याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 163, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १०७
तदन्वष्टक्यम् । सप्तम्यां तु क्रियमाणं पूर्वेद्युः । मासि मासि कृष्णपक्षे पञ्चमीप्रभृ-
तिषु यस्यां कस्याञ्चित्तिथावन्वष्टक्यातिदेशेन यद्विहितम् । अमावास्यायां पिण्ड-
पितृयज्ञानन्तरं यद्विहितं तत्पार्वणम् । स्वर्गादिकामानां कृत्तिकादिनक्षत्रेषु यद्वि-
हितं तत्काम्यम् । अभ्युदयेषु पुत्रोत्पत्त्यादिषु तडागारामदेवताप्रतिष्ठादिषु च
यद्विहितं तदाभ्युदयिकम् । अष्टम्यां अष्टका विहिताः । एकोद्दिष्टम् । अत्रैकोद्दिष्ट-
शब्देन सपिण्डीकरणं लक्ष्यते, तत्रैकोद्दिष्टस्यापि सद्भावात्, साक्षादेकोद्दिष्टे
तदभावात् । अथवा, गृह्यभाष्यकारमते साक्षादेकोद्दिष्टेऽपि पाणिहोमस्य सद्भावा-
त्सोन्चादेकोद्दिष्टमेव । एतेषामष्टानामाद्येषु चतुर्षु साग्निकस्याग्नौ होमः । उत्तरेषु
चतुर्षु पित्र्यब्राह्मणहस्ते एव । निरग्निकस्यापि प्रमीतपितृकस्य द्विजस्य पार्वणं
नित्यमिति तस्यापि पाणावेव होमः, 'न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥' इति वचनात् । एवं काम्याभ्यु-
दयिकाष्टकैकोद्दिष्टेषु पाणावेव होमः- 'अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्'
इति (४।५१२) मनुस्मरणात् । पाणिदत्तस्य पृथग्ग्रासप्रतिषेधे उच्यते । यथाहु-
र्गृह्यकाराः- 'अन्नं पाणितले दत्तं पृथगश्नन्त्यबुद्धयः । पितरस्तेन तृप्यन्ति शेषाश्नं
न लभन्ति ते ॥ यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं
पृथग्भावो न विद्यते' इति ॥ २३६-२३७ ॥
भाषा-अग्नौकरण के लिये घी से सना हुआ अन्न लेकर (ब्राह्मणों से
अग्नौकरण के लिए) आज्ञा माँगे, 'करो' ऐसा (ब्राह्मणों द्वारा) आदेश
पाकर पितृयज्ञ के समान (उसका) अग्नि में हवन करे। हवन से अवशिष्ट
(घृता अन्न) को एकाग्रचित्त होकर पितृपात्रों में रक्खे (वैश्वदेव पात्र में
नहीं) जो अपनी सामर्थ्य के अनुसार चाँदी के बनवाये गये हो (मिट्टी के
नहीं) ॥ २३६-२३७ ॥
अन्ननिवेदनम्-
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ २३८ ॥
अन्नमोदनसूपपायसघृतादिकं भाजनेषु दत्त्वा 'पृथिवी ते पात्रं' इत्यादिना
मन्त्रेण पात्राभिमन्त्रणं कृत्वा 'इदं विष्णुर्विचक्रमे' (ऋ० १।२२।१२)
इत्यनयर्चा अन्ने द्विजाङ्गुष्ठं निवेशयेत् । तत्र च वैश्वदेवे यज्ञोपवीती 'विष्णो
हव्यं रक्ष' इति । पित्र्ये प्राचीनावीती 'विष्णो कव्यं रक्ष' इति, 'विष्णो हव्यं च
कव्यं च ब्रूयाच्चेति वै क्रमात्' इति मनुस्मरणात् ॥ २३८ ॥
१. लक्षयति । २. सद्भावादेको । ३. प्रतिषेधश्च दृश्यते । ४. पूर्वमश्नन्त्यबु ।
५. पात्रानुमन्त्रणम् । ६. कृत्वा ।