विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 84, कुल 392 में से
संदर्भ में पढ़ें७६ ॥ विष्णुस्मृतौ २४ ॥ २५ ॥
ब्राह्मेण विवाहेन कन्यां दद्ब्रह्मलोकं गमयति । ३३ ।
दैवेन स्वर्गम् । ३४ । आर्षेण वैष्णवम् । ३५ । प्राजा-
पत्येन देवलोकम् । ३६ । गान्धर्वेण गन्धर्वलोकं गच्छ-
ति । ३७ । पिता पितामहो भ्राता सकुल्यो माता-
महो माता चेति कन्याप्रदाः । ३८ । पूर्वाभावे
प्रकृतिस्थः परः पर इति । ३९ ।
ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयं वरम् ।
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥ ४० ॥
पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥ ४१ ॥ २४ ॥
अथ स्त्रीणां धर्माः । १ । भर्तुः समानव्रतचारित्वम्
। २ । श्वश्रूश्वशुरगुरुदेवतातिथिपूजनम् । ३ । सुसंस्कृ-
33-37 om. v. 35 om. C^{1,2}. 39. परः परः। C^{1,2}.
41. विदुष्यति all. XXV, 3. ॰देवपादवन्दनादिनातिथि॰ V^{1-3}.
पादवन्दनादिना from the C.
33... ब्रह्मलोकं गमयति स्वयं च गच्छति... 37. गान्धर्वेण कन्यां
दद्गन्धर्वलोकं स्वयमेव गच्छति ।... 41... सा वृषली तद्भर्तुः पातको
राजदण्डो वा नास्ति ।... XXV, 2. भर्तुर्व्रतेन भर्तृसंकल्पेन समान-
व्रतचारिणी समानसंकल्पा भवेत् । भर्तृसंकल्पानुसारशीला स्यादित्यर्थः ।...
3... गुरुज्येष्ठादिः ।... तेषां पूजां पादवन्दनादिना कुर्यात् ।...