सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 148, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 148

१४० ॥ विष्णुस्मृतौ ६३ ॥
अथ योगक्षेमार्थमीश्वरमधिगच्छेत् । १। नैकोऽध्वानं
प्रपद्येत । २ । नाधार्मिकैः सार्धम् । ३। न वृषलैः। ४ ।
न द्विषद्भिः । ५ । नातिप्रत्यूषसि । ६ । नातिसायम्
। ७। न संध्ययोः । ८ । [न मध्याह्ने । ६ । न संनिहित-
पानीयम् । १० ।] नातितूर्णम् । ११ । न रात्रौ । १२ ।
न संततं बालव्याधितार्तैर्वाहनैः । १३ । न हीनाङ्गैः
। १४ । न दीनैः । १५ । न गोभिः । १६ । नादान्तैः
। १७ । यवसोदके वाहनानामदत्त्वात्मनः क्षुत्तृष्णापनो-
दने न कुर्यात् । १८ । न चतुष्पथमधितिष्ठेत् । १६ ।
न रात्रौ वृक्षमूलम् । २० । न शून्यालयं । २१ । न
तृणम् । २२ । न पशूनां बन्धनागारम् । २३ । न केश-
तुषकपालास्थिभस्माङ्गारान् । २४ । न कार्पासास्थि । २५।
चतुष्पथं प्रदक्षिणीकुर्यात् । २६ । देवतार्चां च । २७ ।
प्रज्ञातांश्च वनस्पतीन् । २८ । अग्निब्राह्मणगणिकापूर्ण-
LXIII, 1. अधिगच्छेत् । V⁴ (and Gautama IX, 63); उप-
गच्छेत् । V¹⁻³ C¹'²v; अभिगच्छेत् । N. 9; 10 om. V⁴. 9 om.
Ap. C¹'²v. 13. बाल० C¹'²v; C¹'²v after 14 add न रोगिभिः।
यवसोदकौवा० all. 18. यवसोदकौवा० all. 25—29 om. v. 27.
देवतां च । C¹'².
LXIII, 4. वृषलाः शूद्राः ।... 13... वाहनैरश्वादिभिः ॥ 15.
दीनैर्दुर्बलैः ॥ 16. गोभिर्गवीबर्दैः ॥ 22. सत्तृणप्रदेशम् ॥