विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 154, कुल 392 में से
संदर्भ में पढ़ेंdigitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgaon
१४६ ॥ विष्णुस्मृतौ ६५ ॥
तिसृभिरर्घ्यं निवेदयेत् । ३ । हिरण्यवर्णा इति चत-
सृभिः पाद्यम् । ४ । शं न आपो धन्वन्त्या इत्याचम-
नीयम् । ५ । इदमपः प्रवहतेति स्नानीयम् । ६ । रथे-
ष्वक्षेषु, वृषभराजा इत्यनुलेपनालंकारौ । ७ । युवा सुवा-
सा इति वासः । ८ । पुष्पावतीरिति पुष्पम् । ९ । धूरसि
धूर्वेति धूपम् । १० । तेजोऽसि शुक्रमिति दीपम् । ११ ।
दधिक्राव्ण इति मधुपर्कम् । १२ । हिरण्यगर्भ इत्यष्टा-
भिर्नैवेद्यम् । १३ ।
चामरं व्यजनं मात्रां छत्रं यानासने तथा ।
सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् ॥ १४ ।
एवमभ्यर्च्य च जपेत्सूक्तं वै पौरुषं ततः ।
तेनैव जुहुयादाज्यं य इच्छेच्छाश्वतं पदम् ॥ १५ ॥ ६५ ॥
5. शन्न C¹˒²v. धनुन्त्या V¹⁻⁴ N. See Ath. V. I, 6, 4. 7. रथे-
खर्चेषु V¹⁻⁴ C¹˒² N.; ०खच्चेषु v. See Taitt. Brâhm. II, 7,
7, 2. 10. धूर्व इति V¹⁻⁴v; धूपमिति C¹˒². See the C. and
Vâjas. Samh. I, 8.
5. शन्न आपो धनुन्त्या इति कठशाखीययैकचर्चा... 6. इदमपः प्रव-
हतेत्येकर्चा... 7. रथेखर्चेष्विति कठशाखीयैश्चतुर्भिस्तु... 8. युवा
सुवासा इत्येकर्चा... 9. पुष्पावतीः प्रसूवतरिति तैत्तिरीयर्चा पुष्पम् ॥
10. धूरसि धूर्व धूर्वन्तमिति तैत्तिरीययजुषा धूपम् ॥ 11. तेजोऽसि शुक्र-
मिति कठशाखीययैकचर्चा दीपम् ॥ 12. दधिक्राव्णा अकारिषमित्येकर्चा...
13. हिरण्यगर्भः समवर्ततेत्यारभ्य यश्चिदापो महिनेत्यन्ताभिरष्टाभि-
र्ऋग्भिर्नैवेद्यम्... 14.... मात्रा चादर्शः ।... यानं शिविकादि । आसनं
सिंहासनादि ।... एतानि सावित्रेण गायत्र्या देवाय भगवते विनिवेदयेत् ।
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry