याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 159, कुल 782 में से
संदर्भ में पढ़ेंकमुपवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमन्त्रणादि ।
द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वेत्येव मतं पितृश्राद्धवत्कर्त्तव्यम् । पितृश्राद्धे
मातामहश्राद्धे च वैश्वदेविकं पृथक् तन्त्रेण वा कर्त्तव्यम् । 'तन्त्र'शब्दः समुदाय-
वाचकः । यदा तु द्वावेव ब्राह्मणौ लब्धौ तदा तु वैश्वदेवे पात्रं प्रकल्प्य उभय-
त्रैकैकं ब्राह्मणं नियुञ्ज्यात् । यथाह वसिष्ठः ( ११।३०,३१ )—'यद्येकं भोजये-
च्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवता-
यतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदन्नं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे ॥'
इति ॥ २२८ ॥
भाषा—दो ब्राह्मणों को विश्वदेवों की ओर पूर्वदिशा में मुख कराके,
पित्रादिस्थान में विषम संख्या वाले ब्राह्मणों को उत्तर की ओर मुख कराके
अथवा वैश्वदेव एवं पित्र्यस्थान में एक-एक ब्राह्मण को बैठावे । मातामह के श्राद्ध में
भी ऐसा ही करे अथवा वैश्वदेविक पृथक् तन्त्र से करे ॥ २२८ ॥
पाणिप्रक्षालनं दत्त्वा १विष्टरार्थं कुशानपि ।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥ २२९ ॥
तदनन्तरं वैश्वदेवार्थ ब्राह्मणस्ते जलं दत्त्वा विष्टरार्थं कुशांश्च युग्मान्
द्विगुणितानासने दक्षिणतो दत्त्वा 'विश्वान्देवानावाहयिष्ये' इति ब्राह्मणान्
पृष्ट्वा तैः 'आवाहत' इत्यनुज्ञातो 'विश्वे देवास आगत' ( ऋ. ४।८।१५ )
इत्यनयर्चा 'आगच्छंतु महाभागाः' इत्यनेन च स्मार्तेन मन्त्रेण तानावाहयेत् ।
एतच्च यज्ञोपवीतिना२ प्रदक्षिणं च कार्यम्, 'अपसव्यं सतः कृत्वा पितॄणामप्र-
दक्षिणम्' ( आ. २३२ ) इति पित्र्ये विशेषस्मरणात् ॥ २२९ ॥
भाषा—तब ( विश्वदेव के लिये ) ब्राह्मण को हाथ धोने के लिये जल
देकर ) बैठने के लिये ( जोड़ा ) कुश देकर, उनकी आज्ञा से 'विश्वेदेवास आगत'
इत्यादि ऋचा द्वारा ( और आगच्छन्तु महाभागाः' स्मार्त मन्त्र से ) उनका
आवाहन करे ॥ २२९ ॥
यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २३० ॥
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
ततो ३वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं
तैजसादिभाजने सपवित्रके कुशयुग्मान्तर्हिते 'शं नो देवीरभिष्टय' ( ऋ. ७।६।
५४ ) इत्यनयर्चापः क्षिप्त्वा 'यवोऽसि धान्यराजोऽसि' इत्यादिना मन्त्रेण
पाद-टिप्पणी (Footnotes):
१. विष्टरार्थान् । २. वीतिना सव्येन च । ३. विश्वेदेवार्थ ।