सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 151, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 151

॥ विष्णुस्मृतौ ६४ ॥ १६३
न संध्येयोः । ८ । प्रातःस्नानशीलोऽरुणताम्रां प्राची-
मालोक्य स्नायात् । ९ । स्नातः शिरो नावधुनेत् । १० ।
नाङ्गेभ्यस्तोयमुद्धरेत् । ११ । न तैलवस्त्रं स्पृशेत् । १२ ।
नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् । १३ । स्नातः
सोष्णीषो धौतवाससी बिभृयात् । १४ । न म्लेच्छा-
न्त्यजपतितैः सह संभाषणं कुर्यात् । १५ । स्नायात्प्रस्र-
वणदेवखातसरोवरेषु । १६ । उद्धृताद्भूमिष्ठमुदकं पुण्यं
स्थवरात्प्रसवत्तस्मान्नादेयं तस्मादपि साधुपरिगृहीतं
सर्वत एव गाङ्गम् । १७ । मृत्तोयैः कृतमलापकर्षोऽप्सु
निमज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णा इति
चतसृभिरिदमपः प्रवहतेति च तीर्थमभिमन्त्रयेत् । १८ ।
ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् । १९ । तद्विष्णोः

9 T. om. V^{1-3}. ॰स्नानशीलो ऽरुण॰ V^4; स्नानशीलो from the
C. ॰स्नात्यरुणविकिरणरक्तां प्राचीमवलोक्य C^{1, 2}. 17. प्रस्रवणं C^{1, 2}.
18. निमज्यापो C^{1, 2}; निमज्यस्पृश्योपो v. प्रवहंत इति चतुर्थम् V^{1-3} C^{1, 2}.

  1. प्रातः स्नानशीलः स्नायात् । अनेनारुणोदयात्प्राक्स्नानं निषिद्धम् ।...
  2. स्नानानन्तरं शिरः स्थितान्केशान्... न कम्पयेत् ।... 11. हस्तेन
    वस्त्रेण वाङ्गशोधनं न कुर्यात् ।... 14... उष्णीषं जलापसारणाय शिरो-
    वेष्टनं तेन सहितः। तथागाढबन्धनं शिरसि वेष्टयेत् ।...धौते स्वयमेव...
  3. स्नानोत्तरं निषेधमाह ।... 17.... साधुभिर्वसिष्ठादिभिः परिगृही-
    तम्। नदीसंबन्धि । यथा वसिष्ठप्राची विश्वामित्रप्राचीत्यादि ।... 18...
    निमज्य तीर उपविश्य आपो हि ष्ठेत्याद्यृग्भिर्मन्त्रैस्तीर्थमभिमन्त्रयेत् ।
    निमज्योपस्पृशेदिति पाठे निमज्जनानन्तरमाचम्य तीर्थमभिमन्त्रयेत् ॥