेदेवार्थ ।
[Header]
१०४ याज्ञवल्क्यस्मृतिः
यवान् ततो गन्धपुष्पाणि च क्षिप्त्वाऽनन्तरं अर्घ्यपात्रपवित्रान्तर्हिते ब्राह्मण-
हस्ते 'या दिव्या आपः पयसा' इत्यादिना मन्त्रेण विश्वेदेवा इदं वोऽर्घ्य' इत्य-
र्घ्योदकं विनिचिपेत् ॥ २३० ॥
भाषा—तब (वैश्वदेव के लिये) ब्राह्मणों के निकट भूमि पर जौ बिखेर
कर पवित्र (दो कुश) से युक्त दो पात्रों में 'शंनो देवीरभिष्टये' इत्यादि
मंत्र के साथ जल डालकर 'यवोऽसि धान्यराजो वा' इत्यादि मन्त्र से यव डाले
(तब उसमें गन्ध, पुष्प डालकर) ॥ २३० ॥
दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ २३१ ॥
तथाच्छादनदानं च करशौचार्थमम्बु च ।
अथ करशौचार्थमुदकं दत्वा यथाक्रमं गन्धपुष्पधूपदीषदानं कुर्यात्,
तथाच्छादनदानं च। गन्धादीनां स्मृत्यन्तरोको विशेषो द्रष्टव्यः—'चन्दन-
कुङ्कमकर्पूरागुरुपद्मकान्युपलेपनार्थम्' इति विष्णूक्तम् । पुष्पाणि च—'श्राद्धे
जात्यः प्रशस्ताः स्युर्मल्लिका श्वेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च
चम्पकम् ॥' इत्युक्तानि । वर्ज्यानि च—'उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि
च। पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥', 'न कण्टकिजम्। १कण्टकिज-
मपि शुक्लं सुगन्धि यत्तद्दद्यात्, न रक्तं दद्यात्, रक्तमपि कुङ्कुमजं जलजं च
दद्यात्' (विष्णु. अ. ६६) इत्यादीनि द्रष्टव्यानि । धूपे च विशेषो विष्णूक्तः—
'प्राण्यङ्गं सर्वं धूपार्थे न दद्यात् । घृतमधुसंयुक्तंगुग्गुलं श्रीखण्डागरुदेवदारुसरलादि
दद्यात्' इति । दीपे च विशेषः शङ्खेनोक्तः—'घृतेन दीपो दातव्यस्तिलतैलेन वा
पुनः। वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥' इति । आच्छादनं च शुभ्रं नव-
महतं सदशं दद्यादिति । एतच्च सर्वं वैश्वदेवानुष्ठानकाण्डमुदङ्मुखः कुर्यात्।
पित्र्यं काण्डं दक्षिणामुखः। यथाह वृद्धशातातपः—'उदङ्मुखस्तु देवानां पितॄणां
दक्षिणामुखः । प्रदद्यात्पार्वणे सर्वं देवपूर्वं विधानतः ॥' इति ॥ २३१ ॥
भाषा—'या दिव्या आपः पयसा' इत्यादि मंत्र को कहते हुए ब्राह्मणों के
हाथों पर अर्घ्य गिरावे । तदुपरान्त (हाथ धोने के लिए) जल देकर क्रमशः
गन्ध, पुष्प, धूप, दीप दे ॥ २३१ ॥
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ २३२ ॥
द्विगुणांस्तु २कुशान्दत्त्वा ३हुशन्तस्त्वेत्यृचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥ २३३ ॥
ततो वैश्वदेवकाण्डानन्तरम् । अपसव्यं यज्ञोपवीतं प्राचीनावीतं कृत्वा ।
अत्र तत इति वदता काण्डानुसमयौ दर्शितः । पित्रादीनां त्रयाणामयुग्मान्कु-
१. अकण्टकिजं । २. कुशान्कृत्वा । ३. उशन्त ।
आचाराध्यायः १०५
शान्द्विगुणभुग्नान् अप्रदक्षिणं वामतो विष्टरार्थमासनेषूदकपूर्वकं दत्त्वा पुनरुदकं
दद्यात् ; 'अपः प्रदाय $^१$दर्भान्द्विगुणभुग्नासनं प्रदायापः प्रदाय' ( गृ. सू. ४।७,
५, ६, ७ ) इत्याश्वलायनस्मरणात् । एतच्चाद्यन्तयोरुदकदानं वैश्वदेवे पित्र्ये च
प्रतिवदार्थं प्रतिपादनार्थं द्रष्टव्यम् । अथ 'पितॄन् पितामहान् प्रपितामहानावाह-
यिष्ये' इति ब्राह्मणान्पृष्ट्वा 'आवाहय' इति तैरनुज्ञातः 'उशन्तस्त्व्वा निधीमहि'
( ऋ. ७।६।२२।२ ) इत्यनयर्चा पित्रादीनावाह्य 'आयन्तु नः पितरः' इत्यादिना
मन्त्रेणोपतिष्ठेत ॥ २३२-२३३ ॥
भाषा—इसके बाद आच्छादन के लिये वस्त्र और फिर हाथ धोने के
लिये जल देना चाहिए। (वैश्वदेव के बाद) यज्ञोपवीत को दाहिने कंधे पर
करके, पितरों को बाईं ओर से दोहरे कुश देकर 'उशन्तस्त्व्वा निधीमहि' ऋचा
से पितरों का आवाहन करके ब्राह्मणों की आज्ञा पाकर 'आयन्तु नः पितरः'
इत्यादि मन्त्र का जप करे ॥ २३२-२३३ ॥
( अपहता इति तिलान्विकीर्य च समन्ततः )
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ॥ २३४ ॥
दत्त्वार्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥ २३५ ॥
यवार्था यवसाध्यानि कार्याण्यवकिरणादीनि तिलैः कर्तव्यानि । ततोऽर्घ्य-
पात्रासादनाच्छादनान्तं पूर्ववत्कुर्यात् । तत्रायं विशेषः—'तिलान् 'अपहता असुरा
रक्षांसि' इत्यादिना मन्त्रेण ब्राह्मणान्परितोऽप्रदक्षिणमन्ववकीर्य राजतादिषु
पात्रेषु त्रिष्वयुग्मकुशनिर्मितकूर्चान्तेषु 'शं नो देवीः' इति मन्त्रेणापः क्षिप्त्वा
'तिलोऽसि सोमदैवत्य' इत्यादिमन्त्रेण तिलान् गन्धपुष्पाणि च क्षिप्त्वा 'स्व-
धाऽर्थ्याः'इति ब्राह्मणानां पुरतोऽर्घ्यपात्राणि स्थापयित्वा 'या दिव्या' इति मन्त्रान्ते
'पितरिदं तेऽर्घ्यं पितामहेदं तेऽर्घ्यं प्रपितामहेदं तेऽर्घ्यम्' इति ब्राह्मणानां हस्ते-
ष्बर्घ्यं दद्यात् । 'एकैकमभयत्र वा' इत्यस्मिन्नपि पक्षे पात्रत्रयं कार्यम् । एवमर्घ्यं
दत्त्वा तेषामर्घ्याणां संस्रवान्ब्राह्मणहस्तगलितार्घोदकानि $^३$पितृपात्रे गृहीत्वा दक्षि-
णाग्रं कुशस्तम्बं भूमौ निधाय तस्योपरि 'पितृभ्यः स्थानमसि' इत्यनेन मन्त्रेण
तत्पात्रं न्युब्जमधोमुखं कुर्यात् । तस्योपरि अर्घ्यपात्रपवित्राणि निदध्यात् ।
अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि 'पितरयं ते गन्धः, पितरिदं ते पुष्पम्'
इत्यादिना प्रयोगेण दद्यात् ॥ २३४-२३५ ॥
१. द्विगुणभुग्नानूकुशान्दत्त्वापः । २. यवार्थंस्तु तिलैः कार्यः ।
३. पात्रे प्रथमे गृहीत्वा ।
१०६ याज्ञवल्क्यस्मृतिः
भाषा—'अपहता असुरा रक्षांसि' इत्यादि मन्त्र को पढ़ते हुए चारों
ओर तिल बिखेरे। इस समय (पहले) यव से किये जाने वाले सभी कर्म
तिल द्वारा करने चाहिये और अर्घ्य इत्यादि पूर्वोक्त विधि से ही करना चाहिए
(ब्राह्मणों के हाथ में) अर्घ्य देकर (उनके हाथ से) गिरते हुए जल को
विधिपूर्वक पितृ पात्र में रोप कर उस पात्र को 'पितृभ्यः स्थानमसि' इत्यादि
मन्त्र से उलटाकर दे (और उसके ऊपर अर्घ्यपात्र एवं कुशका पवित्र
रखें ॥ २३४-२३५ ॥
अग्नौकरणमाह द्वाभ्याम्—
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ २३६ ॥
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु चँ विशेषतः ॥ २३७ ॥
अनन्तरमग्नौ करिष्यन्घृतप्लुतं घृताक्तमन्नमादाय ब्राह्मणान् पृच्छेत् 'अग्नौ
करिष्ये' इति । 'घृत' ग्रहणं सूपशाकादिनिवृत्त्यर्थम् । ततस्तैः कुरुष्वेत्यभ्यनुज्ञातः
प्राचीनावीती शुद्धमन्नमुपसमाधाय मेक्षणेनादायावदाकंसंपदा जुहुयात् 'सोमाय
पितृमते स्वधा नमः, अग्नये कव्यवाहनाय स्वधा नमः' इति पिण्डपितृयज्ञ-
कल्पेन अग्नौ हुत्वा मेक्षणमनुप्रहृत्य हुतशेषं मृन्मयवर्जं यथालाभोपपन्नेषु
विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात्, न वैश्वदेवभाजनेषु । समाहितोऽ-
नन्यमनस्कः । अत्र यद्यप्यग्नावित्यविशेषेणोक्तं तथाप्याहिताग्नेः सर्वाधानपक्षे
औपासनाग्नेरभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्वणश्राद्धे विहृतैदक्षिणाग्नेः
संविधानाद्दक्षिणाग्नौ होमः 'कर्म स्मार्तं विवाहाग्नौ' इत्यस्यापवाददर्शनात् ।
यथाह मार्कण्डेयः—'आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः । अनाहिताग्नि-
स्त्वौपसथेऽन्यभावे द्विजेऽप्सु वा ॥' इति । अर्धाधानपक्षे त्वौपासनाग्निसद्भावा-
दाहिताग्नेनाहिताग्नेरिवौपासनाग्नौकरणहोमः । एवमन्वष्टकादिषु त्रिष्वपि
पिण्डपितृयज्ञकल्पोतिदेशात् । काम्यादिषु चतुर्षु ब्राह्मणपाणावेव होम । यथाहू-
र्गृह्यकाराः—'अन्वष्टक्यं च पूर्वेद्युर्मासि मास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्या-
मेकोद्दिष्टमथाष्टमम् ॥ चतुर्ष्वाद्येषु साग्नीनां वह्नौ होमो विधीयते । पित्र्यब्राह्मणहस्ते
स्यादुत्तरेषु चतुर्ष्वपि ॥' अस्यार्थः—हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमी-
ष्वष्टकाः' ( आश्व. गृ. सू. २।४।१ ) इत्यष्टका विहिताः। तत्र नवम्यां यत्क्रियते
१. करिष्य आदाय । २. तु । ३. वीतीध्ममुप- । वीत्यग्निमुप- ।
४. विहित । ५. स्त्वौपासनेऽन्यभावे । ६. प्रेरप्यौपासना । ७. कल्पे-
नेति निदेशात् ।
आचाराध्यायः १०७
तदन्वष्टक्यम् । सप्तम्यां तु क्रियमाणं पूर्वेद्युः । मासि मासि कृष्णपक्षे पञ्चमीप्रभृ-
तिषु यस्यां कस्याञ्चित्तिथावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यायां पिण्ड-
पितृयज्ञानन्तरं यद्विहितं तत्पार्वणम् । स्वर्गादिकामानां कृत्तिकादिनक्षत्रेषु यद्वि-
हितं तत्काम्यम् । अभ्युदयेषु पुत्रोत्पत्त्यादिषु तडागारामदेवताप्रतिष्ठादिषु च
यद्विहितं तदाभ्युदयिकम् । अष्टम्यां अष्टका विहिताः । एकोद्दिष्टम् । अत्रैकोद्दिष्ट-
शब्देन सपिण्डीकरणं लक्ष्यते, तत्रैकोद्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे
तदभावात् । अथवा, गृह्यभाष्यकारमते साक्षादेकोद्दिष्टेऽपि पाणिहोमस्य सद्भावा-
त्सोन्चादेकोद्दिष्टमेव । एतेषामष्टानामाद्येषु चतुर्षु साग्निकस्याग्नौ होमः । उत्तरेषु
चतुर्षु पित्र्यब्राह्मणहस्ते एव । निरग्निकस्यापि प्रमीतपितृकस्य द्विजस्य पार्वणं
नित्यमिति तस्यापि पाणावेव होमः, 'न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥' इति वचनात् । एवं काम्याभ्यु-
दयिकाष्टकैकोद्दिष्टेषु पाणावेव होमः- 'अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्'
इति (४।५१२) मनुस्मरणात् । पाणिदत्तस्य पृथग्ग्रासप्रतिषेधे उच्यते । यथाहु-
र्गृह्यकाराः- 'अन्नं पाणितले दत्तं पृथगश्नन्त्यबुद्धयः । पितरस्तेन तृप्यन्ति शेषाश्नं
न लभन्ति ते ॥ यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं
पृथग्भावो न विद्यते' इति ॥ २३६-२३७ ॥
भाषा-अग्नौकरण के लिये घी से सना हुआ अन्न लेकर (ब्राह्मणों से
अग्नौकरण के लिए) आज्ञा माँगे, 'करो' ऐसा (ब्राह्मणों द्वारा) आदेश
पाकर पितृयज्ञ के समान (उसका) अग्नि में हवन करे। हवन से अवशिष्ट
(घृता अन्न) को एकाग्रचित्त होकर पितृपात्रों में रक्खे (वैश्वदेव पात्र में
नहीं) जो अपनी सामर्थ्य के अनुसार चाँदी के बनवाये गये हो (मिट्टी के
नहीं) ॥ २३६-२३७ ॥
अन्ननिवेदनम्-
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ २३८ ॥
अन्नमोदनसूपपायसघृतादिकं भाजनेषु दत्त्वा 'पृथिवी ते पात्रं' इत्यादिना
मन्त्रेण पात्राभिमन्त्रणं कृत्वा 'इदं विष्णुर्विचक्रमे' (ऋ० १।२२।१२)
इत्यनयर्चा अन्ने द्विजाङ्गुष्ठं निवेशयेत् । तत्र च वैश्वदेवे यज्ञोपवीती 'विष्णो
हव्यं रक्ष' इति । पित्र्ये प्राचीनावीती 'विष्णो कव्यं रक्ष' इति, 'विष्णो हव्यं च
कव्यं च ब्रूयाच्चेति वै क्रमात्' इति मनुस्मरणात् ॥ २३८ ॥
१. लक्षयति । २. सद्भावादेको । ३. प्रतिषेधश्च दृश्यते । ४. पूर्वमश्नन्त्यबु ।
५. पात्रानुमन्त्रणम् । ६. कृत्वा ।
१०८ याज्ञवल्क्यस्मृतिः
भाषा—( चावल, सूप, खीर, घी आदि ) अन्न पात्रों में रख कर 'पृथिवी
ते पात्रं' इत्यादि मंत्र से पात्रों को अभिमन्त्रित करे और 'इदं विष्णुर्विचक्रमे'
आदि मन्त्र पढ़ता हुआ ( उस अन्न में ) ब्राह्मण का अंगूठा डलवावे ॥ २३८ ॥
सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ २३९ ॥
अनन्तरं 'विश्वेभ्यो देवेभ्य इदमन्नं परिविष्टं परिवेक्ष्यमाणं चातृप्तेः' इति यवो-
दकेन दैवे निवेद्य, तथा पित्रे 'अमुकगोत्रायामुकशर्मणे इदमन्नं परिविष्टं परिवेक्ष्य-
माणं चातृप्तेः' इति तिलोदकप्रदानेन पित्रे निवेद्य, एवं पितामहाय प्रपिताम-
हाय च निवेदनान्तरमापोशनं दत्त्वा पूर्वोक्ताभिर्व्याहृतिभिः सहितां गायत्रीं
'मधु वाता' ( ऋ. १।९०।१८ ) इति तृचं मधु मधु मध्विति त्रिवारं जप्त्वा
'यथासुखं जुषध्वम्' इति ब्रूयात्, 'संकल्प्य पितृदेवेभ्यः सावित्रीं मधुमज्जपः ।
श्राद्धं निवेद्यापोशनं जुषप्रैषोऽथ भोजनम् ॥' तथा—'गायत्रीं त्रिः सकृद्वापि
जपेद्व्याहृतिपूर्विकां । मधु वाता इति तृचं मध्वित्येतत्त्रिकं तथा ॥' इति
पारस्करादिवचनात् । भुञ्जीरंस्तेऽपि वाग्यताः । तेऽपि ब्राह्मणा वाग्यता
मौनिनो भुञ्जीरन् ॥ २३९ ॥
भाषा—व्याहृतियों के साथ गायत्री का और मधुवाता' आदि तृच का
जप करके आप लोग आनन्दपूर्वक भोजन करे ऐसा कहे और वे ( ब्राह्मण ) भी
मौन होकर ( भोजन करे ) ॥ २३९ ॥
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः ।
आ तृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ २४० ॥
अन्नं भक्ष्य-भोज्य-लेह्य-चोष्य-पेयात्मकं पञ्चविधं इष्टं यद्ब्राह्मणाय प्रेताय कर्त्रे
वा रोचते । हविष्यं श्राद्धहविर्योग्यं व्रीहिशालियवगोधूममुद्गमाषमुद्गयज्ञकालशाक-
महाशाकैलाशुण्ठीमरीचहिङ्गुगुडशर्कराकर्पूरसैन्धवसांभरपनसनालिकेरकदलीबदर-
गव्यपयोदधिघृतपायसमधुमांसप्रभृति स्मृत्यन्तरप्रसिद्धं वेदितव्यम् । 'हविष्यं'
इत्यनेनैवायोज्यस्य स्मृत्यन्तरप्रतिषिद्धस्य कोद्रवमसूरचणककुलित्थपुलाकनिष्पा-
वराजमाषकूष्माण्डवार्ताक^१बृहतीद्वयोपोदकीवंशाङ्कुरपिप्पलीवचाशतपुष्पौषंध^२बिड-
लवणमाहिषचामरक्षीरदधिघृतपायसादीनां निवृत्तिः । सक्रोधनः क्रोधहेतुसंभ-
वेऽपि । अत्वरोऽव्यग्रश्च । आ तृप्तेर्दद्यादिति संबन्धः । 'तु' शब्दाद्यथा किंचिदुच्छि-
ष्यते तथा दद्यात्, उच्छेषणस्य दासवर्गभागधेयत्वात्, 'उच्छेषणं भूमिगतमजि-
ह्मस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥' इति ( ३।२४६ )
१. वृन्ताकबृहती । २. पुष्पौषधिबिड-क, पुष्पौषरबिड-।
आचाराध्यायः १०६
मनुस्मरणात् । तथा आ तृप्तेः पवित्राणि पुरुषसूक्तपावमानीप्रभृतीनि जप्त्वा
तृप्तान् ज्ञात्वा पूर्वोक्तं जपं च सब्याहृतिकमित्युक्तं जपेत् ॥ २४० ॥
भाषा—जो अन्न ( भोजन ) और हविष्य ब्राह्मणों को रुचे उसे (क्रोध
का अवसर आने पर भी ) क्रोधरहित एवं धैर्ययुक्त होकर देना चाहिए ।
जब तक वे तृप्त न हो जाय तब तक (पुरुष सूक्त पावमानी इत्यादि का)
जप करे और ( वे तृप्तिपूर्वक भोजन कर ले तो ) व्याहृतियों सहित पूर्वोक्त
जप करे ॥ २४० ॥
अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च ।
तदन्नं १विकीरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥ २४१ ॥
अनन्तरं सर्व २मन्नमादाय ‘तृप्ताः स्थ’ इति तान्पृष्ट्वा ‘तृप्ताः स्म’ इति
तैरुक्तः ‘शेषमप्यस्ति किं क्रियताम्’ इति पृष्ट्वा ‘इष्टैः सतोषभुज्यताम्’ इत्य-
भ्युपगम्य तदन्नं पितृस्थानब्राह्मणस्य पुरस्तादुच्छिष्टसंनिधौ दक्षिणाग्रदर्भान्तरि-
तायां भूमौ तिलोदकप्रक्षेपपूर्वकं—‘ये अग्निदग्धा’ इत्यनयर्चा निक्षिप्य पुन-
स्तिलोदकं प्रक्षिपेत् । तदनन्तरं ब्राह्मणहस्तेषु पिण्डप्रदानम्–गण्डूषार्थं सकृत्स-
कृदपो दद्यात् ॥ २४१ ॥
भाषा—तब सभी अन्न लेकर (उन ब्राह्मणों से) ‘आप लोग तृप्त हुए’
ऐसा पूछकर (‘हम तृप्त हैं, ऐसा उत्तर पाने पर), शेष के विषय में भी इसी
प्रकार आज्ञा लेकर (‘जो शेष बचा है उसे क्या करें’ ऐसा पूछने पर ‘प्रियजनों
के साथ ग्रहण करो’ ऐसी आज्ञा लेकर) उस अन्न को पृथिवी पर गिरा दे और
(ब्राह्मणों के हाथों पर) थोड़ा थोड़ा जल गिरावै ॥ २४१ ॥
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥ २४२ ॥
पिण्डपितृयज्ञकल्पातिदेशेन चहश्रपणसद्भावे अग्नौकरणशिष्टचरुशेषेण सह
सर्वमन्नमुपादायाग्निसंनिधौ पिण्डान्दद्यात् । तदभावे ब्राह्मणार्थं ४कृतमन्नं
सर्वमुपादाय सतिलं तिलमिश्रं दक्षिणामुख उच्छिष्टसंनिधौ पिण्डपितृयज्ञकल्पेन
पिण्डान्दद्यात् ॥ २४२ ॥
भाषा—तब तिल के साथ सभी अन्न लेकर दक्षिण की ओर मुख करके
उच्छिष्ट के निकट पिण्डपितृयज्ञ के समान ही पिण्डा देवे ॥ २४२ ॥
१. प्रकिरेत् । २. सार्ववर्णिकमन्न । ३. दद्याद्धि । ४. सार्ववर्णिकम-
न्नमुपादाय ।
११० याज्ञवल्क्यस्मृतिः
अक्षय्योदकदानम्—
मातामहानामप्येवं दद्यादाचमनं ततः।
स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥ २४३ ॥
मातामहानामपि विश्वेदेवावाहनादिपिण्डप्रदानपर्यन्तं कर्मैवमेव¹ कर्तव्यम्
अनन्तरं ब्राह्मणानामाचमनं दद्यात् । स्वस्तिवाच्यं ततः कुर्यात् 'स्वस्ति ब्रूत'
इति ब्राह्मणान्स्वस्ति वाचयेत् । तैश्च 'स्वस्ति' इत्युक्ते 'अक्षय्यमस्तु इति ब्रूत'
इति ब्राह्मणहस्तेषूदकदानं कुर्यात् तैश्चाक्षय्यमस्त्विति वक्तव्यम् ॥ २४३ ॥
भाषा—मातामह आदि के लिये भी (विश्वेदेव का आवाहन से लेकर
पिण्डदान तक के कर्म) इसी प्रकार होता है; इसके बाद ब्राह्मणों को आचमन
करावे, तदुपरान्त स्वस्तिवाचन करे और ब्राह्मणों के हाथों पर जल देवे और
वे तुम्हारा अक्षय्य (सब प्रकार से कल्याण) हो ऐसा आशीर्वाद देवें ॥ २४३ ॥
स्वधावाचनम्—
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ २४४ ॥
अनन्तरं यथाशक्ति हिरण्यरजतादिदक्षिणां दत्त्वा 'स्वधां वाचयिष्ये' इत्युक्त्वा
तैर्ब्राह्मणैः 'वाच्यताम्' इत्यनुज्ञातः प्रकृतेभ्यः पित्रादिभ्यो मातामहादिभ्यश्च
'स्वधोच्यताम्' इति स्वधाकारमुदाहरेत् ॥ २४४ ॥
भाषा—इसके अनन्तर अपनी शक्ति के अनुसार (ब्राह्मणों को) दक्षिणा
देकर उनसे स्वधावाचन की आज्ञा माँगे। 'स्वधावाचन करो' इस प्रकार की
उनसे आज्ञा पाकर पिता आदि या मातामह आदि के लिये स्वधा का
उच्चारण करे ॥ २४४ ॥
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् ॥ २४५ ॥
ते च ब्राह्मणाः 'अस्तु स्वधा' इति ब्रूयुः । तैरेवमुक्ते अनन्तरं कमण्डलुना
उदकं भूमौ सिञ्चेत् । ततो 'विश्वे देवाः प्रीयन्ताम्' इति ब्रूयात्, ब्राह्मणैश्च
'प्रीयन्तां विश्वे देवा' इत्युक्ते इदमनन्तरोक्ष्यमानं जपेत् ॥ २४५ ॥
भाषा—वे ब्राह्मण भी 'स्वधा हो' ऐसा कहें, उनके ऐसा कहने पर
(कमण्डलु से) भूमि पर जल छिड़के। तब 'विश्वेदेव प्रसन्न होवें', ऐसा कहे
और ब्राह्मणों द्वारा भी ऐसा ही कहने पर आगे कही जाने वाली प्रार्थना का
जप करे ॥ २४५ ॥
१. कर्मैवं कर्तव्यं ।
आचाराध्यायः १११
ब्राह्मणप्रार्थना—
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ २४६ ॥
दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च
वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्प-
रया । श्रद्धा च पित्र्ये कर्मण्यास्था नोऽस्माकं मा व्यगमत् मा गच्छतु । 'न
माङ्योगे' ( पा. ६।४।७४ ) इत्यडभावः । देयं च हिरण्यादि बहु अपर्यन्तं
अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥
भाषा—हमारे कुल में ( हिरण्य आदि ) के दाता ( दानशील पुरुष )
अनेक होवें, ( अध्ययन-अध्यापन द्वारा ) वेद की और सन्तान ( पुत्र, पौत्र )
की वृद्धि होवे । पितृकर्म ( पितरों की पूजा ) आदि में हमारी श्रद्धा कम न
होवें, ( सोना आदि ) दान देने योग्य वस्तुएँ प्रचुर मात्रा में बनी रहें ॥ २४६ ॥
२इत्युक्त्वोत्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतः पितृपूर्वं ३विसर्जनम् ॥ २४७ ॥
एवं पूर्वोक्तं प्रार्थना मन्त्रं जप्त्वा, उक्त्वा च प्रिया वाचः 'धन्या वयं भवच्च-
रणयुगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनक्लेशमविगणय्य भवद्भिरनु-
गृहीता वयम्' इत्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् ।
कथं विसर्जयेदित्याह—'वाजे वाजेवत वाजिनो नः' ( ऋ. ५।४।५।८ इत्यनयर्चा
पितृपूर्वं प्रपितामहादि विश्वेदेवान्तं दर्भान्वारम्भेण 'उत्तिष्ठत पितरः' इति
प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ २४७ ॥
भाषा—इस मन्त्र का जप करके, प्रियवचन कह कर ( पितरों को )
प्रणाम करके विसर्जित करे । 'वाजे वाजेवत वाजिनो नः' इस मन्त्र के साथ
प्रसन्नचित्त होकर पितरों से आरम्भ करके ( विश्वेदेव तक का ) विसर्जन
करना चाहिए ॥ २४७ ॥
४यस्मिंस्तु संस्रवाः पूर्वमर्घ्यपात्रे५ निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥ २४८ ॥
यस्मिन्नर्घ्यपात्रे पूर्वमर्घ्य६दानान्ते संस्रवा ब्राह्मणहस्तगलितार्घ्योदकानि
निवेशिताः स्थापितास्तदर्घ्यपात्रं न्युब्जं तदुत्तानमूर्ध्वमुखं कृत्वा विप्रान्विसर्ज-
१. रेव नः । २. इत्युक्त्वा तु । ३. विसर्जयेत् । ४. यस्मिंस्ते संस्रवाः पूर्वं ।
५. पितृपात्रे । ६. दानानन्तरं ते संस्रवा ।
११२ याज्ञवल्क्यस्मृतिः
येत् । एतच्चाशीर्मन्त्रजपादूर्ध्वं 'वाजे' इत्यतः प्राग्द्रष्टव्यम् ; 'कृत्वा विसर्ज-
येत्' इति क्त्वाप्रत्ययश्रवणात् ॥ २४८ ॥
भाषा—पहले जिस अर्घ्यपात्र में ( ब्राह्मणों के हाथों से ) गिरा हुआ
जल रोपा गया था उस औंधे किये गये ) पितृपात्र का मुँह ऊपर करे और
ब्राह्मणों को बिदा करे ॥ २४८ ॥
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥ २४९ ॥
अनन्तरमासीमान्तं ब्राह्मणाननुव्रज्य तैः 'गम्यताम्' इत्यनुज्ञातस्तान्प्रदक्षिणी-
कृत्य प्रतिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः सह भुञ्जीत । नियम एवार्थं,
न परिसंख्या । 'मांसे तु यथारुचि' इति 'द्विजकाम्यया' ( आ० १७९ ) इत्यत्रो-
क्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तृभिर्ब्राह्मणैः सह कर्ता
ब्रह्मचारी भवेत् । तुशब्दात् पुनर्भाजनादिरहितोऽपि भवेत् ; 'दन्तधावनताम्बूलं
स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत् सप्त वर्जयेत् ॥ पुनर्भाजन-
मध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक्सप्त वर्जयेत् ॥' इति
वचनात् ॥ २४९ ॥
भाषा—तब ब्राह्मणों को अपने गांव की सीमा तक पहुँचा कर उनकी
आज्ञा मिलने पर प्रदक्षिणा करके लौटे और इष्ट जनों के साथ अवशिष्ट अन्न
का भोजन करे । उस रात्रि ब्राह्मणों के साथ श्राद्धकर्ता ब्रह्मचारी होकर
रहे ॥ २४९ ॥
एवं पार्वणश्राद्धमुक्त्वेदानीं वृद्धिश्राद्धमाह—
एवं १प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन् ।
यजेत २दधिकर्कन्धुमिश्रान्पिण्डान्यवैः क्रियाः ॥ २५० ॥
वृद्धौ पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तेन प्रकारेण पितॄन्यजेत् पूजयेत् ।
तत्र विशेषमाह—प्रदक्षिणावृत्त इति । प्रदक्षिणा आवृत् अनुष्ठानपद्धतिर्यस्यासौ
प्रदक्षिणावृत्कः, प्रदक्षिणप्रचार इति यावत् । 'नान्दीमुखान्' इति पितॄणां
विशेषणम् । अतश्चावाहनादौ 'नान्दीमुखान्पितॄनावाहयिष्ये नान्दीमुखान्पिता-
महान्' इत्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह—दधिकर्कन्धुमिश्रान् ।
- मिश्रान्पिण्डान्दत्त्वा, 'यजेत' इति
संबध्यते । तिलसाध्याः सर्वाः क्रिया यवैः क र्त्तव्याः । अत्र च ब्राह्मणसंख्या
दर्शितेव 'युग्मान्दैवे यथाशक्ति' ( आ० २२७ ) इत्यत्र । प्रदक्षिणावृत्कादिपरि-
१. प्रदक्षिणं कृत्वा । २. कर्कन्धुमिश्राः पिण्डा यवैः ।