सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 142, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 142

gitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad
१३४ ॥ विष्णुस्मृतौ ५८ ॥ ५६ ॥
उत्कोचशुल्कसंग्राप्तमविक्रेयस्य विक्रयैः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥ १० ॥
पार्श्विकद्यूतचौर्याप्तप्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ ११ ॥
यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः ।
तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ १२ ॥ ५८ ॥
गृहआश्रमी वैवाहिकाग्नौ पाकयज्ञान्कुर्यात् । १ । सायं
प्रातश्चाग्निहोत्रम् । २ । देवताभ्यो जुहुयात् । ३ ।
चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत । ४ ।
प्रत्ययनं पशुना । ५ । शरद्ग्रीष्मयोश्चाग्रयणेन । ६ ।


  1. चौर्याप्तं प्रतिरूपकसाहसौ C¹'² ; चौर्यार्तिप्रतिरूपकसाहसैः
    Nârada 3, 49.

10... शुल्कं घट्टादिदेयम् । कन्यादिमूल्यं च । अविक्रेयं लाक्षालवणादि ।
तद्विक्रयेण यल्लब्धम् । यच्च पूर्वोपकृताल्लब्धम् । तत्सर्वेषां शबलमुच्यते ॥
11. पार्श्वे स्थित्वा चामरचालना पार्श्विकम् ।... चौर्यं प्रसिद्धम् । व्याप्तं
भैक्षकर्म । प्रतिरूपकमन्यप्रदर्शनेन स्वयं दानादियच्छनम् । कृत्रिमसुवर्णादि-
करणं वा ।... व्याजमन्यद्रव्यप्रदर्शनेनान्यद्रव्य[र्पण]म् ।... 12... यादृशेन
शुक्लादिना द्रव्येण यदैहिकामुष्मिकफलसाधनं कर्म करोति... तादृशमेव...
फलं प्राप्नोति ॥ LIX, 2... श्रौतस्मार्तकर्मणोः श्रौतस्मार्ताग्निनियमेन
कर्तव्ये गृह्याग्निविधानाच्छ्रौतेषु त्रेताग्निसिद्धिरर्थसिद्धेवेति न पृथग्वच-
नम् ।... 3. अग्निहोत्रासंभवे ऽग्निहोत्रदेवताभ्यो... गृह्याग्नौ जुहुयात्...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry