विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 141, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ ५७ ॥ ५८ ॥ १२३
गुरुषु त्वव्यतीतेषु विना वा तैर्गृहे वसन् ।
आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा ॥ १५ ॥
अर्धिकः कुलमित्रं च दासगोपालनापिताः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ १६ ॥ ५७ ॥
अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति । १ । शुक्लः
शबलोऽसितश्च । २ । शुक्लेनार्थेन यदौर्ध्वदेहिकं करो-
ति तेनास्य देवत्वमासादयति । ३ । यच्छबलेन तन्मा-
नुष्यम् । ४ । यत्कृष्णेन तत्तिर्यक्त्वम् । ५ । स्ववृत्त्युपार्जितं
सर्वेषां शुक्लम् । ६ । अनन्तरवृत्त्युपात्तं शबलम् । ७ ।
एकान्तरवृत्त्युपात्तं च कृष्णम् । ८ ।
क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ॥ ९ ॥
LVIII, 2. ॰सितश्चार्थः । C¹'². 3. यदैहिकं करोति तद्देवमासा-
दयति C¹'². 5. तत्॰ om. V⁴. 6. सर्वं सर्वेषां C¹'². 8. अन्तरित-
वृत्त्युपात्तं C¹'². 9. प्रीतिदायं V¹⁻⁴ C¹'²; ॰दायः Nârada 3, 53.
15. गुरुषु पूर्वोक्तेष्वतीतेषु... । साधुभ्यस्त्रैवर्णिकेभ्य एव प्रतिगृह्णीयान्न
तु शूद्रादिभ्यः ।... 16. अर्धं क्षेत्रफलं यो राज्ञे समर्पयति सोऽर्धिकः ।
अर्धसीरीति योगिश्वरत्वात् (Y. I, 66) ।... दासो गृहदासः ।...
यश्च तवाहस्मित्वात्मानं निवेदयेत् ।... LVIII, 3. मृतस्य पित्रादेः
पुत्रादिर्यच्छुक्लेन धनेनौर्ध्वदेहिकं पारलौकिकं पिण्डोदकदानादि करोति
तेनास्य देवत्वं संपादयति ॥ 9. पितृपितामहादिक्रमेण यद्दायलक्षणया
प्राप्तं यच्च प्रीत्या मित्रादिभ्यो लब्धम्...