सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 76, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 76

६८ ॥ विष्णुस्मृतौ २२ । २३ ॥
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ९० ॥
मृत्तोयैः शोध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ ९१ ॥
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ९२ ॥
एष शौचस्य ते प्रोक्तः शारीरस्य विनिश्चयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणु विनिश्चयम् ॥ ९३ ॥ २२ ॥
शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोप-
हतम् । १ । अत्यन्तोपहतं सर्वं लोहभाण्डमग्नौ प्रक्षिप्तं
शुध्येत् । २ । मणिमयमश्ममयमब्जं च सप्तरात्रं मही-
निखनेन । ३ । शृङ्गदन्तास्थिमयं तक्षणेन । ४ । दारवं
XXIII, 4. ॰दंष्ट्रा॰ C^(1,2)v.
90. अकार्यं निषिद्धं तत्कारिणः ।... 91. शोध्यममेध्यादिलिप्तमङ्गम् ।
...द्विजोत्तमा ब्राह्मणाः ।... 92. गात्राणि शरीराणि लिप्तान्यद्भिः स्नानैः
शुध्यन्ति । मनः सदसत्संकल्पात्मकमसत्संकल्पादशुद्धं सत्येन सत्संकल्पेन
शुध्यति ।... विद्यातपोभ्यां ... शुद्धिः शरीराभिमानजन्यदुरितनिवृत्तिः ।
बुद्धिः संशयविपर्ययात्मका ज्ञानेन प्रमाणरूपेण... XXIII, 2. लो-
हानि सुवर्णरजतताम्रायस्त्रपुसीसकानि सप्तविधा धातवः सर्वशब्दा-
त्तद्विकाराः पित्तलादयश्च तन्मयं भाण्डम्... 3... अब्जं शङ्खशुक्त्यादि...
4. शृङ्गं खङ्गादीनां दन्तो गजादीनामस्थि कूर्मादीनाम्...