विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 79, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ २३ ॥ ७१
न्वितं सुवर्णाम्भः प्रक्षिपेत्। बस्तस्य प्रदर्शयेदग्नेश्च । ३७।
पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ ३८ ॥
यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥ ३९ ॥
अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ ४० ॥
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्केष्टकचितानि च ॥ ४१ ॥
प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् ।
अत्यन्तोपहतानां च शौचं नित्यमतन्द्रितः ॥ ४२ ॥
भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् ।
अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥ ४३ ॥
मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा ।
आपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥ ४४ ॥
37. वत्तस्य च प्रदर्शयेदग्नेः । C¹². 38. मृदः क्षेपेण C¹²v. 44.
om. C¹²v.
37... हेमाम्भः प्रक्षिपेत्... अजोऽश्वोपलक्षणम् ( See ४०) ।... 38.
पक्षिभिः स्पृष्टाः.... भक्ष्याश्च... केशैर्मनुष्यैः.... 42... प्राणिनां मनुष्या-
णाम्... कारयेदुपदिशेदाचार्यः ॥ 43. अमेध्येन केशादिना... अव्याप्त-
मत्यन्तसंपर्करहितम्... यत्र गोरेकस्या वैतृष्ण्यं भवेदवशिष्येच्च तत्। ...
शिलागतं पर्वतादिशिरोभवम्। ... 44. मृताः शीर्णाः पञ्चनखा मनुष्या-
दयोऽभक्ष्या यस्मिन् ।... शेषमपां वस्त्रेण शोधयेदपनयेत् ।...