विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
१३२ ॥ विष्णुस्मृतौ ५७ ॥
येत् । ६ । प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति
। ७ । द्रव्याणां वाऽविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं
कुर्यात्स दात्रा सह निमज्जति । ८ । प्रतिग्रहसमर्थश्च
यः प्रतिग्रहं वर्जयेत्स दातृलोकमाप्नोति । ९ । एधोद-
कमूलफलाभयामिषंमधुशय्यासनगृहपुष्पदधिशाकांश्चा-
भ्युद्यतान्न निर्णुदेत् । १० ।
आहूयाभ्युद्यतां भिक्षां पुरस्तादनुचोदिताम् ।
ग्राह्यां प्रजापतिर्मेने अपि दुष्कृतकर्मणः ॥ ११ ॥
नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ १२ ॥
गुरुन्भृत्यानुज्जिहीर्षुरर्चिष्यन्पितृदेवताः ।
सर्वतः प्रतिगृह्णीयान्नतु तृप्येत्स्वयं ततः ॥ १३ ॥
एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे ।
नाद्यात्कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥ १४ ॥
LVII, 8. ब्राह्मं C¹·²v; ब्राह्ममिति पाठे N. See M. IV, 186.
12. पञ्च -ie. from ... to LIX, 30. प्रयाति om. v.
LVII, 5. त्यक्ताः सर्वे ऽप्यभोज्या... 6. अप्रतिग्राह्याः पूर्वोक्तास्तेभ्यः
प्रतिग्रहाभ्यासो न कार्यः । ... 7. ब्राह्मं ब्रह्मलोकार्थम् । ... 9. प्रति-
ग्रहे सामर्थ्यं तपोविद्याचाराक्तदानपि । ... 11. गृह्णाश्व भोऽिमां भिक्षा-
मित्यवाहूय पुरस्तादानीतां दुष्कृतकर्मणो यथोक्तसंध्याद्यकारिणो ऽपि न तु
पतितादेः प्रजापतिर्ग्राह्यामाह ॥ 13. गुरवो मातृपित्रादयः । भृत्या
भार्यादयः । तानापद्गतानुज्जिहीर्षुर्मोचयिषुः । ... 14. एतेषु पूर्वोक्तेषु
मातृपितृभरणादिष्वपि कर्तव्येषु...
॥ विष्णुस्मृतौ ५७ ॥ ५८ ॥ १२३
गुरुषु त्वव्यतीतेषु विना वा तैर्गृहे वसन् ।
आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा ॥ १५ ॥
अर्धिकः कुलमित्रं च दासगोपालनापिताः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ १६ ॥ ५७ ॥
अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति । १ । शुक्लः
शबलोऽसितश्च । २ । शुक्लेनार्थेन यदौर्ध्वदेहिकं करो-
ति तेनास्य देवत्वमासादयति । ३ । यच्छबलेन तन्मा-
नुष्यम् । ४ । यत्कृष्णेन तत्तिर्यक्त्वम् । ५ । स्ववृत्त्युपार्जितं
सर्वेषां शुक्लम् । ६ । अनन्तरवृत्त्युपात्तं शबलम् । ७ ।
एकान्तरवृत्त्युपात्तं च कृष्णम् । ८ ।
क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ॥ ९ ॥
LVIII, 2. ॰सितश्चार्थः । C¹'². 3. यदैहिकं करोति तद्देवमासा-
दयति C¹'². 5. तत्॰ om. V⁴. 6. सर्वं सर्वेषां C¹'². 8. अन्तरित-
वृत्त्युपात्तं C¹'². 9. प्रीतिदायं V¹⁻⁴ C¹'²; ॰दायः Nârada 3, 53.
15. गुरुषु पूर्वोक्तेष्वतीतेषु... । साधुभ्यस्त्रैवर्णिकेभ्य एव प्रतिगृह्णीयान्न
तु शूद्रादिभ्यः ।... 16. अर्धं क्षेत्रफलं यो राज्ञे समर्पयति सोऽर्धिकः ।
अर्धसीरीति योगिश्वरत्वात् (Y. I, 66) ।... दासो गृहदासः ।...
यश्च तवाहस्मित्वात्मानं निवेदयेत् ।... LVIII, 3. मृतस्य पित्रादेः
पुत्रादिर्यच्छुक्लेन धनेनौर्ध्वदेहिकं पारलौकिकं पिण्डोदकदानादि करोति
तेनास्य देवत्वं संपादयति ॥ 9. पितृपितामहादिक्रमेण यद्दायलक्षणया
प्राप्तं यच्च प्रीत्या मित्रादिभ्यो लब्धम्...
gitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad
१३४ ॥ विष्णुस्मृतौ ५८ ॥ ५६ ॥
उत्कोचशुल्कसंग्राप्तमविक्रेयस्य विक्रयैः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥ १० ॥
पार्श्विकद्यूतचौर्याप्तप्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ ११ ॥
यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः ।
तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ १२ ॥ ५८ ॥
गृहआश्रमी वैवाहिकाग्नौ पाकयज्ञान्कुर्यात् । १ । सायं
प्रातश्चाग्निहोत्रम् । २ । देवताभ्यो जुहुयात् । ३ ।
चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत । ४ ।
प्रत्ययनं पशुना । ५ । शरद्ग्रीष्मयोश्चाग्रयणेन । ६ ।
- चौर्याप्तं प्रतिरूपकसाहसौ C¹'² ; चौर्यार्तिप्रतिरूपकसाहसैः
Nârada 3, 49.
10... शुल्कं घट्टादिदेयम् । कन्यादिमूल्यं च । अविक्रेयं लाक्षालवणादि ।
तद्विक्रयेण यल्लब्धम् । यच्च पूर्वोपकृताल्लब्धम् । तत्सर्वेषां शबलमुच्यते ॥
11. पार्श्वे स्थित्वा चामरचालना पार्श्विकम् ।... चौर्यं प्रसिद्धम् । व्याप्तं
भैक्षकर्म । प्रतिरूपकमन्यप्रदर्शनेन स्वयं दानादियच्छनम् । कृत्रिमसुवर्णादि-
करणं वा ।... व्याजमन्यद्रव्यप्रदर्शनेनान्यद्रव्य[र्पण]म् ।... 12... यादृशेन
शुक्लादिना द्रव्येण यदैहिकामुष्मिकफलसाधनं कर्म करोति... तादृशमेव...
फलं प्राप्नोति ॥ LIX, 2... श्रौतस्मार्तकर्मणोः श्रौतस्मार्ताग्निनियमेन
कर्तव्ये गृह्याग्निविधानाच्छ्रौतेषु त्रेताग्निसिद्धिरर्थसिद्धेवेति न पृथग्वच-
नम् ।... 3. अग्निहोत्रासंभवे ऽग्निहोत्रदेवताभ्यो... गृह्याग्नौ जुहुयात्...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ५६ ॥ १३५
व्रीहियवयोर्वा पाके । ७। त्रैवार्षिकाभ्यधिकान्नः । ८।
प्रत्यब्दं सोमेन । ९। वित्ताभावे इष्ट्या वैश्वानर्या । १०।
शूद्रान्नं यागे परिहरेत् । ११। यज्ञार्थं भिक्षितमवा-
प्तमर्थं सकलमेव वितरेत् । १२। सायं प्रातर्वैश्वदेवं
जुहुयात् । १३। भिक्षां च भिक्षवे दद्यात् । १४। अर्चि-
तभिक्षादानेन गोदानफलमाप्नोति । १५। भिक्षाभावे
ग्रासमात्रं गवां दद्यात् । १६। वह्नौ वा प्रक्षिपेत् । १७।
भुक्तेऽप्यन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत । १८।
कण्डनी पेषणी चुल्ली कुम्भ उपस्कर इति पञ्च सूना
गृहस्थस्य । १९। तन्निष्कृत्यर्थं च ब्रह्मदेवभूतपितृनर-
यज्ञान्कुर्यात् । २०। स्वाध्यायो ब्रह्मयज्ञः । २१। होमो
LIX, 8, 9. are connected in C¹'². 11 T. and C. om.
V⁴; but 13 is marked १३; V¹⁻³ omit 11 T. See M. XI,
७. हेमन्ते व्रीहिपाको वसन्ते यवपाकः ।... ८... तथाविधः सोमेन
यजेत । त्रैवार्षिका० इति योगिस्वरणात् ( Y. I, १२४)... ९. अब्दसा-
मान्यश्रवणोऽपि वसन्ते ।... १०. पशुसोमचातुर्मास्यादिपर्याप्तवित्ताभावे...
१२...न किंचिदपि तस्मात्स्वयमुपयुञ्जीत ।... १४. सायं प्रातर्भिक्षवे संन्या-
सिने भिक्षां...दद्यात्।... १५. आद्यन्तयोर्भिक्षादानस्य जलदानमर्चनम् ।...
१६. संन्यासिब्रह्मचर्याद्यभावे... १८. गृहपतिभोजनानन्तरमपि पूर्व-
शिष्टेनान्नेन भिक्षवे न भिक्षादेयैव ।... १९... पञ्च सूनाः प्राणिहिंसा-
स्थानानि ।... २०. तासां प्राणिहिंसानां निष्कृतिर्दुरितोपशमस्तदर्थम्...
२१... क्रियाविशेषानुपदानादध्ययनमध्यापनं वा ब्रह्मयज्ञः ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
१३६ ॥ विष्णुस्मृतौ ५६ ॥
दैवः । २२ । पितृतर्पणं पित्र्यः । २३ । बलिर्भौतः । २४।
नृयज्ञश्चातिथिपूजनम् । २५ ।
देवतातिथिभृत्यानां पितॄणामात्मनस्तथा ।
न निर्वपति पञ्चानामुच्छ्रसन् स जीवति ॥ २६ ॥
ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् ।
तस्मादभ्यागतानैतान्गृहस्थो नावमानयेत् ॥ २७ ॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
ददाति च गृहस्थस्तु तस्माज्ज्येष्ठो गृहाश्रमी ॥ २८ ॥
ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुटुम्बिभ्यस्तस्माच्छ्रेष्ठो गृहाश्रमी ॥ २९ ॥
त्रिवर्गसेवां सत्तानन्दानं
सुरार्चनं ब्राह्मणपूजनं च ।
स्वाध्यायसेवां पितृतर्पणं च
कृत्वा गृही शक्रपदं प्रया
॥ विष्णुस्मृतौ ६० ॥ १३७
ब्राह्मे मुहूर्त्ते ⸱ उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् । १ ।
दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च । २ ।
नाप्रच्छादितायां भूमौ । ३ । न फालकृष्टायाम् । ४ ।
न च्छायायाम् । ५ । न चोषरे । ६ । न शाद्वले । ७ ।
न ससत्त्वे । ८ । न गर्ते । ६ । न वल्मीके । १० । न पथि
। ११ । न रथ्यायाम् । १२ । न पराशूचौ । १३ । नो-
द्याने । १४ । नोद्यानोदकसमीपयोः । १५ । न भस्मनि
। १६ । नाङ्गारे । १७ । न गोमये । १८ । न गोव्रजे
। १९ । नाकाशे । २० । नोदके । २१ । न प्रत्यनिला-
नलेन्द्रार्कस्त्रीगुरुब्राह्मणानां च । २२ । नैवानवगुण्ठित-
शिराः । २३ । लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चो-
त्थायाद्भिर्मृद्भिश्लोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात्
। २४ ।
LX, 17 om. v; C¹⁻² place it before 16. 23. नैवाव० C³.
24. लोष्टेष्टकाभिः परिमृज्य गुदं C¹⁻²v.
LX, 1. रात्रेः पश्चिमो यामो ब्राह्ममुहूर्तः ।... 3. तृणादिभिरना-
च्छादितायां भूमौ... 5. छाया यत्कियद्वृक्षाणाम्... 8. सत्त्वानि कृम-
वद्युक्ते देशे ॥ 9. श्वभ्रं तद्बिलस्याप्युपलक्षणम् । वर्जयेद्वृक्षमूलानि
चैत्यश्वभ्रबिलानि चेति याम्यात् ॥ 13. परकीयमूत्रपुरीषादौ ॥ 15...
उदकं जलाशयः ।... 22. वातवह्निचन्द्रसूर्यस्त्रीपित्रादिब्राह्मणानां प्रत्या-
भिमुखेन ।... 24... इदं च काष्ठतृणयोरप्युपलक्षणम् ।... वामकरेण
धृतमेहनश्चकारादुत्थितप्रवासात्...उद्धृताभिः...तेन जलान्तःशौचनिषेधः...
18
१३८ ॥ विष्णुस्मृतौ ६० ॥ ६१ ॥
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदस्तित्रस्तु पादयोः ॥ २५ ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं च वनस्थानां यतीनां तु चतुर्गुणम् ॥ २६ ॥ ६० ॥
अथ पालाशं दन्तधावनं नाद्यात् । १ । नैव श्लेष्मा-
न्तकारिष्टविभीतकधवधन्वनजम् । २ । न च बन्धूक-
निर्गुण्डीशिग्रुतिल्वतिन्दुकजम् । ३ । न च कोविदार-
शमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् । ४ । न पारिभद्रका-
म्बिकामोचकशाल्मलीशणजम् । ५ । न मधुरम् । ६ ।
नाम्लम् । ७ । नोर्ध्वशुष्कम् । ८ । न सुषिरम् । ६ ।
न पूतिगन्धि । १० । न पिच्छिलम् । ११ । न दक्षिणा-
पराभिमुखः । १२ । अथाचोदङ्मुखः प्राङ्मुखो वा । १३ ।
वटासनार्कखदिरकरञ्जवदरसर्ज निम्बारिमेदापामार्ग-
मालतीककुभबिल्वानामन्यतमम् । १४ । कषायं तिक्तं
कटुकं च ॥ १५ ॥
LXI, 9. सुषिरम् C¹,².
25... एकत्र वामकरे... LXI, 2. श्लेष्मान्तकः शेलुः ।... विभीतकः
कलिद्रुमः ।... 4 कोविदारो युगपत्नकः ।... पीलुर्गुडफलः ।... 5.
पारिभद्रकः मन्दारपादपः ।... 6. मधुरं मधुरसं मधूयष्टिकादि ॥ 7.
आम्लरसमामलकादि ॥ 8. ऊर्ध्वं वृक्षशाखायामेव शुष्कम् ॥ 9. सुषिरं
सच्छिद्रम् ॥ 11. म्लानम् ॥
॥ विष्णुस्मृतौ ६१।६२॥ १३६
कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् ॥ १६ ॥
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः ।
अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदा च न ॥ १७॥ ६१॥
———
अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम
तीर्थम् । १ । अङ्गुष्ठमूले ब्राह्मम् । २ । अङ्गुल्यग्रे दैवम्
। ३ । तर्जनीमूले पित्र्यम् । ४ । अनग्न्युष्णाभिरफेनि-
लाभिर्न शूद्रैककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे
स्वासीनोऽन्तर्जानुः प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः
सुमनाश्चाचामेत् । ५ । ब्राह्मेण तीर्थेन त्रिराचामेत्
। ६ । द्विः प्रमृज्यात् । ७ । खान्यद्भिर्मूर्धानं हृदयं
स्पृशेत् । ८ ।
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ ९ ॥ ६२ ॥
17...अमावास्या पूर्णिमास्युपलक्षणम् ।... LXII, 5... अफेनिलाः
फेनरहिताः। फेनो बुद्बुदग्रहणाय ।... शूद्रो ऽनुपनीतोपलक्षणम्। शूद्र-
चैकाकरश्च ताभ्यामावर्जिता या न भवन्त्यापस्ता एक एव करो यस्यासावेक-
करः... । अक्षाराः क्षाररसरहिताः ।... दक्षिणं बाहुं जान्वन्तराकृत्येति
गौतमीयादामस्या नियमः । (Gaut. I, 36)... चकारादैशान्यभिमुखः ।...
6. ब्राह्मदैवप्राजापत्यानामन्यतमेन तीर्थेन पुच्छभागेन... आचामेत् ।...
7. अङ्गुष्ठमूलेन मुखमिति शेषः ।... 8. खानि नाभेरुर्ध्ववर्तीनि ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
१४० ॥ विष्णुस्मृतौ ६३ ॥
अथ योगक्षेमार्थमीश्वरमधिगच्छेत् । १। नैकोऽध्वानं
प्रपद्येत । २ । नाधार्मिकैः सार्धम् । ३। न वृषलैः। ४ ।
न द्विषद्भिः । ५ । नातिप्रत्यूषसि । ६ । नातिसायम्
। ७। न संध्ययोः । ८ । [न मध्याह्ने । ६ । न संनिहित-
पानीयम् । १० ।] नातितूर्णम् । ११ । न रात्रौ । १२ ।
न संततं बालव्याधितार्तैर्वाहनैः । १३ । न हीनाङ्गैः
। १४ । न दीनैः । १५ । न गोभिः । १६ । नादान्तैः
। १७ । यवसोदके वाहनानामदत्त्वात्मनः क्षुत्तृष्णापनो-
दने न कुर्यात् । १८ । न चतुष्पथमधितिष्ठेत् । १६ ।
न रात्रौ वृक्षमूलम् । २० । न शून्यालयं । २१ । न
तृणम् । २२ । न पशूनां बन्धनागारम् । २३ । न केश-
तुषकपालास्थिभस्माङ्गारान् । २४ । न कार्पासास्थि । २५।
चतुष्पथं प्रदक्षिणीकुर्यात् । २६ । देवतार्चां च । २७ ।
प्रज्ञातांश्च वनस्पतीन् । २८ । अग्निब्राह्मणगणिकापूर्ण-
LXIII, 1. अधिगच्छेत् । V⁴ (and Gautama IX, 63); उप-
गच्छेत् । V¹⁻³ C¹'²v; अभिगच्छेत् । N. 9; 10 om. V⁴. 9 om.
Ap. C¹'²v. 13. बाल० C¹'²v; C¹'²v after 14 add न रोगिभिः।
यवसोदकौवा० all. 18. यवसोदकौवा० all. 25—29 om. v. 27.
देवतां च । C¹'².
LXIII, 4. वृषलाः शूद्राः ।... 13... वाहनैरश्वादिभिः ॥ 15.
दीनैर्दुर्बलैः ॥ 16. गोभिर्गवीबर्दैः ॥ 22. सत्तृणप्रदेशम् ॥
केशा यस्य सः ।...->मुक्ताः प्रकीर्णाः केशा यस्य सः ।...`
-
Confirming everything:
- Line-by-line mapping with prefix
,, etc. - Check verse numbers:
- Line 3:
२९ । - Line 4:
। ३०। - Line 5:
। ३१ । - Line 6:
। ३२। - Line 7:
। ३३ । - Line 8:
। ३४ । - Line 9:
। ३५ । - Line 10:
। ३६ । - Line 11:
। ३७ । - Line 12:
। ३८।
- Line 3:
- Look closely at footnotes and separator:
Is the separator line a line? Yes, let's make it a line or just separator.
Wait, should we prefix every single printed line with[L...]?
Yes! The prompt specifies: "Prefix each line with line marker like , ."
Let's re-verify the lines:
॥ विष्णुस्मृतौ ६३ ॥ १४१
कुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्या - Line-by-line mapping with prefix
gitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgao
१४२ ॥ विष्णुस्मृतौ ६३ ॥ ६४ ॥
पालंकरणकुमारीस्तु प्रस्थानकालेऽभिनन्दयेदिति । ३६ ।
देवब्राह्मणगुरुबन्धुदीक्षितानां छायां नाक्रामेत् । ४० ।
निष्ठ्यूनवान्तरुधिरविण्मूत्रस्नानोदकानि च । ४१ । न
वत्सतन्त्रीं लङ्घयेत् । ४२ । प्रवर्षति न धावेत् । ४३ ।
न वृथा नदीं तरेत् । ४४ । न देवताभ्यः पितृभ्यश्चोद-
कमप्रदाय । ४५ । न बाहुभ्याम् । ४६ । न भिन्नया
नावा । ४७। न कूलमधितिष्ठेत् । ४८ । न कूपमवलो-
कयेत् । ४९ । न लङ्घयेत् । ५० ।
वृद्धभारिन्तृपस्नातस्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्नातश्च भूपतेः ॥ ५१ ॥ ६३ ॥
[L
॥ विष्णुस्मृतौ ६४ ॥ १६३
न संध्येयोः । ८ । प्रातःस्नानशीलोऽरुणताम्रां प्राची-
मालोक्य स्नायात् । ९ । स्नातः शिरो नावधुनेत् । १० ।
नाङ्गेभ्यस्तोयमुद्धरेत् । ११ । न तैलवस्त्रं स्पृशेत् । १२ ।
नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् । १३ । स्नातः
सोष्णीषो धौतवाससी बिभृयात् । १४ । न म्लेच्छा-
न्त्यजपतितैः सह संभाषणं कुर्यात् । १५ । स्नायात्प्रस्र-
वणदेवखातसरोवरेषु । १६ । उद्धृताद्भूमिष्ठमुदकं पुण्यं
स्थवरात्प्रसवत्तस्मान्नादेयं तस्मादपि साधुपरिगृहीतं
सर्वत एव गाङ्गम् । १७ । मृत्तोयैः कृतमलापकर्षोऽप्सु
निमज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णा इति
चतसृभिरिदमपः प्रवहतेति च तीर्थमभिमन्त्रयेत् । १८ ।
ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् । १९ । तद्विष्णोः
9 T. om. V^{1-3}. ॰स्नानशीलो ऽरुण॰ V^4; स्नानशीलो from the
C. ॰स्नात्यरुणविकिरणरक्तां प्राचीमवलोक्य C^{1, 2}. 17. प्रस्रवणं C^{1, 2}.
18. निमज्यापो C^{1, 2}; निमज्यस्पृश्योपो v. प्रवहंत इति चतुर्थम् V^{1-3} C^{1, 2}.
- प्रातः स्नानशीलः स्नायात् । अनेनारुणोदयात्प्राक्स्नानं निषिद्धम् ।...
- स्नानानन्तरं शिरः स्थितान्केशान्... न कम्पयेत् ।... 11. हस्तेन
वस्त्रेण वाङ्गशोधनं न कुर्यात् ।... 14... उष्णीषं जलापसारणाय शिरो-
वेष्टनं तेन सहितः। तथागाढबन्धनं शिरसि वेष्टयेत् ।...धौते स्वयमेव... - स्नानोत्तरं निषेधमाह ।... 17.... साधुभिर्वसिष्ठादिभिः परिगृही-
तम्। नदीसंबन्धि । यथा वसिष्ठप्राची विश्वामित्रप्राचीत्यादि ।... 18...
निमज्य तीर उपविश्य आपो हि ष्ठेत्याद्यृग्भिर्मन्त्रैस्तीर्थमभिमन्त्रयेत् ।
निमज्योपस्पृशेदिति पाठे निमज्जनानन्तरमाचम्य तीर्थमभिमन्त्रयेत् ॥
१४४ ॥ विष्णुस्मृतौ ६४ ॥
परमं पदमिति वा । २० । द्रुपदां सावित्रीं वा । २१ ।
युञ्जते मन इत्यनुवाकं वा । २२ । पुरुषसूक्तं वा । २३ ।
स्नातश्चार्द्रवासा देवपितृतर्पणमम्भःस्थ एव कुर्यात् । २४ ।
परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य । २५ । अकृत्वा देवपितृ-
तर्पणं स्नानशाटीं न पीडयेत् । २६ । स्नात्वाचम्य वि-
धिवदुपस्पृशेत् । २७ । पुरुषसूक्तेन प्रत्यृचं पुरुषाय
पुष्पाणि दद्यात् । २८ । उदकाञ्जलिं पश्चात् । २९ । आ-
दावेव दिव्येन तीर्थेन देवतानां कुर्यात् । ३० । तद-
नन्तरं पित्र्येण पितॄणाम् । ३१ । तत्रादौ स्ववंश्यानां
तर्पणं कुर्यात् । ३२ । ततः संबन्धिबान्धवानाम् । ३३ ।
ततः सुहृदाम् । ३४ । एवं नित्यस्नायी स्यात् । ३५ ।
स्नातश्च पवित्राणि यथाशक्ति जपेत् । ३६ । विशेषतः
26. स्नानवस्त्रादि C^{1,2}v. 29, 30 T. om. V^{1-4}. 33. संब-
न्धिनां बान्धवानाम् V⁴.
20... त्रिरित्यनुवर्तते ॥ 21. द्रुपदादिवेन्मुमुचान इति यजुर्वेद-
प्रसिद्धा । तां वा त्रिजपेत् ।... 25. यस्तु स्नात्वा जले स्थातुमशक्तः शुष्कं
वासः परिधत्ते स तीर्थाद्वहिरागत्य स्थल एव स्नानाङ्गं तर्पणं कुर्यात् ।...
26. परिवर्तितवासा अपि देवपितृतर्पणात्प्राक् स्नानवस्त्रं न निष्पीडयेत् ।...
27. वस्त्रनिष्पीडनान्तस्नानविधानन्तर्यं द्विराचमनस्य गमयितुम्... 28...
षोडश पुष्पाणि ।... 32... पितृमातृमातामहांस्तदनन्तरं... पितृव्यभ्रातृ-
मातुलादींस्तर्पयेत् ।... 33. संबन्धिनो भागिनेयश्वशुरस्यालादयः । बा-
न्धवाः पितृव्यषेयमातृष्वस्रेयमातुलादयः ।... 35. उक्तेन विधिना प्रत्यहं
स्नायात् ।... 36... पवित्राणि... अनियतसंख्यानि जपेत् ॥
॥ विष्णुस्मृतौ ६४ । ६५ ॥ १४५
सावित्रीम् । ३७ । पुरुषसूक्तं च । ३८ । नैताभ्यामधिक-
मस्ति । ३६ ।
स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
पवित्राणां तथा जप्ये दाने च विधिबोधिते ॥ ४० ॥
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
अब्मात्रेणाभिषिक्तस्य नश्यंत इति धारणा ॥ ४१ ॥
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ॥ ४२ ॥ ६४ ॥
अथातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तो
देवतार्चायां स्थले वा भगवन्तमनादिनिधनं वासुदेवम-
भ्यर्चयेत् । १। अश्विनोः प्राणस्तौ त इति जीवादानं दत्त्वा
युञ्जते मन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां
शिरसा च नमस्कारं कुर्यात् । २ । आपो हि ष्ठेति
37. सावित्रीं त्ववश्यं जपेत् । V¹⁻³ C¹,²; see the C. 40.
॰बोधिते ॥ V⁴ N. ; ॰नोचिते V¹⁻³; ॰नोदिते C¹,²v; चोदिते Ap.
41. स्नातस्य जलमात्रेण नश्यते C¹,². LXV, 2. अश्विनोः प्राणैश्च्वोत
V⁴; अश्विनौ प्राणैस्स्तौत V¹⁻³; अश्विनैः प्राणैश्चेते C¹,²; अश्विनोः
प्राणैः स्तौत v; see Kâthaka XI, 7. My reading is
conjectural. After इति V¹⁻³ C¹,² insert, काचकीय(कीचकीय)-
मन्त्रेणायुष्यजीवस्य भगवतो; see the C. जीवविनिवीवादानं V¹⁻³.
37. पूर्वोक्तसंख्यापेक्षयाधिकसंख्यया गायत्रीं जपेत् ।... 41... उद्धृ-
तेनाङ्गुष्ठेन वा तीर्थातीर्थसाधारणेन ।... LXV, 2... इति काचकीय-
मन्त्रेण चेष्टव्यजीवस्य भगवतो जीवे विनियिता साध्वीति स्मरणात् ।
19
digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgaon
१४६ ॥ विष्णुस्मृतौ ६५ ॥
तिसृभिरर्घ्यं निवेदयेत् । ३ । हिरण्यवर्णा इति चत-
सृभिः पाद्यम् । ४ । शं न आपो धन्वन्त्या इत्याचम-
नीयम् । ५ । इदमपः प्रवहतेति स्नानीयम् । ६ । रथे-
ष्वक्षेषु, वृषभराजा इत्यनुलेपनालंकारौ । ७ । युवा सुवा-
सा इति वासः । ८ । पुष्पावतीरिति पुष्पम् । ९ । धूरसि
धूर्वेति धूपम् । १० । तेजोऽसि शुक्रमिति दीपम् । ११ ।
दधिक्राव्ण इति मधुपर्कम् । १२ । हिरण्यगर्भ इत्यष्टा-
भिर्नैवेद्यम् । १३ ।
चामरं व्यजनं मात्रां छत्रं यानासने तथा ।
सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् ॥ १४ ।
एवमभ्यर्च्य च जपेत्सूक्तं वै पौरुषं ततः ।
तेनैव जुहुयादाज्यं य इच्छेच्छाश्वतं पदम् ॥ १५ ॥ ६५ ॥
5. शन्न C¹˒²v. धनुन्त्या V¹⁻⁴ N. See Ath. V. I, 6, 4. 7. रथे-
खर्चेषु V¹⁻⁴ C¹˒² N.; ०खच्चेषु v. See Taitt. Brâhm. II, 7,
7, 2. 10. धूर्व इति V¹⁻⁴v; धूपमिति C¹˒². See the C. and
Vâjas. Samh. I, 8.
5. शन्न आपो धनुन्त्या इति कठशाखीययैकचर्चा... 6. इदमपः प्रव-
हतेत्येकर्चा... 7. रथेखर्चेष्विति कठशाखीयैश्चतुर्भिस्तु... 8. युवा
सुवासा इत्येकर्चा... 9. पुष्पावतीः प्रसूवतरिति तैत्तिरीयर्चा पुष्पम् ॥
10. धूरसि धूर्व धूर्वन्तमिति तैत्तिरीययजुषा धूपम् ॥ 11. तेजोऽसि शुक्र-
मिति कठशाखीययैकचर्चा दीपम् ॥ 12. दधिक्राव्णा अकारिषमित्येकर्चा...
13. हिरण्यगर्भः समवर्ततेत्यारभ्य यश्चिदापो महिनेत्यन्ताभिरष्टाभि-
र्ऋग्भिर्नैवेद्यम्... 14.... मात्रा चादर्शः ।... यानं शिविकादि । आसनं
सिंहासनादि ।... एतानि सावित्रेण गायत्र्या देवाय भगवते विनिवेदयेत् ।
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry
॥ विष्णुस्मृतौ ६६ । ६७ ॥ १४७
न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् । १ ।
चन्दनमृगमद्दारुकर्पूरकुङ्कुमजातीफलवर्जमनुलेपनं न
दद्यात् । २ । न वासो नीलीरक्तम् । ३ । न मणिसुव-
र्णयोः प्रतिरूपमलंकरणम् । ४ । नोग्रगन्धि । ५ । ना-
गन्धि । ६ । न कण्टकिजम् । ७ । कण्टकिजमपि शुक्लं
सुगन्धिकं तु दद्यात् । ८ । रक्तमपि कुङ्कुमं जलजं च
दद्यात् । ९ । न धूपार्थे जीवजातम् । १० । न घृततैलं
विना किं च न दीपार्थे । ११ । नाभक्ष्यं नैवेद्यार्थे । १२ ।
न भक्ष्ये ऽप्यजामहिषीक्षीरे । १३ । पञ्चनखमत्स्य-
वराहमांसानि च । १४ ।
प्रयतश्च शुचिर्भूत्वा सर्वमेव निवेदयेत् ।
तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः ॥ १५ ॥ ६६ ॥
अथाग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य परिषिच्य
सर्वतः पाकाग्रमुद्धृत्य जुहुयात् । १ । वासुदेवाय संक-
LXVI, 1. गृहीतोदकेन V¹. See LXXIX, 1. 6 om. v ;
C¹,² place it before 5. See LXXXI, 5. 8. तु om. C¹,².
LXVI, 1. उक्तोपचारद्रव्यविवेचनं घटघटितसेन कर्तुम्... 2. दारु
सुगन्धिर्देवदारुः ।... 4. कृत्रिममणिसुवर्णादिनिर्मितमलंकारं न द-
द्यात् ।... 5. उग्रो घ्राणग्लानिकरो गन्धो यस्येति तत् । धत्तूरादि ॥
7. कण्टकिवृक्षोद्भवं कण्टकारिकादि ।... 9... रक्तोत्पलम्... 10.
प्राण्यङ्गं नखशङ्खादि धूपत्वे न देयम् ।... LXVII, 1... परिषिच्य
परितो दर्भानभितोऽभिषिच्य ।... अग्रशब्दाच्चत्वारिंशद्ग्रासपरिमितम् ...
धर्षाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय
वासुदेवाय । २ । अथाग्नये$^१$ सोमाय$^२$ मित्राय$^३$ वरु-
णाय$^४$ इन्द्राय$^५$ इन्द्राग्निभ्याम्$^६$ विश्वेभ्यो देवेभ्यः$^७$ प्रजाप-
तये$^८$ अनुमत्यै$^९$ धन्वन्तरये$^{१०}$ वास्तोष्पतये$^{११}$ अग्नये
स्विष्टकृते च$^{१२}$ । ३ । ततोऽन्नशेषेण बलिमुपहरेत् । ४ ।
तक्षोपपक्ष्याभ्याम् । ५ । अभितः पूर्वेणाग्निम् । ६ । अम्बा
नामासीति$^१$ दुला नामासीति$^२$ नितत्नी नामासीति$^३$
चुपूणीका नामासीति$^४$ सर्वांसाम् । ७ । नन्दिनि$^१$ सुभगे$^२$
सुमङ्गलि$^३$ भद्रंकरीति$^४$ संतिष्ठन्प्रदक्षिणम् । ८ । स्थुणा-
यां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्च । ६ ।
LXVII,
॥ विष्णुस्मृतौ ॥ ६७ ॥ १४६
धर्माधर्मयोर्द्वारे मृत्यवे च । १० । उदधाने वरुणाय
। ११ । विष्णव इत्युलूखले । १२ । मरुद्भ्य इति दृषदि
। १३ । उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्च । १४ ।
इन्द्रायेन्द्रपुरुषेभ्य इति पूर्वार्धे । १५ । यमाय यमपुरु-
षेभ्य इति दक्षिणार्धे । १६ । वरुणाय वरुणपुरुषेभ्य
इति पश्चार्धे । १७ । सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे
। १८ । ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये । १९ । ऊर्ध्वमा-
काशाय । २० । दिवाचरेभ्यो भूतेभ्य इति स्थण्डिले
। २१ । नक्तंचरेभ्य इति नक्तम् । २२ । ततो दक्षिणा-
ग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे
पितामह्यै प्रपितामह्यै स्वनामगोत्राभ्यां च पिण्डनि-
र्वपणं कुर्यात् । २३ । पिण्डानां चानुलेपनपुष्पधूपनैवे-
द्यादि दद्यात् । २४ । उदककलशमुपनिधाय स्वस्त्ययनं
वाचयेत् । २५ । श्वकाकश्वपचानां भुवि निर्वपेत् । २६ ।
11. उदपाने । C¹⁻²v.
10. धर्मादिद्वाभ्यां गृहद्वारे । धर्माधर्मयोर्मिलितयोर्देवतात्वमग्नीषो-
मीयवत् ॥ 12. विष्णवे नम इति... (Dev.) 14. शरणं गृहं
तदुपरि अट्टालिकायां वैश्रवणायेति द्वाभ्याम् । 15. पूरण इत्यनुवर्तते ।...
22. रात्रौ वैश्वदेवे क्रियमाणे नक्तंचरेभ्य इत्येकम् । 23... चकारा-
दस्मदादिरूपस्वधाकाराभ्यां च पिण्डदानं कार्यम्...। 25. स्वस्तित्वं ब्रूहीति
यं कंचिद्ब्राह्मणं वाचयेत् । तं ब्राह्मणाय दद्यादित्यर्थः ॥
१५० ॥ विष्णुस्मृतौ ६७।
भिक्षां च दद्यात् । २७। अतिथिपूजने च परं फल-
मधितिष्ठेत् । २८ । सायमतिथिं प्राप्तं प्रयत्नेनार्चयेत्
। २९। अनाशितमतिथिं गृहे न वासयेत् । ३० । यथा
वर्णानां ब्राह्मणः प्रभूर्यथा स्त्रीणां भर्ता तथा गृहस्थ-
स्यातिथिः । ३१ । तत्पूजायां स्वर्गमाप्नोति । ३२।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
तस्मात्सुकृतमादाय दुष्कृतं तु प्रयच्छति ॥ ३३ ॥
एकरात्रं हि निवसन्मतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ३४ ॥
नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा ।
उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ॥ ३५ ॥
यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः ।
भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ ३६
॥ विष्णुस्मृतौ ६७ ॥ १५१
इतरानपि सख्यादीन्संप्रीत्या गृहमागतान् ।
प्रकृष्टान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ३८ ॥
स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा ।
अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन् ॥ ३९ ॥
अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ ४० ॥
भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दंपती ॥ ४१ ॥
देवान्पितॄन्मनुष्यांश्च भृत्यान्गृह्यांश्च देवताः ।
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ ४२ ॥
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ४३ ॥
स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा ।
न चाप्नोति गृही लोकान्यथा त्वतिथिपूजनात् ॥ ४४ ॥
38. इतराण्यपि C^{1, 2}. 39. सुवासिनीं C^{1, 2}v. See the C. and
M. III, 114. 40. Manu has तु य 41. भृत्येषु स्वेषु C^{1, 2}.
38. इतरान्मूर्धावसिक्तादीन् । सखिसंबन्धिनश्च ।... 39. ऊढा पितृ-
गृहस्था कन्या स्ववासिनी । सुवासिनीति पाठे... 41. विप्रा अतिथय-
श्चकारादतिथिवदागता अभ्यागताः क्षत्रियाश्च । स्वाः सखिसंबन्धिबान्धवाः।
भृत्या भरणीया मातापित्रादयः ।... चकाराद्दासीदासाः। ... 42. गृह्या
देवताः श्वयादयः । चकाराच्छूकाकादयः ।...