सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 75, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 75

॥ विष्णुस्मृतौ २२ ॥ ६७
माधूकमैक्षवं टाङ्कं कौलं खार्जूरपानसे ।
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् ॥ ८३ ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च ।
राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः ॥ ८४ ॥
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ८५ ॥
आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ८६ ॥
आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ८७ ॥
ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ॥ ८८ ॥
सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् ।
योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः॥८९॥
87. त्रिरात्रेण विशुध्यति C^(1, 2) v. See M. v, 88.
83. माधूकं मधूकपुष्पोद्भवम् ।... टाङ्कः कपित्थविशेषः... माध्वीकं मधूद्भवं
माध्वीव्यतिरिक्तम् । मैरेयं धातृपुष्पजं गुड़धान्याम्बुसहितमिति शब्दार्णवे
वाचस्पतिः ।... 84... स्पर्शः पानोपलक्षकः ।... 85... प्रेताहारैः प्रेतस-
पिण्डैः... 86... व्रती ब्रह्मचारी व्रतेन ब्रह्मचर्येण न वियुज्यते न भ्रश्यति ॥
87... आदिष्टी ब्रह्मचारी प्रक्रान्तप्रायश्चित्त इत्यन्ये ।... 88. ज्ञानमाध्या-
त्मिकं बुद्धेः शुद्धिहेतुः ।... आहारः पञ्चगव्यादीनाम् ।... कर्म संध्यादि अहो-
रात्रकृतपापस्य ।... 89... योऽन्ने शुचिः शुच्यन्नदः स शुचिः ।... अर्थशौच-
मिति पाठे ( See M. v, 106 ) ऽप्याहारशुद्ध्यर्थमेवार्थशौचापेक्षेति ।...